Digital Sanskrit Buddhist Canon

तत्त्वसिद्धिः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version Tattvasiddhiḥ


 



आचार्यशान्तरक्षितविरचिता



 



तत्त्वसिद्धिः



 



॥नमः सकलकलुषापहारिणे श्रीवज्रसत्त्वाय॥



 



वज्रयानं नमस्कृत्य महासुखसुखाकरम्।



तत्त्वसिद्धिं प्रवक्ष्यामि सम्मोहविनिवृत्तये॥१॥



 



एतस्मिन् वज्रमहायाने ये केचिद् अनुपचित-कुशल-वासनासन्तानाः,समारोपित भावभावनाः,स्वविकल्पानिलप्रेयमाण-मतयः,सकल-कलिकालकलङ्कपङ्कपटल-मलीमस-मानसाः,असमधिगत-संसारसागरतरणोपायाः,स्वविकल्पानल्पसङ्कल्पितधियः,विषमग्रन्थिस्थानदैन्यपतिताः,दुर्बोधग्रहावेशवशाकुलितचेतसोऽनुपासिताचार्याः,परमार्थभावनोपदेशरहिताः,श्रीमन्महासुखवज्रसत्त्वत्वम्,अनल्पकल्पासंख्येनापि मार्गान्तरेणाधिगम्यं वज्रयानोपाययुक्तानाम् इहैव जन्मनि अनायाससाध्यस्थिर-सर्वभाव [स्वभावम्],अनादिनिध[न]म्,अनालयम्,अखिलसत्त्वसन्तानं,स्वसंवेद्यस्वभावम्,महापुण्यहेतुम्,अधिगमलक्षणं,तदुपायभू(तं)च महावज्रयानं समस्तयानोत्तममागमं लक्षणं न प्रतिपद्यन्ते,तेषाम् अज्ञानतिमिरपटलविनिवृत्तये युक्त्यागमाभ्याम् अभिधीयते किञ्चित्॥



 



तत्र प्रज्ञोपायपरिगृहीता रूपादयो विषयाः परिभोगभावमापद्यमानाः विशिष्टफलावाहका भवन्तीत्यवश्यमेव प्रेक्षावद्भिरभ्युपगन्तव्यम्। विशिष्टा हि सामग्री विशिष्टमेव फलं जनयतीति सर्ववादिप्रसिद्धम्। यथापृथिव्यादिभ्यः समुत्पन्नमामलकफलं कषायरसमनुभूयते,पुनः क्षीरावसेकादिमधिकं कारणमासाद्य तदेव मधुरतया प्रतीयते। तदेवं - यथा कारणान्तराभिसंस्कृतं कारणं विशिष्टफलावाहकत्वेन प्रत्यक्षेणैव दृश्यते,एवमेते रूपादयो विषया महामुद्रानिष्पत्तौ मन्त्रमुद्राधिष्ठितानां योगिनां विशिष्टतरं फलमुत्पादयन्तीति सद्भिरवधेयम्। यतो न वै किञ्चिदेकं जनकमपितु सामग्री जनिका,तेन विशिष्टात् कारणा[न्तरा]द् हि विशिष्टमेव कार्यमुत्पद्यते,अचिन्त्यत्वाद् हेतुप्रत्ययसामर्थ्यस्य सर्वविदाम्। [प्रयोगः]- तत्र य इमे विशिष्टकारणाभि संस्कृतास्ते विशिष्टमेव कार्यमारभन्ते,यथा क्षीरावसेकेना मलकादयो मधुरफला भवन्ति,(तथा)विशिष्टकारणाभिसंस्कृता रूपादयोऽपि,इति स्वभावहेतुः। तदत्र विशिष्टकारणान्तराभिसंस्कारमात्रानुबन्धस्वभावः कार्याभिमतो भावो व्यापक स्वभावः,कारणान्तराभिसंस्कारस्तु व्याप्यमेव। तेन यद् यद् विशिष्टकारणान्तराभिसंस्कृतस्वभावम्,तद् तद् असति प्रतिबन्धके अकारणवैकल्ये विशिष्टकारणान्तराभि संस्काराद् विशिष्टमेव कार्य भवति इति,तन्मात्रानुबन्धित्वात्।



 



तस्य तस्मात् सिद्धे व्याप्यव्यापकभावे व्यापके साध्ये व्याप्यं हेतुः। तद्यथा-व्यापके वृक्षादिके साध्ये व्याप्यं शिशपादिः हेतुः। सिद्धत्वाद् व्याप्यव्यापक-भावस्य न कल्पे दत्र कारणं व्याप्य-व्यापक-भावात् परम्। एवमिहापि ज्ञेयम्। अत एवोक्तम् -



 



अशेषयोगतन्त्रेषु गुह्येन्दुतिलकादिषु।



नास्ति किञ्चिदकर्त्तव्यं प्रज्ञोपायेन चेतसा॥२॥



निर्विशङ्कः सदा भूत्वा भोक्तव्यं पञ्चकामकम्।



ओषधीचूर्णसंयोगादुरगस्येव बन्धनम्॥३॥



कामिनो नित्यरक्तस्य गीतवाद्यरतस्यं च।



कामसौख्यैरतृप्तस्य सिध्यते नात्र संशयः॥४॥



बोधिचित्तं दृढं यस्य निःसङ्गा च मतिर्भवेत्।



विचिकित्सा नैव कर्त्तव्या तस्येदं सिध्यते ध्रुवम्॥५॥



सुनिरूप्य सुसञ्चिन्त्य प्रवेशं कारयेद् बुधः।



अन्यथाग्निप्रवेशोऽस्य कलां नार्हति षोडशीम्॥६॥



तत्त्वं विज्ञाय तत्त्वेन योऽधिमुक्तिं निषेवते।



स सिध्यत्यन्यथा तस्य महानिरयपातनम्॥७॥



 



न चैतच्छक्यते वक्तुं यथैते रूपादयो विषयाः क्लेशप्रसूति-हेतुत्वादपायहेतव इति। क्लेशानाम् आत्मात्मीयग्रहाभिनिवेशपूर्वकत्त्वात् न रूपादयो निमित्तम्,येन



 



आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ।



अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते॥८॥



 



तस्माद् यस्यात्मदर्शनं तस्यैते क्लेशाः सम्भवन्तीति। यस्तु नैरात्म्यसात्मीकरणात् समासादितनैरात्म्यरसः,तस्य नैते तथा भवन्ति।



 



यदि पुनः विषयाः सर्वदा रागहेतव एव तदा कथं सम्विपरीतज्ञानमपि जनयन्ति अशुच्यादिभिराकारैः,अभ्यासबलात्,तेन यथासमारोपमेव खल्वेते विज्ञानमुपजनयन्ति। एवं विषयाः विशिष्टसमारोपाद् विशिष्टपरिणामाच्च विशिष्टफलनिष्पत्तौ हेतुभावं प्रतिपद्यन्त इति किं न इष्यते?यथा -



 



