Digital Sanskrit Buddhist Canon

पिण्डीक्रमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Piṇḍīkramaḥ

आचार्यनागार्जुनप्रणीतः

पिण्डीक्रमः

नमः सर्वज्ञाय

त्रैलोक्याचारमुक्तं गगनसमगतं सर्वभावस्वभावम्,
शुद्धं शान्तं विविक्तं परमशिवमयं योगिनामेव गम्यम्।
दुर्बोधं दुर्विचारं स्वपरहिततमं व्यापिनं निर्निमित्तम्,
वन्दे कायं जिनानां सुखमसमसमं निर्विकल्पैकमूर्तिम्॥१॥

श्रीमत्समाजतन्त्रस्य षट्कोट्यर्थावबोधतः।
पिण्डीक्रममहं वक्ष्ये सर्वसत्त्वहितोदयम्॥२॥

विकल्पवासनादोषान् जगत्त्रयविमोहकान्।
समभिवीक्ष्य तान् धीमान् योगतन्त्रेण शोधयेत्॥३॥

पञ्च कामान् परित्यज्य तपोभिर्न च पीडयेत्।
सुखेन धारयेद् वोधिं योगतन्त्रानुसारतः॥४॥

तेनेह संवरस्थोऽयमभेदस्तु सदा व्रती।
कायवाक्‌चित्तवज्रस्य साधनं तु समारभेत्॥५॥

महाटवीप्रदेशेषु फलपुष्पाद्यलङ्‍कृते।
पर्वते विजते साध्यं सर्वसिद्धिसमुच्चयम्॥६॥

मृद्वासनसमासीनः सत्त्वपर्यङ्कसंस्थितः।
द्वेषवज्रसमाधिस्थः स्थानरक्षां विचिन्तयेत्॥७॥

दशक्रोधान् समुत्सृज्य ज्वालाभासुरभीषणान्।
हूंकारोद्भूतभानुस्थान् प्रत्यालीढपदे स्थितान्॥८॥

दशदिग्मण्डलाग्रे तु सञ्चिन्त्यैवं यथाक्रमम्।
सर्वविध्नविनाशार्थं सुम्भमाज्ञाय कीलयेत्॥९॥

अं सुम्भ निसुम्भ हूं गृह्ण गृह्ण हूं गृह्णापय गृह्णापय हूं आनय हो भगवन् विद्याराज हूं फट्।

अनेन क्रोधरूपेण आकृष्यैवं विनायकान्।
कीलयेद् विधिवत् सर्वान् प्रयोगेण तु बुद्धिमान्॥१०॥

वज्रामृतमहाराजं व्रजकीलं विभावयेत्।
नीलोत्पलदलश्यामं ज्वालामालाकुलप्रथम्॥११॥

नाभिदेशादधोभागं शूलाकारं विभावयेत्।
ऊर्ध्वं क्रोधाकृतिं चैव त्रिमुखाकारषड्भुजम्॥१२॥

अधो विघ्नगणान् वीक्ष्य तान् मन्त्रं समुदाहरन्।
निखनेत् वज्रकीलं तु विघ्नदेहेषु निश्चलम्॥१३॥

ओं घ घ घातय घातय सर्वदुष्टान् फट् फट् कीलय कीलय सर्वपापान् फट् फट् हूं हूं हूं वज्रकील वज्रधर आज्ञापयति सर्वविघ्नानां कायवाक्‌चित्तवज्रं कीलय हूं हूं हूं फट्।

वज्रमुद्गरहस्तं च सुम्भराजं विभावयेत्।
वज्रवह्निं समन्ताच्च विस्फरन्तं विचिन्त्य वै।
दुष्टान् प्रलपितांश्चिन्तेद् दह्यमानानितस्ततः॥१४॥

दशदिक् कीलयित्वा तु अध ऊर्ध्वमधिष्य च।
भावयेत् परमार्थेन निःस्वभावभवत्रयम्॥१५।

अभावे भावनाभावो भावना नैव भावना।
इति भावो न भावः स्याद् भावना नोपलभ्यते॥१६॥

अनया गाथया शून्यं ध्यात्वा स्थिरचरात्मकम्।
अनेन विधियोगेन ज्ञानभूमिरधिष्यते॥१७॥

आकाशधातुमध्यस्थं भावयेद् वायुमण्डलम्।
द्वि-हूं यं बीजनिष्पन्नं वज्रद्वयसमायुतम्॥१८॥

अग्निमण्डलकं चापि तस्योपरि विभावयेत्।
द्वि-हूं रं बीजनिष्पन्नं वज्रद्वयसमाङ्कितम्॥१९॥

वारिमण्डलकं चापि तस्योपरि विभावयेत्।
द्वि-हूं वं बीजनिष्पन्नं वज्रद्वयसमायुतम्॥२०॥

पृथ्वीमण्डलकं चापि तस्मोपरि विभावयेत्।
द्वि-हूं लं बीजनिष्पन्नं वज्रद्वयसमन्वितम्॥२९॥

चतुर्मण्डलसंहारे वज्रभूभागमण्डलम्।
तत्र भ्रूंकारनिष्पत्रं कूटागारं विभावयेत्॥२२॥

चतुरस्त्रं चतुर्द्वारं चतुस्तोरणशोभितम्।
चतुःसूत्रसमायुक्तमष्टम्भोपशोभितम्॥२३॥

हारार्द्धहाररचितं मणिवज्रार्धचन्द्रकम्।
खचितं वज्ररत्नैस्तु द्वारनिर्यूहसन्धिषु॥२४॥

कुम्भस्तम्भमहावज्रं क्रमशीर्षस्तु पक्षिणी।
घण्टापताकसंशोभं चामरादिविभूषितम्॥२५॥

मध्यमण्डलके ध्यायादात्मानं मुद्रया युतम्।
त्रिमुखं षड्भुजाकारमिन्द्रनीलसमप्रथम्॥२६॥

