Digital Sanskrit Buddhist Canon

रत्नावली

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

ratnāvalī

रत्नावली।



॥नमो रत्नत्रयाय॥



सर्वदोषविनिर्मुक्तं गुणैः सर्वैरलंकृतम्।

प्रणम्य सर्वज्ञमहं सर्वसत्त्वैकबान्धवम्॥१॥



धर्ममेकान्तकल्याणं राज[न् ध]र्मोदयाय ते।

वक्ष्यामि धर्मः सिद्धिं हि याति सद्धर्मभाजने॥२॥



प्राग्धर्माभ्युदयो यत्र पश्चानैःश्रेयसोदयः।

संप्राप्याभ्युदयं यस्मादेति नैःश्रेयसं क्रमात्॥३॥



सुखमभ्युदय[स्तत्र मोक्षो] नैःश्रेयसो मतः।

अस्य साधनसंक्षेपः श्रद्धाप्रज्ञे समासतः॥४॥



श्राद्धत्वाभ्दजते धर्मं प्राज्ञत्वाद्वेत्ति तत्त्वतः।

प्रज्ञा प्रधानं त्वनयोः श्रद्धा पूर्वंगमास्य तु॥५॥



छन्दाद् द्वेषाभ्दयान्मोहाद्यो धर्मं नातिवर्तते।

स श्राद्ध इति विज्ञेयः श्रेयसो भाजनं परम्॥६॥



कायवाङ्मानसं कर्म सर्वं सम्यक्परीक्ष्य यः।

परात्महितमाज्ञाय सदा कुर्यात्स पण्डितः॥७॥



अहिंसा चौर्यविरतिः परदारविवर्जनम्।

मिथ्यापैशुन्यपारुष्याबद्धवादेषु संयमः॥८॥



लोभव्यापादनास्तिक्यदृष्टीनां परिवर्जनम्।

एते कर्मपथाः शुक्ला दश कृष्णा विपर्ययात्॥९॥



अमद्यपानं स्वाजीवोऽविहिंसा दानमादरात्।

पूज्यपूजा च मैत्री च धर्मश्चैष समासतः॥१०॥



शरीरतापनाद्धर्मः केवला(न्नास्ति तेन हि)।

न परद्रोहविरतिर्न परेसामनुग्रहः॥११॥



दानशीलक्षमास्पष्टं यः सद्धर्ममहापथम्।

अनादृत्य व्रजेत् कायक्लेशगो दण्डकोत्पथैः॥१२॥



स संसाराटवीं घोरामनन्तजनपादपाम्।

क्लेशव्यालावलीढाङ्गः सुदीर्घं प्रतिपद्यते॥१३॥



हिंसया जायतेऽल्पायुः बहवाबाधो विहिंसया।

चौर्येण भोगव्यसनी सश(त्रुः) पारदारिकः॥१४॥



प्रत्याख्यानं मृषावादात् पैशुन्यान्मित्रभेदनम्।

अप्रियश्रवणं रौक्ष्यादबाद्धा(दपार्था?)द्दुर्भगं वचः॥१५॥



मनोरथान् हन्त्यमिध्या व्यापादो भयदः स्मृतः।

मिथ्यादृष्टिः कुदृष्टित्वं मद्यपानं मतिभ्रमः॥१६॥



अप्रदानेन दारिद्यं मिथ्याजीवेन वञ्चना।

स्तम्भेन दुष्कुलीनत्वमल्पौजस्कत्वमीर्ष्यया॥१७॥



क्रोधाद्दुर्वर्णता मौर्ख्यमप्रश्नेन विपश्चिताम्।

फलमेतन्मनुष्यत्वे सर्वेभ्यः प्राक् च दुर्गतिः॥१८॥



एषामकुशलाख्यानां विपाको यः प्रकीर्तितः।

कुशलानां च सर्वेषां विपरीतः फलोदयः॥१९॥



लोभो द्वेषश्च मोहश्च तज्जं कर्मेति चाशुभम्।

अलोभामोहाद्वेषाश्च तज्जं कर्मेतरच्छुभम्॥२०॥



अभुभात्सर्वदुःखानि सर्वदुर्गतयस्तथा।

शुभात्सुगतयः सर्वाः सर्वजन्मसुखानि च॥२१॥



निवृत्तिरशुभात्कृत्स्नात्प्रवृत्तिस्तु शुभे सदा।

मनसा कर्मणा वाचा धर्मोऽयं द्विविधः स्मृतः॥२२॥



नरकप्रेततिर्यग्भ्यो धर्मादस्माद्विमुच्यते।

नृषु देवेषु चाप्नोति सुखश्रिराज्यविस्तरान्॥२३॥



ध्यानाप्रमाणारूप्यैस्तु ब्रह्माद्यसुखमश्नुते।

इत्यभ्युदयधर्मोऽयं फलं चास्य समासतः॥२४॥



नैःश्रेयसः पुनर्धर्मः सूक्ष्मो गम्भीरदर्शनः।

बालानां [अश्रोत्रवताम्] उक्तस्त्रासकरो जिनैः॥२५॥



नास्म्यहं न भविष्यामि न मेऽस्ति न भविष्यति।

इति बालस्य संत्रासः पण्डितस्य भयक्षयः॥२६॥



अहंकरप्रसूतेयं ममकारोपसंहिता।

