Digital Sanskrit Buddhist Canon

अनुत्तरसन्धिरित्यपरनामा सर्वशुद्धिविशुद्धिक्रमः द्वितीयः

Technical Details
[२]

अनुत्तरसन्धिरित्यपरनामा
सर्वशुद्धिविशुद्धिक्रमः द्वितीयः

नमः श्रीवज्रसत्त्वाय

नमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु नमो नमः।
एवं स्तुते नमस्तेऽस्तु कः स्तोता कश्च संस्तुतः॥१॥

यथा जलं जले न्यस्तं घृतं चैव यथा घृते।
स्वकीयं च स्वयं पश्येज् ज्ञानं यत्रेह वन्दना॥२॥

किन्तु सर्वज्ञगतिभिर्विना तन्नोपलभ्यते।
तमःपटलसञ्छन्नं प्रसादाद् द्वीपमाप्नुयात्॥३॥

शून्यं च अतिशून्यं च महाशुन्यं तृतीयकम्।
चतुर्थं सर्वशून्यं च फलहेतुप्रभेदतः॥४॥

प्रज्ञोपायसमायोगान्निष्पन्नमुपलब्धकम्।
उपलब्धाच्च निष्पन्नात् सर्वशून्यं प्रभास्वरम्॥५॥

हेतुक्रमविशुद्धं तु विज्ञानत्रययोगतः।
शून्यत्रयसमायोगाल्लभ्यतेऽनुत्तरं पदम्॥६॥

आलोकश्शून्यं प्रज्ञा च चित्तं च परतन्त्रकम्।
तस्येदानीं प्रवक्ष्यामि प्रकृतिस्फरणं स्फुटम्॥७॥

विरागो मध्यमश्चैव अधिमात्रस्तथैव च।
मनोगतागतं चैव शोकादितृतीयं तथा॥८॥

सौम्यं विकम्पो भीतश्च मध्यभीतोऽतिभीतकः।
तृष्णा मध्यतृष्णा चातितृस्णोपादानकं तथा॥९॥

निःशुभं क्षुत्तृषा चैव वेदना समवेदना।
अतिवेदना क्षणश्चैव वेत्तिविद्धारणापदम्॥१०॥

प्रत्यवेक्षणं लज्जा च कारुण्यं स्नेहतस्त्रयम्।
चकितं संशयश्चैव मात्सर्यं चेति कीर्तिताः॥११॥

त्रयस्त्रिंशत् प्रकृतयः स्वसंवेद्याः शरीरिणाम्।
संवृतिस्फुटरुपेण निशासंज्ञा प्रदर्शिताः॥१२॥

स्त्रीसंज्ञा तथा प्रोक्ता मन्दाकारा तथैव च।
वामसंज्ञा पुनश्चैव चन्द्रमण्डलपङ्कजम्॥१३॥

दृढीकरणहेतुत्वात् सबिन्दुः प्रथमः स्वरः।
निशाकरांशुसङ्काश आलोकज्ञानसम्भवः॥१४॥

आलोकाभासमित्युत्कम् अतिशून्यमुपायकम्।
परिकल्पितं तथा प्रोक्तं प्रोक्तं चैतसिकं तथा॥१५॥

रागो रक्तं तथा तुष्टं मध्यतुष्टातितुष्टकम्।
हर्षणं चैव प्रामोद्यं विस्मयो हसितं तथा॥१६॥

ह्लादनालिङ्गनं चैव तथा चुम्बनचूषणम्।
धैर्यं वीर्यं च मानश्च कर्तृहर्तृबलानि च॥१७॥

उत्साहः साहसं चैव तथा चोत्तमसाहसम्।
मध्यमं साहसं राद्रं विलासो वैरमेव च॥१८॥

शुभं च वाक् स्फुटा सत्यमसत्यं निश्चयस्तथा।
निरुपादानदातृत्वे चोदनं शूरता तथा।

अलज्जा धूर्तदुष्टश्च हठः कुटिल एव च।
चत्वारिंशत् प्रकृतयः क्षणिकाश्चातिशून्यज्जाः॥२०॥