श्रीवैरोचन-रत्नौ च अमिताभश्च कर्मराट्।
पूर्वादिदिक्षु सञ्चिन्त्यास्त्रिमुखाकारषड्भुजाः॥२७॥

मोहरत्यादिका देव्यस्त्रिमुखाकारषड्भुजाः।
आग्नेयीं दिशामारभ्य सन्निवेश्या यथाक्रमम्॥२८॥

रूपवज्रादिकास्तद्वद् बाह्यकोणचतुष्टये।
स्थितैव स्पर्शवज्रा तु वज्रसत्त्वसमायुता॥२९॥

पट्टिकायां न्यसेत् पूर्वे मैत्रेयं क्षितिगर्भकम्।
वज्रपाणिं खगर्भं च न्यसेद् दक्षिणतो व्रती॥३०॥

लोकेशं मञ्चुघोषं च पश्चिमायां न्यसेत् पुनः।
सर्वावरणविष्कम्भिं समन्तभद्रञ्चोत्तरे॥३१॥

यमान्तकश्च प्राग्द्वारे दक्षिणे त्वपराजितः।
पश्चिमे तु हयग्रीव उत्तरेऽमृतकुण्डलिः॥३२॥

अचलष्टक्किराजश्च नीलदण्डो महाबलः।
पूर्वादिकोणमारभ्य प्रविचिन्त्या यथायथम्॥३३॥

सुम्भराजमहाक्रोधमधस्तात् प्रविचिन्तयेत्।
उष्णीषचक्रवर्ती च प्रविचिन्त्यस्तथोपरि॥३४॥

ध्यात्वैवमधिमुक्तया वै माण्डलेयान् यथाविधि।
पुनः सम्पुटयोगेन स्वकाये तान् प्रवेशयेत्॥३५॥

कायचक्रगतान् बुद्धान् सञ्चिन्त्यैवं यथायथम्।
पारमार्थिकचक्रेण तथतायां प्रवेशयेत्॥३६॥

मारयेत् त्वागतं व्यूहं सुतरां सिद्धिमाप्नुयात्।
अस्यार्थो वज्रमालायां विस्तृतो विस्फुटं यथा॥३७॥

रूपस्कन्धगतादर्शो भूधातुर्नयनेन्द्रियम्।
रूपं च पञ्चमं याति क्रोधमैत्रेयसंयुतम्॥३८॥

वेदना स्कन्धसमता अब्धातुः श्रवणेन्द्रियम्।
शब्दश्च पञ्चमं याति क्रोधद्वयसमन्वितम्॥३९॥

संज्ञा च प्रत्यवैक्षण्यं हुतभुग् नासिकेन्द्रियम्।
गन्धश्च पञ्चं याति क्रोधद्वयसमन्वितम्॥४०॥

संस्कारः कृत्यानुष्टानं मारुतो रसनेन्द्रियम्।
रसश्च पञ्चमं याति क्रोधद्वयसमन्वितम्॥४१॥

उर्ध्वाधः क्रोधसंयुक्तं प्रकृत्याभासमेव च।
विज्ञानस्कन्धमायाति विज्ञानं च प्रभास्वरम्॥४२॥

निर्वाणं सर्वशून्यं च धर्मकायश्च गद्यते।
दृढीकरणहेतुत्वान् मन्त्रमेतदुदाहरेत्॥४३॥

ओं शून्यताज्ञानवज्रस्वभावात्मकोऽहम्।

परमार्थमण्डलं ह्येतन्निराभासमलक्षणम्।
परमार्थसत्यनामापि सर्वताथागतालयः॥४४॥

प्रभास्वरप्रविष्टस्य व्युत्थानं च प्रदर्शते।
मन्त्रमूर्तिप्रयोगेण देवतालम्बनं प्रति॥४५॥

आकाशधातुमध्यस्थं भावयेत् सूर्यमण्डलम्।
तस्योपरि पुनर्मन्त्री चन्द्रबिम्बं विभावयेत्॥४६॥

तत्र चाष्टदलं पद्मं रक्तवर्णं विभावयेत्।
पद्मोपरि महामन्त्रं त्र्यक्षरं भावयेत् पुनः॥४७॥

मन्त्रं पद्मं तथा सूर्यं प्रविष्टं चन्द्रमण्डले।
चन्द्रमण्डलमापूर्णं बोधिचित्तं विभावयेत्॥४८॥

स्थावरं जङ्गमं सर्वं तत्रैव प्रविचिन्तयेत्।
दृढीकरणहेतुत्वान्मन्त्रमेतदुदाहरेत्॥४९॥

ओं धर्मधातुस्वभावात्मकोऽहम्।

योगमेवं समालम्ब्य अनुयोगं समाचरेत्।
पुनश्च त्र्यक्षरं योगी चन्द्रमध्ये विचिन्तयेत्॥५०॥

ततस्त्र्यक्षरसम्भूतं सितकुन्देन्दुसन्निभम्।
आदिनाथं विचिन्त्याथ अतियोगं समारभेत्॥५१॥

अक्षोभ्यानुप्रवेशेन त्रिमुखं षड्भुजोज्ज्वलम्।
इन्द्रनीलप्रभं दीप्तं वज्रसत्त्वं विभावयेत्॥५२॥

वज्रं चक्रं तथा पद्मं सव्यहस्तेषु भावयेत्।
घण्टां रत्नं तथा खङ्गं वामहस्तेषु भावयेत्॥५३॥

ततो न्यासं प्रकुर्वीत स्कन्धादीनां विभागवित्।
वैरोचनादिसुम्भान्तं बीजन्यासेन तत्त्वतः॥५४॥

वैरोचनीयबीजं तु ओंकारं शुक्लवर्णकम्।
रूपस्कन्धस्वभावेन न्यसेन् मूर्धनि मन्त्रवित्॥५५॥

