Digital Sanskrit Buddhist Canon

सरहपादस्य दोहाकोषः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2015
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Sarahapādasya dohākoṣaḥ

सरहपादस्य दोहाकोषः

नमः श्रीवज्रसत्त्वाय।

नमस्कृत्य जगन्नाथान् गुरून् सततमादरात्।
लिख्यते दोहाकोषस्य सहजाम्नायपञ्जिका।।
सरोजवज्रपादैश्च कृतं तदागमानुगं।
न किञ्चापूर्वमुद्दिष्टं भगवता कथितं पुरा।।
षड्दर्शनेषु यत्तवं न जानन्ति तदाश्रिताः।
जातिवादादिमाश्रित्य त्राह्यणादिनिरर्थकाः।।
भ्रमन्ति षड्गतौ भ्रष्टा मोक्षा मोक्षात्मगर्हिताः।
प्रत्यक्षञ्चानुमानञ्च प्रमाणद्वयबाह्यकाः।।
सम्यग्मार्गविरहाच्चैव पापमित्रेषु सङ्गताः।
तस्माद् गुर्वाराधनं यत् क्रियते साधुभिः सदा।।
तस्य तुष्ट्या भवेन्मुक्तिरिह लोके परत्र च।
ददाति सर्वसद्भावं तथागतोक्तमादरात्।।

अत्र तावत् षड्दर्शनानि उच्यन्ते। ब्रह्म-ईश्वर-अर्हन्त-बौद्ध-लोकायतसांख्याश्च। एतेषां क्रमव्यतिक्रमेण ग्रन्थकार आह। वम्हणेहिमित्यादि ण जाणिअ तुल्लेमिति पर्य्यन्तं।

(७२)

ब्राह्मणस्य निरासार्थमुच्यते तत्र -

वम्हणेहि म जाणन्त हि भेउ इति।

ब्राह्यणा न जानन्ति भेदं प्रभेदञ्चेति। तत् कथं भेदकस्य भेद इत्याह। तत्र प्रथमतः जातिभेदः। तेषां वाक्यं यतः चतुर्व्वर्णानामुत्तमो ब्राह्मणवर्णः। तन्निषिध्यते प्रमाणागम-युक्त्या च। तर्हि यदि तावत् जात्या ब्राह्मणः। ब्राह्याणो मुखमासीदिति वचनात्। तदा तस्मिन् काले ब्राह्मणउच्यते- अयमेव स्यात्। तत् कथम्। इह प्रत्यक्ष- प्रमाणेतरयोनिसम्भवमेवेति। पूर्व्वभावस्तस्मात् एकाभावे अनेकपर्य्यालोचित-वस्तु न स्यात्। तेषामपि यत् मुखमासीदिति मृषेव वचनं धूर्त्तवचनादिति। अथवा संस्कारेणा ब्राह्मणस्तदेवं न भवति। कथन्न भवति- आह। अन्त्यजस्यापि संस्कारः क्रियते। स कथं न ब्राह्यणः स्यात्। तस्मात् न सिध्यति जातिः। तत् कथं जात्यभावेन वेदः स्वयम्भूः। आह-

एवइ पदिअउ ए च्चउवेउ इति। जातिभेदजानद्भिरेवम्पठिताश्चतुर्व्वेदाः। ऋक्सामायज्वथर्व्वाश्च। एतच्चान्त्यजानां न विरूध्यते। पाठाधिकरणञ्चेति। द्वयोर्नवबोधात्। अथ शब्दमात्रे चावबोधः। तदा सर्व्वेषामपि साधारणत्वमायाति। यथा व्याकरणमध्ये वेदान्तस्य शब्दः साध्यते। तदेव शब्दमात्रं लोकातिलक्षणम्। न पुनः परमार्थः कश्चित्। शब्दञ्च नित्यरूपकं न नित्यं भवति स्वयम्भूश्चेति । कथमुच्यते नित्यम् इति। यथा लोकस्य सत्ता

(७३)

नास्ति अनित्यत्वादिति। तथा तद्विलीनं वेदेषु प्रामाण्यं नास्ति। कारकाभावत् विरोधः। ग्रामो नास्ति कुतः सीमा। तत् कथं कारकं नास्ति आह स्वयमेव सिद्धत्वात् पुरूषकारकरूपं तच्च प्रत्यक्षेऽपि स्कन्धानां विनाशोऽस्तीति। प्रतीत्यसमुत्पादत्वात्। पूर्व्वाभावात् परस्य सत्ता नास्ति मायावदपदर्शनात्। संयोगमात्रमेवेति। भ्रान्त्या सम्भवात्। एवं सर्व्वसंसारं भ्रान्तिमात्रतया अजानानाः षड्गतौ भ्रमन्ति। तन्निरोधात् सर्व्व सुस्थं भवतीति। अनेनापि वेदः क्रियामात्रं तन्न भवति। कारणाभावे कार्यस्योपचरणम्। अलीकमेवेति विस्तरः। तस्मात् अविप्रमाणत्वे सर्व्व क्रियते। स चह-

मट्टीत्यादिना अग्नि हुणन्तमिति। किन्तेन अग्निहोत्रेण च।
कज्जे विरहिअ हुअवह होमेँ इति। कार्यविरहितेनाग्निहोत्रेण। घृतादिहोमं नास्ति। कथं परमार्थमजानताञ्च फलन्न भवति। तदा अन्त्यजस्यापि तादृशं भवेत् निष्केवलम्।

अक्खि डहाविअ कडुएँ धुमेँ इति। अत्यन्तकटुधूमेन चक्षुषि दाहं करोति । यथा रोगपीडा भविष्यति। तर्हि कथम्। तेषां तत्त्वमाह। परब्रह्ममिति। तच्च नानाप्रकारं वदन्ति। ब्रह्मज्ञानमित्यादि। तत्र परब्रह्ममिति। याज्ञिकवचनहोमेन ब्रह्मत्वं यान्ति। तच्च स्वर्गकामोपभोग-

(७४)

फलं तेषामभिलषितञ्च। तया श्वेतच्छागनिपातनया नरकादिदुःखमनुभवन्ति। सन्धाभाषमजानानत्वात् च। तस्मात् ब्रह्मब्रह्महत्या वेत्याद्पादि।

सर्व्व ब्रह्ममिति वचनात्। एवं ब्रह्मज्ञानमिति। तदपि न सिध्यति। कुतो यच्चतुर्थवेदाथर्व्वणेन च तेषां योगाचारदर्शनं स न वेति। वेदत्रयेषु पाठमात्रमपि न सिद्धम्। तदा सत्यविच्छिन्नं मृषैव वचन। अथ तत्रोक्तं सर्व्व नास्ति ब्रह्मज्ञानम्। तदा वेदत्रयस्य प्रामाण्यं नास्ति तथा निषेधात्। चतुर्थस्याथर्व्वणस्य स नास्ति, अन्योऽन्यविरोधात्। तस्मात् हि आगमेषु कथं ब्रह्मज्ञानं सिध्यति। असिद्धमेवेति। अथवा यद्यनुभवं भवति। तदात्यन्तमृषा वचनम्। कुतः। यत् सर्व्व शून्यमिति। वस्तुन उपलब्धिर्नास्ति। कुतस्तज्ज्ञानं भवति। अनुभवञ्च साकारत्वेनोपलब्धिस्तदाज्ञानमेवेष्यते। सर्व्ववस्तुनो अनुपलम्भादिति। वस्तु च लोकल्पितमज्ञानस्वभावम्। न पुनः परमार्थः स्यादिति। परमार्थश्चास्मद्दर्शने सद्गुरोमुखात् लभ्यत इति।

एवं ब्राह्यणस्य पुनरपि चत्वारो भेदाः। ब्रह्मचारी वानस्पत्यः गार्हपत्यः यतिश्च। तदप्यसङ्गतम्। कुतः यतः बालत्वे नास्ति निश्चयः। रक्षणभक्षणादिभावेषु। तथा ब्रह्मचारित्वं सर्व्वदर्शनानां दृढप्रतिज्ञायैव क्रियते। आजीवं यावत्। न तेषां निश्चयः पुनरपि विवाहादिना गार्हपत्यमाश्रयन्ति। तत्रापि च न निश्चयः। वानस्पत्यत्वमाश्रयन्ति ध्यानमन्त्रजपादिकारणेन। तत्र

(७५)

च न निश्चयः यदि यतित्वमभिलषति। सर्व्वयज्ञोपवीतादीनां धारणात् भक्षणात् नास्ति ब्राह्मणचण्डालयोर्भेदः। प्रस्तावतश्चण्डालत्वमेवेति। सत्यं कुतो यतः ब्राह्यणी चोरचण्डालादिना भ्रंशं करोति। तदा ब्राह्मणो वेदमालोचयति। तेन तस्या ब्राह्मण्याः घृतयोनिकरणात् शुद्धिः स्यादिति। तस्मात् सर्व्वं चण्डालकर्म्मेवेति। पुनरपि यतेरपि त्रयः प्रभेदाः- दण्डि इत्यादि।

एकदण्डी त्रिदण्डी भअवँवेसेँ
विणुआ होइअइ हंसउएसेँ।। इति।।

एकदण्डी त्रिदण्डीति भगववेशं भवति। एवं वेशेन विहरति। पुनरप्येतद्व्रतं त्याज्यं करोति। अन्यमाश्रयति। एतदेवाह- विणु [आ होइ ] अइ हंस उएसँ इति। यावन्न परमहंसवेशं भवति तावत् ज्ञानं न लभ्यते सर्व्वसन्यासत्वात्। तदपि च न भवति। कुतः अविद्यावासनाग्रहगृहीतत्वात्। प्रत्यक्षं दृश्यते। गार्हपत्यत्यागकाले सर्व्व यत्किञ्चित् द्रविणदि वस्तु साधितं तत्सर्व्वं पुत्रपौत्रादिभ्यो दत्तं न सर्व्वसत्त्वेषु साधारणं करोति। न केवलं जातिमवरोपणं करोति मदीयकुलाविनष्टत्वात्। तस्मात् -

नष्टस्ते मूर्खदेहिनोऽसत्कर्म्मवादिनः सदा।
न जानन्त्येव सत्तत्त्वं मोहिताः पूर्वकर्म्मतः।।

तथा च स्वयं नष्टाः परानपि नाशयन्ति। एतदेवाह- मिछेहीत्यादि।

(७६)

मिच्छेहिँ जग वाहिअ भूल्लेँ इति। मृषावाक्येन समस्तजगत् मूर्खलोकः कुमार्गेषु वाहितः। इदं च -

धर्म्माधर्म्म ण जाणिअ तुल्लेँ इति। इह धर्माः सर्वपदार्थाः सत्त्वनिकायादिरूपाः करणाविषयाश्च तद्रहिता अन्येऽधर्म्माः कायादिलक्षणाः ताभ्यां तुल्यमद्वयं न जानन्ति विशिष्टमार्गमिति सिद्धान्तः। संक्षेपतो विस्तरोऽन्यत्रावसंयः। न पुनः पुण्यपापादितुल्यमिति।

इदानीमीश्वराश्रितनामुच्यते। अइरि इत्यादि दक्खिण उद्देसेँ इति। अत्र

अइरिएहिँ उद्दूलिअ च्छारेँ इति। अयिरीति उद्दूलितं च्छारेण। एवं वाह्यभस्मना भ्रक्षितमङ्गानि भगवेषु निश्चयमतत्वात्। पुनरपि -

सोससु वाहिअ ए जडभारेँ इति। शिरसि नानाकेशकृतं जटाभारं वहन्ति। अन्यच्च -

घरही वइसी दीवा जाली इति। लोकस्य कुहनया स्वस्थानेषु प्रदीपं प्रज्वाल्य स्थितत्वात् च।

कोणहिँ वइसी घण्टा चाली इति। ईशानकोणमाश्रित्य घण्टां चालयति। पुनरत्रैव -

अक्खि णिवेसी आसन वन्धी इति। एतच्च कुहनाया मूललक्षणम्। चक्षुर्निमेषोन्मेषाभ्यां कृतम्। आसनं पर्यङ्कं वा निवन्धनं कृत्वा तदनु -

(७७)

कण्णेहिँ खुसुखुसाह जन धन्धी। एवं पूर्वोक्तम् अयिरिकस्य लक्षणं दृष्ट्वा धन्धजनानां हेयोपादेयमजानताञ्च कर्णाभ्यां खुसुखसायति। अन्योऽन्यमालोचयन्ति - इदं विशिष्टमार्गं तत्राहं लग्नोऽस्मि शृणुत जनाः।

रण्डी मुण्डी अण्ण वि वेसेँ इति। रण्डीति स्वामिरहिता। मुण्डीति मासिकोपवासीकी या। अन्याः पुनर्नावेशधारिण्यो व्रतिन्यः। ताभिस्तस्य मार्गमग्नाभिः इति। एवं किम् विशिष्टोऽस्य गुरूरित्यत आह। निष्केवलं तर्हि।

दिक्खिज्जइ इति। बिम्बकं दृश्यते। किन्तत् गुरू -

दक्षिण उद्देसेँ इति। दक्षिणोद्देशमात्रेण स्वार्थहेतुना सत्त्वान् क्लेशेषु निपातयन्ति। स्वयमजानताञ्च। किञ्चित् चैतदेवाह। सर्वमीश्वरमिति चेत् न भवति। कथं न भवतीत्याह प्रमाणागमयुक्तया च। तर्हि इह। संक्षेपत उच्यते इह हि सर्वं नाम न किञ्चिद्वस्तु अस्ति। कथं तत् यस्मात् पृथिव्यादि धातवः सर्वे पिण्डपरमाणवो रूपकायाश्च परमाणवश्च षड्भागभेदेन नोपलभ्यन्ते। तदा वस्तु न वस्तु। कथमीश्वर इष्यते असिद्वत्वाच्च। व्यापकाभावे व्याप्यस्योपलब्धिर्नास्ति। अथवा कर्तृत्वं वदन्ति इति चेत्। तदा उच्यते तन्न कथं क्रमेण च युगपद्वा न नित्येनार्थः क्रियते।

(७८)

तस्मात् नास्त्येव तस्य बहिर्वस्तु अध्यात्मकल्पितं वा। एतदेवाह। शक्तश्चेत् किन्देशकालदिरपेक्ष्येत्। तस्मात् युगपत् न स्यात्। किं तत् सृजेत्। असौ अपेक्षतश्चान्यां वस्तु ( ? ) न नित्यो नापि शक्तिर्भवति। भावस्तु नित्यो नास्ति। कुतः। भावश्च क्षणिकः सर्वकालतः अन्यच्च विषयविषयिभ्यां नेष्यते। कुतः। यतश्चक्षुर्भ्या रूपादीन् दृश्यते। भ्रान्तिमात्रतः। विचारेणापि यत् घटपटादि न दृश्यते तत् पूर्वाभावात् कथं परमाण्वादि उक्तलक्षणतया विपयीभवति। यथा स्कन्धादीनां लक्षणं न पिण्डपरभाणवो बाह्यकम् इति। अथ यदि नीलपीत्याद्यभासस्य ख्यातिस्तदपि न भवति। प्रत्यक्षविरोधेन नात्मतस्तस्य सत्ता नास्ति। तत् कथं चक्षुर्विज्ञानादिपु ग्राह्यग्राहकभावेन प्रवृत्तिः। सति भ्रान्तिमेवेति बालजनैः कल्पितमिदं श्वेतमिदं पीतमित्यादि।

पुनरेवाह- अपीतमपि नाभ्यस्तं गच्छत्ययनं पुनः। तस्य किन्नाम यवधारावाहिनी विशप्तिर्न भवति। तदा कथं न विस्मर्य्यते। अन्नच्च वैषम्यशेलजातानामपि महोदधेर्मानात्यन्तं तथा सूक्ष्माणुपरिमाणानां को वा कुर्य्यात् तदकर्म्मकः। करोति वा बलशालित्वादिति चेत्। स एवोन्मत्तवत् भवति। नाशकाले श्रममात्मनः कथं नाशयेदिति। अथवाशक्तमेव क्रियते। अयस्कान्तोपलादीनाञ्च शस्त्राद्याकर्पणं प्रतिनिषिध्यते। तत् पुनर्विज्ञानागमे निषिद्धः। कायानुस्मृत्युपस्थानाद्यस्थानत्वात् कायं पुनः कुत्सितपञ्जरं विचारादवस्तु। एतदाह -

