Digital Sanskrit Buddhist Canon

चित्तविशुद्धिप्रकरण

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Cittaviśuddhiprakaraṇa

चित्तविशुद्धिप्रकरण


[अनादिनिधनं शान्तं भावाभावविवर्जितम्।

निर्विकल्पं निरालम्बमनवस्थितमद्वयम्॥१॥


अदृष्टान्तमनाख्यानमचिन्त्यमनिदर्शनम्।

अनाश्रयाप्रतिष्ठानं निर्विकारमसंस्कृतम्॥२॥



सर्वेषामाश्रयं बुद्धं करुणामयविग्रहम्।

नानाधिमुक्तसत्त्वानां नानोपायप्रदर्शकम्॥३॥



महारागं नमस्कृत्य पद्मनर्तेश्वरं प्रभुम्।

इह स्तोकं प्रवक्ष्यामि स्वचित्तप्रत्यवेक्षणात्॥४॥



योगाचारस्य नयतः सर्वमेव सुनिश्चितम्।

तत्सर्वमिह वक्तव्यं तस्मादेवत्समाचरेत्॥५॥]



येन येन हि बन्ध्यन्ते जन्तवो रौद्रकर्मणा।

सोपायेन तु तेनैव मुच्यन्ते भवबन्धनात्॥६॥



[विशुद्धेरेव सत्त्वस्य विशुद्धं जायते फलम्]।

महायाने सुविस्पष्टमुक्तमेतत्सुविस्तरम्॥७॥



धर्मपुद्गलनैरात्म्यं चित्तमात्रं जगौ मुनिः।

ततोऽपि सर्वमुत्पन्नमागमात्यनुकूलकम्॥८॥



भावग्राहग्रहावेशगृहीतान्प्रतिचोदितः।

आगमेऽपि हि सुव्यक्तो विस्तरः करुणात्मना॥९॥



मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः।

मनसा हि प्रसन्नेन भाषते वा करोति वा॥१०॥



स्वपिता भिक्षुणा वृद्धः शीघ्रं गच्छेति प्रेरितः।

पतनाच्च मृते तस्मिन्नानन्तर्येण युज्यते॥११॥



सुम्लानेनार्हतादिष्टो मङ्गलं परिपीडय।

उपस्थायकभिक्षुः स मृते तस्मिन्न दोषभाक्॥१२॥



अन्धसंज्ञया नान्धांस्तु मारयन्दोषमश्रुते।

इत्युक्तं विनये व्यक्तं न दोषोऽदुष्टचेतसाम्॥१३॥



न स्तूपखनने दोषस्तत्संस्कारधिया यतः।

केवलं पुण्यराशिः स्यादुपानन्तर्यकारणात्॥१४॥



उपानद्युगलं दत्त्वा मुनेर्मूर्ध्नि शुभाशयात्।

अपनीय तथा चान्धो राज्यं फलमवाप्नुतः॥१५॥



तस्मादाशयमूला हि पापपुण्यव्यवस्थितिः।

इत्युक्तमागमे यस्मान्नापत्तिः शुभचेतसाम्॥१६॥



स्वाधिदैवतयोगात्मा जगदर्थक्वतोद्यमः।

भुञ्जानो विषयान् योगी मुच्यते न च लिप्यते॥१७॥



यथैव विषतत्त्वज्ञो विषमालोक्य भक्षयन्।

केवलं मुह्यते नासौ रोगमुक्तश्च जायते॥१८॥



मायामरीचिगन्धर्वनगरस्वप्रसन्निभम्।

जगत्सर्वं समालोक्य किं कथं केन भुज्यते॥१९॥



बाला रज्यन्ति रूपेषु वैराग्यं यान्ति मध्यमाः।

स्वभावज्ञा विमुच्यन्ते रूपस्योत्तमबुद्धयः॥२०॥



विचिन्त्य समयं सर्वं देवतापूजनाविधिम्।

शुद्धमालोक्य निःशङ्कं भोक्तव्यं मन्त्रचोदितम्॥२१॥



शोध्यं बोध्यं तथा दीप्यमक्षरत्रययोगतः।