आःकारममित्ताभस्य संज्ञास्कन्धस्वभावकम्।
रक्तवर्णं मुखे ध्यात्वा वागैश्वर्यमवाप्नुयात्॥५६॥

अक्षोभ्यस्य तु हूकारं राजावर्तकसुप्रभम्।
विन्यसेद्धृदये मन्त्री विज्ञानस्कन्धरूपतः॥५७॥

स्वाकारं रत्ननाथस्य वेदनास्कन्धरूपतः।
पीतवर्णं न्यसेन्नाभौ वेदनाशुद्धिहेतुकम्॥५८॥

पादद्वये तु हाःकारं संस्कास्कन्धभावतः।
हरिताभं न्यसेन्मन्त्री कर्मनाथस्य तत्त्वतः॥५९॥

मोहरत्यादिकैर्मन्त्री पृथिव्यादीन् प्रवेशयेत्।
खरत्वं द्रवता औष्ण्यमीरणत्वं च ते क्रमात्॥६०॥

थ्लींकारं चक्षुषि न्यस्य क्षितिगर्भं विभावयेत्।
ओंकारं कर्णयोर्न्यस्य वज्रपाणिं विभावयेत्॥६१॥

ओंकारं विन्यसेद् घ्राणे खगर्भं तु विभावयेत्।
ओंकारं रसने ध्यात्वा लोकेशं च विकल्पयेत्॥६२॥

हूंकारं मनसि ध्यात्वा मञ्जुघोषं प्रभावयेत्।
ओंकारं सर्वकाये च ध्यात्वा विष्कम्भिणं स्मरेत्॥६३॥

मैं-कारेण शिरःसंस्थं मैत्रेयं परिकल्पयेत्।
भद्रं समन्ततो ध्यात्वा सर्वसन्धिषु सन्न्यसेत्॥६४॥

यमान्तकः सव्यभुजे अपसव्येऽपराजितः।
हयग्रीवो मुखे भाव्यो वज्रे चामृतकुण्डलिः॥६५॥

अचलं दक्षिणे भागे वामे च टक्किराजकम्।
जानौ च दक्षिणे चिन्तेन्नीलदण्डं महोज्जवलम्॥६६॥

वामजानौ महाबलं मूर्ध्नि चोष्णीषज्रिणम्।
पादान्तद्वयविन्यस्तं सुम्भराजं विचिन्तयेत्॥६७॥

न्यासं कृत्वा ततो मन्त्री स्कन्धादीनां यथाविधि।
कायमण्डलमापन्नो महायोगं समारभेत्॥६८॥

मूर्ध्नि मध्यगतं चिन्तेत् सम्पूर्णं चन्द्रमण्डलम्।
तत्र ओंकारं शुक्लाभं प्रस्फुरत्-पञ्चरश्मिकम्॥६९॥

ततो देवीं विनिश्चार्य आधिपत्यप्रयोगतः।
लोचनां विविधां चिन्तेत् सर्वव्योम्नि प्रपूरिताम्॥७०॥

कायवज्रं विचिन्त्याथ व्योमापूर्य व्यवस्थितम्।
तन्मध्येऽधिपतिं चिन्तेदात्मनश्च पुरःस्थितम्॥७१॥

द्वात्रिंशल्लक्षणधरं व्यञ्चनाशीतिभूषितम्।
प्रार्थयेत् तु ततो मन्त्री गाथाद्वयमुदाहरन्॥७२॥

बुद्धकायधरः श्रीमांस्त्रिवज्राभेद्यभावितः।
अधिष्ठानपदं मेऽद्य करोतु कायवज्रिणः॥७३॥

दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः।
अधिष्ठानपदं मेऽद्य कुर्वन्तु कायवज्रिणः॥७४॥

लोचनासहसंयुक्तं शाश्चतं च विभावयेत्।
तत्प्रवेश्याधितिष्ठेत पञ्चुस्कन्धप्रपूरितम्॥७५॥

यत्कायं सर्वबुद्धानां पञ्चस्कन्धप्रपूरितम्।
बुद्धाकायस्वभावेन ममापि तादृशं भवेत्॥७६॥

ओं सर्वतथागतकायवज्रस्वभावात्मकोऽहम्।

जिह्वाब्जमध्यगतं चिन्तेद् आःकारं रक्तवर्णकम्।
पाण्डराख्यां च सगणां संस्फरेत् व्योमपूरिताम्॥७७॥

वाग्वज्रं च तथा मन्त्री व्योमापूर्य व्यवस्थितम्।
प्रार्थयेत् तु ततो मन्त्री गाथाद्वयमुदाहरन्॥७८॥

धर्मो वै वाक्पथः श्रीमांस्त्रिवज्राभेद्यभावितः।
अधिष्ठानपदं मेऽद्य करोतु वाग्वज्रिणः॥७९॥

दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः।
अधिष्ठानपदं मेऽद्य कुर्वन्तु वाग्वज्रिणः॥८०॥

स्वनायकेन संयुक्तां पाण्डरां सहसैव तु।
जिह्वाप्रविष्टां सञ्चिन्त्य वागधिष्ठानमारभेत्॥८१॥

यदेव वज्रधर्मस्य वाचा निरुक्तिसम्पदा।
ममापि तादृशी वाचा भवेद् धर्मधरोपमा॥८२॥

ओं सर्वतथागतवाग्वज्रस्वभावात्मकोऽहम्।

विन्यस्य हृदये मन्त्री शशिबिम्बं समुज्ज्वलम्।
राजावर्तनिभं तत्र हूंकारं पञ्चरश्मिकम्॥८३॥

ततो निश्चारयेद् देवीं मामकीं सगणां ततः।
चित्तवज्रं तथा ध्यात्वा प्रार्थयेत यथा पुरः॥८४॥