(७९)

अस्थिपञ्जरतो नांसं प्रज्ञाशस्त्रेण मोचयेत्।
अस्थीन्यपि पृथक्कृत्वा पश्य मज्जामनन्ततः।।
किमत्र सारमस्तीति स्वयमेव विचारितम्।
लालामूत्रपूरीषवाष्परूधिरस्वेदान्त्रमेदोवसा-
पूर्णः कायकलिः सदा ब्रणमुखैः प्रस्यन्दते चाशुचि इति।

तस्मात् न विज्ञानस्य स्थानमस्ति वासनामात्रमेवेति। तच्चाविद्यावशाज्जायते। तैः सर्वे दोषाः सम्भवन्ति। तथा चोक्तं- सत्यात्मनि परसंज्ञा स्वपरविभागात परिग्रहद्वैषौ -

अनयोः संप्रतिबद्धाः सर्वे दोषाः प्रजायन्ते इति।

तस्मात् प्रसिद्धं प्रतीत्यसमुत्पादलक्षणमिति। यदि वा अवलम्बते किञ्चित् देवतात्मशरीरं तन्न भवति। कुतः ? यदीश्वरं नास्ति तया रहितं किमन्यं देवतां साधयति। तन्मयमिति वचनात्। तस्मात् न भवति। अथ युगपदनुभवं साध्यते। तदपि न भवति। पूर्वेऽनुमानस्य सत्ताऽसिद्धा। यदि वा धुननकम्पनाद्यावेशं कुरूते तदा कुहिकारसत्यसाक्षात् अनुभवेयुः। निरूपलम्भत्वात्। तदपि प्रत्यात्मवेदके न भवति। एतदेवाह -

प्रत्यात्मवेदता तस्य कीदृशी नाम कथ्यताम्।
प्रत्यात्मवेद्यं वदतां वस्तुत्वं तस्य चेष्टितम्।।
इदं तदिति तद्वक्तुं तदशक्यमिति चोद्यते।
स्वनिश्चयं तदन्येषां निश्चयोत्पादनाय तु।।

(८०)

साधवस्तु प्रवर्त्तन्ते नित्यमव्यभिचारिणः।
वेदकस्य यद्वेद्यं वेद्याभावे न वेदकः।
वेद्यवेदकयोरेवं अभावतः किन्नु नेष्यते।। इति।

तस्मात् प्रतीत्यसमुत्पादमेवेति ईश्वराश्रितं निरस्तम्। इदानीं क्षपणकानामुच्यते। तत्र दीहणक्खजइ इत्यादि ता [ व पर ] केवल साहइ इति पर्यन्तेन। एवं -

दीहणक्खज्जइ मलिणेँ वेसेँ इति। अर्हन्ताश्रित एव देहिनः सर्व्वलोकाः कपटकुहनत्वेन भक्षिताः। मलिनवेशधारिणः स्वयं तत्त्वमजानानाश्च पुनरपि स्वशरीरेषु दुःखदायकाः। तमाह -

णग्गल होइ उपाडिअ केसेँ इति। नग्नेन प्राप्तं केशानामुत्पाटनेन कर्मणा न परमार्थः कश्चित्। एवमुक्तेन किं स्यात्।

खवणेहि जाण विडं वि अ वेसेँ इति। क्षपणकेन मार्गविडम्बितं यादृशं तादृशं न भवति। कुतः। नित्यानित्यव्यवहारत्वात् तन्मार्गमजानानाश्च तेषां यमाश्रयं कुर्वन्ति तैः।

अप्पण वाहिअ मोक्ख उवेसेँ इति। आत्मनो कुकर्मकुमार्गेषु वाहित्वं मोक्षोद्देशेन तच्च मोक्षे न सिध्यति। वक्ष्यमाणत्वात् -

जइ णग्गा विअ होइ मुत्ति ता इति। यदि मग्नानां भवति मुक्तिस्तदा- सुणह सिआलह इति। श्वशृगालादीनां किं न भवति मुक्तिः। अथ -

(८१)

लोमुपाडणेँ अत्थि सिद्धि ता इति। लोमोत्पाटितेन सिद्धिरस्ति यदि तदा- जुवइ णिअम्बह इति। युवतिस्त्रीणां नित्यरोमोत्- पाटनकर्म। तासां नितम्बस्य किन्न मुक्तिः स्यात्। अथवा-

पिच्छीगहणे दिट्ठ मोक्ख इति। क्षपणकेन मयूरपिच्छिकाग्रहणेन यदि मोक्षो दृष्टः ता करिह तुरङ्गह इति। तदा हस्त्यश्वानां गूढपक्षरेपु ? मयूरपिच्छकाभरणमालया मोक्षः भवति। न भवतीति यावत्। अन्यच्च-

उञ्छेँ भोअणेँ होइ जाण इति। उञ्छितभोजनेन यदि भवति ज्ञानं ता करिह इत्यादि पूर्ववत् एव -

सरह भणइ खवणाण मोक्ख मह किम्पि ण भावइ इति। सरोरूहवज्रपादेनोक्तं क्षपणकानां यन्मोक्षं तन्मम किञ्चिन्मात्रं न प्रतिभासते। कुत इति चेद् आह -

तत्तरहिअ काआ ण ताव पर केवल साह [ इ ] शति। तत्त्वरहितं किमन्यत् तावत् आत्मनाऽज्ञानता परेऽपि लोकाः केवलमनर्थेकपाते। यदा तेषां सिद्धान्तः यद्वीजनिकायादिलक्षणमनित्वं पुनरपि यत्तेषां वचनमस्ति तत् वनस्य पतीनां जीवमिति। तत्र भवति कस्मान्न भवति इत्याह। स्कन्धादीनां विनाशो भवति यदा तदाऽनित्य एवमेको जीवनिकायः द्वितीय वनस्पतयः तृणवनकाननादि।

(८२)

तृतीयं पृथिव्यादि चतुर्धातवश्च। एवं षड्जीवनिकायाः। एतत् सर्वं न भवति। कुतः। यतः सर्वे जडधातवः। तेषां कुत्र जीवमुपलभ्यते। न लभ्यते इति यावत्। अथ पुरूषायत्तं जीवम्। तत् पूर्वम् ईश्वरनिराकरणे निरस्तम्। एतदुक्तेन किं स्यात्। सर्वमेवानित्यरूतं स्यात्। कथं तर्हि प्रतीत्यसमुत्पन्नत्वम्। प्रतीत्यसमुत्पादञ्च भ्रान्तिरूपम्। लोकस्य स्थिरत्वाभावात्।

इहलोकं विहाय स्वर्गादिगमनं करोति। बोधनामपि तादृशमिह जन्मना सत्त्वार्थ कृत्वा तदा स्कन्धपरिणामेन अन्यलोकं गत्वा सत्त्वार्थ निष्पाद्य पुनरपि तत्परित्यागात् स्कन्धादिग्रहणं कुर्व्वन्ति इति। सर्वकालतः अलातचक्रवत्। [ पूर्वकारणा प्रणिधानाच्च। किन्तु विशेष ......म्मायावत् न सत्यं न मृषा च। लोकरूप्या पुनर्नित्यरूपमिति सिद्धम्। नार्हन्तवत्। ] किन्तु तेषां नित्यरूपमोक्षं तन्न भवति। कुतः यतस्तेषां वचनं त्रैधातुधातुकस्योपरि छत्राकारं मोक्षम्। तच्च षडशीतिसहश्रयोजनानां प्रमाणम्। एतदेव न सिध्यति। यतः त्रैधातुकस्य विनाशोऽस्ति छत्रं कुत्र स्थाने तिष्ठते। तस्मात् मोक्षनित्यरूपं न भवति। अनित्यमेवेति स्यात्। इति संक्षेपतः विस्तरेणान्यत्रावसेयम्।

इदानीं श्रमणानामुच्यते। तत्र चेल्लु इत्यादि नउ परमत्य एक्क तेँ साहिउ पर्यन्तम्।

चेल्लु भिक्खु जे त्थविर उएसेँ।
वन्देहिअ [ पव्वज्जिउ ] वेसेँ।। इति।

(८३)

चेल्ल दशशिक्षापदी। भिक्षु कोटिशिक्षापदी। स्थविरो यो दशवर्षोपपन्नः। ते सर्वे काषायधरवत्त्वारूपमात्रं प्रव्रज्यां गृहन्ति। तेन देशनभिक्षणशीलत्वक्षमान्नाचरन्ति। न तत्त्वतः तत्त्वम् जानन्ति। शठकपटरूपेण सत्त्वान् विहेठयन्ति। यदुक्तं भगवता पश्चिमे काले पश्चिमे समये मयि परिनिर्वृते पञ्चकषायकाले च ये भिक्षवः मम शासने भविष्यन्ति ते सर्वे शठकपटरता भविष्यन्ति। तथा गृहारम्भे सति कृषिवाणिज्यादिरताः सर्वपापकर्माणि करिष्यन्ति। शासने विडम्बकाः यत् पूर्वे मारकायिकाः तत् सर्वे ते श्रमणरूपेणावतरिष्यन्ति। तत्र मध्ये संघस्थविरास्ते सांघिकोपभोगं हरिष्यन्ति इत्यादि विस्तरः। न तेषां बोधिस्तत् कथं। ये श्रावकयानमाश्रितास्तेषाम् उक्तलक्षणेन भङ्गः। भङ्गात् पुनर्नरकं यान्ति। अथ शिक्षारक्षणमात्रेण विनयोक्तलक्षणायाः स्वर्गोपभोगमात्रं भवति। न पुनर्वोधिरूत्तमा कुतः यदा स्थविरार्यानन्दः परिनिर्वृतस्तदा तेन न कस्यचित् समर्पितम्। श्रावकबोधिरूपदेशः स स्यात्।

अथ महायानमाश्रयन्ति। तत्रापि निश्चयं न भवति। कुतः यतः पूर्वमारकायिकत्वात्। यदि सुस्थितं तदपि अनिश्चितम् एतदेवाह -

कोइ सुतन्तवक्खाण वइट्ठी- इति। क्वचित् भिक्षुः तत्त्वव्याख्यानं करोति। पूर्वेणाश्रुततया स पुनर्नरकादिगमनं करोति - द्रव्यादिलोभेन च।

(८४)

कोवि चिण्ते कर सोसइ दिठ्ठो इति क्वचित् वै चित्ता सर्वधर्मा क्रियते वदन्ति पुनः आगमपुस्तकाक्षरविचिन्तमानः तत्साधनं करोति द्रक्ष्यन् तत्। पाठानवबोधात् अपायगतिं यास्यति। एवं चिन्तयापि चित्तशोषं च करोति। ते रोगा बभूवुः।

अण्ण तहि महजाणहिँ धा [ वइ ] -

-णं गमिष्यन्ति। भ्रान्त्या च तेन भ्रान्त्या अपायगमनं करोति। तस्मात् भ्रान्तिर्नाम विकल्पः। भ्रान्ति वर्जनात् मुक्तिः। एवं

णउ परमत्थ एक्क तेँ साहिउ इति। तेन श्रमणादिना युक्त्या विजार्यमाणेन श्रावकादि परमार्थमेकं साधितम्। निष्केवलं व्रतचर्यादिना जीविकाहेतुना प्रवृत्तिरिति। तत्र समुदायार्थमाह -

जोएसु जेण होइ संतुट्ठो
मोक्ख कि लवभइ झाण [ प ] विट्ठो इति- यो येन दृष्टेन भवति सन्तुष्टं तस्य मार्गमात्रं श्रावकयानादि भगवता सन्दर्शितं तत्र यानेषु प्रविष्टा मोक्षं लभन्ते। वाच्यवाचकलक्षणो न भवतीति यावत्। स .....क्रियते। तावत् दुष्प्राप्यमिति। एवं तत्त्वरहितया तीर्थिकादिना च समुदायेनाह -

किन्तह दीवेँ किन्तह णिवेज्जँ इत्यादि। किन्दर्शनेन किन्तत् नमस्कारेण।

किन्तह किज्जइ मन्तह सेव्वँ। किन्तेन कर्त्तव्यं मन्त्रसेवनया। अथवा किं प्रदीपेन किं नैवेद्येन ज्ञान रहिततया न किञ्चित् कार्यमस्ति। तथा -

(८५)

किन्तह तित्थ तपोवण जाइ इति। किं तत्र तीर्थ..... स्यादि। किन्तेन तपोवने गमनया।

मोक्ख कि लव्भइ पाणी हाइ इति। अनेनोक्तेन तीर्थाश्रये [ न ] पाणीयस्नानपवित्रेण किं मोक्षो लभ्यते। न लभ्यते इति यावत्।

च्छड्डहु रे आलीका बन्धा इति। हेयपुरूषा मिथ्याबन्धनं कल्याणमित्रोक्तं तीर्थादिकं त्यजत। येन नरकादिं यास्यथ। लोकाय त मतादीनाञ्च। नास्ति दत्तं नास्ति हुतं न सन्ति श्रमणाः नास्ति ब्राह्मणः। नास्ति परलोकः यावत् जीवेत् सुखं जीवेत् तावत् मृत्योरगोचरः। भस्मीभूतस्य देहस्य पुनरागमनं कुतः इति। उच्छेददृष्टित्वाच्च। अथवा सांख्याः वदन्ति। सांख्याः प्रधानमिच्छन्ति नित्यं लोकस्य कारणेत्यादिना शाश्वतः। तेन किं क्रियते न कल्याणमिति चेत्।

सो मुञ्चहु जो अच्छहु धन्धा इत्यादि। समुदायार्थेन विशिष्टचर्या सूचयन्नाह। सन्मार्गेषु अधिमोक्षं कुरू। येन कृते सति स्वार्थ करिष्यसि। अयुक्तमार्गं मुञ्चसि त्यज- येन धन्धतायां स्थितिर्न करिष्यसि। सन्मार्गेण निर्द्धन्धं यास्यसि। सहजमेवेति नान्यः। एवं -

तसु परिआणेँ अण्ण ण कोइ इति। तस्य सहजस्य परिज्ञाने अन्यं मोक्षं न किञ्चिदस्ति।

अवरेँ गण्णेँ सव्व वि सोइ।। अन्यैः सर्व्वेर्मोक्षसमूहं यत् परिकल्पितं पृथक् पृथक् तत् सर्व्वं सहजमेवेति नान्यत्। किन्तत् सहजमजानानाश्च भ्रमन्ति संसारे घटीयन्त्रवत्। स च सद्गुरूपर्य्युपाश्रितेनोपलभ्यते। तत्र सहजे वाच्यवाचकौ न लभ्येते।

(८६)

वाच्यवाचकसम्बन्धात् न विद्येत् सहजस्त्रिषु।
देशनापादयोगेन स्थापितं भगवता क्वचित्।।
पुस्तके दृश्यमाने च सत्त्वार्थाय न संविदात्।
यत् यत् द्रक्ष्यति वस्तुश्च भ्रान्तिरूपादिकल्पना।
तत्तद्वस्तु न दृश्येत अभ्रान्तं गुरूपर्वया। इति तस्मात् -

सोवि पढिज्जइ इत्यादि। पाठस्वाध्यायादि यत् किञ्चित् शास्त्रपुराणादिसहजमयं यान्ति। न केवलं लोकोत्तरं लौकिकमप्याह -

सत्थपुराणेँ वक्खाणिज्जइ इति। यत् किञ्चित् शास्त्रपुराणादिव्याख्यानं क्रियते तत् सर्व सहजस्यैव नान्यस्य। तदाह -