परिव्राड्-कामुक-शुनामेकस्यां प्रमदातनौ।



अशुचिः कामिनी भक्ष्या इति तिस्रो विकल्पनाः॥९॥



 



न च एतेऽपि विशिष्टसमारोपाः तथापरिणामाच्च संसारबन्धहेतुका भवन्ति इति,त्रिमण्डलपरिशुद्धत्वाद् देय-दायक-परिग्राहकाप्रतिलब्धेः। यस्माद् त्रिमण्डलपरिशुद्धेः मन्त्र-मुद्रापरिणामः तस्मान्मन्त्रादिभिराहितविशेषा रूपादयो विषया अनुत्तरमेव फलं कुर्वन्ति। यथा विषादिकं मन्त्रादिभिः संस्कृत्योपभुज्यमानमन्यदेव रसायनादिकं फलमावहत इति,तदन्यया बालानां नियमेन पञ्चत्वं करोतीति। एवं विषया अपि मन्त्र मुद्राधिष्ठिता विशिष्टतरमेव फलं विकुर्वन्तीति सुतरामववोद्धव्यम्। तच्चोक्तं श्रीपरमाद्ये -



 



रागो द्वेषश्च मोहश्च त्रयैते विषमं गताः।



विषत्वमुपयान्त्येव विषमत्वेन सेविताः।



अमृतत्वं पुनर्ये च अमृतत्त्वेन सेविताः॥१०॥



 



पुनश्चोक्तं रत्नकूटसूत्रे - 'तद्यथा काश्यप। इक्षुक्षेत्रेषु शालिक्षेत्रेषु संकरकूट उपकारीभूतो भवति,एवमेव यो बोधिसत्त्वस्य क्लेश संकरकूटः सः सर्वज्ञतायाम् उपकारीभूतो भवति। तद्यथा काश्यप मन्त्रौषधिपरिगृहीतं विषं न निघातयति एवमेव प्रज्ञोपायसमन्वितोबोधिसत्त्वः। क्लेशविषैर्न विनिपात्यते। पुनश्चोक्तम् आचार्यनागार्जुनपादैः -



 



वासनामूलपर्यन्ताः क्लेशास्तेऽनघ। वर्जिताः।



क्लेशप्रवृत्तितो यावत्त्वयाऽमृतमुपार्जितम्॥११॥



 



पुनश्चोक्तम् उपालिपरिपृच्छासूत्रे  - रागो बोधिसत्त्वस्य महासत्त्वार्थतायां संवर्तते,सत्त्वानुरागत्वाद् इति॥



सामग्रीभेदात् कार्यभेद- दर्शनाद् धर्मनैरात्म्यावबोधाच्च न तत्राभिनिवेशः कयञ्चिदपि,सम्भवति,केवलं त्वनुत्तरमहासुखफलावाप्तेः नान्यत् साधनमस्ति,तत्तैरेव सुखैराहारविहारादिभिस्तत्फलमभिमुखीक्रियते यस्य पुरः सरं विभवः स सादृशः स्यात्। कथमन्यादृशोद्भूतः तादृशः स्यात्। अत‍एवोक्तं सम्वरतन्त्रे-



 



आत्मा वै सर्वबुद्धत्वं सर्वशौरित्वमेव च।



स्वाधिदैवतयोगेन तस्मादात्मैव साधयेत्॥१२॥



न योगः प्रतिबिम्बेषु निषिक्तादिषु जायते।



बोधिचित्तमहोद्योगाद् योगिनस्तेन देवताः॥१३॥



स्वमात्मानं परित्यज्य तपोभिर्न च पीडयेत्।



यथासुखं सुखं धार्यं सम्बुद्धोऽयमनागतः॥१४॥



नातिशौचं न नियमो न तपो न च दुष्करैः।



तपश्चारैर्न नियमैः सुखैर्हर्षैश्च सिध्यति॥१५॥



 



यथा,भगवता रूपादयः तन्निर्जाताः सुखपरिणामनाः अनुत्तरफलहेतुरुक्ताः तथा स्पर्शनिर्जातसुखपरिणामना अपि। यदि आगमविरुद्धत्वान्न भवती ति चेद्,आगमः - स्पर्शविशेषसुखसंसेवनात् तत्फलमावहतीति। तत्र विरोधः तस्य प्रतिषिद्धत्वादिति चेत्,न,प्रतिषेधस्यनियतविषयत्वात्। ये हि प्रज्ञोपायरहिता आत्मात्मीयग्रहाभिनिवेशेन परिणामनानभिज्ञाः स्पर्शविशेषं संसेवन्ते,तेषामविद्यापरिगृहीतमूर्तीनां विषया अपायहेतवो भवन्तीति। तथा चोक्तं भगवता -



भिक्षुभावे स्थिता ये च ये च तर्करता नराः।



वृद्धभावे स्थिता ये च तेषां तत्त्वं न देशयेत्॥१६॥



 



भगवता तान् प्रति सन्धार्य प्रतिषेध उक्तः। तदुक्तं च श्रीसमाजे--



दशकुशलान् कर्मपथानिच्छन्ति ज्ञानवर्जिताः॥१७॥



तथा वैरोचनाभिसम्बुद्धावप्युक्तम् -



उपायै रहितं ज्ञानं शिक्षा वाऽपि हि देशिता।



श्रावकानां महावीरेणा व ताराय तेषु वै॥१८॥



 



न तु प्रज्ञोपायपरिगृहीतमूर्तीनां विशिष्टफलान्वेषिणां विशिष्ट परिणामनाफलमनुभवतां परमार्थधर्मतत्त्वावबोधात् मनामपि तेषां तद्दोषभागिता भवति,किन्तु मतिविशेषेण समन्विताः सन्तोषस्य चानुत्तरस्य लाभिनो भवन्ति,अकलुषत्वाच्चित्तस्य। तस्मादाशयविशेषेण कृत एवायं पुण्य पुण्येतरविभागो,न तु यथावस्तु व्यवस्थितरूपम्। उक्तञ्च आर्यदेवेन -



 



सङ्कल्पाद् बोधिसत्त्वानां शुभं वा यदि वाऽशुभम्।



सर्व कल्याणतामेति तेषां वश्यं यतो मनः॥१९॥



 



तेन सङ्कल्पकृतेषु पुण्यापुण्येषु यस्य विशिष्ट एव कारणान्तर कृतसङ्कल्पविशेषः,रूपादिषु स तस्मादाशयविशेषाद् विशिष्टमेव फलं तस्य अवश्यमकामकैरपि परैरप्युपगन्तव्यम् इति। अत एवोक्तं भगवता -



'मायोपमा धर्माः,अधिमुक्तस्य सर्वोपभोगा युज्यन्ते इति। पुनश्चोक्तम् - 'अहङ्कार्यश्रद्धस्य भिक्षोः श्रद्धादेयम् अपरिभोग्यम्'



 



पुनश्चोक्तं सम्वरतन्त्रे -



आकाशलक्षणं सर्व आकाशं चाप्यलक्षणम्।



मायोपमं च वै सर्व त्रैधातुकमशेषतः॥२०॥



 