दिवापुरुषसंज्ञा च खराकारश्च दक्षिणः।
सूर्यमण्डलसंज्ञा च वज्रसंज्ञा तथैव च॥२१॥

कला सैव तु विज्ञेया बिन्दुद्वयविभूषिता।
दिवाकरांशुसङ्काशा आलोकाभासयोगजा॥२२॥

आलोकस्योपलब्धिश्च उपलब्धं तथैव च।
परिनिष्पन्नकं चैव अविद्या चैव नामतः॥२३॥

महाशून्यपदस्यैते पर्यायाः कथिता जिनैः।
मध्यरागक्षणश्चैव विस्मृतिर्भ्रान्तिरेव च॥२४॥

तूष्णींभावश्च खेदश्च आलस्यं दन्धता तथा।
अविद्यायाः क्षणाः सप्त विज्ञेयाः सुक्ष्मयोगिभिः॥२५॥

न बीजं विन्दुसंयुक्तं न वायुर्द्वारनिर्गतः।
यदालोकोपलब्धं तु तत् परिनिष्पन्नलक्षणम्॥२६॥

एताः प्रकृतयः सूक्ष्माः शतं षष्ट्युत्तरं दिवा।
रात्रौ चापि प्रवर्तन्ते वायुवाहनहेतुना॥२७॥

क्षणे लवे मुहूर्त्ते च निमेषे मात्रके तथा।
क्षण इत्यच्छटावस्था लवः सर्षपवर्तनम्॥२८॥

आश्वासस्तु मुहूर्त्तं स्यान्निमेषोऽक्षिनिमेषणम्।
मात्रा तु हस्ततालं स्यात् क्षणादीनां तु लक्षणम्॥२९॥

संवित्तिमात्रकं ज्ञानमाकाशवदलक्षणम्।
किन्तु तस्य प्रभेदोऽस्ति सन्ध्यारात्रिदिवात्मना॥३०॥

आलोकालोकाभासौ च तथालोकोपलब्धकम्।
चित्तं त्रिविधमित्युक्तम् आधारस्तस्य कथ्यते॥३१॥

वायुना सूक्ष्मरूपेण ज्ञानं सम्मिश्रतां गतम्।
निःसृत्येन्द्रियमार्गेम्यो विषयानवलम्बते॥३२॥

आभासेन यदा युक्तो वायुर्वाहनतां गतः।
तदा तत्प्रकृतीः सर्वा अस्तव्यस्ताः प्रवर्तयेत्॥३३॥

यत्र यत्र स्थितो वायुस्तां तां प्रकृतिमुद्वहेत्।
यावत् समीरणोत्पादो नाभासो निश्चलो भवेत्॥३४॥

आभासद्वयहेतुः स्यादात्मभावविकल्पना।
उभयांशिकमेव स्याद् यदालोकोपलब्धकम्॥३५॥

सर्वासामेव मायानां स्त्रीमायैव विशिष्यते।
ज्ञानत्रयप्रभेदोऽयं स्फुटमत्रैव लक्ष्यते॥३६॥

रागश्चैव विरागश्च द्वरोरन्तरिति त्रयम्।
द्वीन्द्रियस्य समापत्त्या वज्रपद्मसमागमात्॥३७॥

ज्ञानद्वयसमायोगः समापत्तिः प्रकीर्तीता।
ज्ञानद्वयसमापत्त्या यथोक्तकरणेन तु॥३८॥

यज्ज्ञानं प्राप्यते यत्नात् तदालोकोपलब्धकम्।
यस्य वज्राब्जसंयोगः संवृत्या तु न विद्यते॥३९॥

सिध्यते योगसामर्थ्यात् सकृदप्यनुभूतवान्।
यथा प्रभेदं विज्ञाय ज्ञानवृत्तिं स्वभावतः॥४०॥