प्रजा प्रजाहितैकान्तवादिनाभिहिताखिला॥२७॥



अस्त्यहं मम चास्तीति मिथ्यैतत्परमार्थिभिः।

यथाभूतपरिज्ञानान्न भवत्युभयं यतः॥२८॥



अहंकारोद्भवाः स्कन्धाः सोऽहंकारोऽनृतोऽर्थतः।

बीजं यस्यानृतं तस्य प्ररोहः सत्यतः कुतः॥२९॥



स्कन्धानसत्यान् दृष्ट्वैवमहंकारः प्रहीयते।

अहंकारप्रहाणाच्च न पुनः स्कन्धसंभवः॥३०॥



यथादर्शमुपादाय (स्वमुखप्रतिबिम्बकम्।

दृश्य) ते नाम तच्चैवं न किंचिदपि तत्त्वतः॥३१॥



अहंकारस्तथा स्कन्धानुपादायोपलभ्यते।

न च कश्चित्स तत्त्वेन स्वमुखप्रतिबिम्बवत्॥३२॥



यथादर्शमनादाय स्वमुखप्रतिबिम्बकम्।

न दृश्यते तथा स्कन्धाननादायाहमित्यपि॥३३॥



एवंविधार्थश्रवणाद्धर्मचक्षुरवाप्तवान्।

आर्यानन्दः स्वयं चैव भिक्षुभ्योऽभीक्ष्णमुक्तवान्॥३४॥



स्कन्धग्राहो यावदस्ति तावदेवाहमित्यपि।

अहंकारे सति पुनः कर्म जन्म ततः पुनः॥३५॥



त्रिवर्त्मैतदनाद्यन्तमध्यं संसारमण्डलम्।

अलातमण्डलप्रख्यं भ्रमत्यन्योन्यहेतुकम्॥३६॥



स्वपरोभयतस्तस्य त्रैकाल्यतोऽप्यप्राप्तितः।

अहंकारः क्षयं याति ततः कर्म च जन्म च॥३७॥



एवं हेतुफलोत्पादं पश्यंस्तत्क्षयमेव च।

नास्तितामस्तितां चैव नैति लोकस्य तत्त्वतः॥३८॥



सर्वदुःखक्षयं धम श्रुत्वैवमपरीक्षकः।

संकम्पत्यपरिज्ञानादभयस्थानकातरः॥३९॥



न भविष्यति निर्वाणे सर्वमेतन्न ते भयम्।

उच्यमान इहाभावस्तस्य ते किं भयंकरः॥४०॥



मोक्षे नात्मा न च स्कन्धा मोक्षश्चेदीदृशः प्रियः।

आत्मस्कन्धापनयनं किमिहैव तवाप्रियम्॥४१॥



न चाभावोऽपि निर्वानं कुत एव तस्य [वास्य] भावता।

भावाभावपरामर्शक्षयो निर्वाणमुच्यते॥४२॥



समासान्नास्तितादृष्टिः फलं नास्तीति कर्मणः।

अपुण्यापायीकी चैषा मिथ्यादृष्टिरिति स्मृता॥४३॥



समासादस्तितादृष्टिः फलं चास्तीति कर्मणाम्।

पुण्या सुगतिनिष्यन्दा सम्यग्दृष्टिरिति स्मृता॥४४॥



ज्ञाने नास्त्यस्तिताशान्तेः पापपुण्यव्यतिक्रमः।

दुर्गतेः सुगतेश्चास्मात् स मोक्षः सभ्दिरुच्यते॥४५॥



सहेतुमुदयं पश्यन् नास्तितामतिवर्तते।

अस्तितामपि नोपैति निरोधं सह हेतुना॥४६॥



प्राग्जातः सहजातश्च हेतुरहेतुकोऽर्थतः।

प्रज्ञप्तेरप्रतीतत्वादुत्पत्तेश्चैव तत्त्वतः॥४७॥



अस्मिन् सतीदं भवति दीर्घे ह्रस्वं यथा सति।

[तस्योत्पादादुदेतीदं दीपोत्पादाद्यथा] प्रभा॥४८॥



ह्रस्वेऽसति पुनर्दीर्घं न भवति स्वभावतः।

प्रदीपस्याप्यनुत्पादात्प्रभाया अप्यसंभवः॥४९॥



एवं हेतुफलोत्पादं दृष्ट्वा नोपैति नास्तिक्यम् (नास्तिताम्)।

अभ्युपेत्यास्य लोकस्य याथाभूत्यं प्रपञ्चजम्॥५०॥



निरोधं च प्रपञ्चोत्थं याथाभूत्यादुपागतः।

नोपयात्यस्तितां तस्मान्मुच्यतेऽद्वयनिश्चितः॥५१॥



दूरादालोकितं रूपमासन्नैर्दृश्यते स्फुटम्।

मरीचिर्यदि वारि स्यादासन्नैः किं न दृश्यते॥५२॥



दूरीभूतैर्यथाभूतो लोकोऽयं दृशयते तथा।

न दृश्यते तदासन्नैरनिमित्तो मरीचिवत्॥५३॥



[मरीचिस्तोयसदृशी यथा नाम्बु न] चार्थतः।

स्कन्धास्तथात्मसदृशा नात्मानो नापि तेऽर्थतः॥५४॥



मरीचीं तोयमित्येतदिति मत्वागतोऽत्र सन्।

यदि नास्तीति तत्तोयं [गृण्हीयान्मूढ एव सः॥५५॥



मरीचिप्रतिमं लोकमेवमस्तीति गृण्हतः।