अङ्गुष्ठानामिकाग्राभ्यां प्रीणयेच्च तथागतान्॥२२॥



यत्सत्यमिति बालानां तन्मिथ्या खलु योगिनाम्।

गच्छन्नन्तमनेनैव न बद्धो न च मुच्यते॥२३॥



संसारं चैव निर्वाणं मन्यन्तेऽतत्त्वदर्शिनः।

न संसारं न निर्वाणं मन्यन्तेऽतत्त्वदर्शिनः॥२४॥



विकल्पो हि महाग्राहः संसारोदधिपातकः।

अविकल्पा महात्मानो मुच्यन्ते भवबन्धनात्॥२५॥



शङ्काविषेण बाध्यन्ते विषेणेव पृथग्जनाः।

तामेवोत्खात्य निर्मूलं विचरेत्करुणात्मकः॥२६॥



यथैव स्फटिकः स्वच्छः पररागेण रज्यते।

तथैव चित्तरत्नं तु कल्पनारागरञ्जितम्॥२७॥



प्रकृत्या कल्पनारागैर्विविक्तं चित्तरत्नकम्।

आदिशुद्धमनुत्पन्नं निःस्वभावमनाविलम्॥२८॥



तत्तद्यत्नेन कर्तव्यं यद्यद्बालैर्विगर्हितम्।

स्वाधिदैवतयोगेन चित्तनिर्मलकारणात्॥२९॥



रागाग्निविषसंमुग्धा योगिनां शुभचेतसा।

कामिताः खलु कामिन्यः काममोक्षफलावहाः॥३०॥



यथा स्वगरूडं ध्यात्वा विषमाकृष्य संपिबन्।

करोति निर्विषं साध्यं न विषेणाभिभूयते॥३१॥



द्वादशयोजनव्यासं चक्रं वै शिरसि भ्रमत्।

बोधिचित्तं समुत्पाद्य अपनीतमिति श्रुतिः॥३२॥



बोधिचित्तं समुत्पाद्य सम्बोधौ कृतचेतसा।

तत्रास्ति यन्न कर्तव्यं जगदुद्वरणाशया॥३३॥



आदिशुद्धमनुत्पन्नं निःस्वभावमनाविलम्।

जगद्भावेन सम्पश्यन्न बद्धो न च मुच्यते॥३४॥



विचिन्त्य विधिवद्योगी देवतागुणविस्तरम्।

रज्यते रागचित्तेन रागभोगेण मुच्यते॥३५॥



किं कुर्मः कुत्र वै लभ्या विचित्रा भावशक्तयः।

विषाक्रान्तो यथा कश्चिद्विषेणैव तु निर्विषः॥३६॥



कर्णाज्जलं जलेनैव कण्टकेनैव कण्टकम्।

रागेणैव तथारागमुद्वरन्ति मणीषिणः॥३७॥



यथैव रजको वस्त्रं मलेनैव तु निर्मलम्।

कुर्याद्विज्ञस्तथात्मानं मलेनैव तु निर्मलम्॥३८॥



यथा भवति संशुद्धो रजोनिर्घृष्टदर्पणः।

सेवितस्तु तथा विज्ञैर्दोषो दोषविनाशनः॥३९॥



लोहपिण्डो जले क्षिप्तो मज्जत्येव तु केवलम्।

पात्रीकृतो स एवान्धं तारयेत्तरति स्वयम्॥४०॥



तव्दत्पात्रीकृतं चित्तं प्रज्ञोपायविधानतः।

भुञ्जानो मुच्यते कामो मोचयत्यपरानपि॥४१॥



दुर्विज्ञैः सेवितः कामः कामो भवति बन्धनम्।

स एव सेवितो विज्ञैः कामो मोक्षप्रसाधकः॥४२॥



प्रसिद्धं सकले लोके क्षीरं विषविनाशनम्।

तदेव फणिभिः पीतं सुतरां विषवर्धनम्॥४३॥



जले क्षीरं यथाविष्टं हंसो पिबति पण्डितः।

सविषान् विषायांस्तद्वद् भुक्त्वा मुक्तश्च पण्डितः॥४४॥



यथैव विधिवद्भुक्तं विषमप्यमृतायते।