लक्षयेत् सततं योगी तामेव प्रकृतिं पुनः।
पयोधरा यथा नैके नानासंस्थानवर्णकाः॥४१॥

उद्भूता गगनाभोगाल्लयं गच्छन्ति तत्र वै।
एवं प्रकृतयः सर्वा आभासत्रयहेतुकाः॥४२॥

निर्विश्य विषयान् कृत्स्नान् प्रविशन्ति प्रभास्वरम्।
एषां स्वभावाबिज्ञानदज्ञानपटलावृताः॥४३॥

कृत्वा शुभाशुभं कर्म भ्रमन्ति गतिपञ्चके।
आनन्तर्यादिकं कृत्वा नरकेषु विपच्यते॥४४॥

शुभं दानादिकं कृत्वा स्वर्गादिषु महीयते।
अनन्तजन्मसाहस्रं प्राप्य चैवं पुनः पुनः॥४५॥

पूर्वकर्मविपाकोऽयमिति शोचति मोहतः।
प्रकृत्याभासयोगेन येन क्लिश्यन्ति जन्तवः॥४६॥

ज्ञात्वा तमेव मुच्यन्ते ज्ञानिनो भवपञ्जरात्।
प्रज्ञास्वभाव एवायं चन्द्रमण्डलकल्पना॥४७॥

चित्तमेव स्वयं पश्येत् स्वमेव शशिबिम्बवत्।
अथ चन्द्रं समालम्ब्य वज्रचिन्हं प्रकल्पयेत्॥४८॥

उपायसूचकं ह्येतद् वज्राद्युत्पत्तियोगिनाम्।
चन्द्रवज्रादिसंयोगश्चित्तचैतससङ्गमः॥४९॥

प्रज्ञोपायसमायोगाज्जायते देवताकृतिः।
चतुर्मुद्राभिरामुद्र्य देवतागर्वमुद्वहन्॥५०॥

विचरेत् तु सदा मन्त्री उत्पत्तिक्रमयोगवान्।
यथोक्तं श्रीसमाजादौ तत्र तत्र सुविस्तरम्॥५१॥

यावत् स्याद् भावनायोगस्तावत् स्यादादिकर्मिकः।
परिनिष्पन्नयोगस्य सूचन क्रियतेऽधुना॥५२॥

शून्यत्रयविशुद्धिर्या प्रभास्वरमिहोच्यते।
सर्वशून्यपदं तच्च ज्ञानत्रयविशुद्धितः॥५३॥

ज्ञानशुद्धिपदं तत्त्वं सर्वज्ञत्वमनुत्तरम्।
निर्विकारं निराभासं निर्द्वन्द्वं परमं शिवम्॥५४॥

अस्तीति न च नास्तीति न च वाक्यगोचरम्।
अतः प्रभास्वराच्चूद्धाज्ज्ञानत्रयसमुद्भवः॥५५॥

द्वात्रिंशल्लक्षणधरो ह्यशीतिव्यञ्चनान्वितः।
सर्वाकारवरोपेतः सर्वज्ञो जायते ततः॥५६॥

तथा चोक्तं महायानसूत्रे ललितविस्तरे।
अभिसम्बोधिकामोऽयं शाक्यसिंहस्तथागतः॥५७॥

महाशून्येन बुद्धत्वं प्राप्स्यामीत्यभिमानतः।
नैरञ्चनानदीतीरे निस्पाद्यास्फानकं गतः॥५८॥

तिलबिम्बीव सम्पूर्णाः खमध्यस्था जिनास्तदा।
एकस्वरेण तं प्राहुरच्छटेन जिनौरसम्॥५९॥

अविशुद्धमिदं ध्यानं न चैतदिष्टकावहम्।
प्रभास्वरं आतु आलम्ब्यमाकाशतलवत् परम्॥६०॥

प्रभास्वरपदे प्राप्ते स्वेच्छारूपस्तु जायसे।
सवैश्वर्यं तथा प्राप्य वज्रकाये प्रमोदसे॥६१॥