नास्तीति चापि मोहोऽयं सति मोहे न मुच्यते॥५६॥



नास्तिको दुर्गतिं यातिं सुगतिं यति चास्तिकः।

यथाभूतपरिज्ञानान्मोक्षमद्वयनिश्रितः॥५७॥



अनिच्छन् नास्तितास्तित्वे यथाभूतपरिज्ञया।

नास्तितां लभते मोहात् कस्मान्न लभतेऽस्तिताम्॥५८॥



स्यादस्तिदूषणादस्य नास्तिताक्षिप्यतेऽर्थतः।

नास्तितादूषणादेव कस्मान्नाक्षिप्यतेऽस्तिता॥५९॥



न प्रतिज्ञा न चरितं न चित्तं बोधिनिश्रयात्।

नास्तिकत्वेऽर्थतो येषां कथं ते नास्तिकाः स्मृताः॥६०॥



ससांख्यौलूक्यनिर्ग्रन्थपुग्दलस्कन्धवादिनम्।

पृच्छ लोकं यदि वदत्यस्तिनास्तिव्यतिक्रमम्॥६१॥



धर्मयौतकमित्यस्मान्नास्त्यस्तित्वव्यतिक्रमम्।

विद्धि गम्भीरमित्युक्तं बुद्धानां शासनामृतम्॥६२॥



विभवं नैति नायाति न तिष्ठत्यपि च क्षणम्।

त्रैकाल्यव्यतिवृत्तात्मा लोक एव कुतोऽर्थतः॥६३॥



द्वयोरप्यागतिगती प्रस्थितिश्च न तत्त्वतः।

लोकनिर्याणयोस्तस्माद्विशेषः क इवार्थतः॥६४॥



स्थितेरभावादुदयो निरोधश्च न तत्त्वतः।

उदितश्च स्थितश्चेति निरुद्धश्च कुतोऽर्थतः॥६५॥



कथमक्षणिको भावः परिणामः सदा यदि।

नास्ति चेत्परिणामः स्यादन्यथात्वं कुतोऽर्थतः॥६६॥



एकदेशे क्षयाद्वा स्यात् क्षणिकं सर्वशोऽपि वा।

वैषम्यानुपलब्धेश्च द्विधाप्येतदयुक्तिमत्॥६७॥



क्षणिके सर्वथा भावे कुतः काचित्पुराणता।

स्थैर्यादक्षणिके चापि कुतः काचित्पुराणता॥६८॥



यथान्तोऽस्ति क्षणस्यैवमादिर्मध्यं च कल्प्यताम्।

त्र्यात्मकत्वात् क्षणस्यैवं न लोकस्य क्षणं स्थितिः॥६९॥



आदिमध्यावसानानि [चिन्त्यानि क्षणवत्पुनः।

आदिमध्या] वसानत्वं न स्वतः परतोऽपि वा॥७०॥



नैकोऽनेकप्रदेशत्वान्नाप्रदेशश्च कश्चन्।

विनैकमपि नानेको नास्तित्वमपि चास्तिताम्॥७१॥



विनाशात् प्रतिपक्षाद्वा स्यादस्तित्वस्य नास्तिता।

विनाशः प्रतिपक्षो वा कथं स्यादस्त्यसंभवात्॥७२॥



निर्वृतेस्तेन लोकस्य नोपैत्यूनत्वमर्थतः।

अन्तवानिति लोकश्च पृष्टस्तूष्णीं जिनोऽभवत्॥७३॥



सर्वज्ञ इति सर्वज्ञो बुधैस्तेनैव गम्यते।

येनैतद्धर्मगाम्भीर्यं नोवाचाभजने लोके॥७४॥



इति नैःश्रेयसो धर्मो गम्भीरो निष्परिग्रहः।

अनालय इति प्रोक्तः संबुद्धैस्तत्वदर्शिभिः॥७५॥



अस्मादनालयाद्धर्मादायलयाभिरता जनाः।

अस्तिनास्त्यव्यतिक्रान्ता भीता नश्यन्त्यमेधसः॥७६॥



ते नष्टा नाशयन्त्यन्यानभयस्थानभीरवः।

तथा कुरु यथा राजान् नष्टैर्न विप्रणाश्यसे॥७७॥



* * * * * *





कदली पाटिता यद्वन्निःशेषावयवैः सह।

न किंचित्पुरुषस्तद्वत्पाटितः सह धातुभिः॥१॥



सर्वधर्मा अनात्मान इत्यतो भाषितं जिनैः।

धातुषट्कं च तैः सर्वं निर्णितं तच्च नार्थतः॥२॥



नैवमात्मा न चानात्मा याथाभूत्येन लभ्यते।

आत्मानात्मकृते दृष्टी ववारास्मान्महामुनिः॥३॥



दृष्टश्रुताद्यं मुनिना न सत्यं न मृषोदितम्।

पक्षाद्धि प्रतिपक्षः स्यादुभयं तच्च नार्थतः॥४॥



इति सत्यानृतातीतो लोकोऽयं परमार्थतः।

अस्मादेव च तत्त्वेन नोपैत्यस्ति च नास्ति च॥५॥



यच्चैवं सर्वथा नेति सर्वज्ञस्तत्कथं वदेत्।

सान्तमित्यथवानन्तं द्वयं वाद्वयमेव वा॥६॥