दुर्भुक्तं घृतपूरादि बालानान्तु विषायते॥४५॥



इदमेव हि यच्चित्तं शोधितं हेतुभिः शुभैः।

निर्विकल्पं निरालम्बं भाति प्रकृतिनिर्मलम्॥४६॥



यथा वह्निः कृशोप्येष तैलवर्त्यादिसंस्कृतः।

दीपो निर्मलनिष्कम्पः स्थिरस्तिमिरनाशनः॥४७॥



वटबीजं यथा सूक्ष्मं सहकारसमन्वितम्।

शाखामूलफलोपेतं महावृक्षविधायकम्॥४८॥



हरिद्राचूर्णसंयोगाद्वर्णान्तरमिति स्मृतम्।

प्रज्ञोपायसमायोगाद्धर्मधातुं तथा विदुः॥४९॥



घृतं च मधुसंयुक्तं समांशं विषतां व्रजेत्।

तदेव विधिवद्भुक्तमुत्कृष्टं तु रसायनम्॥५०॥



रसघृष्टं यथा ताम्रं निर्दोषं काञ्चनं भवेत्।

ज्ञानशुद्ध्या तथा क्लेशाः सम्यक् कल्याणकारकाः॥५१॥



हीनयानाभिरूढानां मृत्युशङ्का पदे पदे।

संग्रामजयचित्तस्तु दूर एव व्यवस्थितः॥५२॥



महायानाभिरूढस्तु करुणाधर्मवर्मितः।

प्रज्ञातन्तुधनुर्बाणो जगदुड्वरणाशयः॥५३॥



महासत्त्वो महोपायः स्थिरबुद्विरतन्द्रितः।

जित्वा दुस्तरसङ्ग्रामं तारयेदपरानपि॥५४॥



पशवोऽपि हि क्लिश्यन्ते स्वार्थमात्रपरायणाः।

जगदर्थविधातारो धन्यास्ते विरला जनाः॥५५॥



शीतवातादिदुःखानि सहन्ते स्वार्थलम्पटाः।

जगदर्थप्रवृत्तास्ते न सहन्ते कथं नु ते॥५६॥



नारकाण्यपि दुःखानि सोढव्यानि कृपालुभिः।

शीतवातादिदुःखानि कस्तान्यपि विचारयेत्॥५७॥



न कष्टकल्पनां कुर्यान्नोपवासेन च क्रियाम्।

स्नानं शौचं न चैवात्र ग्रामधर्मं विवर्जयेत्॥५८॥



नखदन्तास्थिमज्जानः पितुः शुक्रविकारजाः।

मांसशोणितकेशादि मातृशोणितसम्भवम्॥५९॥



इत्थमशुचिसम्भूतः पिण्डो योऽशुचिपूरितः।

कथं संस्तादृशः कायो गङ्गास्नानेन शुध्यति॥६०॥



न ह्यशुचिर्घटस्तोयैः क्षालितोऽपि पुनः पुनः।

तद्वदशुचिसम्पूर्णः पिण्डोऽपि न विशुध्यति॥६१॥



प्रतरन्नपि गङ्गायां नैव श्वा शुद्धिमर्हति।

तद्दद्वर्मधियां पुंसां तीर्थस्नानं तु निष्फलम्॥६२॥



धर्मो यदि भवेत्स्नानात्कैवर्तानां कृतार्थता।

नक्तन्दिवं जलस्थानां मत्स्यादीनां तु का कथा॥६३॥



पापक्षयोऽपि स्नानेन नैव स्यादिति निश्चयः।

यतो रागादिवृद्धिस्तु दृश्यते तीर्थसेविनाम्॥६४॥



रागो द्वेषश्च मोहश्च ईर्ष्या तृष्णा च सर्वदा।

पापानां मूलमाख्यातं नैषां स्नानेन शोधनम्॥६५॥



आत्मात्मीयग्रहादेते सम्भवन्तीह जन्मिनः।

अविद्याहेतुकः सोऽपि साविद्या भ्रान्तिरिष्यते॥६६॥



रौप्यबुद्धिर्यथा शुक्तौ शुक्तिदृष्टौ निवर्तते।

नैरात्म्यदर्शनात्सापि निर्मूलमवसीदति॥६७॥



सर्पबुद्धिर्यथा रज्जौ रज्जुदृष्टौ निवर्तते।

