Digital Sanskrit Buddhist Canon

स्वाधिष्ठानक्रमः तृतीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Svādhiṣṭhānakramaḥ tṛtīyaḥ

[३]

स्वाधिष्ठानक्रमः तृतीयः

नमः श्रीवज्रगुरवे

प्रणिपत्य वरं वज्रं वज्रसत्त्वादिनायकम्।
स्वाधिष्ठानक्रमश्चैव वक्ष्यते कृपया मया॥१॥

प्रथमतरं तावद् उत्पत्तिक्रमानुसारेण प्राप्ताभिषेकश्चतुर्विधतन्त्राभिप्रायज्ञः प्राप्तकायवाक्‌चित्तविवेकः श्रुतिधरः सत्यद्वयाधिमोक्षो वज्रगुरुं सम्यग् आराध्य, ततः प्रसन्नाय गुरवे महतीं गणपूजां कृत्वा षोडशाब्दिकां मुद्रां महावज्रगुरवे दत्वा, तदनन्तरं गुरुवक्त्राद् आप्तस्वाधिष्ठानक्रमोपदेशः, ततो मालोदकसम्बुद्धवज्रघण्टादानदर्पणनामाचार्यानुज्ञा इत्येभिः सह गुह्याभिषेकं लब्ध्वा एभिः शास्तारं गुरुं स्तूयात्‍ः।

शौषीर्यं नास्ति ते काये मांसास्थिरुधिरं न च।
इन्द्रायुधमिवाकाशे कायं दर्शितवानसि॥२॥

नामया नाशुचिः काये क्षुत्तृष्णासम्भवो न च।
त्वया लोकानुवृत्त्यर्थं दर्शिता लौकिकी क्रिया॥३॥

दकचन्द्रवदग्राह्य सर्वधर्मेष्वनिश्रित।
अनहङ्कार निर्मोह निरालम्ब नमोऽस्तु ते॥४॥

सदा समाहितश्चासि गच्छंस्तिष्ठन् स्वपंस्तथा।
ईर्ष्यापथेषु सर्वेषु निरालम्ब नमोऽस्तु ते॥५॥

विकुर्वसि महाऋद्ध्या मायोपमसमाधिना।
निर्नानात्वं समापन्न निरालम्ब नमोस्तु ते॥६॥

एवं वज्रगुरं सद्भूतगुणेन संस्तुत्य श्रवणार्थम् अध्येषयेद् अनया गाथयाः

सर्वज्ञ ज्ञानसन्दोह भवचक्रविशोधक।
अद्य व्याख्यानरत्नेन प्रसादं कुरु मे विभो॥७॥

त्वत्पादपङ्कजं मुक्त्वा नास्त्यन्यच्छरणं विभो।
तस्मात् प्रसीद बुद्धाग्र जगद्‍वीर महामुने॥८॥

एवं श्रुत्वा तु तद् वाक्यम् अध्येषणविशारदम्।
शिष्यकारुण्यमुत्पाद्य स्वाधिष्ठानमथारभेत्॥९॥

स्वाधिष्ठानक्रमो नाम संवृतेः सत्यदर्शनम्।
गुरुपादप्रसादेन लभ्यते तच्च नान्यथा॥१०॥

स्वाधिष्ठानक्रमो येन साधकेन न लभ्यते।
सूत्रान्ततन्त्रकल्पेषु वृथा तस्य परिश्रमः॥११॥

स्वाधिष्ठानक्रमं लब्ध्वा सर्वबुद्धामयः प्रभुः।
जन्मनीहैव बुद्धत्वं निःसन्देहं प्रपद्यते॥१२॥

स्वाधिष्ठानसमाधिश्च प्रभास्वरपदं तथा।
सत्यद्वयमिति ख्यातं फलहेतुविशेषतः॥१३॥

स्वाधिष्ठानानुपूर्वेण प्राप्यते हि प्रभास्वरम्।
तस्माद् वज्रगुरुः पूर्वं स्वाधिष्ठानं प्रदर्शयेत्॥१४॥

अस्वतन्त्रं जगत् सर्वं स्वतन्त्रं नैव जायते।
हेतुः प्रभास्वरं तस्य सर्वशून्यं प्रभास्वरम्॥१५॥

येन चित्तेन बालाश्च संसारे बन्धनं गताः।
योगिनस्तेन चित्तेन सुगतानां गतिं गताः॥१६॥

न चात्रोत्पद्यते कश्चिन् मरणं नापि कस्यचित्।
संसार एव ज्ञातव्यश्चित्तरूपाकृतिष्ठितः॥१७॥

वायुयोगाद् विना चित्तस्वरूपं नैव गृह्यते।
चित्तात् प्रकृतिहेतुत्वात् कर्मजन्मसमुद्भवः॥१८॥

तदेव वायुसंयुक्तं विज्ञानत्रितयं पुनः।
जायते योगिनां मूर्त्तिर्मायादेहस्तदुच्यते॥१९॥

तस्मादेव जगत् सर्वं मायोपम इहोच्यते।
मायोपमसमाधिष्ठः सर्वं पश्यति तादृशम्॥२०॥

रूपं च वेदना चैव संज्ञा संस्कार एव च।
विज्ञानं पञ्चमं चैव चत्वारो धातवस्तथा॥२१॥

अक्षाणि विषयाश्चैव ज्ञानपञ्चकमेव च।
अध्यात्मबाह्यतो भिन्नं सर्वं मायैव नान्यथा॥२२॥