दृश्यते स्पृश्यते चैव यथा माया हि सर्वतः।



न चोपलभ्यते चैवं सर्वस्य जगतः स्थितिः।



अनया मुद्रया योगी शोधयेत् भुवनत्रयम्॥ २१॥



 



पुनश्चोक्तं सर्वदेवसमागमतन्त्रे -



यैरेव मूढा वध्यन्ते बुद्धाः क्रीडन्ति तैरिह।



सर्वे सम्पूर्णयोगेन अन्यथा यान्ति दीपवत्॥२२॥



 



पुनश्चोक्तं -



गुप्तलोकोत्तरां चर्या विचरन्त्यविकल्पतः।



प्रमादश्चान्यथा जायेत् विकल्पस्तत्र युज्यते॥२३॥



निर्विकल्पेन भावेन सर्वाकारेण सर्वदा।



सत्त्वमास्थाय निःशङ्कःतदा सिद्ध्यत्यसंशयम्॥२४॥



सत्त्वेन निर्विशङ्केन सर्वावस्थोऽपि सर्वदा।



सर्वाचारप्रवृत्तोऽपि न बन्धमुपयास्यति॥२५॥



निःशेषाचारसञ्चारो निर्विकल्पेन चेतसा।



सर्वेन्द्रियोपभोगेन सत्त्वस्यो हि न बध्यते॥२६॥



 



पुनश्चोक्तम् -



शून्यरूपमिदं सर्व शून्याकारेण चक्षुषा।



पश्यतां निर्विकल्पानां सतां निःशङ्कता भवेत्॥२७॥



 



पुनः तत्र एव -



सर्वाणि व्योमरूपाणि व्योमरूपेण चेतसा।



भावनान्निर्विकल्पत्वं निःशङ्कत्वं प्रजायते॥२८॥



 



पुनश्चोक्तम् - योगिनां कीदृशं व्रतम्?



सोपायं सर्वकर्माणि निर्विशङ्कश्चरेत् तदा।



निर्विशङ्केन भावेन व्रतानामुत्तमोत्तमः॥२९॥



 



तपः किमुच्यते?



 



निर्विकल्पेन भावेन सर्वकर्माणि सर्वदा।



आचरेन्निर्विशङ्केन तपसामुत्तमं तपः॥३०॥



विषयान् सेवमानस्य निर्विकल्पेन चेतसा।



कुत्साधितं न वा चेतस्तत्तपो दुरतिक्रमम्॥३१॥



यस्तु सर्वाणि कर्माणि प्रज्ञया विनियोजयेत्।



सर्व शून्यपदे योज्यं तपो ह्येष महात्मनाम्॥३२॥



 



प्रज्ञासङ्क्रान्तिरूपेण निर्विकल्पेन चेतसा।



निःशङ्काचारसञ्चारः तपस्तेषां महात्मनाम्॥३३॥



प्रज्ञोपायं विनाऽन्यत्र यदि चित्तं च सङ्क्रमेत्।



नियतं तत्समुद्दिष्टं महाबोधिप्रदायकम्॥३४॥



योगिनामभियुक्तानां निर्विकल्पानुगामिनाम्।



तेषां सर्वाणि भूतानि विलासार्थं च सृष्टवान्॥३५॥



प्रज्ञादर्पणसङ्क्रान्तं तदाकारं च संस्कृतम्।



प्रज्ञाजाता स्मृति स्तेषां निर्विकल्पात्मचेतसाम्॥३६॥



दर्पणप्रतिविम्बं च स्वप्नं मायां च बुद्बुदम्।



इन्द्रजालं च सदृशं यः पश्येत् स प्रभुः स्मृतः॥३७॥



 



तडिद्गन्धर्वनगरं विपाकञ्चैव संस्कृतम्।



तदाकारं प्रपश्यन्ति तस्यायत्ताः प्रजाः स्मृताः॥३८॥



 



इत्युक्तम्।



 



तेन न कस्यचित् स्थितिरस्ति यत्राभिनिवेशः स्यात्। 'यदा चैवंभूतैरपि मायोपमैः भावैर्विशिष्टसंभोगसञ्जातसुखस्पर्श -परिणामत न या किञ्चिद् विशिष्टफलं प्राप्यते,तदा किं नेष्यते?"न हि एते स्थिराः स्वभावतः,किन्त्ववभासमात्रलक्षणाः। यदि एते विशिष्टभावनाभ्यासबलाद् विशिष्टसुखसौमनस्यादिककार्येषु आर्यानुत्तरफलावाप्तिहेतुभावं प्रतिपद्यन्ते,तदा न कश्चिद्दोषः। तथाचोक्तं श्रीपरमाद्ये -



आत्मा वै सर्वबुद्धत्वं सर्वशौरित्वमेव च।



स्वाधिदैवतयोगेन तस्मादात्मैव साधयेत्॥३९॥



दुष्करैर्नियमैस्तीव्रैः मूर्तिः शुष्यति दुःखिता।



दुःखाद् विक्षिप्यते चित्तं विक्षेपात् सिद्धिरन्यथा॥४०॥



मनोमूर्तिदृढत्वाच्च सर्वसौख्यं दृढीभवेत्।



दुःखैश्चलत्वमायाति निरोधं वापि गच्छति॥४१॥



 



पुनश्चोक्तं लौकिकलोकोत्तरवज्रतन्त्रे -



सुखेन लभ्यते सिद्धिर्न सिद्धिः कायतापनैः।



यस्मात् समाधिसम्भूतं बुद्धत्वं सर्वसौख्यतः॥४२॥



अनाहारादिभिस्तीव्रैस्स्तथान्यैश्च तृषादिभिः।



कायतापाद्धि विक्षेपो विक्षेपात् सिद्धिरन्यथा।



हीनसत्त्वा न सिध्यन्ति दुष्करास्तेन कीर्तिताः॥४३॥



 



पुनश्चोक्तं श्रीसमाजतन्त्रे -



दुष्करैर्नियमैः कष्टैः सेवमानो न सिध्यति।



सर्वकामोपभोगैस्तु सेवयंश्चाशुसिध्यति॥४४॥



भिक्षाशिना न जप्तव्यं न च भैक्ष्यरतिर्भवेत्।



जपेन्मन्त्रमभिन्नाङ्गं सर्वकामोपभोगकृत्॥४५॥



काय-वाक्-चित्त-सौस्थित्यं प्राप्य बोधिं समश्नुते।



अन्यथाऽकालमरणं पच्यते नरके ध्रुवम्॥४६॥



 