सर्पबुद्धिः पुनस्तत्र नैव स्यादिह जन्मनि॥६८॥



सत्त्वबुद्धिस्तथात्रापि वज्रज्ञानान्निवर्तते।

न भावः सम्भवेत्तत्र दग्धबीज इवाङ्कुरः॥६९॥



नैरात्म्यशुचिसङ्गातः पिण्डः प्रकृतिनिर्मलः।

तस्य सन्तापने धर्मः कष्टं बालैर्विकल्पितः॥७०॥



चन्द्रोदयव्ययञ्जापि अपेक्ष्य तिथिकल्पना।

सूर्योदयव्ययेनापि दिवारात्रिव्यवस्थितिः॥७१॥



पूर्वादिव्यवहारोऽपि कल्पनापेक्षया कृतः।

ग्रहनक्षत्रराश्यादि सर्वलोकैर्विकल्पितम्॥७२॥



शीतोष्णवर्षणापेक्षा तथैव ऋतुकल्पना।

स्वकर्मफलभोगोऽयं शुभाशुभग्रहोदितः॥७३॥



अविद्याकर्दमालिप्तं चित्तचिन्तामणिं पुमान्।

प्रवृत्तः क्षालितुं विद्वान् कोऽविद्यां वृंहयेत्पुनः॥७४॥



न ग्रहतिथिनक्षत्रदेशकालाद्यपेक्षणम्।

विहरेन्निर्विकल्पस्तु निर्निमित्तमशङ्कितः॥७५॥



यद्यदिन्द्रियमार्गत्वं यायात्तत्तत्स्वभावतः।

सुसमाहितयोगेन सर्वं बुद्धमयं वदेत्॥७६॥



चक्षुर्वैरोचनो बुद्धः श्रवणं वज्रसूर्यकः।

घ्राणं च परमाश्वस्तु पद्मनर्तेश्वरो मुखम्॥७७॥



कायः श्रीहेरुको राजा वज्रसत्त्वश्च मानसम्।

एवं सम्यक् सदा योगी विचरेत्करुणात्मकः॥७८॥



सिद्धान्ती निर्विकल्पोऽसौ स्थिरकल्पस्तु धीधनः।

यथेष्टचेष्टाव्यापारः सर्वभुक् सर्वकृत्तथा॥७९॥



सर्वकामक्रियाकारी यथारुचितचेष्टितः।

उत्थितो वा निषणो वा चङ्क्रमन्वा स्वपंस्तथा॥८०॥



अमण्डलप्रविष्टो वा सर्वावरणवानपि।

स्वाधिदैवतयोगात्मा मन्दपुण्योऽपि सिध्यति॥८१॥



अनेन सर्वसौरित्वं सर्वबुद्धत्वमेव वा।

जन्मनीहैव तत्त्वज्ञः सम्प्राप्नोति न संशयः॥८२॥



यथा प्राकृतलोकेन योगिलोको न बाध्यते।

बाध्यन्ते धीविशेषेण योगिनोऽप्युत्तरोत्तरैः॥८३॥



महाप्रज्ञामहोपायमहाकृपाधिमोक्षतः।

महायानसमुद्दिष्टं महासत्त्वस्य गोचरम्॥८४॥



यत्कल्पानामसंख्येयैर्न प्राप्तं बहुभिर्मतम्।

जन्मन्यत्रैव बुद्धत्वं प्राप्यते नात्र संशयः॥८५॥



महायानस्य माहात्म्यं पुण्यज्ञानेन सम्भृतम्।

सर्वज्ञत्वं पदं रम्यं सद्यो जन्मनि लभ्यते॥८६॥



आगमश्रुतिचिन्ता तु महायाने न गृह्यते।

आशयानुशयाभेदाद् यानाभेदः प्रकाश्यते॥८७॥



अन्य एवाधिमोक्षोऽयं तथान्या बोधिचारिका।

अन्या चित्तविशुद्धिश्च फलमन्धदिहोच्यते॥८८॥



समीपे निर्मलादर्शे रूपं निर्मलचक्षुषः।

यथा भाति सुविस्पष्टं स्वच्छप्रकृतिनिर्मलम्॥८९॥



विधूतकल्पनाजालविष्प्रष्टशुद्धचेतसां।

योगिनाञ्च तथा ज्ञानं प्रज्ञानिर्मलदर्पणैः॥९०॥



सूर्यकान्तिसमाश्लिष्टसूर्यकान्तमणौ यथा।