णाहि सो दिट्ठि जो ताउ ण लक्खइ इति। एवं सहजोक्तक्रमात् यावत् पुरूषैर्न लक्षितं तावत्तेन मोक्षं न दृष्टम्। येन क्लेशक्षयं तत्क्षणात् करोति। कथं दृश्येतेत्याह -

एक्केँ वर इत्यादि। एतेन निष्केवलेन वरप्रवरगुरूपादापेक्षितेन लक्ष्यते। एवं स्पष्टार्थमाह-

जइ गुरू वुत्तउ हिअइ पइसइ इति। यत् गुरूक्तमार्ग ह्रदयगतं भवति। तदा -

(८७)

णीच्चिअ इत्थे ठविअ दीसइ। यथा क्वचित् पुरूषेण चिन्तामणिः प्राप्यते तदा निश्चितं तदुद्देशेन दानादि क्रियते। तेनेहापि सहजस्वरूपे प्राप्ते सति चिन्तामणिवत् सर्वसत्त्वान् तन्मयं करोति। सर्वस्वं द्रविणादि त्याज्यं करोति। ईदृशं मार्गमजाननात्। ग्रन्थकारः सरह इत्यादिना परिदेवनां करोति।

जग वाहिअ आलेँ इति। सव जगत् आलेन तीर्थिकादिना वाहितमिति।

णिअसहाव णउ लक्खिउ वालेँ इति। तैर्बालजातीयैर्निजस्वरूपं सहजभावमिदं न लक्षितम्। न सद्गुरवः आराधिताः। तदा ते षड्गत्यादिदुःखमनुभवन्ति। एतदेव न केवलं तीर्थिकस्य श्रमणेषु आह।

झाणहीण पव्वजेँ रहिअउ इति। यदा तेन श्रमणेन सम्यग्ज्ञानहीनेन प्रव्रज्यागृहीतविनयादिलक्षणं कृतं वा तेषां फलं न भवति।

कुत आह- घरहि वसन्त भज्जे सहिअउ। यदा गृहारम्भादि आश्रमं न करोति तदा व्रतभङ्गस्तेन सर्वञ्च चर्यादीनां भङ्गः। एकप्रतिज्ञाभङ्गेन्न च सर्वेषां भङ्गः। यथा एकेन पुरूषेण विपभक्षणेन सर्वेषु जन्तुषु। भङ्गं जायते। तच्च एके म्रियमाणे सर्वेषां न भक्षितेऽपि विषमरणभयं जायते। तदा यत् किञ्चित्

(८८)

भक्षितं तत् सर्वं सुपरीक्षितेन भक्षणं करोति। विषतत्त्वं वा अभ्यस्यति। तच्चा [ दा ] वेव सुनिश्चिततया नो चेत् भङ्गः जायते। एवं यत्किञ्चित् व्रतचर्यादि गृह्यते तत् सर्वं दृढप्रतिज्ञायेति। तस्य च-

जइ भिडि विसअ रमन्त ण मुच्चइ।

यदि च दृढविषयसेवारतिं न त्यजति। तदा ग्रन्थकारेण -

परिआण कि मुच्चइ इति। तदा अन्यपरिज्ञानेन किमुक्तेन क्षणिकसुखात्यागात्। येन दुःखमनुभवन्ति। अथ विषयसेवापञ्चकामादिना न मुच्यन्ते सति परिज्ञाने। तदा अन्ये शुष्कपरिज्ञाने वाच्ये उक्ते किं न मुच्यते इति यावत्।

जइ पच्चक्ख कि झाणेँ कीअअ।
जइ परोक्ख अन्धार म धीअअ।।

यदि प्रत्यक्षं तदा ध्यानेन किं क्रियते। यदा इदं परोक्षं न दृष्टम् अन्धकारमध्ये किं दृश्यते। अनेन किमुक्तं स्यात्। सर्वाणि प्रव्रज्यादीनि व्रतानि किं क्रियन्ते। अन्धकारमध्ये च परलोकफलम् अदृष्टत्वात्। अनुमानहेतुना च। किं तत् प्रत्यक्षं ज्ञानमाह- सरहेँ इत्यादि। कढ्ढिउ राव। गुप्तं न कृतं सर्वलोकेषु मयातिव्यक्तेन महानादोच्चारितम्। किं तत्। सहज सहाव ण भावाभाव इति। अत्र भावश्चक्षुराद्यालोकेन यद्वस्तु मनः- परिकल्पनया च। तत्र कुतः। यतः सर्व सहजस्वभावेन वस्तु विश्वमुत्पादितं तदेवम्भूतपरिकल्पनया मुच्यते। तथा चोक्तम् -
(८९)

नापनेयमतः किञ्चित् प्रक्षेप्तव्यं न किञ्चन।
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते। इति।

तत् कथं युक्ति आह। इदं तद्द्विपदाः सुखेनोत्पन्नाः। सुखमिच्छन्तश्च मातृपितृसंयोगाज्जायन्ते। तत् प्रत्यात्मवेद्यतया नाभावः। कुतः। तन्मयत्वेनावाच्यत्वात् च। सैव मरणान्तिकं सुखमिति भावः। अतएव -

जल्लइ मरइ उवज्जइ वाज्झइ।
तल्लइ परम महासुह सिज्झइ।। इति।

येन सुखेन म्रियन्ते तेनैवोत्पद्यन्ते उत्पन्नाश्च तस्मिन्नेव बध्यन्ते। प्राकृत सुख कल्पनया च। स च तेनैव सम्यक् गुरू [ पदेशं ] परिज्ञाय गृहीत्वा परममहासुखं सिध्यतीति भावः। एवं सरह इत्यादि सुबोधम्। अस्य प्रतिनिर्द्देशमाह -

झाण रहिअ कि कीअइ झाणेँ।
जो अवाज तहिँ काहि वखाणेँ।। इति।

अत्र प्रथमं तावजज्ञानं वाच्यवाचकलक्षणादिरहितम्। तत् किमिदं सहजं ज्ञानं कल्पिततया किं क्रियते। हेतुरहितत्वेन। फलव्यवस्था नास्ति। तस्मात् यदवाच्यं तत्र किं व्याख्यानं क्रियत इति यावत्। तथाचोक्तम् -

(९०)

इति तावत् मृषा सर्व [ यावद् ] यावद्विकल्प्यते।
तत् सत्यं [ तत ] तथाभूतं तत्त्वं यन्न विकल्प्यते।। इति।

किन्तद् भवतीति पुनरप्याह

रूपमस्य मतं स्वच्छं निराकारं निरञ्जनम्।
शक्यञ्च नहि तज्ज्ञातुमबुद्धेषु कथञ्चन।।
बुद्धोऽपि न तथा वेत्ति यथायमितरो जनः ।
प्रतीत्य तां तु तस्यैव तां जानाति स एव हि।। इति।

तस्मादज्ञानवृतेर्न लक्षितं तत्त्वं किमज्ञानमेतदित्याह -

भव मुद्देँ सअल हि जग वाहिउ।
णिअ-सहाव णउ केणवि साहिउ।। इति।

भवमुद्रया सकलं जगद्वाहितम्। भवमुद्राङ्केनाकल्मषहृदया सत्त्वबञ्चिका च। तया जगद्दासीकृतं यदिच्छति प्राणातिपातादि तत् सर्व कामलोभेन कारयति। तया च कृतमुन्मत्तवत्। तस्मात् निजस्वभावं सम्यक्तत्त्वं न केनचित् साधितं भवति। अन्यच्च मन्त्रतन्त्रादिदेशनया द्रव्यलोभेन जगन्मोहितम्। तमाह -

मन्त ण तन्त ण धेअ ण धारण इति। एतेन ग्रन्थकारेण करूणावशादुक्तं मन्त्रतन्त्रेण रहिततया मोक्षं न लभ्यते। तैः

सव्ववि रे वढ विब्भमकारण।। इति हे मूढ सर्वभवेषु विभवकारणं सम्पत्तिकारणं- विभ्रमः। येन भ्रान्त्या दुःखमनुभवन्ति तस्मात्।

(९१)

असमल चित्त म झाणेँ खरडइ इति निर्मलचित्तं मा अज्ञानेन तावच्छीकुरू ( ? )। कथं तन्निर्मलमुच्यते। चित्तसंज्ञा द्विविधा लौकिकी लोकोत्तरा च। यल्लौकिकं तद्विकल्पलक्षणं पूर्व निराकृतम्। यल्लोकोत्तरं निर्मलं धर्मकायलक्षणं सहजस्वरूपं वा। अतएव आह -

सुह अच्छन्त म अप्पणु झगडह इति।

एतेन निर्विकल्पसुखरूपं सर्व त्रैधातुकं व्यवस्थितम्। तदा न पृथक्त्वेनात्मनो पराभवीकुरू। तदा सुखमयत्वेन इदं कुरू। किं तदाह -

खाअन्तेँ इत्यादि च उ भअलोअह पर्यन्तमिति। एतेन च सप्रपञ्चचर्यापि सूचिता भवति यदा इन्द्रभूतिपादेन कृता। खाने पाने। न पञ्चकामोपभोगेषु सुरतक्रीडा। पुनरपि पद्यभाजनादिना गृहीत्वा वलिं दास्यति। महाचक्रदेवतारूपेण स्थास्यति। एतेन भव्यलोकानां ज्ञानसिद्धिर्महामुद्रासिद्धिर्भविष्यति। तैश्च तीर्थिकादीनाम्। बहुभयभवलोको मस्तकेषु पादन्यासं करोति। वैनेयं करोति। एतेन महामुद्रा या साध्यते तस्याः किमुद्देशमित्याह -

(९२)

जहि मण पवण ण सञ्चरइ रवि ससि णा ह पवेस।
तइ वद चित्त विसाम करू सरहेँ कइअ उएस। इति।

यत्र सर्व्वजन्तुषु स्वरूपं स्वसंवेदनतया गुरोरादेशात्। नेस्थितेष्वपि चित्तविश्रामं कुरू यत्र महत्त्वं प्राप्स्यति। तस्मिन् स्थाने मनसः पवनस्य च सञ्चारो न भवति। तत्रैव रविशशिनोः प्रवेशनिष्काशो न स्तः। नतु कल्पनामात्रं तत् तु सर्व्वे निरूद्धा भवन्ति। यथा बालैः सन्धाभाषमजानद्भिर्मनः पवनादिनिरोधमाश्रयः कल्पितः तत्र कथमिहोच्यते। निरोधो नाम निषेधवाची। किन्तेन कष्टचर्य्यया। यावच्छरीरं वाय्वादि वाहनं भवति तावत् वायुनिरोधेन शरीरं निरोध्यते म्रियते वा। तस्मात् सद्गुरूपदेशात् बोद्धव्यम्। सरहेत्यादि सुबोधम्। किन्तु पवनरूपं बोधिचित्तम्। तदामृतं मनः सुखरूपम् एवं रविशशिरागविरागोऽनयोः कल्पितसहजो यत्र न भवति ग्राह्यः एवमुपदेशे प्राप्ते सति।

एक्कु कुरू इत्यादि फुड पुच्छहि गुरू पावा इति पर्प्यन्तं सुबोधम्।

(९३)

किन्तु सर्व्वमुपदेशैर्व्याप्तम्। तेन तत् कुर्यात् सर्व्व तन्मयमितिभावः। यदि भ्रान्तिरास्ति कदाचित् तदा पुनरपि गुरूपादस्यान्तिकं स्फुटतरत्वेन पृच्छां कुरू येन निर्भ्रान्तो भविष्यसि। तदा तेनापि सः उपदेशो दीयते तमाह जहि मन इत्यादि।

जहि मण मरइ पवण हो क्खअ जाइ इति यत्र हि मनो म्रियते पवनञ्च क्षयं याति। न केवलं तद्द्वयम् अन्यच्च।

एहु सो परममहासुह रहिअ कहिम्पि ण जाइ इतीदं वचनात् साधितम्। परममहासुखसमापत्त्या येन प्राप्तञ्च। तदपि रहितं सम्यक् गुरूपदेशं विना। वाच्यवाचकाभावं तस्य कथं तत्वेपि न किञ्चिद्भवति। किन्तु रहिअ इति न स्थितम्। कहिम्पि ण जाइ न गतं क्वचित्। वचनं वचनगम्यं न भवतीति भावः। तथाचोक्तम् -

बुद्धेरगोचरतया न गिरां प्रचारोद्धारे गुरूप्रथितवस्तुकथावतारः।
तत्तु क्रमेण करूणादिगुणावदाते श्रद्धावतां हृदि पदं स्वयमादधाति।।
अत्रैव - सअसम्वित्ति म करहु रे धन्धा
भावाभाव सुगति रे वन्धा।। इति।

(९४)

स्वसंवित्तमनादिकल्पनया सुखं मा करिष्यसि। यदि करिष्यसि धन्धतां यास्यसि। तस्माद् भावं वा उक्तलक्षणम् अभावं वापि सुगतिर्वा विकल्पितं हे मूढ सर्व तत् बुद्धत्वं न सम्भवति। नास्ति सुवर्णलोहनिगडयोर्भेदः तस्मात्। त्याज्यमेवेति। तथाचोक्तम् -

परमार्थविकल्पेऽपि नावलीयेत पण्डितः।
को हि भेदो विकल्पस्य शुभे वाप्यशुभेऽपि वा।।
नाधारभेदात् भेदोऽस्ति वह्निदाहकतां प्रति।
स्पृश्यमानो दहत्येव चन्दनैर्ज्वलितोऽप्यसौ।।

एतेन किं क्रियताम् इत्याह -

णिअ मण मुणहु रे णिउणेँ जोइ
जिम जल जलहि मिलन्ते सोइ।। इति।

निपुणं मनो निर्म्मलं भावाभावरहितं प्रभास्वरमयं वा द्रक्ष्यसि। हे यूयं योगिनः निपुणेन योगेन च योगञ्च चित्तवृत्तेरेकाग्रलक्षणं ज्ञानज्ञेयलक्षणं वा स च यादृशं जलस्य जलं मिश्रितं तादृशं स भवति योगं भवति चेत्।

झाणेँ मोक्ख कि चाहुरे आलेँ
माआजाल कि लेहुरे कोलेँ।। इति।

अलीकेन ध्यानेन केशोण्डुकाद्याभासेन हे मूढपुरूष कि मोक्षमधिगच्छसि। तस्मात् तं तयो ( ? ) दुरतिक्रमम्। कुतः। मायाजालं समस्तं त्रिभुवनं किं गृह्यते स्वाङ्गोत्सङ्गेषु। न पार्य्यते इति यावत्। किन्तु -

(९५)

वरगुरू-वअणेँ पडिज्जहु सच्चेँ
सरह भणइ भइ कहिअउ वाँचे।। इति।

यदि तावत् गुरूवचनस्य सत्यतास्ति। तदा मया सरोरूहप्रवरगुरूवचनेन कथितमिदं दोहाकोषादिना।

पदमेँ जइ आआस- विसुद्धो इति।

एवं गुरूवचनस्य प्रतीतिकृते सति यः सर्व्वभावायासः स विशुद्धो भवति। कुतः-

चाहन्ते चाहन्ते दिट्ठि णिरूद्धो ।

यथा दृष्टा चक्षुषा व्यवलोकनेन निमेषोन्मेषोनिरोधेन च यत् दूरतः मरीचिकादि पानीयस्य दर्शननिरोधो भवति। तथैव इहापि विचार्य्यमानेन सर्व्व तन्मयीभवति। नान्यथा किं विचार्य्यत इति। गुरूपदेशामुखीभावसहितः प्रबन्धतः। स च न विकल्पभावनाजालादिवत् यदि वा तेनैव बुद्धत्वं तदा प्रतीत्य तां जनयति। स चान्धकाराभावादालोकवत् छायाभावादातपवत् विशिष्टं निर्म्माणकायोऽत्र जायते। मनोनिरोधेन तु विशिष्टधर्म्मकायस्वभावो भवति। स च सर्व्वमयमिति भावार्थः। न पुनर्मन इति। न किञ्चित् स्यादिति। तत् प्रतीतिं जनयति। प्रतीत्यसमुत्पादत्वाच्च एवमजान तामाह -

(९६)

एसेँ जइ आआस-विकालो।
निअमण दोसेँ ण वुज्झइ वालो। इति।

ईदृशं यदि आयासानां विकालो नोत्पादकालः सर्वेषां संहारकालमिति भावः। तदा णिअमण भावासक्तदोषतया न विदन्ति। बालजातीयाः तीर्थिकाद्या श्च। एतदाह- तेनेह सह वेदान्तेनैव सांख्याः क्षपणका मता विप्रलब्धा बुद्धयो विदिताः विदितपरमार्थदृढचित्तं प्रपिण्ड्यैकात्मदृष्टयाभिनिविष्टाः। अप्राप्तविनयकालतया च महाकरूणिकैरप्युपेक्षिताः भूयः संसारग्रन्थिमेव दृढयन्तोऽनुकम्पनीया एव। करूणाशालिनां विपदि वर्त्तमाना इति न द्वेषार्हाः। ये तु सौगतनेत्रिकाः तेऽपि वस्तुधियः ( ? ) सांसारिकनैर्वाणिकपक्षावबोधपटवो न स्वाख्यातसिद्धान्तानुगबुद्धिभिः प्रतार्य्यन्त इति विस्तरः। तस्मत् -

अहिमाणदोसँ ण लक्खिउ तत्त। इति।

मिथ्याज्ञानाभिमानदोषैस्तत्त्वं न विज्ञातम्।

तेण दूसइ सअल जाणु सो दत्त। इति।

सदोषतया दूषितं भवति सकलं यानं मार्गञ्च तैः। आदैत्य( ? ) पुरूषवत् अनेन ....