तेन प्रकृतिप्रभास्वर-स्फटिकोपलसदृशे मनसि रूपादिभिरा हितसंस्कारविशेष-सुखसौमनस्यलक्षणः सः तत्र प्रज्ञोपायपरिगृहीतस्याभ्यासविशेषबलात् प्रकर्षपर्यन्तरूपतामासादयेदिति। तद्यथा-प्रज्ञादि शिल्पकलादयः। शब्दादि विषयानुभवसञ्जातसंस्कारविशेष तो योगिज्ञानम् असकृद्भावनाभ्याससामर्थ्यात् समाहित परमशाश्वतस्वभावं भावनाप्रकर्षपर्यन्त मायात्। स्वसिद्धान्ते सुगतादीनामिव,लोके च कामशोकभयोन्मादादिवत्। स्पर्शादि जनितसुखसौमनस्यादयश्च भाव्यन्ते,तस्मात्तेऽपि परमविशेषशालिन इति स्वभावविरुद्धोपलब्धिः। इहापि दुःखादिविरुद्धं सुखसौमनस्यादिलक्षणं कार्यम्,तच्चाभ्यासबलात् सात्मीभावमासाद्यमानमुपलभ्यते यदा,तदा तद्विरुद्धं दुःखदौर्मनस्यादिकं निवर्तयति,स्वगुणव्यूह च ढौकते। तेन तदत्र सामग्री भावनतया व्यवस्थितं तद्विरुद्धस्य दुःखादे र वकाशमपाकरोति। तद्यथा - शीतादिविरुद्धमुष्णादिकम् उपलभ्यमानं शीताद्यभावं प्रतिपादयति,येनैकत्र स्थाने परस्परं न विरुद्धमुपलभ्यते,एवम् अनयोरपि सुखदुःखयोर्न चैकत्र सन्तानात्मनि कथमपि सम्भवः,तद्विरुद्धत्वात् तस्य,तेन सुखसौमनस्यादि सात्मीकरणे नैव दुःखादीनां कथमपि सम्भाव नी यतामारोपयति इति युक्तमुक्तम् - स्वभावविरुद्धोपलब्धिः तद्‍रूपाभावं प्रतिपादयति। प्रकर्षपर्यन्तगमने अभ्यासविशेषो हेतुः प्रज्ञाशिल्पकलादिवत्,तद्विशेष विरुद्धोपलब्धेः,इत्यवबोद्धव्यम्।



किञ्च भाव्यमानानामपि यदि विशेषाणां तावदपि निवृत्तिरिष्यते,तदा पृथ्वीकृत्स्नादिकमपि भावनाप्रकर्षपर्यन्तवर्तिनां तथैव निवृत्तिमापादयेद् इति। न चेष्यते,यस्माद् ये प्रकर्षपर्यन्तवर्तितया स्वात्मलाभभावाः न तेषामावर्तनम्,यथा पृथ्वी कृत्स्नादयः। लब्धात्मलाभाः स्व विशेषाश्रिताः सुखसौमनस्यादयः,तस्मात्तेऽपि न व्यावर्तन्ते,व्यावृत्तौ कारणाभावात्। ये तु दोषादयो व्यावृत्तिभागिनः तेषां च तदानीं नायं भावः। तदनु दुःखोद्भवोऽपि न स्यात्,प्रकर्षपर्यन्तगमने तन्न सम्भवति,अन्यथा मोक्षानन्तरमपि संसारः स्याद् इति न चेष्यते प्रयुज्यतेः वा। ये मोक्षं प्राप्तस्य संसारोत्पत्ति नेष्यन्ते एव तेऽपि तदानीं कारणाभावादविद्यावासनाया विनिवृत्ताः। परार्थेन या समुत्पत्तिर्न सा सांसारिकी,पूर्वप्रणिधानावे शसामर्थ्येन तत्र प्रवृत्तेः,न वासनासामर्थ्यात्। तेन यथा मोक्षानन्तरं संसारः न,तथा सुखप्रकर्षपर्यन्तगमनानन्तरं दुःखं चित्तस्यापि न जायते,प्रकृतिपरिशुद्धत्वात् तदेव मेचकमणिसदृशम्। ततः येन येन वास्यते तत्र तत्र चाभ्यासबलाद् विशिष्टतरस्वभावमाविष्करोति अपरावृत्तिधर्मतालक्षणम्। अत एवोक्तम् -



 



येन येन हि भावेन मनः संयुज्यते नृणाम्।



तेन तन्मयतां याति विश्वरूपो मणिर्यथा॥४७॥



 



तेन सर्वमेतद् विशिष्टपरिणामनया परिणाम्यमाने विशिष्टफलावाहकं भवति इति। तेन न किञ्चित् नाम्यपरिणामं नाम। पूर्वकर्मावेधसामर्थ्याच्च तथैव तद्भवतीति,अन्यथा विशिष्टपरिणामना व्यर्था,सर्वत्र च अविश्वसनीया स्यात्। तथा चोक्तं जिनजनन्याम्  -



 



'पुनरपरं सुभूते। बोधिसत्त्वो महासत्त्वो दिव्यानुलेपनानि ददाति तथागतेषु तथागतचैत्येषु वा। तस्यैवं भवति,अनेन कुशलमूलेन अनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्धे,तत्र बुद्धक्षेत्रेषु सर्वसत्त्वानां दिव्याः स्पर्शविशेषाः अभिनिष्पद्यन्ताम्। इति परिणामना भवेत्। पुनरपरं सुभूते !बोधिसत्त्वस्य महासत्त्वस्यैवं भवति,मनोरथ - सङ्कल्पेनैव इष्टान् पञ्चकामगुणान् बुद्धानां भगवतां श्रावकसङ्घानां सर्वसत्त्वानां चोपनामयेयम्। तस्यैवं सञ्जानत एवं भवति -अनेन कुशलमूलेन मम बुद्धक्षेत्रे अनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्धस्य श्रावकसङ्घस्य सत्वानां च मनोरथ - सङ्कल्पेनैव इष्टाः कामगुणाः प्रादुर्भवन्तु। पुनरपरं सुभूते। बोधिसत्त्वा महासत्त्वाः सर्वसत्त्वैः सार्द्ध सम्यक्सम्बुद्धेभ्यो वा पञ्चकामगुणदानं ददाति एवमादि।



 



इतश्च वासनावेधसामर्थ्याद् एवं दृष्टकार्येषु वर्तते। मातुलुङ्गादि फलं लोके यथा लाक्षादिसेकाद् उक्तरूपम्,तथा चास्य चितस्य बाह्य-स्पर्शादिसेवनात् तदेव सुखादिकं संस्कारविशेषप्रतिवेधाहितविशेषत्वात् पुनः तत्रैव अभिमुखीभवति। तदनुरक्तत्वाच्चित्तस्य तद्रञ्जितं च तत्रैव दृढीभवति। तदपि यथा धत्तूरकर्पास वीज दाडिमादीनां कारणान्तरैराहितविशेषं तत्र तथैव फलं प्रतीयते,आहितसामर्थ्यात्। एवं चित्तमपि स्पर्शादिनिर्जातसुखसौमनस्यादिविशेषं तदुत्तरोत्तरविशिष्टफलावाहकं भवति। तत्प्रतिपक्षयानानभिनिविष्टत्वात् न प्रतिपक्षोदयः तद्विमुखत्वात् सुखित्वाच्च। तथा श्रीपरमाद्ये प्रदर्शितं भवति -