सहसा प्रज्वलत्यग्निः समथः स्वार्थसाधने॥९१॥



अपास्तकल्पनाजालं सूर्यकान्तनिभं मनः।

प्रज्ञासूर्यां शुसंश्लिष्टं तद्वज्ज्वलति योगिनाम्॥९२॥



काष्ठद्वयनिघर्षेण यथा ज्वलति पावकः।

आदिमध्यान्तसंशुद्धः सर्ववस्तुप्रकाशकः।

प्रज्ञोपायसमायोगाद्योगिज्ञानं तथा विदुः॥९३॥



यथैवैकः प्रदीपोऽयं वर्त्त्यन्तरसमाश्रितः।

यथास्वार्थं यथास्थानं करोत्युच्चैः प्रकाशनम्॥९४॥



स्फुरणानन्तमूर्तिस्तु प्रज्ञोपायविभावनैः।

नानाधिमुक्तसत्त्वानां यथाकृत्यमनुष्ठयेत्॥९५॥



विधि ज्ञोहि यथा कश्चित्क्षीरादमृतमुद्धरेत्।

निर्दोषं शीतलं हृद्यं सर्वव्याधिविनाशनम्॥९६॥



प्रज्ञाक्षीरमहोपायाद्विधिवन्मथनोत्थितः।

विशुद्धधर्मधातुः स सुखासुखविनाशनः॥९७॥



यथा लता समुद्भूता फलपुष्पसमन्विता।

तथैकक्षणसम्बोधिः सम्भारद्वयसंयुता॥९८॥



[वशद्वेषगतिस्तम्भ] वर्षणाकर्षणादिकम्।

मद्यमांसरतो योगी कुर्वन्नाप्युपलिप्यते॥९९॥



[हस्तकङ्कणबिम्बाय कि] मादर्शः समीक्ष्यते।

महायाने यतोऽद्यापि मन्त्रसामर्थ्यदर्शनम्॥१००॥



मातृदुहितृसम्बन्ध [स्तत्त्वतोऽत्र न कल्प्यते।

भग्नायोधूपवर्त्तीव] जगदाह तथागतः॥१०१॥



पञ्चभूतात्मकं शुक्रं शोणितञ्चापि तादृशम्।

तन्मयः खलु पिण्डोऽयं को विप्रः कश्च वान्त्यजः॥१०२॥



[पञ्चस्कन्धात्मकं सर्वं] शरीरं खलु भिक्षवः।

अनित्यं दुःखशून्यञ्च न जातिर्न च जातिमान्॥१०३॥



कैवर्त्तीगर्भम्भूतः कश्चिञ्चा [ण्डालजातिमान्।

तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्॥१०४॥



स्वसारं मातरं श्वश्रूं स्वपुत्रीं भागिनेयिकाम्।

ब्राह्मणीं क्षत्रियां वैश्यां विधिज्ञानेन शूद्रिकाम्]॥१०५॥



एकाङ्गविकलां हीनां गर्हीतामन्त्यजामपि।

योषितं पूजयेन्नित्यं ज्ञानवज्रप्रभावनैः॥१०६॥



[सर्वदा स्मितवक्रेण मन्त्रविस्तृतचक्षुषा।

सम्बोधौ चित्तमुत्पाद्य स्वाधिदैवतभावतः॥१०७॥



पश्येद्दृश्यं क्षणं किञ्चिच्छोतव्यं शृणुयात्तथा।

सत्यासत्यवियुक्तं तु वदेद्वाक्यमतन्द्रितः]॥१०८॥



स्नानाभ्यञ्जनवस्त्रादिखानपानादियन्ततः।

स्वाधिदैवतयोगेन चिन्तयेत्पूजनाविधिम्॥१०९॥



[गीतं वाद्यं तथा नृत्यं सोपायेन व्रती भजेत्।

अकुर्वन्निह भावेषु सर्वेष्वभिनिवेशनम्॥११०॥



स्वात्मभावप्रहाणेन तापयेन्न तपस्यया]।

सुखाद्यथा सुखं ध्यायेत्सम्बुद्धोऽयमनागतः॥१११॥



सर्वकामोपभोगैस्तु रमथ मुक्तितोऽभयात्।

मा भैष्ट नास्ति वः पापं समयो दुरतिक्रमः॥११२॥



मन्त्रसंस्कृतकाष्ठादि देवत्वमधिगच्छति।