झाणेँ मोहिअ सअल वि लोअ इति। सर्वलोकः स्वस्वयानं तीर्थिकादीनां यानमेवेति। इदम् -

णिअ सहाव णउ लक्खइ कोअ इति। निजस्वभावं सहजसर्वकालमवस्थानात्। स न लक्षितः केनचित् लोकेनाज्ञानावृतेनेति ग्रन्थकारः परिदेवनां करोति। पुनः-

(९७)

चित्तह मूल ण लक्खिअउ सहजेँ तिण्ण वि तत्थ।
तहिँ जीवइ विलअ जाइ वसिसउ तहि फुत एत्थ।।

इति। अनेन स्थिरमुपदेशं दृढापयति। चित्तह इति चिन्ताया उपदेश स्यैकम्। तथा मूलं न लक्षितं यद् गुरूणां वचने न स्थापितं द्वितीयम्। सहजस्य स्वभावरूपं लक्षकेण लक्षितम्। एवं तत्त्वत्रयं लक्ष्यलक्षणलक्षकं वितथम् अतथ्यम्। यदि गृह्यते तदा सर्व चित्तचैतन्यरूपका भवन्ति। एतेनोपदेशस्य सत्ता न स्यात्। तस्मिन् स्थाने वीरपुरूषा जीवन्तः सूराः विरला योगिनः जायन्ते। तस्मात् हे पुत्र ईदृशेषु वसितव्यम्। तस्मिन् सर्वधर्मा निलीनाः कार्य्याः स परमार्थ इत्युच्यते। तदेवाह -

जयति सुखराज एकः कारण रहितः सदोदितो जगताम्।
यस्य च निगदनसमये वचनदरिद्रो बभूव सर्वज्ञः।

इति एवम् -

मूलरइअ जो चिन्तइ तत्त।
गुरू- उवएसेँ एत्त विअत्त। इति।

यः कश्चित् मूलरहितं तत्त्वं चिन्तयति। गुरूपदेशेनैतत् पुरूषरत्नैर्विदितं तत्त्वमिति। विदितं गुरूपदेशम् अस्तव्यस्तमार्गयायिने सिद्धम्।

(९८)

सरह भणइ वद जाणहु चंगे।
चित्तरूअ संसारह भङ्गे। इति।

एतेन ग्रन्थकारः स्पष्टार्थ वदति। यः कश्चित् चित्तरूपभावना सा संसारस्य भयहेतुका भवेत्। तदा उक्तः। गुरूपदेशेन तत्त्वं लक्ष्यते दृढनिश्चयेन यः चित्तरूपः। संसारश्चित्तमयो वा तस्य भङ्गः सम्भवतीति भावः। तस्मात् तत्तत्वम्-

णिअ- सहाव णउ कहिअउ अण्णेँ।। इति।

निजस्वभावं स्वयम्भूस्वरूपं नान्येन कथितं तीर्थिकादिना। तदा केन सद्गुरूणेत्याह।

दीसइ गुरू-डवएसेँ ण अण्णेँ।। इति।

मया सरहेण दृष्टं सद्गुरूपदेशेन सौगताश्रयेण नान्येनेति। गुरूपदेशचक्षुषावगतम्। परिभाषितुं यत् तन्मूकोऽस्मिन्निति। ईदृशं यस्यास्ति तस्य गुणमाह-

णउ तसु दो सओ एक्कवि ट्ठाइ।

न तस्य दोषस्य एकं स्थानमस्ति। येन-

धम्माधम्म सो सोहिअ खाइ। इति।

गुरूपदेशेन धर्माधर्मं पूर्वोक्तलक्षणं शोधनीयत्वात् च। शोधितं भक्षणं करोति। अस्यैवोपचारमाह -

(९९)

णिअमण सव्वेँ सोहिअ जव्वेँ। इति।

एवम् अमनः सर्वधर्मा स्वभावोत्पन्ना नोत्पादिताः केनचित्। यथा तृणवनगुल्मादयः स्वभावेनोत्पन्ना विलयं यान्ति तद्वदिह द्विपदचतुष्पदादयः स्वभावेनोत्पन्ना निर्मना विलयं यान्ति हि न केनचिदुत्पादिता भवन्ति। तत्कथं दृश्यते। उत्पादादि मया कृता इमे रूपादयः। भ्रान्त्याऽज्ञानिनां वचनमेतत्। तत्परित्यागात् यस्मिन् क्षणे यस्मिन्नेव क्षणे सर्वधर्मशोधनम्। तन्मयत्वाच्च भक्षितं भवति -

गुरूगुण हिअए पइसइ तव्वेँ।। इति।

गुरूणा दत्तोपदेशगुणञ्च स्वहृदये प्रविष्टं तत्र शोधनभक्षादिकालेषु कायादि सर्व ददातीति प्रत्ययात्। न पुनर्गुरूपदेशं विवदन्ति न किञ्चित् ददाति ग्रहरूपत्वात् न वेत्तीति भावः।

एवँ मणे मुणी सरहेँ गाहिउ।। इति।

ईदृशं मनसा लक्षितं मनलक्षितम्। अथवा एवमनेन मुनिर्भगवान् परमार्थरूपकं सरोरुहवज्रापादेनोक्तम्। धर्मधातुलक्षणं न पुनः शशविषाणवत् न किञ्चिदमनः। तथा चोक्तं -

सावस्था काप्यविज्ञेया मादृशां शून्यतोच्यते।
न पुनर्लोकरूढेव नास्तिक्यार्थानुपातिनी।।
नास्तितारूपमेवास्य व्यवहारार्थमस्तिता।
निःस्वभावेषु धर्मेषु कस्य चास्तित्वनास्तिता ।।

(१००)

न स्मर्त्तव्यं त्वयेत्युक्ते स्मरत्येव निपेषितम्।
यथा तथैवासच्छब्दात् सोत्तरं प्रतिपद्यति।

इति विस्तरः। अथवा यदि वदन्ति अभ्यासात् क्लेशावृतमनोविरोधेन विशिष्टं मनो बुद्धत्वरूपं जायते। तदा कथमनेनोक्तेन किञ्चित् स्यात्। सिद्धं परमार्थ मम सर्वेषु तदाश्रिता चेति। तन्न भवति कथं तदित्याह -

तन्त मन्त णउ एक्कवि चाहिउ इति। तन्त्रः बहुप्रकारः तन्त्रोक्ता मन्त्रास्तेषु नाना स्वपरकल्पितम्। मया एकमात्रं न प्रेक्षितं भाव्यभावकादिलक्षणम्। कुतस्तैर्लोकानां वैनेयमात्रं न पुनर्विशिष्टफलं ततो जायते। तथा चोक्तम्-

( ? )आस्थिमाध्यासयोगेन आदिशुद्धा स्वभाविका।
प्रकृत्यैव हि सा सिद्धा तथता न विकल्पजा।।
अभाव- लक्षणाद्बोधिः सर्वधर्माश्च तन्मयाः।
अतस्तत् प्रार्थयेच्चर्य्या निजस्कन्धप्लवोपमाम्।। इति

तस्मात्- वज्झइ कम्मेण उणो कम्म- विमुक्केण होइ मणमोक्खँ इति। येन कर्मणा जन्तवो विबन्ध्यन्ते तत्परित्यागाधिमोक्षेण च भवति मनोमोक्षम्। मोक्षञ्चात्मात्मीयविकल्परहिततया मिथ्याभावनया मनःसंज्ञैव बन्धनात् तस्य निरोधः। एवं परिज्ञाने युगपत् मनोमोक्षेणेति भावार्थञ्चाह -

मणमोक्खेण अणूणं पाविज्जइ परमणिव्वाणँ इति। मनो मोक्षेणेति। मनश्च मोक्षं च अनयोरन्योन्यं निश्चितं परस्पररहितं परमनिर्वाणलक्षणं प्राप्तिः।

(१०१)

चित्तेक्क सअलवोअं भवणिव्वाणो वि जस्स विफुरन्ति इति। एवम् उक्तनिर्वाणे प्राप्ते सति तदा कः चित्ते बद्धे सति चित्तात् सकलमविद्याबीजं भवनिर्वाणात्मकाः च अशक्या विस्फुरन्ति। ते भवस्थायिका च न भवतीति यावत्। तस्मात् -

तं चिन्तामणिरूअं पणमह इच्छाफलं देन्ति इति। परमनिर्वाणस्य विशेषणम्। स चिन्तामणिरूपस्तस्य प्रणामं कुरूत। कुत इच्छाफलं ददाति इति हेतुना। इच्छा च महाकरूणा जगदर्थात्मिका तां वाञ्छाफलं येन पूरितमनाभोगतः सैव गुरूस्तस्यैति चिन्तामणिस्तथा। एवम् -

चित्तेँ वज्झेँ वज्झइ मुक्केँ णत्थि सन्देहा इति। चित्तेन बद्धेन विकल्पादिना बध्यन्ति। पुनरपि तत्परिज्ञानात् मुक्तिं लप्स्यन्ति। एवं त्रितयः बन्धमुक्तमुक्तबन्धेषु तत्र मुक्तिः। अद्वयेनेति नास्ति सन्देहः। एवमपरिज्ञानात् संसारे विभ्रमन्ति बालजातीयाः पण्डिताः मुच्यन्ते।

वज्झति जेण वि जडा लहु परिमुच्चन्ति तेन वि वुहा। इति। येनैव वञ्चकामोपभोगादिना मूर्खलोका बध्यन्ते तेनैव सति परिज्ञाने गुरोरादेशात् पण्डिता लघु शीघ्रतः संसारात् मुक्ता भवन्ति। तथा चोक्तम् -

(१०२)

येनैव विषखण्डेन म्रियन्ते सर्वजन्तवः।
तेनैव विधतत्त्वज्ञो विषेण स्फोटयेद्विषम्। इति तथा

पुनः -

वद्धो धावइ दहदिहहिँ मुक्को णिच्चल ठाइ इति। यथा पुरूष आत्मीयविकल्पेन बध्यमानो दशदिशि धावति षड्गतिसंसारे विभ्रमति तथा स एव पुरूषः सम्यक् मार्गात् मुक्तः तदा निश्चलेनात्मपरिमुक्ते स्थाने स्थितत्वात् धर्मकायात्मकः इति भावः।

एमइ करहा पेक्खु सहि विहरिअ महु पडिहाइ इति। समुदायतोऽत्र यथा करभ उष्ट्रः महाभारेण बद्धस्तदा वेगेन धावति धारयितुमशक्तः। स एव भारत्यागात् मुक्तः क्षणे निश्चल एकस्थाने स्थितस्तथा ईदृशं करभमिव स्वकीयं चित्तं साक्षात् विहरति। तादृशं मम प्रतिभासते व्यपदेशार्थोक्तलक्षणात् इति।

इदानीमस्य कार्य्यमाह -

पवणरहिअ अप्पाण म चिन्तह।
कठ्ठ जोइ णासग्ग म वंदह ।। इति।

(१०३)

पावनेति वायुः। नासिकाश्वासोत्श्वासलक्षणं तद्रहिततया आत्मानं न द्रक्ष्यति। कुतः ? यावत् वायाश्रितं शरीरं तद्रहितेन शरीरस्य कुतः स्थानमस्ति। एवं गुरूपदेशात् वायुस्तन्मयं कृत्वा कुत्रात्मानो न लभ्यन्ते। तस्मात् त्यज कष्टेन योगेन विकल्पात्मकेन तस्याः संगं न क्रियतामिति निश्चः। किं क्रियते इत्याह-

अरे वढ सहजे सइ पररज्जह।
मा भवगन्धवन्ध पडिचज्जह। इति

हे मूढ पुरूष अल्पाशयं त्यजसि कुरूष्व महाशयं किन्तत् सहजं गवेषय। तत् प्रवेशे महार्थतया शक्तिं कुरू। मा भवगन्धेति भवस्य गन्धः गन्धर्वसत्त्वतया गत्यागतिभावात् यैर्भवबन्धमलातचक्रवत् भवति तस्मिन् मा त्वं सक्तिं कुरू।

एहु मण मेल्लह पवन तुरङ्ग सुचञ्चल।
सहज-सहावे स वसइ होइ निच्चल।। इति

ईदृशं मनः पवनञ्च सुष्ठु चञ्चलमिव तुरङ्गः यथाऽस्य निरन्तरत्वात् तत् त्याज्यं कुरु। इदं ग्राहयिष्यसि। किन्तत् सहजस्वभावस्थानं गुरूपदेशः तेनाश्रितेन साक्षान्निश्चलं भविष्यति। आत्मना ज्ञायते पुण्यादितिवचनात्। अस्य विशेषणमाह-

जव्वेँ मण अत्थमण जाइ तणु तुट्टइ वन्धण।
तव्वेँ समरस सहजे वज्जइ णउ सुद्द ण वम्हण।। इति

यस्मिन् क्षणे विकल्पमनः अस्तमितं भवति तस्मिन् सर्वबन्धनं विनश्यति। न केवलमात्मनो बन्धमात्रं विशेषेण तस्मिन् काले समरसः सहजे वर्जनं सर्वलोकानां

(१०४)

एव कुलपञ्चतथागतादि सर्वे हीना भवन्ति। यस्मिन् स्थाने अन्ये च ब्रह्मविष्णुमहेश्वरादीनि तस्मिन् सकललोका लीना लग्ना न किञ्चित्तत्त्वविदो भवन्ति। तस्मात् सर्वशास्त्रतत्त्ववेदिनस्तैर्विना निष्फला इति। तथा चोक्तम् -

चतुरशीतिसहस्त्रे धर्मस्कन्धे महामुनेः।
तत्त्वं ये वै न जानन्ति सर्वे ते निष्फला इति।।

अत आह -

अरे पुत्तो वोज्झु रसरसण सुसण्ठिअ अवेज्ज।
वक्खाण पढन्तेइ जगहि ण जणिउ सोज्झ॥ इति

हे पुत्र त्वया रसरसायनसाधनकाले स्फुटतरशुद्धिमजानानो यथा नष्टः तथा रागादिशुद्धिमजानानो नष्टः। त्वमीदृशं मा कुरू। रागादभिलषितधर्मादिषु क्रीडा या सा तत्त्वरहिततया सुष्ठु संगृहीता अविद्यैवेति। न केवलं तत्त्वं प्रति। अन्ये च लोकाः व्याख्यानं कुर्वन्ति पठन्ति च। तेषां सर्वं निष्फलं भवति। कुतः( ? ) जगत् संसारस्य अज्ञानात्। यः पुनर्जानाति। तस्योच्यते -