 



'सर्वदुःखदौर्मनस्यादिभ्योऽवकाशो न देव। देयः॥४७॥



पुनश्चोक्तं सर्वदेवसमागमतन्त्रे -



सुरासुराणां भूतानां प्रतिबोधिर्न विद्यते।



कीर्तयन् तेन सर्वाङ्गमानन्दं चोपभुञ्जते॥४८॥



अतस्तेनाति गच्छन्ति निर्वाणं दीपा यथा।



निर्वाणाग्निर्महाघोरो भस्मान्यपि न मुञ्चति॥४९॥



न तत्र तत्त्वं विद्यते नेन्द्रियार्था न धातवः।



न मनश्चैत्तकं नापि नाहङ्कारो न धीरपि॥५०॥



न च सत्त्वं न च प्रज्ञा न चित्तं नैव किञ्चित्।



सुषुप्तावस्थिताकारं निर्विकल्पं निरात्मकम्॥५१॥



न संज्ञा न च चेष्टा तु न रूपं न गुणः क्वचित्।



निर्वाणं तत्समुद्दिष्टं मोक्षं तु निष्कलं भवेत्॥ ५२॥



ज्ञात्वा संसारभावस्य निःस्वभावस्वभावताम्।



तदा प्रबुद्धो विज्ञेयो निर्वाणं यदि नेच्छति॥५३॥



ज्ञात्वा सद्भावसारूप्यं निःस्वभावस्वभावताम्।



निर्वाणं यः प्रपद्येत विना सिद्धिं न वीर्यवान्॥५४॥



न कृतनाशश्चान्यो जायते हीनचेतसः।



यः परां बोधिमासाध्य विना सिद्धेः प्रहीयते॥५५॥



किं तेन न कृतं पापं चौरेणात्मापहारिणा।



बुद्धात्मनः शरीरस्य सिद्धिं सौख्यैर्न पूरयेत्॥५६॥



न तस्य विद्यते वीर्यं न च सत्त्वं प्रतिष्ठितम्।



यः परां बोधिमासाद्य निर्वाणं यात्यसिद्धितः॥५७॥



नान्यो हीनतरस्तस्मात् नान्यः स्याद् दुर्जनो जनः।



यः परां बोधिमासाद्य त्यजते स्वशरीरकम्॥५८॥



तद्वीर्यं सर्ववीर्याणां यः प्रवुद्ध्वा प्रवर्तते।



सर्वेन्द्रियोपभोगेषु रतः सन्ना पि बध्यते॥५९॥



 



पुनश्चोक्तं विमुक्तिसमुद्यातनतन्त्रे -



नास्ति तत्त्वव्रतं पुंसां महाफल प्रदं यतः।



क्वचिच्चित्ताधिमुक्तानां वासना त्यज्यते कथम्॥६०॥



न तेन शोधितं चित्तं योगतन्त्रव्रतस्थितम्।



केवलं भिन्नदृष्टित्वात् प्रबुद्धोऽपि विनश्यति॥६१॥



न कृतघ्नतस्त्वन्ये ये प्रबोधिं गता नराः।



दीपवद् यान्ति निर्वाणं न सिद्धिमनुभुञ्जते॥६२॥



नान्यः सत्त्वेन रहितः स्वशरीरस्य जायते।



विप्रत्यक्षकामश्च निर्वाणं यः प्रपद्यते॥६३॥



प्रबुद्धकारणाच्चेह निर्वाणं ये नरा गताः।



सुखानन्तान् परित्यज्य सिद्धमिष्टं फलं तदा॥६४॥



 



पुनश्चोक्तम् -



पारदश्चाग्निसंयोगाद् यथाभावं प्रपद्यते।



दह्यते दृश्यते नैव गच्छन्नो धूम एव वा॥६५॥



गोमयाधारयोगेन यथा संगृह्यते पुनः।



ज्ञानमेवं विजानीयात् महामुद्रा समं तथा॥६६॥



 



प्रयोगश्च- ये ये प्राप्तप्रकर्षपर्यन्ताः न ते व्यावर्तन्ते। तद्यथा मोक्षादयः। प्रकर्षपर्यन्त कारणस्वरूपाः सुखसौमनस्यादयः,इति स्वभावहेतुः। इतरश्च - ये हि भाव्यन्ते ते भावनाभ्याससामर्थ्यात् समाहितपरमप्रकर्षपर्यन्तवर्तिनो भवन्ति,यथा - प्रज्ञा-शिल्प-कलादयः। भाव्यन्ते च प्रज्ञोपायपरिगृहीतानि स्पर्शविशेषनिर्जातानि सुखसौमनस्यानि,तस्मात्तान्यपि परमप्रकर्षवन्ति भवन्ति। स्वभावहेतुरेव। तदत्रापि प्रकर्षपर्यन्तगमनमात्रानुबन्धि सात्मीकरणं,तच्चाभ्यासविशेषबलाद् अपुनरावृत्तिधर्मतामसावा सादयति। न पुनस्तदन्येन केनचिद् अपि व्यावर्तते तत्स्वभावतामुपगतः। तद्यथा- काष्ठादौ अग्निदाहिता विशेषा न तद्व्यावर्तन्ते,दाहादि लक्षणं तस्यापुनर्भावधर्मित्वात्। अत एवोक्तम् -



 



न पुन र्दाहतः किञ्चिद् विकारजननं क्वचित्।



विपर्ययात् पुनः किञ्चिद् यथा काष्ठसुवर्णयोः॥६७॥



 



हेमादौ अग्निकृत विशेषः तत्सन्तानव्यावृत्तौ तद्विपरीतकारणतः तत्स्वभावभावं सम्पादितः यथा अग्निजलादिः। अखिलहुत सुवर्णस्य अस्यापि अन्य एव कठिनस्वभावाध्यासितविशेषः सञ्जायते स्वभावाधिवासितविशेषान्तर उत्पद्यते।तदत्र चेतसि विषयोपभोगसञ्जातो हर्षात्मविशेषः। तदुत्तरोत्तरं तस्यैव कारणस्य संसेवनेन परां निष्ठाम् आसाद्यमानस्य न व्यावृत्तिः,बुद्धेस्तत्पक्षपातात्। येन बुद्धिर्हि तदनुरक्ता सती समासादितगुणा च तदेव कारणम् आदत्ते,तद्विपरीते च विमुख्यान् न कथञ्चिद् व्यावर्तते। यथा च -यत्र यत्र प्रकर्षपर्यन्तगमनं,तत्र तत्र सात्मीभावः,तद्यथा -श्रोत्रिय स्य जातिभावादौ?भावनावशात् नैर्घृण्यम्। तद्यथा - कस्यचित् श्रोत्रियस्य महाव्रतधारिणो नैर्घृण्यं भावनासात्मीकरणात् तत्साम्यमासादयति तच्च स्वसंवेद्यं सुखसौमनस्यादि सर्वसन्तानवर्ति स्वसंवेदनप्रत्यक्षं सिद्धं,तदपि तत्रैव भावनायोगसामर्थ्याद् अविच्छिन्नप्रवाहं वर्तते।