किं पुनः ज्ञानवान् कायः कष्टं मोहविचेष्टितम्॥११३॥



प्राकृतत्वमहङ्कारं परित्यज्य समाहितः।

प्रज्ञोपायविधानेन क्रियामिमां समाचरेत्॥११४॥



पङ्कजातं यथा पद्मं पङ्कदोषैर्न लिप्यते।

विकल्पवासनादोषैस्तथा योगी न लिप्यते॥११५॥



[विकल्पो विम्बसङ्काशो दृष्टिदोषैर्न लिप्यते।

अन्भसा लिप्यते नैव यद्वदुदकचन्द्रमाः]॥११६॥



अनादिवासनापङ्कैर्विलिप्तं चित्तरत्नकम्।

प्रज्ञोपायजलेनैव [क्षालितं सम्प्रकाशते]॥११७॥



स्वाधिदेवतयोगस्य स्थिरचित्तस्य धीमतः।

मुक्तः कुदृष्टिमेघैश्च भासते चित्तभास्करः॥११८॥



[प्रज्ञालक्ष्मपरिच्छेदे भूतार्थस्य विनिश्चयात्।

धर्मधातुरुपादेयोऽविद्याव्यत्ययवर्जनात्॥११९॥



प्रज्ञामुद्गरविध्वस्ते] सहसा कल्पनाघटे।

प्रकृत्या निर्मलः स्वच्छो ज्ञानदीपः प्रकाशते॥१२०॥



सुप्रसिद्धानि भूतानि क्षित्यग्निजलवायवः।

क्रियन्ते ह्यन्यथा विज्ञैर्मन्त्रसामर्थ्ययोगतः॥१२१॥



सर्ववादं परित्यज्य मन्त्रवादं समाचरेत्।

यस्य मन्त्रस्य सामर्थ्यात्सौख्यभावोऽपि सिध्यति॥१२२॥



त्रिरत्नं न परित्याज्यं बोधिचित्तं तथा गुरुः।

न वध्याः प्राणिनः केऽपि समयान्यप्यधिष्ठयेत्॥१२३॥



मधु रक्तं सकर्पूरं रक्तचन्दनयोजितम्।

मुनिवज्रोदकं चैव पञ्चैतान्यप्यधिष्ठयेत्॥१२४॥



अन्यैश्च समयैर्दिव्यैश्चित्तस्योत्कर्षकारकैः।

मारुतक्षोभशान्त्यर्थं प्रीणयेच्चित्तवज्रकम्॥१२५॥



[नाशुचिभाव आशङ्क्योऽविकल्प्ययोगलीलया।

समायुक्तेन चित्तेन मन्त्री सर्वं समाचरेत्]॥१२६॥



मक्षिकापदमात्रेण विषेणाप्यभिभूयते।

अणुमात्रा घृणा शङ्का मृत्युकष्टेन संयुता॥१२७॥



सुयुद्धं वाचरेद्विज्ञः सुपलायनमेव वा।

आन्तरालिकभावस्तु व्यर्थो वै पतनं भवेत्॥१२८॥



गुरोराज्ञाञ्च मुद्राञ्च छायामपि न लङ्घयेत्।

गुणास्तस्य परं ग्राह्या दोषा नैव कदाचन॥१२९॥



आचार्यः परमो देवः पूजनीयः प्रयत्नतः।

स्वयं वज्रधरो राजा साक्षाद्रूपेण संस्थितः॥१३०॥



यथोदकमणिः शुद्धः कलुषोदकशोधकः।

श्रद्धामणिस्तथा प्रोक्तश्चित्तरत्नविशोधकः॥१३१॥



श्रद्धावान्मुह्यते कोऽपि प्रज्ञाचक्षुर्विवर्जितः।

उत्पादयेदतः प्रज्ञामागमाधिगमात्मिकाम्॥१३२॥



श्राद्धो बहुश्रुतः प्राज्ञः प्रकृत्या करुणात्मकः।

जगद्दुःखविनाशाय सुखोपायं स विन्दति॥१३३॥



चित्तविशुद्धिमाधाय यन्मयोपार्जितं सुखम्।

चित्तविशुद्धिमाधाय तेनास्तु सुखितो जनः॥१३४॥



॥ कृतिरियमार्यदेवपादानामिति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project