चित्तवज्रधरः श्रीमांस्त्रिवज्राभेद्यभावितः।
अधिष्ठानपदं मेऽद्य करोतु चित्तवज्रिणः॥८४॥

दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः।
अधिष्ठानपदं मेऽद्य कुर्वन्तु चित्तवज्रिणः॥८४॥

चित्तवज्रसमायुक्तं हृदये सम्प्रवेश्य च।
मामकीव्यूहमखिलं चित्ताधिष्ठानमारभेत्॥८७॥

यच्चित्तं समन्तभद्रस्य गुह्यकेन्द्रस्य धीमतः।
ममापि तादृशं चित्तं भवेद् वज्रधरोपमम्॥८८॥

ओं सर्वतथागतचित्तवज्रस्वभावात्मकोऽहम्।

एवं पृथगधिष्ठाय कुलत्रयविभागतः।
पुनः सर्वात्मकं कुर्यान्मन्त्रेणानेन बुद्धिमान्॥८९॥

ओं सर्वतथागतकायवाक्‌चित्तवज्रस्वभावात्मकोऽहम्।

अधिष्ठायैवमात्मानं शशिमण्डलमध्यगम्।
षड्‍भिश्चिह्नैः समायुक्तं चिन्तेत् समयसत्त्वकम्॥९०॥

हृन्मध्यसंस्थितं सूक्ष्मं ज्ञानसत्त्वं विभावयेत्।
समाधिसत्त्वसंज्ञं च हूंकारं तद्‍दृढी न्यसेत्॥९१॥

निष्पाद्यैवं महायोगं त्रिसत्त्वात्मकमात्मवान्।
अनेन विधियोगेन महासाधानमारभेत्॥९२॥

प्राप्य कन्यां विशालाक्षीं रूपयौवनमण्डिताम्।
नीलोत्पलदलश्यामां रजकस्य महात्मनः॥९३॥

सुशिक्षितां समादाय साधके भक्तिवत्सलाम्।
ओंकारं शिरसि ध्यात्वा आःकारं वाक्यथे न्यसेत्॥९४॥

हूंकारं हृदये ध्यात्वा स्वा नाभौ हा द्विपादयोः।
लोचनां मामकीं चापि तथा पाण्डरवासिनीम्॥१५॥

तारां चापि तथा मन्त्री पृथिव्यादिषु सन्न्यसेत्।
रूपवज्रादिका देवीस्तस्यामेव विभावयेत्॥ ९६॥

क्षितिगर्भादिभिस्तासां समापत्तिं विभावयेत्।
दक्षिणे वज्रवेतालीं भुजे वामेऽपराजिताम्॥९७॥

भृकुटिं च मुखे तस्या एकजटां च गुह्यके।
भूयो दक्षिणपार्श्वस्थां विश्ववज्रीं तथागतीम्॥९८॥

विश्वरत्नां च वामे तु मुद्रायाः प्रविभावयेत्।
पुर्नदक्षिणजानुस्थां विश्वपद्मां तथागतीम्॥९९॥

विश्वकर्मां च वामे तु मूर्ध्नि गगनवज्रिणीम्।
पादान्तद्वयविन्यस्तां धरणीन्धरदेवतीम्॥१००॥

एवं संस्कृत्य तां योगी वज्रपद्मथारभेत्।
मन्त्री हूंकारजं वज्रं ध्यायाद् वै पञ्चसूचिकम्॥१०१॥

मध्यसूचौ तथा तस्य प्रणवं व विभावयेत्।
तथैवाष्टदलं पद्मम् आःकारेण तु भावयेत्।
पञ्चरश्मिसमाकीर्णं ततः साधनमारभेत्॥१०२॥

ओं सर्वतथागतानुरागणवज्रस्वभावात्मकोऽहम्।

हूंकारगीतेन तु चालयेत
समुद्‍वहन् वज्रधरस्य गर्वम्।
स्वबोधिचित्तोदयकाल एव
फट्कारमन्त्रं समुदीरयेत् सः॥१०३॥

विसर्गान्ते पुनर्मन्त्री बोधिचित्तेन पूजयेत्।
दशदिक्संस्थितान् बुद्धान् मन्त्रमेतदुदीरयेत्॥१०४॥

ओं सर्वतथागतपूजाज्रस्वभावात्मकोऽहम्।
स्वमन्त्राक्षरनिष्पन्नं त्रिवज्राधिष्ठितस्वकम्।
पद्ममध्ये तु निष्पाद्य द्वेषवज्रो भवेत् पुनः॥१०५॥

वज्रधृग्-मन्त्रनिष्पन्नं पश्येदक्षोभ्यवज्रिणम्।
जटामुकुटधरं नाथम् अक्षोभ्यकृतशेखरम्॥१०६॥

नृपावर्तकसङ्काशं कृष्णरक्तसिताननम्।
सर्वालङ्कारसम्पूर्णं षड्भुजं तु विभावयेत्॥१०७॥

वज्रं चक्रं तथा पद्मं सव्यहस्तेषु धारयेत्।
घण्टां चिन्तामणिं खड्गं तस्य वामेषु भावयेत्॥१०८॥

निष्क्रम्य हृदयादेष व्यवलोक्य दिशो दश।
बुद्धर्द्धिमखिलां कृत्वा धर्मचक्रं प्रवर्त्य च॥१०९॥

संशोध्य निखिलान् सत्त्वान् द्वेषवज्रपदे स्थितान्।
आगत्य वज्रनाथस्य पुरतोऽभिनिषीदति॥११०॥

अनुप्रवेश्य तन्मन्त्री हृद्यात्मानं विभावयेत्।
पूर्वरूपं परावृत्त्य द्वेषवज्रपदे स्थितः॥१११॥