 



प्रवाहविच्छेद कारणाभावात् दुःखादि प्रवाह विच्छितिकारणानि नं संविद्यन्ते। न हि दुःखादीनि हितरूपतयाऽवगम्य केनचित् प्रेक्षावता त्यज्यन्ते,न च पुनस्तदुत्पतिकारणमन्विष्यते,प्रेक्षावान् क्वचिद् अन्यथा प्रेक्षावान् न स्यात्,तदन्यो मत्तकादिवत्।



 



तेन आस्तां तावत् प्रकर्षपर्यन्तगमनम्,किन्तु किञ्चिन्मात्र सेवनेनापि बुद्धि स्तद्धितानुबन्धित्वात् तद्विपरीतकारणार्थमिह कथमपि न सञ्जायते। न हि कश्चिज्जानन्नेव अहिविष कण्टकादीन् उपादत्ते। तेन हि तत्फलावाहकमेव तदभ्यासविशेषवलात् सात्मीभावमुपागतम्। तानि च हेयरूपतया बुद्ध्या प्रागेव निरस्तानि,तेन तत्सन्तति विच्छेदः। तदीय स्वभावहेतुस्तत्स्वभावतां साधयति। न चासिद्धो हेतुः। भावनाविशेषेणापि विशिष्टता लभ्यते प्रज्ञादीनां तेनाभ्यासस्तावद् विद्यते। नासिद्धता नाप्यनैकान्तिकता,येन सुखसौमनस्याद्यभ्यस्यमानं न तद्विपक्षे दुःखादौं प्रवर्तते। न विरुद्धः,यस्मान्न साध्यविपर्ययं दुःखं साधयति। दृष्टान्तधर्मिणाम् अपि सर्ववादिप्रसिद्धत्वात्। येन इमे प्रज्ञाशिल्पकलादयः प्रतिपुरुषाभ्यासतया भेद विशेषम् आसाद्यमानाः संलक्ष्यते। यदप्युक्तम् - रागप्रतिपक्षा अशुभाः,द्वेषप्रतिपक्षो मैत्री,मोहप्रतिपक्षः प्रतीत्यसमुत्पादः। तत्र रागतो विराग विनिवृत्तिः,तद्विरुद्धत्वादिति चेत्,न। यदि तथा ध्रुवमन्य रागसात्मीकरणेऽपि विरागः स्यात्। अत एवोक्तं मूलतन्त्रे  -



 



अहो हि सर्वबुद्धानां रागज्ञानमनाविलम्।



हत्त्वा रागं विरागं च सर्वसौख्यं वदन्ति ते॥६८॥



 



न च रागादीनां प्रकृतिसावद्यत्वम्,अन्यथा न स्रोतापन्नस्य मार्गप्रतिलम्भः स्यात्,तस्य रागाद्यपरिहारेण प्रवृत्तेः। किञ्च एवमुक्तं भगवता शीलपटले - बोधिसत्त्वेन दशकुशलान्यपि परार्थेन खण्डयितव्यानि। यथा-काचित् कामार्थिनी स्त्री बोधिसत्त्वं प्रति प्राणान् त्यजेत्,तस्याः कामादिसेवनेन प्राणसन्धारणं कार्यम्। तथैव महापापकारिणं दृष्ट्वा जीविताद् व्युपरोपयति,न च तस्यापायगमनं भवेत्,बहुतरं पुण्यं प्रसवति। तद् यदि एते रागादयः प्रकृतिसावद्यास्तदा कथं दुर्गतिहेतवो न भवन्ति ?प्रभूतरत्नपुण्यहेतवश्च कथमुक्ताः ?तेन न तेषां प्रकृतिसावद्यता,किन्तु पुद्गल सन्तानविशेषाद् गुणविशेषावाहका भवन्ति। यथा केतकीपुष्पं गन्धहस्तिनोपभुक्तं कस्तूरिकादि भावेन परिणमते,इतरैश्च हस्तिभिरुपभुज्यमानं असेव्यभावेन परिणामयति। तेन न तत्र केतकीपुष्पदोषः। तथा रागादयोऽपि विशुद्धसन्तानवर्तिनो विशिष्टमेव फलं कुर्वन्ति,आशयविशेषयोगात्। यथा क्षीरं सर्पादिभिरुपभुज्यमानं विषादिभावेन परिणामयति,अन्यैश्च मनुजैः उपभुज्यमानम् अमृतभावमापद्यते। एवमेते रागादयोऽपि आशय विशेषभाजिनि विशिष्टफलावाहका भवन्तीति,न प्रकृतिनिरवद्यत्वात्। हेतु प्रयोगः - ये ये विशिष्टसन्तानभागिनः ते ते विशिष्टफलावाहकाः,यथा केतक्यादयः,विशिष्टसन्तानवर्तिनश्च रागादय इति स्वभावहेतुः। अत्रापि विशिष्ट-सन्तान-प्रयोगपरिणाममात्रानुबन्धिविशिष्टफलावाहकत्वम् अप्रतिबन्धसामर्थ्य जनयत्येव,अन्त्यकारणसामग्रीवत्। येन हि तस्य स्वभावः,सोऽपि तन्मात्रानुबन्धजातं करोत्येव,प्रतिबन्धस्य असम्भवात्। प्रतिबन्धे सम्भवे चाप्रत्ययः स्यात्। तदत्रापि विशिष्टपरिणामान् नान्यदपेक्षत इति तन्मात्रानुबन्ध उक्तः। न च तत्र क्षेपाभावस्य प्रतिबन्धः,क्षेपाभावान्तस्य क्षेपाभावान्यस्मिन्। प्रेक्षणीयस्य असम्भवात्। एवं तन्मात्रानुबन्धिनिश्चयात् स्वभावहेतुरुक्तः। तथा रसायनिकोऽपि बोधिचित्तर सावेधात्?तत्सामीभावमुपगतं भावसंविशिष्टमेव रूपान्तरं जनयति तथा ताम्रादिषु स्थिरीकृतपारदादि रसावेधसामर्थ्यादन्यदेवावस्थान्तरं जनयते। निर्दोषा पुनरावृत्तिधर्मकतामुपैतीति अत्रापि विज्ञेयम्। अन्यथा ताम्रादिषु न रसादीनामावर्तकत्वं स्यात्। एवं तत् सामर्थ्यदर्शनात् स्फुटतरमेवावगम्यते अस्तित्वम्,अन्यथा न किञ्चित् सामर्थ्य स्यात्। तथा चोक्तम् -



 



अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घाम्।



रमजातमतीव वेधनीयं सुदृढं गृह्णत बोधिचित्त संज्ञम्॥६९॥



 



पुनश्च



पुण्येन सुखितः कायः पाण्डित्येन मनः सुखि।



तिष्ठन् परार्थ संसारे दयालुः केन खिद्यते॥७०॥



 