असंख्येया गता बुद्धास्तथैष्यन्त्यथ सांप्रताः।

कोट्यग्रशश्च सत्त्वान्तस्तेभ्यस्त्रैकाल्यजो मतः॥७॥



वृद्धिहेतुर्न लोकस्य क्षयस्त्रिकाल्यसंभवः।

सर्वज्ञेन कथं तस्य पूर्वान्तोऽव्याकृतः कृतः॥८॥



एतत्तु धर्मगाम्भीय यत्तद्गुह्यं पृथग्जने।

मायोपमत्वं लोकस्य बुद्धानां शासनामृतम्॥९॥



मायागजस्य दृश्येत यथा जन्मान्त एव च।

न च कश्चित्स तत्त्वेन जन्मान्तश्चैव विद्यते॥१०॥



मायोपमस्य लोकस्य तथा जन्मान्त एव च।

दृश्यते परमार्थेन न च जन्मान्त एव च॥११॥



यथा मायागजो नैति कुतश्चिद्याति न क्वचित्।

चित्तमोहनमात्रत्वाद्भावत्वेन न तिष्ठति॥१२॥



तथा मायोपमो लोको नैति याति न कुत्रचित्।

चित्तमोहनमात्रत्वाभ्दावत्वेन न तिष्ठति॥१३॥



त्रकाल्यव्यतिवृत्तात्मा लोक एवं नु कोऽर्थतः।

योऽस्ति नास्त्यथवापि स्यादन्यत्र व्यवहारतः॥१४॥



चतुष्प्रकारमित्यस्मात् शान्तोऽनन्तो द्वयोऽद्वयः।

बुद्धेन हेतोर्नान्यस्मादयमव्याकृतः कृतः॥१५॥



शरीराशुचिता तावत् स्थूला प्रत्यक्षगोचरा।

सततं दृश्यमानापि यदा चित्त न तिष्ठति॥१६॥



तदातिसूक्ष्मो गम्भीरः सद्धर्मोऽयमनालयः।

अप्रत्यक्षः कथं चित्ते सुखेनावतरिष्यति॥१७॥



संबुध्यास्मान्निवृत्तोऽभूद्धर्मं देशयितुं मुनिः।

दुर्ज्ञानमतिगाम्भीर्याद् ज्ञात्वा धर्ममिमं जनैः॥१८॥



विनाशयति दुर्ज्ञातो धर्मोऽयमविपश्चितम्।

नास्तितादृष्टिसमले यस्मादस्मिन्निमज्जति॥१९॥



अपरोऽप्यस्य दुर्ज्ञानान्मूर्खः पण्डितमानिकः।

प्रतिक्षेपविनष्टात्मा यात्यवीचिमधोमुखः॥२०॥



दुर्भुक्तेन यथान्नेन विनाशमधिगच्छति।

सुभुक्तेनायुरारोग्यं बलं सौख्यानि चाश्नुते॥२१॥



दुर्ज्ञातेन तथानेन विनाशमधिगच्छति।

सम्यग्ज्ञातेनात्र सुखं बोधिं चाप्नोत्यनुत्तराम्॥२२॥



तस्मादत्र प्रतिक्षेपं दृष्टिं त्यक्त्वा च नास्तिकीम्।

सम्यग्ज्ञानपरं यत्नं कुरु सर्वार्थसिद्धये॥२३॥



धर्मस्यास्यापरिज्ञानादहंकारोऽनुवर्तते।

ततः शुभाशुभं कर्म ततो जन्म शुभाशुभम्॥२४॥



तस्माद्यावदविज्ञातो धर्मोऽहंकारशातनः।

दानशीलक्षमाधर्मे तावदादरवान् भव॥२५॥



धर्मपूर्वाणि कार्याणि धर्ममध्यानि पार्थिव।

साधयन् धर्मनिष्ठानि नेह नामुत्र सीदति॥२६॥



धर्मात्कीर्तिः सुखं चैव नेह भीर्न मुमूर्षतः।

परलोकसुखं स्फीतं तस्माद्धर्म सदा भज॥२७॥



धर्म एव परा नीतिर्धर्माल्लोकोऽनुरज्यते।

रञ्जितेन हि लोकेन नेह नामुत्र वञ्च्यते॥२८॥



अधर्मेण तु या नीतिस्तया लोकोऽपरज्यते।

लोकोपरञ्जनाच्चैव नेह नामुत्र नन्दति॥२९॥



परातिसंधानपरा कष्टा दुर्गतिपद्धतिः।

अनर्थविद्या दुष्प्रज्ञैरर्थविद्या कथं कृता॥३०॥



परातिसंधानपरो नीतिमान् कथमर्थतः।

येन जन्मसहस्राणि बहून्यात्मैव वञ्च्यते॥३१॥



रिपोरप्रियमन्विच्छन् दोषांस्त्यक्त्वा गुणान् श्रय।

स्वहितावाप्तिरेवम् तु रिपोश्चाप्यप्रियं भवेत्॥३२॥



दानेन प्रियवद्येन हितेनैकार्थचर्यया।

एभिराचर लोकस्य धर्मस्यैव च संग्रहम्॥३३॥



विश्वासं जनयत्येकं सत्यं राज्ञां यथा दृढम्।

तथैवाभूतमप्येषामविश्वासकरं परम्॥३४॥



नाविसंवादवत्सत्यं [सत्त्वे] उद्गतमर्थतः।

परैकान्तहितं सत्यमहितत्वान्मृषेतरत्॥३५॥