इन्द्रनीलप्रभं दीप्तं सूर्यमण्डलमध्यगम्।
स्वमुद्रालिङ्गितं वीरं सर्वालङ्कारभूषितम्॥११२॥

रौद्रशान्तमहारागं मुखत्रयविराजितम्।
द्वेषवज्रसमाधिस्थः प्रोत्सृजेत् सर्वमण्डलम्॥११३॥

जिनजिग्-मन्त्रनिष्पन्नं सृजेद् वैरोचनं विभुम्।
शरच्चन्द्रांशुसङ्काशं जटामुकुटमण्डितम्॥११४॥

सितरक्तकृष्णवदनं षड्भुजं शान्तरूपिणम्।
चक्रवज्रसिताम्भोजं दक्षिणेषु विचिन्तयेत्॥११५॥

घण्टां चिन्तामणिं खड्गं वामेष्वस्य विभावयेत्।
हृदयात् तथैव निर्गत्य मोहचर्यास्थिताः प्रजाः॥११६॥

संशोध्य पुनरागत्य पुनश्चके निषीदति।
रत्नधृग्-मन्त्रनिष्पन्नं रत्नकेतुं सृजेद् बुधः॥११७॥

जटाजूटधरं सौम्यमक्षोभ्यकृतशेखरम्।
पीतकृष्णसितास्यं च षड्भुजं चापि चिन्तयेत्॥११८॥

तस्य चिन्तामणिं वज्रं चक्रं सव्येषु भावयेत्।
घण्टां च पीतकमलं खड्गं वामेषु भावयेत्॥११९॥

हृदयात् तथैव निर्गत्य अहङ्कारपदे स्थितान्।
संशोध्य दक्षिणे भागे रत्नमध्ये निषीदति॥१२०॥

आरोलिग्-मन्त्रनिष्पन्नं सृजेदमितवज्रिणम्।
पद्मरागप्रभं सौम्यमक्षोभ्यकृतशेखरम्॥१२१॥

जटामुकुटधरं नाथं रक्तकृष्णसिताननम्।
शृङ्गाररससंयुक्तं षड्भुजं तु विभावयेत्॥१२२॥

पद्मनालं गृहीत्वा तु वामेन सह घण्टया।
हृत्प्रदेशस्थितं पद्मं दक्षिणेन विकाशयेत्॥१२३॥

सव्ययोर्वज्रचक्रे तु वामयोः रत्नखड्गकौ।
पूर्ववद् रागिणः शोध्य पृष्ठतोऽब्जे निषीदती॥१२४॥

अमोघवज्रिणं मन्त्री प्रज्ञाधृग्-मन्त्रनिर्मितम्।
हरिताभं सृजेन्नाथं जटामुकुटमण्डितम्॥१२५॥

हरितकृष्णसितास्यं च षड्भुजं रश्मिभासुरम्।
खड्गं च विश्ववज्रं च चक्रं सव्येषु भावयेत्॥१२६॥

घण्टामपसव्यहस्तेषु हरितपद्मं मणिं तथा।
अभूतवचसः सत्त्वान् विशोध्य पुनरागतः॥१२७॥

उत्तरस्यां दिशि तथा विश्ववज्रे निषीदति।
द्वेषो मोहस्तथा रागश्चिन्तामणिः समयस्तथा॥१२८॥

कुला ह्येते तु वै पञ्च काममोक्षप्रसाधकाः।
मन्त्रान्मोहरतेर्जातां सृजेद् देवीं तु लोचनाम्॥१२९॥

श्वेतां शान्तरसोपेतां मूर्ध्नि वैरोचनाङ्किताम्।
सितरक्तकृष्णवदनां षड्भुजां तु विभावयेत्॥१३०॥

सव्ये चक्रं व वज्रं च तथैव सितमुत्पलम्।
वामे घण्टां तथा रत्नं खड्गं चापि विभावयेत्॥१३९॥

हृदयात् तु विनिर्गत्य व्यवलोक्य दिशो दश।
ग्रहव्याध्यातुरे लोके शान्तिं कृत्वा महाकृपा॥१३२॥

आगत्य चक्रमध्ये तु पूर्वकोणे निषीदति।
मन्त्राद् द्वेषरतेर्जाता सृजेद् देवीं तु मामकीम्।

नीलोत्पलदलश्यामां चारुवक्त्रां मनोरमाम्।
कृष्णरक्तसितास्यां च अक्षोभ्यकृतशेखराम्॥१३४॥

सव्येषु वज्रं चक्रं च नीलरक्तोत्पलं तथा।
घण्टां रत्नं च खड्गं च वाहस्तेषु धारयेत्॥१३५॥

महाविघ्नभयार्तानां रक्षां कृत्वा महाकृपा।
निष्क्रम्य पुनरागत्य नैरृत्यां सा निषीदति॥१३६॥

मन्त्राद् रागरतेर्जाता सृजेत् पाण्डरवासिनीम्।
रक्तकृस्णसितास्यां वै पद्मरागमणिप्रभाम्॥१३७॥

सामिताभजटाजूटां षड्भुजां तु विभावयेत्।
गृहीत्वोल्पलनालं तु वामेन सह घण्टया॥१३८॥

उत्पलं हृत्प्रदेशस्थं रक्त सव्येन बोधयेत्।
वज्रं चक्रं च सव्याभ्यां मणिं खड्‍गं च वामतः॥१३९॥

धारयन्ती विनिर्गत्य शान्तिं कृत्वा महातुरे।
आगत्य पद्ममध्ये वै वायुकोणे निषीदति॥१४०॥

मन्त्राद् वज्ररतेर्जातां सृजेत् तारां मनोरमाम्।
हरितकृष्णसितास्यां च दूर्वापत्रसमप्रभाम्॥१४१॥

अमोघेन कृतोस्णीषां षड्भुजां तु विभावयेत्।
विश्ववज्रं च चक्रं च सव्यतोऽसितमुत्पलम्॥१४२॥