एवं श्रुत्वा तु तं श्ब्दं विसर्ज्यास्फानकं ततः।
निशार्धसमये तत्त्वमालम्ब्यैव जिनौरसः॥६२॥

ऋजुकेनैव कायेन वाचाय ऋजुरेव च।
साशनो नाशनो नैव न मौनी नाप्यमौनवान्॥६३॥

नोन्मीलितसुनेत्रस्तु न च मीलितलोचनः।
स्वच्छं व्यक्तं महाज्ञानं सर्वशून्यं महाद्भुतम्॥६४॥

अथ पश्यति तद्वयक्तं गुरुपादप्रसादतः।
अनागतमतीतं च वर्तमानं भवत्रयम्॥६५॥

तत्क्षणान्निखिलं पश्येत् प्रभास्वरविशुद्धधृक्।
जलचन्द्रमरीच्यादिमायागुणविभूषितः॥६६॥

अरुणोद्‍गमकाले तु वज्रोपमसमाधिना।
निषद्य बोधिमूले तु सोऽकरोन्मारभञ्चनम्॥६७॥

सम्प्राप्य शाक्यनाथेन तत्त्वज्ञानमनुत्तरम्।
जगत्त्रयहितार्थाय तदेवेह प्रदर्शितम्॥६८॥

तत्त्वज्ञानमिति प्रोक्तमभिसम्बोधिदर्शनम्।
पञ्चानन्तर्यकर्मा च मन्दपुण्योऽपि यो नरः॥६९॥

गुरुप्रसादादाप्नोति चिन्तामणिरिवापरम्।
यथेष्टं कुरुते चर्यां संबुद्धोऽयमनागतः॥७०॥

न रागो न विरागश्च मध्यमा नोपलभ्यते।
न शून्यं नापि चाशून्यं मध्यमा नोपलभ्यते॥७१॥

सर्वबुद्धसमायोग इदमेव प्रदर्शितम्।
त्रिज्ञानाद् व्यतिरिक्तं यत् तत्त्वं सन्ध्याय भाषया॥७२॥

अभावेत्यादिगाथाभिः पटले बोधिचित्तके।
श्रीसमाजेऽपि तत् प्रोक्तमभिसम्बोधिलक्षणम्॥७३॥

रागादीनां विशुद्धिर्या परमाद्ये प्रदर्शिता।
सर्वशून्यं समुद्दिश्य साऽपि प्रोक्ता तथागतैः॥७४॥

नानासूत्रेषु तन्त्रेषु यत् तत्त्वमुपदर्शितम्।
सर्वशून्यपदं ह्येतन्नान्यत् तत्राभिधीयते॥७५॥

चतुरशीतिसाहस्रे धर्मस्कन्धे महामुनेः।
सारात् सारतरं प्रोक्तम् अभिसम्बोधिलक्षणम्॥७६॥

जटी नग्नश्च मुण्डी वा शिखिनिःसङ्गवृत्तयः।
तैस्तैश्च विविधैर्लिङ्गैरभिसम्बोधिकामिनः॥७७॥

तेषां तत्त्वविहीनानां व्रतचर्यादिकः क्रमः।
तत्त्वज्ञानविहीनत्वात् तेन मुक्तिर्न लभ्यते॥७८॥

आदिकर्मिकयोगेन चाष्टमीं भूमिमाप्नुयात्।
आलोकत्रयदर्शी च दशभूम्यां प्रतिष्ठितः॥७९॥

सम्प्राप्य ह्यभिसम्बोधिं शुद्धावासमुपागतः।
बुद्धक्षेत्रेस्ववैवर्ती सर्वज्ञ इह जन्मनि॥८०॥

धर्मोदयाभिसम्बोधिः क्रीडारागादिविस्तरैः।
धर्मधात्वाभिसमबोधिर्यथालाभविचेष्टितैः॥८१॥