दोषान् प्रच्छादयत्येकस्त्यागो राज्ञां यथोज्ज्वलः।

तथा कार्पण्यमप्येषां गुणसर्वस्वघातकम्॥३६॥



उपशान्तस्य गाम्भीर्यं गाम्भीर्याद्गौरवं परम्।

गौरवाद्दीप्तिराज्ञा च तस्मादुपशमं भज॥३७॥



अहार्यबुद्धिः प्राज्ञत्वादपरप्रत्ययः स्थिरः।

नातिसंधीयते राजा तस्मात्प्रज्ञापरो भव॥३८॥



सत्यत्यागशमप्रज्ञो चतुर्भद्रो नराधिपः।

धर्मश्चतुर्भद्र इव स्तूयते देवमानुषैः॥३९॥



निगृह्यवादिभिः सुद्धैः प्रज्ञाकारुण्यनिर्मलैः।

सहासीनस्य सततं प्रज्ञा धर्मश्च वर्धते॥४०॥



दुर्लभाः पथ्यवक्तारः श्रोतारस्त्वतिदुर्लभाः।

तेभ्योऽतिदुर्लभतमा ये पथ्यस्याशुकारिणः॥४१॥



पथ्यमप्यप्रियं तस्माज्ञात्वा शीघ्रं समाचर।

पिबेदौषधमप्युग्रमारोग्यायात्मवानिव॥४२॥



जीवितारोग्यराज्यानां चिन्तयानित्यतां सदा।

ततः संवेगवान् धर्ममेकान्तेन प्रयास्यसे॥४३॥



अवश्यं मरणं पश्यन् पापद्दुःखं मृतस्य च।

एहिकेन सुखेनापि न पापं क्षातुमर्हसि॥४४॥



कस्मिंश्चेदभ्यं दृष्टं भयं दृष्टं क्वचित्क्षणे।

यद्येकस्मिन् समाश्वासः किमेकस्मिन्न ते भयम्॥४५॥



मद्यात्परिभवो लोके कार्यहानिर्धनक्षयः।

आकार्यकरणं मोहात् [मद्यं त्यज ततः सदा]॥४६॥







अधर्ममन्वाय्यमपि प्रायो राजानुजीविभिः।

आचरन् स्तूयते तस्मात् कृच्छ्राद्वेत्ति क्षमाक्षमम्॥१॥



अन्योऽपि तावद्यः कश्चिद्दुर्वचः क्षममप्रियम्।

किमु राजा महाभौमस्त्वं मया भिक्षुणा सता॥२॥



त्वत्कृतादेव तु स्नेहाज्जगतामनुकम्पया।

अहमेको वदामि त्वां पथ्यमप्यप्रियं भृशम्॥३॥



सत्यं श्लक्ष्णार्थवत्पथ्यं शिष्यः कालेऽनुकम्पया।

वाच्य इत्याह भगवांस्तदेवमभिधीयसे॥४॥



अक्रोधे सत्यवाक्ये च श्लाध्यमानो यदि स्थितः।

श्रव्यं संपरिगृण्हीयात् सत्तोयं स्नाप्यमानवत्॥५॥



तस्य मे वदतो वाक्यं त्वमिहामुत्र च क्षमम्।

ज्ञात्वा कुरु हितायेदमात्मनो जगतोऽपि च॥६॥



याचकेभ्यः पुरा दानात् प्राप्यार्थांश्चेन्न दास्यसि।

अकृतज्ञत्वलोभाभ्यां नार्थान् पुनरवाप्स्यसि॥७॥



इह पथ्यदनं लोके न वहत्यभृतो भृतः।

याचकस्त्वभृतोऽमुत्र हीनः शतगुणोद्वहः॥८॥



उदारचित्तः सततं भवोदारक्रियारतः।

उदारकर्मणः सर्वमुदारं जायते फलम्॥९॥



मनोरथैरपि क्लीबैरनालीढं नराधिपैः।

कुरु धर्मास्पदं श्रीमत्ख्यातं रत्नत्रयास्पदम्॥१०॥



सामन्तराजरोमाञ्चकरं धर्मास्पदं न यत्।

मृतस्याप्यप्रशस्यत्वाद् राजंस्तदकृतं वरम्॥११॥



अत्यौदार्यादुदाराणां विस्मयोत्साहवर्धनम्।

उत्साहन्घं च मन्दानां सर्वस्वेनापि कारय॥१२॥



उत्सृज्यामुत्र गन्तव्यं सर्वस्वमवशेन ते।

धर्मे नियुक्तं यात्येव पुरस्तात्सर्वमेव तत्॥१३॥



सर्वस्वं पूर्वनृपतेर्नृपस्य वशमागतम्।

किं पूर्वकस्य धर्माय सुखाय यशसेऽपि वा॥१४॥



भुक्तादर्थादिह सुखं दत्तात्पारत्रिकं सुखम्।

अभुक्तादत्तनष्टत्वाद्दुःखमेव कुतः सुखम्॥१५॥



विनश्यन् सचिवैर्दातुमस्वातन्त्र्यान्न शक्यसि।

आपतिच्छेदनिःस्नेहैर्नवराजप्रियैषिभिः॥१६॥



सर्वस्वेनाप्यतः स्वस्थः शीघ्रं धर्मास्पदं कुरु।

मृत्युप्रत्ययमध्यस्थः प्रवातस्थप्रदीपवत्॥१७॥



धर्माधिकारा ये चान्ये पूर्वराजप्रवर्विताः।