वामेषु विन्यसेद् घण्टां रत्नं खड्गं तथा व्रती।
सर्वसत्त्वान् वशीकृत्य विश्ववज्रासना पुनः॥१४३॥

निर्गताऽसौ समागम्य शिवस्थाने निषीदति।
द्वितीये तु पुटे योगी रूपवज्रादिकं सृजेत्॥१४४॥

अग्निकोणे सृजेद् देवीं रूपवज्रां मनोरमाम्।
त्रिमुखां षड्भुजां श्वेतां श्रीवैरोचनमौलिकाम्॥१४५॥

गृहीतदर्पणां द्वाभ्यां शेषं मोहरतेरिव।
नैरृत्यां विन्यसेद् देवीं शब्दवज्रां तु षड्भुजाम्॥१४६॥

पीतवर्णां त्रिवक्त्रां च रत्नसम्भवमौलिकाम्।
वीणाव्यग्रद्विहस्तां च शेषं मामकीवद् भवेत्॥१४७॥

वायुस्थाने न्यसेद् देवीं गन्धवज्रां तु षड्भुजाम्।
रक्तवर्णां त्रिवक्त्रां च अमिताभजटाधराम्॥१४८॥

शङ्खव्यग्रद्विहस्तां च शेषैः पाण्डरवासिनीम्।
ऐशान्यां विन्यसेद् देवीं रसवज्रां तु षड्भुजाम्॥१४९॥

त्रिमुखां श्यामवर्णा च दन्दुभिस्वरमौलिकाम्।
हस्तस्थरसभाण्डां च शेषैस्तारासमाकृतिम्॥१५०॥

वज्रसत्त्वं समालिङ्ग्य चक्रमध्ये व्यवस्थिताम्।
चिन्तयेत् स्पर्शवज्रां तु पतितुल्यां मुखादिभिः॥१५१॥

तृतीये तु पुटे पूर्वे पट्टिकायां सृजेद् व्रती।
मैं-थ्लीं बीजविनिष्पनौ मैत्रेयक्षितिगर्भकौ॥१५२॥

प्रणवेन समुत्पन्नौ वज्रपाणिखगर्भकौ।
पट्टिकायां सृजेन्मन्त्रीं दक्षिणायां यथाक्रमम्॥१५३॥

ओ-हूंकारविनिष्पन्नं लोकेशं मञ्चुघोषकम्।
पश्चिमायां सृजेदेतावुत्तरस्यां पुनः सृजेत्॥१५४॥

ओं-सं-बीजविनिष्पन्नं सविष्कम्भिसमन्तकम्।
एते स्वनाथमुकुटा वर्नाद्यैस्तत्समाः पुनः॥१५५॥

भुजैः प्रहरणैश्चापि स्वस्वाधिपतिभिः समाः।
मैत्रेयः केवलं सव्ये नागपुष्पं बिभर्ति च॥१५६॥

संशोध्यायतनान्येते दिव्यनेत्रादिदायकाः।
सत्त्वानां पुनरागत्य निषीदन्त्यासनेषु वै॥१५७॥

यमान्तकृन्मन्त्रभवं कृष्णरक्तसिताननम्।
यमान्तकं सृजेन्मन्त्री सुलिङ्गगहनाकुलम्॥१५८॥

दण्डं चक्रं तथा वज्रं सव्यहस्तेषु धारयन्।
हृद्देशे तर्जनीपाशं घण्टा परशुं च वामतः॥१५९॥

विघ्नान् सन्त्रासयन् घोरान् इन्द्रादीन् सगणानपि।
पद्मसूर्यं समाक्रम्य पूर्वस्यां दिशि तिष्ठति॥१६०॥

प्रज्ञान्तकृन्मन्त्रभवं रत्नसम्भवमौलिकम्।
अपराजितं सृजेन्मन्त्री श्वेताभमहिभूषणम्॥१६१॥

सितकृष्णरक्तवदनं बृहत्कुक्षिं त्रिलोचनम्।
दंष्ट्राकरालविकटं स्फुलिङ्गगहनाकुलम्॥१६२॥

वज्रं दण्डं तथा खड्गं सव्यहस्तेषु धारयन्।
हृद्देशे तर्जनीपाशं घण्टां परशुं च वामतः॥१६३॥

विघ्नान् सन्त्रासयन् घोरान् प्रत्यालीढपदेन तु।
पद्मसूर्यं समाक्रम्य याम्यां दिशि स तिष्ठति॥१६४॥

यमान्तकृन्मन्त्रभवं हयग्रीवं सृजेद् व्रती।
पद्मरागनिभं त्र्यक्षं रक्तकृष्णसिताननम्॥१६५॥

करालास्यं बृहत्कुक्षिममिताभकिरीटिनम्।
प्रत्यालीढपदं वीरं स्फुलिङ्गगहनाकुलम्॥१६६॥

पद्मं खङ्गं च मुसलं सव्यहस्तेषु भावयेत्।
घण्टां सगर्वपरशुं पाशं सव्येतरेषु च॥१६७॥

पद्मसूर्यं समारुह्य व्यवलोक्य दिशो दश।
विध्नसन्त्रासनं कृत्वा वारुण्यां दिशि तिष्ठति॥१६८॥

विध्नान्तकृन्मन्त्रभवं दुन्दुभिस्वरमौलिकम्।
नीलोत्पलदलश्यामं सृजेदमृतकुण्डलिम्॥१६९॥

नीलरक्तसितास्यं च करालमुखविभ्रमम्।
बृहत्कुक्षिं त्रिनयनं रक्तज्वालाविभूषितम्॥१७०॥

विश्ववज्रं तथा वक्रं मुसलं चापि सव्यतः।
धारयंस्तर्जनीपाशं घण्टां परशुं च वामतः॥१७१॥