किञ्च,यया रसायनिकः धनिकः पुरुषः कश्चिद् विशिष्टौषधिसंयोगात् समासादिततद्गुणमाहात्म्यः,तस्य पञ्चाभिज्ञाः प्रवर्तन्ते,तथाऽन्ये च गुणाः आसंसारं स्थिति कुर्वन्ति,एवमेव विशिष्टविषयपरिभोगसञ्जात रसायनस्य आसंसार-प्रकृत-प्रणिधिविधानस्य परार्थपरस्य समाहितसकल गुणगणस्य प्रतिविद्धबोधिचित्तरसस्य किमिति सत्त्वं नेष्यते?किं च -



 



न बोधि निःक्लेशां कृतगति रवाप्नोति परमां



उदीर्णक्लेशश्च स्वहितमपि कर्त्तृ न लभते।



इति प्राप्त्यै बोधेः स्थिरविहितवीर्येण भवता



न निर्दग्धाः क्लेशाः तृणलवलधुत्वं तु गमिताः॥७१॥



स्मृतिज्ञानग्रस्ता विविधगुणनिष्पत्तिलघवो



गताः क्लेशा बोधिरुपकरणतामेव भवतः।



 



अनेनैवं त्वद्धीस्तदनु न कृता भ्रान्तविषया गुणानां क्षेत्रत्वं जगति जनिधारा अपि कृताः॥७२॥



 



किञ्च,सविकल्पकमेव तद्भावनाप्रकर्षपर्यन्तवर्ति सर्वज्ञज्ञानम्,आहोस्वित् निर्विकल्पकमिति ?तत्र यदि तावन्निर्विकल्पकमेवेप्यते,तदा भावनाविकल्पसामर्थ्यान्निर्जातस्य कथं निर्विकल्पकत्वम्?न हि सविकल्पकाद् विज्ञानात् निर्विकल्पकस्य ज्ञानस्य प्रसूतिः कथमपि सम्भवति। अथ क्लेशोपक्लेशवासनाविनिवृत्तं निर्विकल्पकत्वं,तदयुक्तम्,यतः क्लेशोपक्लेशवासनानिवृत्तौ किमपरमस्ति यद् विकल्पकं स्यात्,तद्व्यतिरिक्तस्य अन्यस्य प्रमाणाभावात्। न चापि प्रामाणिका काचित् सिद्धिरस्ति। तद्भावानां न प्रत्यक्षता,तस्य इन्द्रियालोकमनस्कारविषयसामर्थ्यात् निर्जातत्वात्। न ग्राहकाकार विनिर्मुक्तं ज्ञानं प्रतिपादकमस्ति,तस्य तद्विपरीतरूपत्वात्। नाप्यनुमानम्,तस्यापि लिङ्गलिङ्गिसम्बन्धग्रहणपूर्वकत्वात्। ग्राह्य- ग्राहकाकारद्वयविनिर्मुक्तज्ञानं विना भावि कार्याख्यं स्वभावाख्यं वा लिङ्गं न उपलभ्यते। नाप्यनुपलब्धिनिबन्धनात्तस्य प्रतिपत्तिः स्यात्,तस्याः प्रतिषेधविषयत्वात्।



 



तत्र कार्यहेतुस्तावदसिद्धः,कार्यकारणभावस्य ह्यनुपपत्तेः,यतो न विनष्टात् कारणात् कार्यमुपजायते,तस्य असत्त्वेन अजनकत्वात्। नाप्य विनष्टाद्,उत्पन्नस्य व्यापार- समावेशकालपरीक्षायां क्षणभङ्गाप्रसङ्गात्। निर्व्यापारस्य खपुष्पस्येव कुतो जनकत्वम्?अत एवोक्तम् -



 



न नष्टाच्चापि नानष्टाद् बीजादङ्कुरसम्भवः।



मायोत्पादवदुत्पादः सर्व एव त्वयोच्यते॥७३॥



 



येनोत्पादो निरोधादि सत्त्वजीवादि देशिताः।



नेयार्था सा त्वया नाथ !भाषिता सम्वृतिस्तु सा॥७४॥



 



तेनार्थतो जन्यजनकानुपपत्तेः ना त्र कार्यहेतुः,लिङ्गाभावात्। स्वभावहेतोरपि परोक्षतत्स्वभावतया न कथञ्चिदपि सम्भवः,तन्मात्रसम्बन्धासिद्धेः। अनुपलम्भस्यापि प्रतिषेधसाधकत्वान्नात्र अवसरः। न चापरो हेतुरिष्यते प्रमाणान्तरश्चेति कुतो निर्विकल्पकस्य ज्ञानस्य निश्चयो वाच्यः?तथोक्तम् -



स्वस्मान्न जायते भावः परस्मान्नोभयादपि।



न सन्नासन्न सदसन् कुतः कस्योदयस्तदा॥७५॥



 



तेन परमार्थेन तद्विज्ञानमनुपपन्नम्,कथं निर्विकल्पकं स्यात्?न हि गगनाम्भोरुहादीनां सविकल्पकत्वं निर्विकल्पकत्वं वा इष्यते,नापि तत्रेयं चिन्ता प्रवर्तते,पुरुषार्थानुपयोगित्वात् आकाशपद्यवत्। तदभ्युपगमे च न किञ्चित् प्रयोजनमस्ति। तन्निःस्वभावत्वात् न किञ्चित् तत्साध्यमुपपद्यते,न च साध्यमकुर्वाणं साधनं तत्र कीर्त्यते। तस्मात् सर्वमेव ज्ञानं प्रतीत्यसमुत्पन्नं ग्राह्यग्राहकाकाररूपतया वर्तमानं सविकल्पकमिति प्रतिजानीमहे,येन ग्राह्य-ग्राहकाकारं त्रैधातुकं विज्ञानं प्रत्ययकल्पनमित्याख्यातम्।



 



अत एवोक्तं लङ्कावतारसूत्रे -



 



आर्यो न पश्यति भ्रान्तिं नापि तत्त्वं तदन्तरे।



भ्रान्तिरेव भवेत्तत्त्वं यस्मात्तत्त्वं तदन्तरे॥७६॥



भ्रान्ति विधूय सर्वां हि निमित्तं जायते यदि।



सैव तस्य भवेद् भ्रान्तिरशुद्धं तिमिरं यथा॥७७॥



 



तत्र केवलं विपरीतपदार्थसमारोपव्यावृत्तौ विशिष्टपदार्थभावनाप्रकर्षपर्यन्तगमनाद् विशिष्टफलम् आविर्भवति,सान्तर-व्यन्तर-स्वभावाभावस्वभावम् एकस्वभावं सुखादि,भावनाभ्यासविशेषाश्रितत्वात्,तदाकारसंवेदनवत्। तत्समानजातीयप्रवाह प्रवृत्तं ग्राह्यग्राहकाकारसंविद्भेदेन युक्तं अध्यवसित स्वरूपमविच्छिन्न सन्तानं धर्मकं स्वचित्त-वशिताप्राप्तं सविकल्पकमपि यथावस्थितसकलपदार्थपरिच्छेदकम्,प्रज्ञोपायपरिगृहीतमूर्तित्वात्। अत एवोक्तं लङ्गावतारसूत्रे -