देवद्रोण्यादयस्तेऽपि प्रवर्त्यन्तां यथास्थिताः॥१८॥



अहिंसकैः शुभाचारैर्व्रतस्थैरतिथिप्रियैः।

सर्वक्षमैरकलहैर्भज्येरंस्तैः सदो(द्य)तैः॥१९॥



अन्धव्याधितहीनाङ्गदीनानाथवनीपकाः।

तेऽप्यन्नपानं साम्येन लभेरन्नविघट्टिताः॥२०॥



अनर्थानामपि सतां धार्मिकाणामनुग्रहान्।

अप्यन्यराज्यसंस्थानामनुरूपान् प्रवर्तय॥२१॥



सर्वधर्माधिकारेषु धर्माधिकृतमुत्थितम्।

अलुब्धं पण्डितं धर्म्यं कुरु तेसामबाधकम्॥२२॥



नीतिज्ञान् धार्मिकान् स्निग्धान् शुचीन् भक्तानकातरान्।

कुलीनान् शीलसंपन्नान् कृतज्ञान् सचिवान् कुरु॥२३॥



अक्षुद्रांस्त्यागिनः शूरान् स्निग्धान् संभोगिनः स्थिरान्।

कुरु नित्याप्रमत्तांश्च धार्मिकान् दण्डनायकान्॥२४॥



धर्मशीलान् शूचीन् दक्षान् कार्यज्ञान् शास्त्रकोविदान्।

कृतवृत्तीन् समान् स्निग्धान् वृद्धानधिकृतान् कुरु॥२५॥



प्रतिमासं च तेभ्यस्त्वं सर्वमायव्ययं शृणु।

श्रुत्वा धर्माधिकाराद्यं कार्यं सर्वं स्वयं वद॥२६॥



धर्मार्थं यदि ते राज्यं न कीर्त्यर्थं न कामतः।

ततः सफलमत्यर्थमनर्थार्थमतोऽन्यथा॥२७॥



परस्परामिषीभूते लोकोऽस्मिन् प्रायशो नृप।

यथा राज्यं च धर्मश्च भवेत्तव तथा शृणु॥२८॥



ज्ञानवृद्धाः कुले जाता न्यायज्ञाः पापभीरवः।

समेता बहवो नित्यं सन्तु ते कार्यदर्शिनः॥२९॥



दण्डबन्धप्रहारदीन् कुर्युस्ते न्यायतोऽपि चेत्।

कारुण्यार्द्रः सदा भूत्वा त्वमनुग्रहवान् भव॥३०॥



हितायैव त्वया चित्तमुन्नाम्यं सर्वदेहिनाम्।

कारुण्यात्सततं राजंस्तीव्रपापकृतामपि॥३१॥



तीव्रपापेषु हिंस्रेषु कृपा कार्या विशेषतः।

त एव हि कृपास्थानं हतात्मानो महात्मनाम्॥३२॥



प्रत्यहं पञ्चरात्रं वा बद्धान् क्षीणान् विमोचय।

शेषानपि यथायोगं मा कांश्चित् नैव मोचय॥३३॥



येष्वमोक्षणचित्तं ते जायते तेष्वसंवरः।

तस्मादसंवरात् पापमजस्रमुपचीयते॥३४॥



यावच्च न विमुच्येरंस्तावत्स्युः सुखबन्धनाः।

नापितस्नानपानान्नभैषज्यवसनान्विताः॥३५॥



अपात्रेष्विव पुत्रेषु पात्रीकरणकाङ्क्षया।

कारुण्या[त्ताडनं कार्यं न द्वेषान्]नार्थलिप्सया॥३६॥



विमृश्य सम्यग्विज्ञाय प्रदुष्टान् घातकानपि।

अहत्वा पीडयित्वा च कुरु निर्विषयान् नरान्॥३७॥



स्वतन्त्रः पश्य सर्वं च विषयं चारचक्षुषा।

नित्याप्रमत्तः स्मृतिमान् कुरु कार्यं च धार्मिकम्॥३८॥



प्रदानमानसत्कारैर्गुणस्थान् सततं भज।

उदारैरनुरूपैस्तु शेषानपि यथाविधि॥३९॥



संमानस्फीतकुसुमः संप्रदानमहाफलः।

राजवृक्षः क्षमाच्छायः सेव्यते भृत्यपक्षिभिः॥४०॥



त्यागशीलमयो राजा तेजस्वी भवति प्रियः।

शर्करामोदको यद्वदेलामरिचकर्कशः॥४१॥



मात्स्यन्यायश्च ते नैवं न्यायाद्राज्यं भविष्यति।

न चान्यायो न वाधर्मो धर्मश्चैवं भविष्यति॥४२॥



परलोकात्त्वया राज्यं नानीतं नापि नेष्यसि।

धर्मात् प्राप्तमतोऽस्यार्थे नाधर्मं कर्तुमर्हसि॥४३॥



राज्येन भाण्डमूल्येन दुःखभाण्डपरंपराम्।

राजन् यथा नार्जयसि प्रयत्नः क्रियतां तथा॥४४॥



राज्येन भाण्डमूल्येन राज्यभाण्डपरंपराम्।

राजन् यथा निर्विशसि प्रयत्नः क्रियतां तथा॥४५॥



चतुर्द्वीपमपि प्राप्य पृथिवीं चक्रवर्तिनः।