दर्पणप्रतिबिम्बेन मायादेहं च लक्षयेत्।
वर्णान् इन्द्रायुधेनेव व्यापित्वमुदकेन्दुना॥२३॥

दर्पणे विमले व्यक्तं दृश्यते प्रतिबिम्बवत्।
भावाभावाविनिर्मुक्तो वज्रसत्त्वः सुचित्रितः॥२४॥

सर्वाकारवरोपेतो असेचनकविग्रहः।
दर्शयेत् तं सुशिष्याय स्वाधिष्ठानं तदुच्यते॥२५॥

इयमेव हि संलक्ष्या माया निर्दोषलक्षणा।
मायैव संवृतेः सत्यं कायः साम्भोगिकश्च सः॥२६॥

सैव गन्धर्वसत्त्वः स्याद् वज्रकायः स एव हि।
वज्रसत्त्वः स्वयं तस्मात् स्वस्य पूजां प्रवर्तयेत्॥२७॥

आत्मा वै सर्वबुद्धत्वं सर्वसौरित्वमेव च।
तस्मात् सर्वप्रयत्नेन ह्यात्मानं पूजयेत् सदा॥२८॥

मन्त्रमुद्राप्रयोगं च मण्डलादिविकल्पनम्।
बलिहोमक्रिर्यां सर्वां कुर्यान् मायोपमां सदा॥२९॥

शान्तिकं पौष्टिकं चापि तथा वश्याभिचारिकम्।
आकर्षणादि यत् सर्वं कुर्याद् इन्द्रायुधोपमम्॥३०॥

शृङ्गाराद्युपभोगं च गीतवाद्यादिसेवनम्।
कलासु च प्रवृत्तिं च कुर्याद् उदकचन्द्रवत्॥३१॥

रूपे शब्दे तथा गन्धे रसे स्प्रष्टव्य एव च।
चक्षुरादिप्रवृत्तिं च मायावद् उपलक्षयेत्॥३२॥

बहुनाऽत्र किमुक्तेन वज्रयाने तु तत्त्वतः।
यद् यद् आलम्बयेद् योगी तद् तद् मायैव कल्पयेत्॥३३॥

दर्पणे प्रतिबिम्बं च स्वप्नं मायां च बुद्‍बुदम्।
इन्द्रजालं च सादृश्यं यः पश्येद् स प्रभुः स्मृतः॥३४॥

दृश्यते स्पृश्यते चैव यथा माया जगत् सदा।
न चोपलम्भः संवृत्या मायावत् परिकीर्तितः॥इति॥३५॥

यद् यद् इन्द्रियमार्गत्वं माया तत्तत् स्वभावतः।
असमाहितयोगेन सर्वं बुद्धमयं वहेत्॥३६॥

सर्वत्र सर्वतः सर्वं सर्वथा सर्वदा स्वयम्।
सर्वबुद्धमयं सिद्धं स्वमात्मानं स पश्यति॥३७॥

गच्छंस्तिष्ठन् महासत्त्वः सर्वसौखमयः प्रभुः।
विहाराहारपानादीनाकाशाल्लभते क्षणात्॥३८॥

भवेयुर्भवच्छेत्तारः शास्तारः प्रवरे जने।
पूज्यन्ते ससुरैः सर्वैः प्रणिपत्य मुहुर्मुहुः॥३९॥

यथा शास्तरि सम्बद्धे लोकयात्राहितैषिणि।
एवमेव महायोगी विश्वज्ञानार्थसङ्ग्रहाद्॥४०॥

नास्ति किञ्चिद् असाध्यं वै वज्रसत्त्वेन लक्षितम्।
स्वयं प्रत्युसिध्यन्ति सर्वमुद्रा महासुखाः॥४१॥

क्लेशाः कर्मपथा देहः कर्तारश्च फलं च वै।
मरीचिस्वप्नसङ्काशा गन्धर्वनगरोपमाः॥४२॥

इमं समाधिमज्ञात्वा संवृतावुपलम्भतः।
जायन्ते विविधा रोगास्तेषां माया भिषग्जितम्॥४३॥

स्वाधिष्ठानोपदेशस्तु येन नासाद्यते गुरोः।
शाश्वतोच्छेदमालम्ब्य स वैवर्ती भवेत् पुनः॥४४॥

सर्वपूजां परित्यज्य गुरुपूजां समारभेत्।
तेन तुष्टेन तल्लभ्यं सर्वज्ञज्ञानमुत्तमम्॥४५॥

किं तेन न कृतं पुण्यं किं वा नोपासितं तपः।
अनुत्तरकृदाचार्यवज्रसत्त्वप्रपूजनात्॥४६॥

यद् यदिष्टतरं किञ्चिद् विशिष्टतरमेव च।
तत् तद्धि गुरवे देयं तदेवाक्षयमिच्छता॥४७॥

आचार्यो हरते पापम् आचार्यो हरते भयम्।
आचार्यस्तारयेत् पारं दुःखार्णवमहाभयात्॥४८॥

योऽहङ्कार[म]-लालिप्तः सद्भूतक्रमधर्षकः।
सावज्ञस्तत्त्वधर्मेषु तस्य तत्त्वं न दर्शयेत्॥४९॥

सत्यवाग्गुरुभक्तश्च विविक्तश्चैकसन्धिकः।
समयाचाररक्षी च क्रमं तस्य प्रदर्शयेत्॥५०॥

॥ स्वाधिष्ठानक्रमस्तृतीयः समाप्तः॥
कृतिरियमाचार्यनागार्जुनपादानाम्। ग्रन्थप्रमाणमस्य षट्पञ्चाशत्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project