अरे पुत्तो तत्तो विचित्तरस कहण ण सक्कइ वत्थु।
कप्परहिअ सुह- ठाणु वरजगु उअज्जइ तत्थु।। इति

हे शिष्य पुत्र यत् तत्त्वं विचिन्तितं तस्य रसं स्वानुभवकथनं न शक्यते। इदं वस्तुरूपं नीलपीताद्याकारं तद्वत् किं तत् स्वसंवेद्यं यतः तां जानाति स एव हि। तस्मात् कल्परहितं सुखस्थानं यस्माच्छ्रेष्ठजगत्तत्त्वरूपमिति भावः। एवं

(१०५)

ध्यानेन नोलपभ्यते स्वभावसिद्धत्वात् गुरूपरिज्ञानमात्रेणोपलभ्यते नाभिमानादिना। तदाह -

वुद्धि विणासइ मण मरइ जहि [ तुट्टइ ] अहिमाण।
सो माआमअ परम-कलु तहिँ किम्बज्झइ झाण।। इति

एवं गुरूणा दत्त- सहजामुखीकरणात् यत्किञ्चित्कल्पितां बुद्धिं विनाशयति विस्मरणं करोति विकल्पमनो म्रियते बाह्यादिवस्तुलक्षणकं न भवति। तस्मिन् स्थाने अभिमानता अहंकार आत्मात्मीयकल्पना त्रुटयति क्षयं याति। यस्मात् स मायामयपरमकलारूपकं कलेति षोडशो कलेव नार्थ करोति किञ्चित्। तदिह हि ध्यानबन्धनेन किं कार्यमस्ति। मनः परिकल्पिततया नास्तीति यावत्।
तस्य विशेषणमाह-

भवहि उअज्जइ खअहि णिवज्जइ।
भावरहिअ पुणु कहि उवज्जइ।। इति

यस्मिन् स्थाने भवभक्षितं पुनरप्यत्रैव क्षयविवर्ज्जितम्। एवं भावाभावरहितः। भूवः कस्मिन्नप्युत्पादो नोपपद्यते इति यावत्। एतदुक्तेन नास्तिको न भवतीति। कुतः ? यतः बुद्धादिलक्षणं सर्व मायावत् भावाभावमिति प्रसङ्गः। किन्तर्हि कल्पनयोगात् तत् तथोक्तः। एवं पुनः -

विण्ण विवज्जिअ जीउ वज्जइ।
अच्छइ सिरिगुरूणाह कहिज्जइ।। इति

द्वयवर्ज्जितेषु द्वयेषु योगं मध्यमोपलब्धिविवर्ज्जिभिः परमविरमयोर्मध्यमेनोपलभ्यते इत्याशयः। सर्वमद्वयमेवेति। तदपि वर्ज्जनात् तां स्थितिं कुरू। यत्र श्रीगुरूणा शिरसा कथनं कुरू। अत्याश्चर्यरूपं शिरश्चालनमेवेति। तस्मादनेन न्यायेन इदं विहरणं कुरू।

(१०६)

देक्खहु सुणहु परीसहु खाहु।
जिग्घहु भमहु वइठ्ठ उठ्ठाहु।। इत्यादि

अत्र यत्किञ्चिच्चक्षुषा द्रक्ष्यसि कर्णाभ्यां शब्दं शृण्वन्ति परिधानं वस्त्रादि शरीरं गच्छसि च सुखेन भक्षणं कुर्व्वन्ति नासया सुगन्धं दुर्गन्धं वां जिघसि भ्रमणं वा करोषि आसने निषण्णोऽसि उत्तिष्ठसि वा -

आलमाल व्यवहारेँ पेल्लह।
मण छड्डु एक्काकार म चल्लह।। इति

आलमाल क्रयविक्रयादि तैर्व्यवहारेण कालं कुरूष्व। मनश्चेतदद्वययोगात् न चलं तु अन्यमनपृष्टा कारणकर्त्तादिना एकाकारस्वभावेन परिभ्रमणं मा करिष्यसि। ते नरकादिदुःखमनुभवन्ति। तस्मात् सद्गुरूपदेशस्मरणं कुरू। तमाह -

गुरू उवएसेँ अमिअ- रसु धावहि ण पीअउ जेहि।
वहु सत्थत्थ मरूत्थलिहिँ तिसिए मरिअउ तेहि।।

गुरूपदेशममृतरसं महावेगेन परिधाविततया यैः कापुरूषैः न पीतं तेन विश्वसत्त्वार्थ भग्नम्। यथा मरूस्थलीषु बहुसंघाततृषितं पानीयरहिततया तत्र सार्थबाहकेन क्वचित् शोष्यस्थानेषु पानीयं दृष्टं तेन कोषदायापिता इति मत्वा

(१०७)

सार्थेरज्ञाता तेषु नोक्ततया सर्वं संबाधितं भवति। एवं परम्परया सर्वसत्त्वा विनाशिता भवन्ति। उपदेशस्य स्वलक्षमाह -

चित्ताचित्त वि परिहरहु तिम अच्छहु जिम वालु।
गुरूवअणेँ दिढभत्ति लरू होइ जइ सहज उलालु।।

चित्त ज्ञानज्ञेयादि। अचित्तो निःस्वभावादि। ताभ्यां परिहारं कुर्य्यात् बालमिव स्थितिं कुरू। निष्केवलं गुरूपदेशस्य दृढभक्तिं करोसि। येन सहजस्योल्लापनं भवति। उल्लपनं च निरन्तराभ्यासेन तन्मयं यास्यति। तन्मयश्च सर्वावरणरहितमवाच्यं चेत्याह -

अक्खरवण्णो परमगुण रहिअ।
भणइ ण जाणइ एमइ कहिअओ।।

इत्यक्षरवर्णाभ्यां स च नोपलभ्यते। अथवाऽक्षरेति परमाक्षरं तस्य वर्णेदं सुखमयाऽग्राह्यख्यानम्। एवम् उपमारहितवचनपरम्परया न जानीतं स ईदृशः मया सरोरुहेनोक्तं। तथा चोक्तं -

यावान् कश्चिद्विकल्पः प्रभवति मनसि त्याज्यरूपः स सर्वः।
योऽसावानन्दरूपः हृदयसुखकरः सोऽपि संकल्पमात्रः।

(१०८)

यद्वा वैराग्यहेतोस्तदपि यदुभयन्तद्धवस्याग्रहेतुः।
निर्वाणं नान्यदस्ति क्वचिदपि विषये निर्विकल्पात्मभावात्।।

इति तस्मात् -

सो परमेसरू कासु कहिज्जइ।
सुरअ कुमारी जिम पडिवज्जइ।। इति

भ्रान्त्या यावत् सत्त्वनिकायः स्थितेऽपि स परमतत्त्वं परमेश्चरोऽन्यसिद्धान्तभावात् कस्य पृथगजनावस्थितस्य कथयामि हि तत्। कथनमात्रेण तेषु प्रवृत्तिः। किन्तर्हि यथा कुमार्यः सखीभ्यामालोचयन्ति। आलोचयन्ति प्रत्ययं कुर्वन्ति। प्रथमतः त्वया स्वामिने गत्वा सुखमनुभूतम्। तन्मयि साक्षाद्वदसि निश्चितमेतत्। गत्वा सा पुनरस्य गृहादागत्य सखिना च पृच्छति पूर्वोक्तं कीदृशमिति। ता ऊचुः। त्वया साक्षात् स्वामिना सहानुभवकाले ज्ञेयमिति। सुखोत्पादं न किञ्चित् साक्षात् ते वक्तुम् अवाच्यत्वात्। तमिव गुरूपदेशन्न पुनः कुमारोसुखमिति वस्तुरूपं प्रतिपादयति। एतदेवाह -

भावाभावेँ जो परहीणो
तहिँ जग सअलासेस विलीणो। इति

यदि चिन्त्यं परमं तत्त्वम्। भावाभावयोः कारणशून्यताद्वयत्वात् रहितो तस्मिन् जगत् सकलाशेषबुद्धवज्रधरादिकल्पितात्मकं विलीनं तन्मयेन निरूपलम्भात्।

जव्वेँ तहिँ मण णिच्चल थक्कइ।
तव्वेँ भवसंसारह मुक्कइ।। इति

(१०९)

उक्तक्रमेण यदि तत्र मनो निश्चलत्वेन स्थितम् आत्मात्मीयादिकल्पनारहितत्वात् तस्मिन् काले भवात् षड्गतिसंसारदोषात् मुक्तो भवति।

अनया कृते सति दोषान्याह -

जाव ण अप्पहिँ पर परिआणसि
ताव कि देहाणुत्तर पावसि।। इति

यावन्नात्मानं परमोत्कृष्टं तत्त्वरूपं परिजानासि तावत् किं देहस्य शरीरस्य निर्माणकायात्मकस्य व्यापकस्य च अनुत्तरं तत्त्वं तद्व्यापकत्वात् प्राप्स्यसि। यस्मादेकानेकत्वमायाति तस्मादात्मग्रहविपर्य्यासात् सर्वेषां तादृशं भवति। कस्मादनुत्तरतत्त्वप्रसङ्गादिति।

एमइ कहिओ भन्ति ण कव्वा।
अप्पहि अप्पा वुज्झसि तव्वा।

ईदृशं मया सरोरुहेनोक्तं तस्य भ्रान्तिं न कदाचित् कुरू। तया भ्रान्त्या च आत्मनात्मानं तदा जानासि। इदं त्यक्त्वा नान्यत् किञ्चिदस्ति। तेनाह -

णउ अणु णउ परमाणु विचिन्तजे।
अणवर भावहि फुरइ सुरत्तजे।। इति

न अणुपरमाणवः भावनया चिन्तिताः। अनवरतयोगादिभावने विस्फुरितं वा यदि क्रियते।

(११०)

भणइ सरह भन्ति एत्त विमत्तजे। इति

एतद्धि मात्रं कल्पनात्मकं ज्ञानम्। एतेन योगेन विमतिर्भवति। न सम्यक्त्वं हि मया कथितम्।

अरे णिक्कोली वुज्झह परमत्थजे।। इति

अरे मूढ पुरूष निक्कोली निर्मूली अकुली च। सर्वबीजाधारादिरहितस्तत् परमार्थ वदस्व तमाह -

निर्मूला परचेतन्मा( ? ) निर्मूला भावनात्मका।
निर्मूलं ज्ञायसे तत्त्वं अकुला हि तथागता। इति

तस्मात् स्वरूपेण स्फुरते नेच्छया तदासङ्गात् सुरतमिति एवमर्थम्-

घरेँ अच्छइ वाहिरे पुच्छइ।
पइ देक्खइ पडिवेसी पुच्छइ।। इति।

यथा कश्चित् योगिनीनां स्वगृहे स्वजनमस्ति बहिः पृच्छति कुत्र स्थितः पुनः प्रियं स्वामिनं पश्यति समीपस्थं गृहे पृच्छति कुत्र स्थित इति। तथा स्वदेहे तत्त्वं व्यवस्थितं बहिरन्यत् ज्ञानं पृच्छति। अज्ञानभेवेति। पुनः स्वानुभवं गुरोरादेशात् पश्यति अनुभवति। तदा समीपवर्त्ती यः कश्चित् कथं तत्त्वमिति पृच्छति। तेनाज्ञानमेवेति। यदज्ञानं तत् ग्राहणीयम्। यतः सर्वभावा असंस्कृतास्तत् किं ज्ञायते। एवं पुनर्द्दढापयति सरहेत्यादि -

(१११)

सरह भणइ वढ जाणउ अप्पा।
णउ सो धेअ ण धारण जप्पा।। इति

उक्ततत्त्वं तत् सर्वमात्मनैवात्मनि जानीत। स पुनः सतत्त्वं ध्येयधारणादिरूपेण जल्पितम्।

जइ गुरू कहइ कि सव्व वि जाणी
मोक्ख कि लब्भइ सअल विणु जाणी।। इति

केनचिदुक्तं भवतीदं यद्गुरूणा कथितं सर्वं न तत् सर्वं जानीयते। यदात्मानमृते तदा तद्वस्तुरूपमाख्याति। किमशक्यं तस्योत्तरं मोक्षं किं लभ्यते गुरूणा उक्तं तथा व्यतिक्रमेण तमजानानतया न जानातीति यावत्। तत् कथं विज्ञेयादभ्यासादिति स चाभ्यासमात्रेणात्मग्रहात्। तमाह -

देस भमइ हव्वासेँ लइजे।
सहज ण वुज्झइ पापेँ गाहिजे।। इति।

इह कापुरूषयोगिनां दोषमस्ति। स्वस्थानं त्यक्त्वा सर्वदेशेषु भ्रमणं कुर्वन्ति। भक्ताभक्तादिहेतुना तया कायक्लेशक्लमथं( ? ) न जानन्ति। कुतोऽभ्यासादिति। तदिदमनुत्तर सहजं न जानाति न व्यक्तीकरोति। कुतः ? पापेन गृहीतत्वात्। तत् भक्ष्याद्वैत्यादिति। अभ्यासरहित इति भावः।

(११२)

करोति। तया न शूद्रं ब्राज्ञणादि जातिविशेषं भवति सिद्धं। सर्व्वे लोका एकजातिनिबद्धाश्च सहजमेवेति भावः। तस्यैवानुसंसामाह - नास्ति सहजात् परं सिद्धान्तमिति। एवं -

एत्थु से सुरसरि जमुणा एत्थु से गङ्गा- साअरू।
एत्थु पआग वणारसि एत्थु से चन्द दिवाअरू ।। इति

एवमस्ति सुष्ठु क्रीडा कुतोऽस्ति स्वस्वपरात्मसहजेन अविच्छिन्नप्रवाहादिति। सैव यमुनागङ्गादिनामा च न पुनः पानीयस्नानाधारतया किन्तु यमुना सर्व्वयानतदाश्रयां च। गङ्गा तत्परिगमनशीला सागरञ्च सर्व्वसमाध्यपदेशसमुद्रत्वं प्रयागञ्च अद्वयत्वात् वाराणसी चाद्वयद्वयनिवारणात् चन्द्रदिवाकरौ च राहुग्रहणतथा उपदेशाग्निना सर्व्वं भक्षयेदिति। न केवलं तीर्थादि सहजपीठोपपीठादिषु च। तमाह -

क्खेत्तु पीठ उपपीठ एत्थु इति। एवं क्षेत्रोपक्षेत्रादि सर्व्वं हि चतुर्व्विंशति स्थानानि। स बाह्यभ्रमणकार्य्यमस्ति। स च - मइँ भमइ परिठ्ठओ इति। मया परिभ्रमणस्थापित- योगिन्युपदेशात् बाह्याध्यात्मिकं विश्वं सुखमयमेवेति भावार्थः। एतेन किमुक्तं स्यात्। स्वशरीरं सुखरूपं तस्य धातुः पीठादिरूपतया बाह्येषु प्रवृत्तिः। तेनाह -

देहा- सरिसअ तित्थ मइँ सुह अण्ण ण दीठ्ठओ।।

इति। देहा शरीरसदृशं तीर्थं सुखरूपं यदि भवति तदा सुस्थम्। यदा शरीरसदृशं तीर्थं मया सुखं नष्टमिति तस्मादभिन्नेन विहर्त्तव्यं योगिनेति। एवं पुनराध्यात्मिकेषु पीठादेषु च सञ्चारादिनावगन्तव्वं तेषु च सुखमयेन सञ्चारं न वायुमात्रेणेति। तस्मात् धर्म्महासुखमयं पीठादि सिद्धं। इत्थमाध्यात्मिकपीठादिदेवताधिष्ठानवतो निष्पन्नयोगिनो बाह्यपीठादिभ्रमणमनर्थकं। यथोक्तम्-