शारीरं मानसं चैव सुखद्वयमिदं मतम्॥४६॥



दुःखप्रतिक्रियामात्रं शारीरं वेदनासुखम्।

संज्ञामयं मानसं तु केवलं कल्पनाकृतम्॥४७॥



दुःखप्रतिक्रियामात्रं कल्पनामात्रमेव च।

लोकस्य सुखसर्वस्वं व्यर्थमेतदतोऽर्थतः॥४८॥



द्वीपदेशपुरावासप्रदेशस्थानवाससाम्।

शय्यान्नपानहस्त्यश्वस्त्रीणां चैकैकभोग्यता॥४९॥



यदा च यत्र चित्तं स्यात् तदानेन सुखं किल।

शेषाणाममनस्कारात्तेषां व्यर्थत्वमर्थतः॥५०॥



विषयान् पञ्चभिः पञ्च चक्षुरादिभिरिन्द्रियैः।

न कल्पयति चेद्गण्हन् नास्मात्तेषु तदा सुखम्॥५१॥



जानीते विषयं यं यं येन येनेन्द्रियेण च।

तदा न शेषैः शेषाणि व्यर्थान्येव यतस्तदा॥५२॥



इन्द्रियैरुपलब्धस्य विषयस्याकृतिं मनः।

उपलभ्य व्यतीतस्य कल्पयन् मन्यते सुखम्॥५३॥



एकमर्थं विजानाति यद्यप्येकमिहेन्द्रियम्।

तदप्यर्थं विना व्यर्थं व्यर्थोऽर्थोऽपि च तद्विना॥५४॥



प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः।

चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः॥५५॥



अतीतानागता व्यर्था विषयाः सार्धमिन्द्रियैः।

तदुद्वयानतिरिक्तत्वाद् व्यर्था येऽपि च सांप्रताः॥५६॥



अलातचक्रं गृण्हाति यथा चक्षुर्विपर्ययात्।

तथेन्द्रियाणि गृण्हन्ति विषयान् सांप्रतानिव॥५७॥



इन्द्रियाणिन्द्रियार्थाश्च पञ्चभूतमया मताः।

प्रतिस्वं भूतवैयर्थ्यादेषां व्यर्थत्वमर्थतः॥५८॥



निरिन्धनोऽग्निर्भूतानां विनिर्भागे प्रसज्यते।

संपर्के लक्षणाभावः शेषेष्वप्येष निर्णयः॥५९॥



एवं द्विधापि भूतानां व्यर्थत्वात्संगतिर्वृथा।

व्यर्थत्वात्संगतेश्चैवं रूपं व्यर्थमतोऽर्थतः॥६०॥



विज्ञानवेदनासंज्ञासंस्काराणां च सर्वशः।

प्रत्येकमात्मवैयर्थ्यद्वैयर्थ्यं परमार्थतः॥६१॥



सुखाभिमानो दुःखस्य प्रतीकारे यथार्थतः।

तथा सुखाभिमानोऽपि सुखस्य प्रतिघातजः॥६२॥



सुखे संयोगतृष्णैवं नैःस्वाभाव्यात्प्रहीयते।

दुःखे वियोगतृष्णा च पश्यतां मुक्तिरित्यतः॥६३॥



कः पश्यतीति चेच्चित्तं व्यहारेण कथ्यते।

न हि चैत्तं विना चित्तं व्यर्थत्वान्न सहेष्यते॥६४॥



व्यर्थमेवं जगन्मत्वा याथाभूत्यान्निरास्पदः।

निर्वाति निरुपादानो निरुपादानवन्हिवत्॥६५॥



बोधिसत्त्वोऽपि दृष्टैवं संबोधौ नियतो मतः।

केवलं तस्य कारुण्यादा बोधेर्भवसंततिः॥६६॥



बोधिसत्त्वस्य संभारो महायाने तथागतैः।

निर्दिष्टः स तु संमूढैः प्रद्विष्टश्चैव निन्द्यते॥६७॥



गुणदोषानभिज्ञो वा दोषसंज्ञी गुणेषु वा।

अथवापि गुणद्वेषी महायानस्य निन्दकः॥६८॥



परोपघातिनो दोषान् परानुग्राहिणो गुणान्।

ज्ञात्वोच्यते गुणद्वेषी महायानस्य निन्दकः॥६९॥



यत्स्वार्थनिरपेक्षत्वात् परार्थैकरसप्रियम्।

गुणाकरं महायानं तद्द्विषी तेन दह्यते॥७०॥



श्राद्धोऽपि दुर्गृहीतेन द्विष्यात् क्रुद्धोऽथवेतरः।

श्राद्धोऽपि दग्ध इत्युक्तः का चिन्ता द्वेषाबन्धुरे॥७१॥



विषेणापि विषं हन्याद्यथैवोक्तं चिकित्सकैः।

दुःखेनाप्यहितं हन्यादित्युक्ते किं विरुध्यते॥७२॥



मनःपूर्वंगमा धर्मा मनःश्रेष्ठा इति श्रुतेः।

हितं हितमनाः कुर्वन् दुःखेनाप्यहितं कथम्॥७३॥