न मे यानं महायानं न घोषो न च अक्षराः।



 



न च ध्यानं विमोक्षो वै न निराभासगोचरम्॥७८॥



किन्तु यानं महायानं समाधिवशवर्तिनाम्॥



कायो मनोमयो दिव्य-वशितापुष्पमण्डितः॥७९॥



 



तदेवं कारणविशेषात् कार्यविशेषप्रतिपादनेन सर्व माख्यातम्। किञ्च नामजात्यादिकल्पनं समारोपितम्। अर्थान्वयव्यतिरेकानुकारि सविकल्पकम् अपि ज्ञानं अस्पष्टाभम् उक्तम् आचार्य - धर्मकीर्तिपादैरपि लौकिकप्रमाण परीक्षायाम्। यत्र ग्राह्यग्राहकप्रतिभासो भेदेन संज्ञायते,तत्रास्पष्टाभमेव ज्ञानं स्पष्टाभतया भाति। तद्यथा-नामजात्यादिकल्पना रहितं ज्ञानं स्पष्टाभं भवति,ग्राह्यग्राहकसंवित्ति भेदेन भिद्यते,तेन नामजात्यादिकल्पनामाश्रित्य आचार्येणा प्यस्पष्टाभता दर्शिता,न ग्राह्यग्राहकसंवित्तिभेदाश्रयेणेति,तेन विषयाकारानुभवसञ्जातविशेषस्य तद्विजातीयाध्यवसायाभावः। तत्सात्मीभावमुपगतायाः न स्पष्टाभताया वाधकमस्ति,साधकं च विद्यते। तत्सात्मीभावसमापत्तिलक्षणं कामशोकभयोन्मादादि वद् चोक्तं प्राक्।



 



अथ ग्राह्य-ग्राहक-संवित्याकारतया आभास मानस्य ज्ञानस्य प्रकर्षपर्यन्तगमने सर्ववित्यर्थमिष्यते,तन्नास्ति,कल्पनाजालसिद्धत्वात्। तत्र तस्याप्यशेषाकारशून्यस्य संविन्मात्रस्य कथमशेषज्ञेयपरिच्छेदकत्वम्?न हि निराभासस्य ज्ञानस्य कथमपि परिच्छेदकत्वं विद्यते,युक्ति-व्याहतं चैतत्।



 



एकस्यानंशरूपस्य त्रैरूप्यानुपपत्तितः।



वेद्यवेदनभेदेन स्वसंवित्फलमिष्यते॥८०॥



 



अथ स्वभाव एव तस्यायं यत् तत्प्रकर्षपर्यन्तगमने सर्वसंवित्तौ स स्वभावोऽस्मत्पक्षेऽपि समानः। तथा हि ग्राह्यग्राहकसंवित्तिभेदेनभिद्यमानस्यापि प्रकर्षपर्यन्तगमने तदेव विशिष्टरूपं जायते। यन्निखिलमेव वस्तुजातं यथावस्थितमेवावबुध्यते,तस्य तत्सामर्थ्य किं काकेन भक्षितम् किञ्च,सकल कल्पना-कलापशून्यं-तदस्तीति किमपि स्थानम् अनुष्ठेयम्। सविकल्पकं तु ज्ञानं सर्वसत्त्वान्तःसन्तानवर्तितया प्रत्यक्षादिप्रमाणसिद्धम्,भावनावलाच्च सात्मीभावसमापत्तौ सर्वमेवावबुध्यते। तद्यथा,हि-यद् यद्,एवाति भाव्यते तत्तदेव भावनाप्रकर्षपर्यन्तगमने तत्सात्मतामापादयति-तद्यथा श्रोत्रियजातिभावादौ घृणाम्। भाव्यते च सर्वमेव त्रैलोक्यं तदुपभोगतया इति स्वभावहेतुः। अत एवोक्तं संवरतन्त्रे।



 



सर्वयोगा हि भगवान् वज्रसत्त्वस्तथागतः।



तस्योपभोग्यं वै सर्व त्रैधातुकमशेषतः॥८१॥



 



पुनः सर्वदेवसमागमतन्त्रे चोक्तम् -



 



चतुर्विधं च यद्भूतं यत्किञ्चिज्जगतीगतम्।



सर्वोपकरणं प्रोक्तं योगिनां सिद्ध चेतसाम्॥८२॥



 



महामुद्रां समाधाय महासत्त्व मुदाहरन्।



पदशः सर्वमेवाहं भावयेत् तत्त्वयोगतः। ८३॥



 



इत्येवमादि - भावनाप्रकर्षपर्यन्तगमनमात्राशुबन्धि-तत्सात्मीभावः यत्र यत्र भवति,तत्र तत्र सात्मीभावमापादयति। भाव्यन्ते सर्वदा तत्त्रैलोक्यान्तरवर्त्तिनः पदार्थाः सुखसौमनस्यादिसाधनत्वेन स्थिताः। अत एवोक्तं संवरतन्त्रे -



 



यद्यदिन्द्रियमार्गत्वं यातंतत्तत्स्वभावतः।



असमाहितयोगेन सर्व बुद्धमयं भवेत्॥८४॥



 



पुनश्चोक्तं सर्वकल्पसमुच्चयतन्त्रे-



पञ्चबुद्धाः समासेन पञ्चकामगुणाः स्मृताः॥८५॥



 



पुनश्चोक्तं श्री गुहयसमाजतन्त्रो-



रूपशब्दादिभिर्भावैः देवतानां प्रकल्पयेत्॥८६॥



 



तस्मात्तेऽपि तद्भावनाप्रकर्षपर्यन्तगमने तत्सात्मतामुपयान्ति,तर्हि ते च गोचरतां प्रतिपद्यन्ते। तेन सविकल्पकमपि ज्ञानं भावनासामर्थ्यनिर्जातं स्वभावविशेषभाजिनम् अशेषगुणालयम् -



सर्वसिद्धिफलं तद्धि सर्वलोकादिकारकम्।



आसंसारस्थितेर्हेतुः सर्वसत्त्वार्थकारकम्॥८८॥



ज्ञातव्यं तत्प्रयत्नेन उच्छेद्योऽहं प्रयत्नतः।



ज्ञाते तस्मिन् भवेत् सर्वं विज्ञातं तत्त्वसंज्ञितम्॥८९॥



 



॥इति श्रीतत्त्वसिद्धिनाम -प्रकरणं प्रावृततन्त्रं समाप्तम्॥ पयेत्॥८६॥



 



तस्मात्तेऽपि तद्भावनाप्रकर्षपर्यन्तगमने तत्सात्मतामुपयान्ति,तर्हि ते च गोचरतां प्रतिपद्यन्ते। तेन सविकल्पकम


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project