(११३)

चतुर्व्विशतिभेदेन पीठाद्यत्रैव संस्थितं।
अतस्तदग्रहणार्थेन खेदः कार्य्यो न तात्त्विकैः।।
यदि तत्त्वविहीनस्य भ्रान्त्यावेशान्न किञ्चन।
अथ तत्रोपेतास्ते स्युर्भ्रान्त्या तेषां न किञ्चन।। इति

तस्मादभिन्नरूपमिति निश्चयः। तमाह -

सण्ड- पुअणि-दल-कमलगन्ध-केसर-वरणालेँ इति। दृष्टान्तेन पद्मस्य पृथग्भावं त्यज। स न च एकैकस्य पर्य्यायस्य सण्ड यथा पुअणि पद्मपत्रं दलञ्ज कमलञ्च गन्धकेशरञ्च वरमुत्कृष्टं नालञ्च। एवम् -

छड्डहु वेणिम ण करहु सोस ण लग्गहु वढ आलेँ।।

हे पशुपुरूष उक्तपद्मस्य पृथग्भावं त्यजत। एकैकस्य पर्यायस्य चित्तशोषं कुरू। तस्मादीदृशस्याज्ञानवाक्यस्य नानाशास्त्रोपचारात् सुखबाह्ये मा लग्गसि। तथा -

कामतत्थ खअ जाइ पुच्छह कुलहीणओ।
बम्ह विठ्ठु तेलोअ सअल जहि णिलीणओ।।

किं मन्त्रशास्त्रेण सहजबाह्येण पृच्छां कुरू तैर्विना सर्व्वमन्त्रशास्त्रं क्षयं याति। यथा कुलहीनेन पुत्रेणासारेण च पितुरभावात् सर्व्वं यत्किञ्चित् द्रविनादिक्षयं याति सर्व्वं राजादिना गृह्यते। एवं तत्त्वहीनेन सर्व्वमन्त्रशास्त्रं धर्म्म वा अविद्यागृहीतैः क्षयं याति एवं समुदायार्थः। सहजाकाशवत् त्यक्त्वा विकल्पनां ज्ञानश्रयात् नामधेयमात्रं न लभते तथागतोऽन्यश्च। तस्मिन् सर्व्वं क्षयं याति।

(११४)

एवं कुलपञ्चतथागतादिसर्व्वे हीना भवन्ति। यस्मिन् स्थाने अन्ये च ब्रह्मविष्णुमहेश्वरादीनि तस्मिन् सकललोका लीना लग्ना न किञ्चित्तत्त्वविदो भवन्ति। तस्मात् सर्व्वशास्त्रतत्त्ववेदिनस्तैर्विना निष्फला इति। तथाचोक्तम् -

चतुरशीतिसाहस्त्रे धर्म्मसक्न्धे महामुनेः।
तत्त्वं ये वै न जानन्ति सर्व्वे ते निष्फला इति।।

अत आह -

अरे पुत्तो वोज्झु रसरसण सुसण्ठिअ अवेज्ज।
वक्खाण पढन्तेहि जगहि ण जाणिउ सोज्झ।। इति

हे पुत्र त्वया रसरसायनसाधनकाले स्फुटरशुद्धिमजानानो यथा नष्टः तथा रागादिशुर्द्धिमजानानो नष्टः। त्वमीदृशं मा कुरू। रागादभिलषितधर्म्मादिषु क्रीडा या सा तत्त्वरहिततया सुष्ठुसंगृहीता अविद्यैवेति। न केवलं तत्त्वं प्रति। अन्ये च लोकाः व्याख्यानं कुर्व्वन्ति षठन्ति च। तेषां सर्व्वं निष्फलं भवति। कुतः जगत् संसारस्य अज्ञानात्। यः पुनर्जानाति। तस्योच्यते -

अरे पुत्तो तत्तो विचित्तरस कहण ण सक्कइ वत्थु।
कप्परिहिअ सुह-ठाणु वरजगु उअज्जइ तत्थु । इति

हे शिष्य पुत्र यत् तत्त्वं विचिन्तितं तस्य रसं स्वानुभवकथनं न शक्यते। इदं वस्तुरूपं नीलपीताद्याकारं तद्वत् किं तत् स्वसंवेद्यं यतः तां जानाति स एव हि।। तस्मात् कल्परहितं सुखस्थानं यस्माच्छ्रेष्ठजगतत्त्वरूपमिति भावः। एवं

(११५)

ध्मानेन नोपलभ्यते स्वभावसिद्धत्वात् गुरूपरिज्ञानमात्रेणोपलभ्यते नाभिमानादिना। तदाह -

वुद्धि विणासइ मण मरइ जहि [ तुढ्ढइ ] अहिमाण।
सो माआमअ परम-कलु तहिँ किम्बज्झइ झाण।। इति

एवं गुरूणा दत्त सहजामुखीकरणात् यत्किञ्चित् कल्पितां बुद्धिं विनाशयति विस्मरणं करोति विकल्पमनो म्रियते बाह्यदिवस्तुलक्षणकं न भवति। तस्मिन् स्थाने अभिमानता अहंकार आत्मात्मीयकल्पना त्रुट्यति क्षयं याति। यस्मात् स मायामयपरमकलारूपं कलेति षोडशो कलेव नार्थ करोति किञ्चित्। तदिह हि ध्यानबन्धनेन किं कार्य्यमस्ति। मनः परिकल्पिततया नास्तीति यावत्। तस्य विशेषणमाह-

भवहि उअज्जइ खअहि णिवज्जइ।
भावरहिअ पुणु कहि उवज्जइ।। इति

यस्मिन् स्थाने भवभक्षितं पुनरप्यत्रैव क्षयविवर्ज्जितं एवं भावाभावरहितः। भूयः कस्मिन्नप्युत्पादो नोपपद्यते इति यावत्। एतदुक्तेन नास्तिकं न भवतीति। कुतः। यतः बुद्धादिलक्षणं सर्व्वं मायावत् भावाभावमिति प्रसङ्गः। किन्तर्हि कल्पनयोगात् तत् तथोक्तः। एवं पुनः

विण्ण विवज्जिअ जोउ वज्जइ।
अच्छह सिरिगुरूणाह कहिज्जइ।। इति

द्वयवर्ज्जितेषु द्वयेषु योगं मध्यमोपलब्धिविवर्ज्जिभिः परमविरमयोर्मध्यमेनोपलभ्यते इत्याशयः। सर्व्वमद्वयमेवेति। तदपि वर्ज्जनात् तां स्थितिं कुरु। यत्र श्रीगुरूणा शिरसा कथनं कुरु। अत्याश्चर्य्यरूपं शिरश्चालनमेवेति। तस्मादनेन न्यायेन इदं विहरणं ( ? ) कुरु।

(११६)

देक्खहु सुणहु परीसहु खाहु।
जिग्घहु भमहु वइट्ठ उठ्ठाहु।। इत्यादि

अत्र तत्किञ्चिच्चक्षुषा द्रक्ष्यसि कर्णाभ्यां शब्दं शृण्वति परिधानं वस्त्रादि शरीरं गवच्छसि च सुखेन भक्षणं कुरूवन्ति नाशया सुगन्धं दुर्गन्धं वा जिघ्रसि भ्रमणं वा चक्रमणं वा करोषि आसने निषण्णोऽसि उत्तिष्ठसि वा -

आलमाल व्यवहारेँ पेल्लह।
मण च्छड्डु एक्ककार म चल्लह।। इत्यादि

आलमाल क्रयविक्रयादि तैर्व्यवहारेण कालं कुरूष्व। मनश्चेतद्दद्वययोगात् न चलं तु अन्यमनपृष्टा कारणकर्त्तादिना एकाकारस्वभावेन परिभ्रमणं मा करिष्यसि। ते नरकादिदुःखमनुभवन्ति। तस्मात् तद्गुरूपदेशस्मरणं कुरु। तमाह -

गुरू- उवएसेँ अमिअ-रसु धावहि ण पीअउ जेहि।
वहु सत्थत्थ मरूत्थलिहिँ तिसिए मरिअउ तेहि।।

गुरूषदेशममृतरसं महावेगेन परिधाविततया यैः कापुरूषैः न पीतं तेन विश्वसत्वार्थं भग्न्ं। यथा मरुस्थलीषु बहुसंघाततृषितं पानीयरहिततया तत्र सार्थवाहकेन क्वचित् शोष्यस्थानेषु पानीयं दृष्टं तेन कोषदायर्पिता इति मत्वा

(११७)

सार्थेराज्ञाता तेषु नोक्तया सर्व्वं संबाधितं भवति। एवं परम्पराया सर्व्वसत्वा विनाशिता भवन्ति। उपदेशस्य स्वलक्षणमाह -

चित्ताचित्त वि परिहरहु तिम अच्छहु जिम वालु।
गुरूवअणेँ दिदभत्ति करू होइ जइ सहज उलालु।।

चित्ता ज्ञानज्ञेयादि। अचित्तो निःस्वभावादि। ताभ्यां परिहारं कुर्य्यात्। बालमिव स्थितिं कुरू। निष्केवलं गुरूपदेशस्य दृढभक्तिं करोसि। येन सहजस्योल्लापनं भवति। उल्लापनं च निरन्तराभ्यासेन तन्मयं यास्यति। तन्मयञ्च सर्व्वावरणरहितमवाच्यं चेत्याह -

अक्खरवष्णो परमगुण रहिओ।
भणइ ण जाणइ ए मइ कहिअओ।।

इत्यक्षरवर्णाभ्यां स च नोपलभ्यते। अथवाऽक्षरेति परमाक्षरं तस्य वर्णेदं सुखममाऽग्राह्यख्यानं। एवं उपमारहितवचनपरम्परया न जानीतं स ईदृशः मया सरोरूहेनोक्तं। तथाचोक्तम्-

यावान् कश्चिद्विकल्पः प्रभवति मनसि त्याज्यरूपः स सर्व्वः।
योऽसावानन्दरूपः हृदयसुखकरः सोऽपि संकल्पमात्रः ।

(११८)

यद्वा वैराग्यहेतोस्तदपि यदुभयन्तद्भवस्याग्रहेतुः।
निर्व्वाणं नान्यदस्ति क्वचिदपि विषये निर्व्विकल्पात्मभावात्।। इति

तस्मात् -

सो परमसरु कासु कहिज्जइ।
सुरअ कुमारी जिम पडि [ व ] ज्जइ।। इति

भ्रान्त्या यावत् सत्वनिकायः स्थितेसि स परमतत्वं परमश्चरोऽन्यसिद्धान्तभावात् कस्य पृथकजनावस्थितस्य कथयामि हि तत्। कथनमात्रेण तेषु प्रवृत्तिः। किन्तर्हि यया कुमार्यः सखीभ्यालोचयन्ति। आलोचयन्ति प्रत्ययं कुर्व्वन्ति। प्रथमतः त्वया स्वामिने गत्वा सुखमनुभूतं। तन्मयि साक्षाद्वदसि निश्चितमेतत्। गत्वा सा पुनरस्य गृहादागत्य सखिना च पृच्छति पूर्व्वोक्तं कीदृशमिति। ता ऊचुः। त्बया साक्षात् स्वामिना सहानुभवकाले ज्ञेयमिति। सुखोत्पादं न किञ्चित् साक्षाद् ते वक्तुं अवाच्यत्वात्। तमिव गुरूपदेशन्न पुनः कुमारीसुखमिति वस्तुरूपं प्रतिपादयति। एतदेवाह -

भावाभावेँ जो परहीणो
तहिँ जग सअलासेस विलीणो। इति

यदि चिन्त्यं परमं तत्वम्। भावाभावयोः कारणशून्यताद्वयत्वात् रहितो तस्मिन् जगत् सकलाशेषबुद्धवज्रधरादिकल्पितात्मकं विलीनं तन्मयेन निरूपलम्भात्।

जव्वेँ तइँ मण णिच्चल थक्कइ।
तव्वेँ भवसंसारह मुक्कइ।। इति

(११९)

उक्तक्रमेण यदि तत्र मनो निश्चलत्वेन स्थितं आत्मात्मीयादिकल्पनारहित्वात् तस्मिन् काले भवात् षड्गतिसंसारदोषात् मुक्तो भवति।
अनया कृते सति दोषाण्याह -

जाव ण अप्पहिँ पर परिआणसि
ताव कि देहाणुत्तर पावसि।। इति

यावन्नात्मानं परमोत्कृष्टं तत्त्वरूपं परिजानासि तावत् किं देहस्य शरीरस्य निर्म्माणकायात्मकस्य व्यापकस्य च अनुत्तरं तत्त्वं तद्व्यापकत्वात् प्राप्स्यसि। यस्मादेकानेकत्वमायाति तस्मादात्मग्रहविपर्य्यासात् सर्वेषां तादृशं भवति। कस्मादनुत्तरतत्त्वप्रसङ्गादिति।

एमइ कहिओ भन्ति ण कव्वा।
अप्पहि अप्पा वुज्झसि तव्वा।

ईदृशं मया सरोरूहेनोक्तं तस्य भ्रान्तिं न कदाचित् कुरु। तया भ्रान्त्या च आत्मानात्मानं तदा जानासि। इदं त्यक्त्वा नान्यत् किञ्चिदस्ति। तेनाह-

णउ अणु णउ परमाणु विचिन्तजे।
अणवर [ अ ] भावहि फुरइ सुरत्तजे।। इति

न अणुपरमाणवः भावनया चिन्तिताः। अनवरतयोगादिभावने विस्फुरितं वा यदि क्रियते।

(१२०)

भणइ सरह भन्ति एत विमत्तजे। इति।

एतद्धि मात्रं कल्पनात्मकं ज्ञानं। एतेन योगेन विमतिर्भवति। न सम्यक्त्त्वं हि मया कथितम्।

अरे णिक्कोली वुज्झह परमत्थजे।। इति

अरे मूढ पुरूष तिक्कोली निर्म्मूली अकुली च। सर्ववीजाधारादिरहितस्तत् परमार्थ वदस्व तमाह -

निर्म्मला परचेतन्मा ( ? ) निर्मला भावनात्मका।
निर्म्मलं ज्ञेयसे तत्त्वं अकुला हि तथागता। इति
तस्मात् स्वरूपेण स्फूरते नेच्छया तदासङ्गात् सुरतमिति एवमर्थ -

घरेँ अच्छइ वाहिरे पुच्छइ।
पइदेक्खइ पडिवेसी पुच्छइ। इति

यथा कश्चित् योगिनीनां स्वगृहे स्वजनमस्ति बहिः पृच्छति कुत्र स्थितः पुनः प्रियं स्वामिनं पश्यति समीपस्थं गृहे पृच्छति कुत्र स्थित इति। तथा स्वदेहे तत्त्वं व्यवस्थितं बहिरन्यत् ज्ञानं पृच्छति। अज्ञानमेवेति। पुनः स्वानुभवं गुरोरादेशात् पश्यति अनुभवति। तदा समीपवर्त्ती यः कश्चित् कथं तत्त्वमिति पृच्छति। तेनाज्ञानमेवेति। यदज्ञानं तत् ग्राहणीयं। यतो सर्व्वभावा असंस्कृतास्तत् किं ज्ञायते। एवं पुनर्दृढापयति। सरहेत्यादि-

(१२१)

सरह भणइ वद जाणउ अप्पा।
णउ सो धेअ ण धारण जप्पा। इति

उक्ततत्त्वं तत् सर्वमात्मनैवात्मनि जानीत। स पुन स तत्त्वं ध्येयधारणादिरूपेण जल्पितम्।