दुःखमप्यायतीपथ्यं कार्यं किमु सुखं हितम्।

आत्मनश्च परेषां च धर्म एषा सनातनः॥७४॥



मात्रासुखपरित्यागात् पश्चाच्चेद्विपुलं सुखम्।

त्यजेन्मात्रासुखं धीरः संपश्यन् विपुलं सुखम्॥७५॥



न मृश्यते च यद्येतत् कटुभैषज्यदायिनः।

ततश्चिकित्सकाद्याश्च हता नैवं च युज्यते॥७६॥



अपथ्यमपि यद्दृष्टं तत्पथ्यं पण्डितैः क्वचित्।

उत्सर्गश्चापवादश्च सर्वशास्त्रेषु शस्यते॥७७॥



करुणापूर्वकाः सर्वे निष्यन्दा ज्ञाननिर्मलाः।

उक्ता यत्र महायाने कस्तन्निन्देत्सचेतनः॥७८॥



अत्यौदार्यातिगाम्भीर्याद्विषण्णैरकृतात्मभिः।

निन्द्यतेऽद्य महायानं मोहात् स्वपरवैरिभिः॥७९॥



दानशीलक्षमावीर्यध्यानप्रज्ञाकृपात्मकम्।

महायानमतस्तस्मिन् कस्माद्दुर्भाषितं वचः॥८०॥



परार्थो दानशीलाभ्यां क्षान्त्या वीर्येण चात्मनः।

ध्यानं प्रज्ञा च मोक्षाय महायानार्थसंग्रहः॥८१॥



परा[त्महित]मोक्षार्थाः संक्षेपाद्बुद्धशासनम्।

ते षट्पारमितागर्भास्तस्माद् बौद्धमिदं वचः॥८२॥



पुण्यज्ञानमयो यत्र बुद्धैर्बोधेर्महापथः।

देशितस्तन्महायानमज्ञानाद्वै न दृश्यते॥८३॥



खमिवाचिन्त्यगुणत्वादुक्तोऽचिन्त्यगुणो जिनः।

महायाने यतो बुद्धमाहात्म्यं क्षम्यतामिदम्॥८४॥



आर्यशारद्वतस्यापि शीलमात्रेऽप्यगोचरः।

यस्मात् तद्बुद्धमाहात्म्यमचिन्त्यं किं न मृष्यते॥८५॥



अनुत्पादो महायाने परेसां शून्यता क्षयः।

क्षयानुत्पादयोश्र्चैक्यमर्थतः क्षम्यतां यतः॥८६॥



शून्यता बुद्धमाहात्म्यमेवं युक्त्यानुपश्यताम्।

महायानेतरोक्तानि न समेयुः कथं सताम्॥८७॥



तथागताभिसंध्योक्तान्यसुखं ज्ञातुमित्यतः।

एकयानत्रियानोक्तादात्मा रक्ष्य उपेक्षया॥८८॥



उपेक्षया हि नापुण्यं द्वेसात्पापं कुतः शुभम्।

महायाने यतो द्वेषो नात्मकामैः कृतोऽर्हति॥८९॥



न बोधिसत्त्वप्रणिधिर्न चर्यापरिणामना।

उक्ताः श्रावकयानेऽस्माद्बोधिसत्त्वः कुतस्ततः॥९०॥



अधिष्ठानानि नोक्तानि बोधिसत्त्वस्य बोधये।

बुद्धैरन्यत्प्रमाणं च कोऽस्मिन्नर्थे जिनाधिकः॥९१॥



अधिष्ठानार्यसत्यार्थबोधिपक्षोपसंहितात्।

मार्गाच्छावकसामान्याद्बौद्धं केनाधिकं फलम्॥९२॥



बोधिचर्याप्रतिष्ठार्थ न सूत्रे भाषितं वचः।

भाषितं च महायाने ग्राह्यमस्माद्विचक्षणैः॥९३॥



यथैव वैयाकरणो मातृकामपि पाठयेत्।

बुद्धोऽवदत्तथा धर्मं विनेयानां यथाक्षमम्॥९४॥



केषांचिदवदद्धर्मं पापेभ्यो विनिवृत्तये।

केषांचित्पुण्यसिद्धयर्थं केषांचिदू द्वयनिश्रितम्॥९५॥



द्वयानिश्रितमेकेषां गम्भीरं भीरुभीषणम्।

शून्यताकरुणागर्भमेकेषां बोधिसाधनम्॥९६॥



इति सद्भिर्महायाने कर्तव्यः प्रतिघक्षयः।

प्रसादश्चाधिकः कार्यः सम्यक्संबोधिसिद्धये॥९७॥



महायानप्रसादेन तदुक्ताचरणेन च।

प्राप्यतेऽनुत्तरा बोधिः सर्वसौख्यानि चान्तरा॥९८॥



दानं शीलं क्षमा सत्यं गृहस्थस्य विशेषतः।

धर्म उक्तः कृपागर्भः स सात्मीक्रियतां दृढम्॥९९॥



अथ लोकस्य वैधर्म्याद्राज्यं धर्मेण दुष्करम्।

ततो धर्मयशोर्थं ते प्रव्रज्याधिगमः क्षमः॥१००॥



रत्नावत्यां राजवृत्तोपदेशो नाम चतुर्थः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project