विध्नसन्त्रासनं कृत्वा प्रत्यालीढपदेन तु।
पद्मसूर्यं समारुह्य कौबेर्यां दिशि तिष्ठति॥१७२॥

स्वमन्त्राक्षरनिष्पन्नमचलं च सृजेत् पुनः।
इन्द्रनीलप्रभं त्र्यक्षं श्रीवैरोचनमौलिकम्॥१७३॥

दंष्ट्राकरालवदनं कृष्णरक्तसिताननम्।
अट्टहासरवं घोरं बृहत्कुक्षिं महाबलम्॥१७४॥

खङ्कं वज्रं तथा चक्रं सव्यहस्तेषु धारयेत्।
तर्जनीं चापि परशुं पाशं वामेषु पाणिषु॥१७८॥

विघ्नान् ज्वरादिकान् हत्वा प्रत्यालीढपदेन तु।
पद्मसूर्यं समारुह्य वह्निस्थाने स तिष्ठति॥१७६॥

स्वमन्त्राक्षरनिष्पन्नं टक्किराजं सृजेद् व्रती।
इन्द्रनीलप्रभं वीरं रत्नसम्भमौलिकम्॥१७७॥

कृष्णरक्तसितास्यं च बृहत्कुक्षिं भयानकम्।
दधानं वज्रं हूंकारमुद्रां पणिद्वयेन तु॥१७८॥

वज्रं खड्गं च सव्याभ्यां वामतः पाशमङ्‍कुशम्।
प्रत्यालीढेन सूर्यस्थो नैरृत्यां विध्ननाशकः॥१७९॥

स्वमन्त्राक्षरनिस्पन्नं नीलद्ण्डं सृजेद् व्रती।
नीलमेघनिभं त्र्यक्षममिताभकिरीटिनम्॥१८०॥

नीलरक्तसितास्यं च बृहत्कुक्षिं भयावहम्।
दण्डं खङ्गं तथा सव्यहस्तेषु धारयन्॥१८१॥

हृदेशे तर्जनीपाशं पद्मं परशुं च वामतः।
हत्वेत्युपद्रवभयं प्रत्यालीढपदे स्थितः॥१८२॥

पद्मसूर्यं समारुह्य वायव्यां दिशि तिष्ठति।
स्वमन्त्राक्षरनिष्पन्नं दुन्दुभिस्वरमौलिकम्॥१८३॥

महाबलं सृजेन्मन्त्री नीलोत्पलदलप्रभम्।
कृण्णरक्तसितास्यं च त्र्यक्षं भैरवनादितम्॥१८४॥

नागभूषितसर्वाङ्गं बृहत्कुक्षिं भयानकम्।
दण्डं खड्गं तथा चक्रं सव्यहस्तेषु धारयन्॥१८५॥

हृद्देशे तर्जनीपाशं पद्मं परशुं च वामतः।
डाकिन्यादिभयध्वंसी प्रत्यालीढपदेन सः॥१८६॥

पद्मसूर्यं समारुह्य ऐशान्यां दिशि तिष्ठति।
स्वमन्त्राक्षरनिष्पन्नं सृजेदुष्णीषचक्रिणम्॥१८७॥

आकाशश्यामकं घोरमक्षोभ्यकृतशेखरम्।
कृष्णरक्तसितास्यं च त्र्यक्षं लम्बोदरं विभुम्॥१८८॥

वामदक्षिणहस्ताभ्यामुष्णीषं मूर्ध्निं धारयन्।
वज्रं पद्मं च सव्याभ्यां तर्जनीखड्गमन्यतः॥१८९॥

सर्वोपद्रवविध्वंसी प्रत्यालीढपदोद्यतः।
पद्मसूर्यं समारुह्य ब्रह्मस्थाने स तिष्ठति॥१९०॥

स्वमन्त्राक्षरनिष्पन्नं सुम्भराजं सृजेद् व्रती।
आकाशसुप्रभं त्र्यक्षं कृष्नरक्तसिताननम्॥१९१॥

बृहत्कुक्षिं करालास्यमक्षोभ्यकृतशेखरम्।
वज्रं चक्रं तथा रत्नं सव्यहस्तेषु धारयन्॥१९२॥

हृद्देशे तर्जनीपाशं पद्मखड्गं च वामतः।
कालकूटादिकं सर्वविषं स्थावरजङ्गमम्॥१९३॥

हत्वा विनायकान् सर्वान् शान्तिं कृत्वा तु सर्वतः।
आज्ञां सम्पाद्य निखिलां प्रत्यालीढपदे स्थितः।
पद्मसूर्यं समारुह्य भुवोऽधस्तात् स तिष्ठति॥१९४॥

उत्सृज्य मण्डलं सर्वं द्वात्रिंशद्‍देवतामयम्।
चक्रमध्यस्थितो भूत्वा सूक्ष्मयोगमथारभेत्॥१९४॥

नासग्रे सर्षपं चिन्तेत् सर्षपे सचराचरम्।
भावयेज्ज्ञानपदं रम्यं रहस्यं ज्ञानकल्पितम्॥१९६॥

स्थिरं तु स्फारयेद् रत्नमस्थिरं नैव स्फारयेत्।
स्फारयेत् प्रवरैर्मेघैबुद्धज्वालासमप्रभैः॥१९७॥

भिक्षाशिना न जप्तप्यं न च भैक्षरतो भवेत्।
जपेन्मन्त्रमभिन्नाङ्गं सर्वकामोपभोगकृत्॥१९८॥

उच्चार्य संस्फरेद् वज्रं समाप्तौ संहारमादिशेत्।
इदं तत् सर्वबुद्धानां जपोक्तं परमार्थतः॥इति। १९९॥

सूक्ष्मयोगजपं चापि द्विधा कृत्वा यथारुचि।
आत्मानं च पुनर्मन्त्री तथतायां प्रवेशयेत्॥२००॥