जइ गुरू कहइ कि सव्व वि जाणी
मोक्ख हि लब्भइ सअल विणु जाणी।। इति

केनचिदुक्तं भवतीदं यदगुरूणा कथितं सर्व्वं न तत् सर्व्वं जानीयते। यदात्मनमृते तदा तद्वस्तुरूपमाख्याति। किमशक्यं तस्योत्तरं मोक्षं किं लभ्यते गुरूणा उक्तं तया व्यतिक्रमेण तमजानानतया न जानातीति यावत्। तत् कथं विज्ञेयादभ्यासादिति स चाभ्यासमात्रेनात्मग्रहात्। तमाह -

देस भमइ हव्वासेँ लइजे।
सहज ण वुज्झइ पापेँ गाइजे। इति

इह कापुरूषयोगिनां दोषमस्ति। स्वस्थानं त्यक्त्वा सव्वदेशेषु भ्रमणं कुर्वन्ति। भक्ताभक्तादिहेतुना तया कायक्लेशक्लमथं ( ? ) न जानन्ति। कुतोऽभ्यासादिति। तदिदमनुत्तर- सहजं न जानाति न व्यक्तीकरोति । कुतः पापेन गृहीतत्वात्। तत् भक्ष्याद्वैतादिति। अभ्यासरहित इति भावः।

(१२२)

तथाचोक्तम् -

यथाग्निर्दारूमध्यस्थो नोत्तिष्ठेन्मथनाद्विना।
तथाभ्यासाद्विना बोधिर्जायते नेहजन्मनि। इति।

अनया यदि तावदभ्यासं क्रियते तदा कथं भावनादीनां परिहारं उक्तं भवतीति आशङ्कात् कस्याचित् स्यात्। तदाह-

विसअ रमन्त ण विसअँ विलिप्पइ।
ऊअर हरइ ण पाणी छिप्पइ।। इति।

यथा पाणियमध्ये फेणं दृश्यते न पाणीयं गृह्यते हस्तस्पर्शाच्च एवं तथा सति परिज्ञाने विषयाणां क्रीडां करोति पञ्चकामादिना तैर्दोषे न गृह्यते। पुनर्यथा पद्मपत्रे जलतरङ्गं गृहीत्वा तत् पानीयै न लिप्यते। तदोत्पन्ना च पद्मपत्राम्भोवदिति वचनात्। एवमभ्यासो योगिनश्च।

एमइ जोइ मूल सरन्तो।
विसहि न वाहइ विसअ रमन्तो।। इति।

ईदृशेन योगिना मूलं गुरूपदेशसरितोऽभ्यासात् सरन्तो जानन्तो तद्विषयैर्न बाधितो यत्किञ्चित् योगिनां विषयादिरूपं तत् सर्वं न जातु तस्य बाह्यका भवन्ति। किं ज्ञानं ज्ञेयं ज्ञापकञ्च तत्प्रभवादिति। तस्मात् सर्वविषयाणां रमणात् न बाध्यत इति यावत्। तथाचोक्तम् -

बाह्यं यत् तदसत् स्वावविरहात् ज्ञानश्च बाह्यार्थवत्।
शून्यं यत् यदकल्पितञ्च विदुषा तत् तदप्यशून्यं मतम्।
इत्येवं परिभाव्य भावविभवैर्निश्चित्य तत्त्वैकधीः ।
मायानाटक [ नाट ] नैकनिपुणो योगीश्वरः क्रीडति। इति

(१२३)

देव पिज्जई लक्ख वि दीसइ
अप्पणु मारीइ स कि करिअइ। इति।

यदि तावद्देवतारूपेणोत्पत्तिस्तल्लक्षणं साज्ञादृश्यते इति तदा आत्मा म्रियते। सा देवता किं करिस्यति। न किञ्चिदिति यावत्। तस्मात्-

तोवि ण तुट्टइ एहु संसार।
विणु आआसेँ णाहि णिसार।। इति।

देवताकारं यद्यात्मनं भवति तदपीदं संसारं न नश्यति। कुतः यतः सर्वेषां सत्त्वानां पञ्चोपादानस्कन्धाद्यभावात्। आलयविज्ञाने या प्रवृत्तिः सो च गन्धर्वसत्त्वात्मकं। सैव पुनरागतिः पूर्वाद्युपलम्भात्। देवता च तादृशविज्ञानेनोपलम्भात्। तस्मात् न नश्यति संसारः। मिथ्याघटोयन्त्रवत् परिभ्रमतीतिभावः। किन्तु तेनैव सति परिज्ञाने तदभ्यासेन विना संसारेषु नास्ति निस्सारः। एतदेवोक्तेन देवताभावेन तावन्न भवति गुरूपदेशं। यस्मादभ्यासः क्रियते। ततो नास्त्यभावस्य विशेषस्तन्न भवति। सम्यग् गुरूपदेशस्य त्वया वार्त्तामात्रं न न श्रुतं किन्तदाह -

अणिमिसलोअण चित्त णिरोहेँ।
पवण णिरूहइ सिरिगुरूवोहेँ। इति।

अनेन यत् कल्पितं कुधियैः कल्पनात्मकं गुरूपदेशं तन्न भवति। यथानिमिषस्तब्धलोचनैश्चितं आकाशादिषु निलीनं करोति तेन वायु निरोधितं भवति। श्रीगुर्वादेशत इत्यादि न भवति। कुत एवमाह -

पवण वहइ सो णिच्चलु जव्वेँ।
जोइ कालु करइ कि रे तव्वेँ।। इति।

(१२४)

यस्मिन् क्षणे वायुवाहनतया योगी प्राणं निश्चलं करोति किमत्र तस्मिन् क्षणे हे मूढपुरूष कालं मरणं करोति। तस्मात् न भवति। कस्मान्न भवतीत्याह -

जाउ ण इन्दीअ-विसअ-गाम।
तावहि विफुरइ आकाम।। इति।

यावन्नेन्द्रियविषयग्रामः ताभ्यामासक्तिं करोति योगिनस्तावत् न गुरूपदेशं वेत्ति। आसक्तिश्च विचारागमयुक्तया लभ्यते। स चात्मादिवस्तुरूपं न दृश्यते परमार्थादिभेदेन तत् कथं प्रत्यक्षेषु दृश्यते। भ्रान्त्या च भ्रान्तिर्नामालीकं। तच्च सम्बृतिसत्यदर्शनात् मायावत् प्रतिभासते। एवं मायोपमं त्रैधातुकं विश्वं ततः केन आग्रहः क्रियते। न क्रियत इति यावत्। विशेषण च योगीन्द्रस्य नेच्छया अपरिभावितेन च गुरूपदेशं स्फुरते तस्यैवाभ्यासेन स्मरणात् क्षपयतीति निश्चयः।

अइसेँ विसम सन्धि को पइसइ।
जो जहिँ अत्थि णउ जाव ण दीसइ ।

ईदृशी उक्तलक्षणा या विषमसंसन्धिवचनेषु को पुरूषः प्रवेशं करोति। किमर्थम् ? यो वस्तु यस्मिन् गुरूपदेशस्य नास्ति यावन्न दृश्यते आत्मादिभावं तावत्। किं सा भविष्यति। संक्षेपतः न भाव्यभावकवस्तुरस्ति।

न भाव्यं भावकं वाऽस्ति भावं नास्त्येव सर्वतः।
भाव्यभावकभावेन जायते विकृताकृतिः।
तत्त्यागो न ते निर्व्वाणं नेच्छयापि च जायते।
यथा सिंहस्यैतत् ध्यानं नेच्छया दृश्यते क्षयात्। इति

(१२५)

एवमजानतामाह -

पण्डिश्र सअल सत्थ वक्खाणइ।
देहहिँ वुद्ध वसन्त न जाणइ।
अवणागमण ण तेण विखण्डिअ।
तोवि णिलज्ज भणइ हउँ पण्डिअ। इति।

पण्डितैर्नानाशास्त्रेषु व्याख्यानं कुर्व्वन्ति। वाग्जालमात्रमेव निष्केवलं नरकगमनहेतु द्रव्यार्थितया। देहस्थितं बुद्धत्वं सद्गुरूपदेशमजाननात् न जानन्ति हि। अक्षरमात्रमाश्रित्य खरमजाननात् गुर्व्वाम्नायविना व्याख्यानं कुर्व्वन्ति। ते स्वयं नष्टाः परानपि नाशयन्ति। कुतः। अनेकजन्मपरम्परया संसारे गमनामनमहेतुत्वात् न विनाशितः। पुनरपि स महानरकादिरूपसंसारे संसरतीति चेत्। तथापि पुनरेतदर्थ कम्बलाचार्य्येणोक्तमाह -

वर्णाः पदानि वाक्यानि लिङ्गानि वचनानि च।
क्रियाकारकसम्बन्धात् वितथत्वादवाचकाः।।
श्लोको हि पञ्चमिः पादै स्त्रिभिर्वाक्यानुनीयते।
वाक्यस्य वाचतन्त्रत्वात् डाकिनीसमयो भवेत्।।
गृहीतव्येषु धर्म्मेषु विश्वं शून्येषु पुरातनैः।
पातितः किमसौ लोकः शब्दसंसारसङ्कटे।
एसा नोसैति वक्तव्ये पृष्ठः को नाम दर्शयेत्।
शिरः प्रदक्षिणावर्त्त भङ्गुरेणेह पाणिना।।
शिलापीडकदृष्टान्ते लाघवं गमितं स्वयं।
शब्दैरात्मा च लोकश्च शब्ददुद्धर( ? ) राशिभिः।।

(१२६)

इत्यादि विस्तरः। ततो हि पुनरपि निर्लज्जया भाषितं। अहं पण्डितो मूर्ख एवेति।

जीवन्तह जा णउ जरइ सो अजरामर होइ।।

अनेनोक्तमर्थस्य दृष्टान्तः। यदि तावत् क्वचित् पुरूषस्य आजीवमरणपर्य्यन्तेन यदि जरादिना न गृह्यते तदाऽसौ अजरामरत्वं याति। एवं न दृश्यते क्वचित्।

दृश्यते पुनः सर्व्वेषां जन्तवानां ज्वरादिना गृहीतत्वात् मरणान्तं हि जीवितं इत्येकं। द्वितीयं यथा रस जाति -मारित- जारितमात्रेणाष्टलोहान् विन्धति यावत् नातिरसं तथा सत्वान् मरणकालेऽमृतं न जरति यैरजरामरं करोति। आदावेव निर्मलमतिर्भक्षणादिना यावत् जरति योगी। केनाजरामरं यातीत्याह -

गुरु- उवएसे विमलमइ सो पर धण्णो कोइ।। इति।

यः सद्गुरूपदेशात् विमलमतिना साधितमजरामरत्वं धर्मसम्भोगनिर्माणमहासुखकायचतुष्ठयभेदेन सर्व्वसाश्रवाणां निरोधः कृतः। तेन क्रियते नान्येनेति। तस्मात् स पुरूषः धन्यः श्रेष्ठ इति भावः।

विसअ- विसुद्धेँ णउ रमइ केवल सुण्ण चरेइ।
उड्डी वीहिअ काउ जिम पलुट्ठिअ तहवि पडेइ।। इति।

विशुद्धविषयेषु यः कश्चित् गुरोराज्ञया पञ्चकामोपभोगादिना न रमति येनानुत्तरं प्राप्नोति। तद्विरहान्निष्केवलं विषयोपसेवामात्रया शून्यार्थे चरति। अथ शून्यमात्रं चरति न किञ्चिदेव साधयति। काकमिव वोहितमाक्रम्य समुद्रमध्यगत उड्डीयमानस्तत्रोत्तिष्ठानि अन्यमाश्रयमपश्यन् पुनः

(१२७)

तत्रैव पतति। एवं बालजातीयाः संसारकर्म्मणा संसारे पतन्ति। अन्यः शून्यदर्शनात् तत्राश्रयणादिति तस्मात् -

विसआसत्ति म वन्ध करू अरे वढ सरहेँ वुत्त।
मीण पअङ्गम करि भमर पेक्खह हरिणह जुत्त। इति।

विषयासक्तिं पञ्चका मोपभोगादिना मा बन्धं कुरू। मया सरहेण यत्नेनोक्तं। यदि करोसि तदा मीनो मत्स्यो अशक्ताकामोदकमिच्छता प्रलयः। एवं पतङ्गो रूपासक्तः प्रदीपेन प्रलयः। करिणः स्पर्शेण प्रलयः। भ्रमरस्य गन्धेन प्रलयः। तथा मृगयूथस्य शब्देन प्रलयः। स्वयं प्रेक्षताम्। किन्तत् सर्व्वेषां रागपूर्व्वङ्गमेनोत्पत्तितया।

जत्त वि चित्तहि विफ्फुरइ तत्त वि णाह सरूअ।

तेषां यत्र चित्ते विस्फुरितं गमनं भक्षणादि कार्य्यं चिन्तितं तत्र नास्ति स्वरूपः। अज्ञातत्वादिति। कुतः। लुब्धककैवर्त्तादीनां विसंवाद्नात् एव कामकपुरूषाणामज्ञानात् यमकिङ्करादिना मारिता भवन्ति। पुनरपि ग्रन्थकारेणातिकरूणावशादुक्तम् -

अण्ण तरङ्ग कि अण्ण जलु भवसम खसम सरूअ।। इति।

यथा नद्यां जलं सैव तरङ्गो नान्यः तथा भवसमावशुद्धित्वात् शान्तिरूपमेव खसमरूपं नान्यः। एतेन किमुक्तं स्यात्। यो भवः सैव निर्व्वाणं सम्यग् गुरूपदेशादिति ज्ञानिनाम्। अज्ञा न जानन्ति विषयं यान्ति। ईदृशं ज्ञानम्-

कासु कहिज्जइ को सुणइ एत्थु कज्जसु लीण।
दुढ्ढ सुरूङ्गाधूलि जिम हिअ-जाअ हिअहि लीण।।

(१२८)

इति। परमगम्भीरं मार्ग कस्याज्ञानिनः कथ्यते। क इह स पुरूष कथनयोग्यः को वाऽस्मिन् कार्य्येषु लीनो निपुणं गृहीत्वा तत पदं यान्ति न क्वचित्तयो ( ? ) पात्रमेवेति। विरलाः ते पुरूषपुङ्गवाः सुपात्राः। यथा क्वचिद्दर्गभञ्जनाय भूम्यधो दूरतश्च सुरङ्घा दीयते। तत् सुरूङ्गिकाणां गम्यं नान्येषु। कुतः तत्र सङ्कटखननाय अत्यन्तदुष्टधूलिर्भवति। यैस्तत्क्षणात् मरणं भवति स्वल्पहृदयानां। सुरुङ्गिकाणाञ्च दृढतरहृदयत्वात् तेषां सा धूलिस्तद्धृदयेषु लीनो भवति। मृत्तिका च भूम्यां लीयते। प्रथमारम्भे किञ्चिद्दाह्यं त्यक्तत्वादिति। एवं पूर्व्वजन्माभ्यासिकानां तेषां महासंसारे च बोधिः सहृदयार्थमेवेति भावार्थः। तद् गुणान्याह -

जत्त वि पइसइ जलहि जलु तत्तइ समरस होइ।
दोसगुणाअर चित्ततहा वढ परिवक्ख ण कोइ।।

तथा यत्र समुद्रेषु जले जलमिश्रितं भवति तत्र समरसतां याति। एवं संसारादिदोषगुणाश्च चिन्तिताः सपरिज्ञानस्य महर्द्धिकस्य पुरूषस्य प्रतिपक्षा न भवन्ति। कुतो दोषाश्च पञ्चकामादिगुणाः। तद्विशुद्धिकरणं नानागुरूवाक्यं [ निरन्तरस्मरणात् यथा नद्या जलं ] निरन्तराप्रवाहात्। पुनरस्य स्पष्टतामाह -

सुण्णहिँ सङ्गम करहि तुहु जहिँ तहिँ सम चिन्तस्स।
तिल- तुस- मत्त वि सल्लता वेअणु करइ अवस्स। इति।