अनुतराभिसम्बोधिरभिसम्बोधियोगतः।
प्रपञ्चाकारादिचर्याभिरभ्यस्यन्तीह योगिनः॥८२॥

आः किमभ्यासयोगेन आदिशुद्धिः स्वभाविका।
प्रकृत्यैव हि सा सिद्धा तथता न विकल्पजा॥८३॥

य एवं कल्पयन्तीह ज्ञानक्रममपास्य वै।
तत्प्रभेदमजानानाः पुनः शैक्षा भवन्ति ते॥८४॥

प्रकृत्याभासभेदज्ञा चतुर्थं तत्त्वमाश्रिताः।
त्रिधा नाभ्यस्यते यस्तु न शीघ्रमाप्नुयात् फलम्॥८५॥

यथाग्निर्दारुगर्भस्थो नोत्तिष्ठेन्मथनाद् विना।
तथाभ्यासाद् बिना बोधिर्जायते नेह जन्मनि॥८६॥

यः शाठ्यबुद्धिरलसो गुरुनिन्दकश्च
प्राप्ताभिषेक इति गर्वितमानसः स्यात्।
सर्वज्ञता न सुलभेति विहीनचित्तो
दोषान् स पश्यति गुरोर्न गुणान् वराकः॥८७॥

सूश्रूषया विरहितो लघु तत्त्वमिच्छेन्
नेति प्रश्स्तवचनं चलयेत् सरोषः।
दृष्ट्वा सभासु गुरुमस्य पराङ्मुखस्तु
कुर्यात् प्रणाममथ तस्य रहोगतस्य॥८८॥

एवं च दौरात्म्यगतं कुशिष्यम्
स्वपुत्रमप्यौरसमार्यगर्ह्यम्।
वैश्यं तथा पार्थिवमग्रबोधिं
कुर्यात् समीपे न हि जातु धीरः॥८९॥

शुभगुणसुसमेतो ज्ञानवान् वीर्ययुक्तो
गुरुजनमथ भक्त्या वीक्षते बुद्धतुल्यम्।
अधिगतजिनधर्मः शासनेषु प्रसन्नः
स इह भवति पात्रं तस्य कुर्यात् प्रसादम्॥९०॥

श्रुतबहुतरतन्त्रोऽयागमेषु प्रवीणो
गुरुजनपरिचर्याहान्यलब्धोपदेशः।
स्वहितमपि स कर्तुं न प्रभुः शास्त्रचञ्चु-
र्भवति तदपि शास्त्रं केवलं खेदहेतुः॥९१॥

अथ भवति सभाग्यः प्राप्ततत्त्वोपदेशो
जडमतिरसमर्थो मीलनेऽर्थस्य यस्तु।
परहितकृतबुद्धिर्देशनायां प्रवृत्तो
वचनगुणविहीनः सोऽप्यवज्ञामुपैति॥९२॥

श्रुतबहुतरतन्त्रो ज्ञानवान् षट्पदज्ञः
स्मृतिमतिधृतिमेधावीर्यसम्पत्समेतः।
गुरुचणसपर्याप्राप्ततत्त्वोपदेशः
प्रभवति स हि वक्तुं तन्त्रराजोपदेशम्॥९३॥

श्रुतबहुतरतन्त्रेणायवज्रिप्रसादात्
स्फुटविरचितवाचा बोधिमार्गं विभज्य।
कुशलमुपचित्तं यच्छाक्यमित्रेण तेन
प्रकटपटुविपाकाद् बोधिभाजो भवन्तु॥इति।९४॥

अनुत्तरसन्धिरित्यपरनामा

॥सर्वशुद्धिविशुद्धिक्रमः समाप्तः॥
कृतिरियं शाक्यमित्रपादानाम्। ग्रन्थप्रमाणमस्य शतमेकम्। द्वितीयः क्रमः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project