मण्डलस्थाश्चतुर्देव्यो न पश्यन्त्यस्ततः पतिम्।
गाथाचतुष्टयेनेत्थं बोधयन्ति महासुखम्॥२०१॥

त्वं वज्रसत्त्व भुवनेश्वर सत्त्वधातो
त्रायाहि मां रतिनोज्ञमहार्थकामैः।
कामाहि मां जनक सत्त्वमहाग्रबन्धो
यदीच्छसे जीवतु मह्य नाथ॥२०२॥

त्वं वज्रकाय बहुसत्त्वप्रियाग्रचक्र
बुद्धार्थबोधिपरमार्थहितानुदर्शीं।
रागेण रागसमयां मम कामयस्व
यदीच्छसे जीवतु मह्य नाथ॥२०३॥

त्वं वज्रवाच सकलस्य हितानुकम्पी
लोकार्थकार्यकरणे सद सम्प्रवृत्तः।
कामाहि मां सुगतचर्य समन्तभद्र
यदीच्छसे जीवतु मह्य नाथ॥२०४॥

त्वं वज्रकाम समयाग्र महाहितार्थ
संबुद्धवंशतिलकः समतानुकम्पी।
कामाहि माम् गुणनिधिं बहुरत्नभूतां
यदीच्छसे जीवतु मह्य नाथ॥२०५॥

एवमुत्थापितं नाथं सद्भूतगुणकीर्तनैः।
अक्षोभ्यादिस्वभावेन संस्तुवन्ति तथागताः॥२०६॥

अक्षोभ्यवज्र महाज्ञान वज्रधातु महाबुध।
त्रिमण्डल त्रिवज्राग्र भाष गुह्यं नमोऽस्तु ते॥२०७॥

वैरोचन महाशुद्ध वज्रशान्त महारते।
प्रकृतिप्रभास्वरान् धर्मान् देश वज्र नमोऽस्तु ते॥२०८॥

रत्नराज सुगम्भीर खवज्राकाशनिर्मल।
स्वभावशुद्ध निर्लेप भाष गुह्यं नमोऽस्तु ते॥२०९॥

वज्रामितमहाराज निर्विकल्प खवज्रिण।
राजपारमिताप्राप्त भाष वज्र नमोऽस्तु ते॥२१०॥

अमोघवज्र संबुद्ध सर्वाशापरिपूरक।
शुद्धस्वभावसम्भूत वज्रसत्त्व नमोऽस्तु ते॥२११॥

नुत्वाथ बुद्धैरनुराग्य चक्रम्
प्रकाश्य गुह्यं परमं यथायथम्।
स्वकायचक्रे विनिवेश्य चक्रम्
महासुखस्तिष्ठति नाथ एकः॥२१२॥

एवं चतुर्योगकरस्तु योगी
हूंकारगर्भं प्रविचिन्त्य लोकम्।
दृष्ट्वा जपत् तद्‍भववज्रसत्त्वं
व्युत्थाय तद्धीर्विचरेद् यथावद्॥इति।२१३॥

समाधिमालम्बयन् मन्त्री शुष्कमूर्तिर्यदा भवेत्।
विचिन्तयेदिमं योगं कायवाक्‌चित्तप्रीणनम्॥२१४॥

वितस्तिमात्रमाक्रम्य मूर्ध्नि मण्डलकल्पना।
ओंकारं तत्रगं ध्वात्वा पञ्चामृतनिपातनम्॥२१५॥

अनेन वज्रयोगेन तेजस्वी भवति क्षणात्।
कायवाक्‌चित्तसौस्थित्यं लभते नात्र संशयः॥२१६॥

एवमभ्यासतो मन्त्री शोधयेद् बोधयेत् यथा।
हृत्कण्ठं चैव संशोध्यं प्रीणयेच्च तथागतान्॥२१७॥

हूंकारेण च संशोध्य आःकारेण तु बोधयेत्।
ज्वालयेत् प्रणवाक्रान्तम् इयमाहारशोधना॥२१८॥

कण्ठे शङ्खं विचिन्त्यादौ तस्मिन् ह्रीःकारसम्भवम्।
पद्ममष्टदलं चिन्तेद् हूंकारं कर्णिकोपरि॥२१९॥

हूंकारजं महावज्रं पञ्चशूकं विभावयेत्।
मध्यशूकाग्रे सञ्चिन्तेद् ओंकारं कण्ठशोधनम्॥२२०॥

मेघनादं हृदि ध्यात्वा त्रिशिखाग्निं ततः स्फरेत्।
तत्राहारं च जुहुयाद् होममाध्यात्मिकं त्विदम्॥२२१॥

वायव्यं दीपयेद् अग्निं वारुणं पचते तु सः।
माहेन्द्रमण्डलं स्थानं यत्र सञ्चरते हविः॥२२२॥

अन्नं पानं च यत् किञ्चित् तत् सर्वं वारुणेन तु।
अशनं मुखपद्मेन हृत्पद्यं सम्प्रवेशयेत्॥२२३॥

नाभिपद्मगतं पश्चात् सम्पुटीकरणयोगतः।
गुदपद्माद् विनिर्गत्य भश्मान्तं च विनिर्दिशेत्॥२२४॥

न जरा नापि रोगश्च न मृत्युर्न विषादिकम्।
नाकालमरणं तस्य सर्वोपद्रवनाशनम्॥इति। २२५॥

श्रीवज्रमालावरमन्थनेन
गूढं समाजाम्बुनिधिं मथित्वा।
यत् सादनाङ्गामृतमापि तेन
लोकः समस्तोऽमरतामुपैतु॥२२६॥

॥ पिण्डीक्रमसाधनं समाप्तम्॥
। कृतिराचार्यश्रीनागार्जुनपादानाम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project