निष्केवलं शून्यतासङ्ग मा करिष्यति येनोच्छेदं भवति। त्वया यत्र तत्र स्वभावेषु वस्तुषु समतां चिन्तय नात्मन्येव। एवम् आत्मानञ्च [परञ्च] विश्वसंग्रहमेकतां नाप्यसि( ? ) [ नानात्वाभावात्] यदि करोषि अदोषं भवति। यथा तिलीयमात्रेऽपि वस्तुनान्तर्गतम्। तस्य तुष [मध्ये कुकलङ्क भवति]। तत् शल्यं

(१२९)

भवति। तेन वेदनामवश्यं करोति। एवं योगीन्द्रस्य शून्यता चित्तमात्रेण शल्यं भवति। न सर्व्वाङ्गेषु सुस्थतां प्राप्यते। यदि तावत् शून्यमशून्यं द्वयमद्वयं वा न भाव्यते तदा कीदृशं भाव्यतेत्याह -

अइसेँ सो पर होइ ण अइसोँ।
जिम चिन्तामणि कज्ज सरीसोँ ।। इति।

ईदृशं नीलपीताद्याकारमनुभवरूपं वा उपलक्षणं भवति। [न तादृशं सोपलम्भनिरूपलम्भचित्ताचित्तकल्पनाद्वयं सर्व्वसाश्रयवीजाधाररहितरूपत्वात् कथं ज्ञायते इति चेत् ]। चिन्तामणिरिव कार्य्यसदृशं भवति। यथा चिन्तामणेः सर्वं वस्तु न दृश्यते क्वचित्। पुनस्तेन हस्तगतेन सर्वकार्येषु चिन्तां करोति जडभावाश्च। तथा योगिनामपि गुरूपदेशः हस्तगतमणिमिव नेच्छया बुद्धत्वादि साध्यतीति भावार्थः। एवमजानानां पण्डितानां विहरणमाह -

अक्कट पण्डिअ भन्तिअ णासिअ।
सअसम्वित्ति महासुह वासिअ।। इति।

अक्कट इत्याश्चर्य्य पण्डितः वर्णमात्रमाश्रित्य भ्रान्त्या विनाशितः। न विनाशितेति यावत्। कुतः ? यतः स्वसंवेदनं सर्व्वभावान्तर्गतं समोपलभ्यते। असंवेदनेति यावत्। तया भ्रान्त्या अनेन व्याख्यातेन चित्तचित्तभावेन इदं स्वसंवित्तिलक्षणं महासुखेषु बाह्याङ्गनास्पर्शेषु भाषितम्। पुनरपि तस्यैव बाह्यमहासुखस्य दृढतया व्याख्यानमूचुः -

सव्वरूअ तहिँ खसम करिज्जइ।
खसम-सहावेँ मण धरिज्जइ।। इति।

(१३०)

सर्व्वरूपादि विषयं यत् यस्मिन् खसमं क्रियते। मनश्च खसमस्वभावेन धार्य्यते। तत्कृते -

सोवि मणु तहि अमणु करिज्जइ।।
सहज- सहावेँ सो परू रज्जइ।। इति

तथा सोऽपि खसमस्वरूपं मनः तस्मिन्नमनः क्रियते। एवं य करोति स उत्तमपुरूषः सहजस्वभावेषु रज्यते क्रीडत इति यावत्। एवम्

घरे घरे कहिअइ सोज्झुक कहाणा।
णउ परि सुणिअउ महासुह ठाणा।।

इतीदं कुत्सितधीभिः। गृहे गृहेषु सत्त्ववञ्चनाय वदन्ति। ईदृशं शुद्धव्याख्यानं येन कथनेन त्वयाद्य प्रभृति शुद्धं भवति। तस्मादन्यदेव तद्वाहिकमपरं श्रेष्ठव्याख्यानं महासुखस्थायित्वमधिगमं कुरूष्व। तस्मात् भङ्गा( ? ) पुराणमेवेति- तथा चोक्तम्-

जलप्रपातानि पदानि पश्यतः
खपुष्पमाला रचनाञ्चककुर्व्वतः।
असूत्रकं चापि पटं प्रतन्वतः।
कथं हि लोकस्य न जायते त्रपा। इति
कुत्सितानां दोषतया परिदेवनया सरहेत्यादि ग्रन्थकार आह -

सरह भणइ जग चित्तेँ वाहिअ।
सो अचित्त णउ केणवि गाहिअ।। इति

(१३१)

मूढपण्डितैः समस्तजगन्मूर्खलोकं चित्ताचित्तबहुप्रकारेणोक्तलक्षणया वाहित दासीकृतं मदीयोपदेशेन तच्चित्तं त्यजसि [ अचित्तरूपं प्राप्स्यसि ]। न ह्येतत् भवति। कुतः ? स अचित्तलक्षणं न केन चित्तविधिना ग्राहितं भवति। कस्मात् तर्हि कस्मात् अचित्तरूपस्य काष्ठपाषाणादिषु किं स्वसंवदेनं भवति। एवमचित्तरूपं किं लक्ष्यते। न लक्ष्यते इति यावत्। आदावेव तत् स्वभावत्वात् स च -

एक्कु देव वहु आगम दीसइ।
अप्पणु इच्छेँ फुड पडिहासइ।। इति

एकदेवताकारं संज्ञामात्रेण स बह्वागमेषु स्वस्वदर्शनेषु च पश्यामः। सैव चात्मनैवेच्छया स्फुटं प्रतिभासते। नान्यः। तथा चोक्तं श्रीमद्धेवज्रे -

स्वयं भर्ता स्वयं हर्ता राजा स्वयं प्रभुरित्यादि। स च -

अप्पणु णाहो अण्ण विरूद्धो।
घरेँ घरेँ सोअ सिद्धन्त पसिद्धो।। इति

आत्मात्मीयं नेच्छन्तीति विनाशो कुत्सितकल्पनाग्रहात्। पुनरप्यन्येषां भावानां निरोधकत्वात् विरोधोऽयं न स्यात्। स घरे घरे अयं सिद्धान्तः प्रसिद्धः। कुतः ? उत्पन्नप्रलयत्वात्। यदि तावत् प्रलयं कस्योत्पादः। अथ चोत्पादः किं प्रलयं तस्माद्द्वयोरसत्यम्। तेन तत् तथोक्तम्। ईदृशं विशिष्टयोगिनामाशयं भवति। तत्स्थितानां भवत्यात्मान एवं ज्ञानं गुरूपदेशात्। यस्य नास्ति

(१३२)

गुरूपदेशं तस्य न भवति। न हि एतद्बुद्धबोधिसत्त्वानां सम्मतम्। तेषां भगवतोक्तं हेवज्रे-

मद्भवा हि जगत् सर्वं मद्भवं भुवनत्रयम्।
मया व्याप्तमिदं सर्वं नान्यमयं दृश्यते जगत्।। इति।

इदं कुत्सितानां दृष्टान्तमाह -

एक्कु खाइ अवर अण्ण वि पोडइ।
वाहिरेँ गइ भत्तारइ लोडइ ।। इति

यदा कश्चित् अन्नाद्यभक्षणं करोति। एकमन्यस्मिन् अन्नाद्यं प्रलयं कुर्व्वन्ति असाधारणत्वात्। यथा योगिनः एकपुरूषः भक्ष्यन्ति। अन्यः पुनः भोक्तुमिच्छतां प्रलापेनापि वक्ष्यते। पुनरपि घरणि स्वसामिनं त्यक्त्वा गृहाद्बाह्यं गत्वा भर्त्तारं प्रेक्षत इति। अन्यो बहुचित्तत्वात् ज्ञानाकारेणैकीभावादिति। नेदृशी अज्ञानिना। एकेन सन्तुष्टिं करोति एकमात्रं जानाति न व्यापकः कुधियामपि तादृशं चित्तं तेन नष्टाः।

आवन्त ण दीस्सइ जन्त णहि अच्छन्त ण मुणिअइ।
णित्तरङ्ग परमेसुरु णिक्कलङ्क धाहिज्जइ।। इति

एतत् पूर्व्वोक्तगाहानुसारेण सुधियामपि ईदृशमशायः कथ्यते। यथा घरिणि स्वगृहे भर्त्तारं भोजयति अन्यस्यापि भर्त्तुर्भुक्तादिं शोधयति स्वगृहान्निष्कम्य भर्त्तारं परीक्षयति तस्मात् आवन्तोऽपि न पश्यति गतोऽपि न च द्रक्ष्यति

(१३३)

स्वगृहे स्थितोऽपि न लक्ष्यति। ईदृशं ज्ञानं निस्तरङ्गं स्वेच्छया परमेश्वरं निष्लकङ्कं सर्व्वायासरहितं तस्य ग्रहणं करोति। अनेनोक्तेन किं स्यात् ? इह क्षेत्रजादि योगिनीनां स्वाभाविकं ज्ञानम् उत्पद्यते। सा च न किञ्चिद्वेत्ति। तन्मयात्मना पश्यति। मया कृतं मयैवोत्पादितमित्यादि विस्तरः। एवमेव गुरूपदेशात् अवगन्तव्यम्। पुनरपि -

आवइ जाइ ण छड्डइ तावहु।
कहिँ अपुव्व- विलासिणि पावहु॥ इति

आवन्ति गच्छन्ति न सा कुलघरिणी त्यजन्ति। एतत् प्रसिद्ध कामरूप- पीठादिषु- यथा कश्चित् पुरूषः गृहे स्थित्वा तदन्यस्थानं गमयति अर्द्धमार्गात् पुनरागच्छति। तद्वत् योगिनीज्ञानप्रभावादिति। किमेतत् करोति कथ्यते। गच्छतोऽपि कस्मिन् स्थाने तत्रापूर्व्वविलासिनीसह सङ्गं प्राप्नोति। तदा मयया चित्तक्षतिं तेन करोति। या कुत्रापूर्व्वविलासिनी न प्राप्नोतीति यावत्। किं युक्तम् इत्याह -

सोहइ चित्त णिरालं दिण्णा।
अउण- रूअ म देखह भिण्णा।। इति।

तया योगिनीभिः सुखचित्तं शोभनीयं ललाटस्थाने दत्तमणिच्छाया गृहं ज्ञेयाविज्ञानमभिन्नरूपतां यानि शरीरसुखयोरद्वयता भवति। एकरूपेति

(१३४)

यावत्। अत एव वक्ष्यति। यथा- अउनरूपं नेत्रादि पृथकत्वेन स्थितं तया स्थितेऽपि न पृथक् रूपं द्रक्ष्यसि। कुतः ? यस्मात् सूत्रबन्धनादि एकरूपत्वं भवति तस्मात् स्त्रीपुमान्-रूपं पृथग् ज्ञानेनाविष्टं सूत्रवदपृथग् भवति। एवमेव योगिनां ज्ञानं स्वभावोत्थितञ्च। न तया कृतेति। तैश्च सर्व्वकार्य्यकारणं नेच्छया साधितं भवति। स च -

काअ- वाअ- मणु जाव ण भिज्जइ।
सहज- सहावेँ ताव ण रज्जइ।। इति।

अनेन ज्ञानं यावन्न पृथग्जनानां काय-वाङ्मनो भिद्यते द्रवीभवति गुरूप्रसादतः साश्रवधर्म्माणामस्तमनं न भवतीति। तावत् तेषु सहजस्वभावेषु रज्यन्ति। येन योगिनीनयमनयमनुत्तरं प्राप्यते। तत् किं योगिनीनयमित्याह -

घरवइ खज्जइ घरिणिएहि जहिँ
देसहि अविआर। इति।

घरपति यत्र देशे भक्षणं क्रियते। स्वघरणी च कृतमेतस्मिन् देशे पीठादिषु पश्यामः। ईदृशमविचारितं पृथग्जनैरेतत् परिकल्पितं न योगीन्द्रैस्तेषां भावमाह -

माइए पर तहिँ कि उवरइ विसरिअ जोइणिचार।। इति।

(१३५)

यत्र घरपति मारितं तत्र परस्य नास्ति उपचारः। किन्तु परत्रेषु कृतम् उपचारः परतरः योगिनीशानरूपमात्मकमेतत्। परैः कुत्सितैर्मारितं भक्षितं दृष्टम्। चर्म्मचक्षुषा योगिन्या च न मारितं न भक्षितम्। अपि सहजमयं सहजात्मकं सहजे निलीनं कृतमिति भावः। तस्मात् विसदृशं सर्व्वशास्त्रेषु लोकव्यवहारेषु योगिनीनामाचारः। एतदेव स्पष्टयन्नाह -

घरवइ खज्जइ सहजेँ रज्जइ किज्जइ राअ विराअ।
णिअपास वइठ्ठी चित्ते भठ्ठी जोइणि महु पडिहाअ।। इति

घरपति भक्षिते सति सहजस्वभावेन रज्यते पुनरपि रागविरागं करोति अन्यभर्त्तारमाश्रयति रागविरागञ्च रूदति। पूर्व्वभर्त्तारं शोचयति। निजस्य स्वप्रियस्य पार्श्वे स्थितेन च। एवं सा योगिनी चित्ते भ्रष्टा अचित्तमिव मम योगेन्द्रस्य वा प्रतिभासते। एवं समुदायो योगिनीज्ञानमद्वितीयत्वात् न क्रियाकर्मतया प्रतिभासं करोति। कर्म्माकर्म्मायन्तेन न बाध्यते। सा पृथग्जनानाम् आभासमात्रमेवेति। अन्यच्च सर्वं चित्तोद्भूतं विकल्पमनया स धरपति स्वचित्तायतः शरीरः स भक्षितः। चित्तं शरीरं अपीठोपपीठादिरूपम्। योगिभ्यः प्रकृतयः। तन्निरोधात् प्रकृतीनां निरोधः। तदा किमुपलभ्यते। गुरूपदेशज्जानीयादिति। एवं विधायेदं परिभास्यते।

खज्जइ पिज्जइ ण विचिन्तेज्जइ चित्ते पडिहाअ।
मणुवाहि रे दुल्लक्ख हलेँ विसरिस जोइणि-माअ।। इति

(१३६)

यत् किञ्चित् खादयन्ति पिबन्तीत्यादि कर्म्म क्रियते स च यं यं चित्तेन प्रतिभासते तं तं कुर्य्यात् किन्तु मनवाहि न क्रियते। किं युक्तिदुर्लक्षेण योगिनीज्ञानवन्तस्य लीनं पूर्ववत्। विसदृशयोगिनीमार्गस्तदाश्रितेन सर्वं सुस्थं भवतीति नान्यथा। पुनराह -

इअ दिवस णिसहि अइमणइ तिहुअण जासु णिमाण।
सो चित्तसिद्धि जोइणि सहजसम्वरू जाण।। इति।

एवं यः दिवसं जानाति रात्रिञ्च अभिज्ञानभयं त्रिभुवणं यस्य निर्म्माणं स चित्तसिद्धिः योगिनीसहजसंवरज्ञानं भवति साक्षात् करोति वा। एवमजानानामाह -

अक्खर वाढा सअल जगु णाहि णिरक्खर कोइ।
ताव सेँ अक्खर घोलिआ जाव णिरक्खर इइ।।

इति अक्षतेषु सकलजगद् बाध्यते। इदं त्वया इदं मया अथवा इदं घटं इदं पटं पण्डितैरूक्तम्। यावज्जीवं क्रियते न परमार्थं न किञ्चित् साध्यते। निरक्षरः [कोऽत्र विद्यते येन बुद्धत्वं साध्यते]। तावत् सैवाक्षरं घोलितं परिभावनाया वाग्जालं समस्तमर्द्दितम् अलीककृतं यावत् निरक्षरत्वं याति। नैव कृतं यावत् किं परमपदं प्राप्नोति तदाह -

जिम वाहिर तिम अव्भन्तरू।
चउदह भुवणेँ ठिअउ णिरन्तरु।। इति।

(१३७)

योगेन्द्राणां यादृशं बाह्यं तादृशमभ्यन्तरम्। किं तर्हि ज्ञानाकारत्वात्। तैश्चतुर्द्दशभुवनेषु निरन्तरावरग्रेण स्थितं परमकलाभावात्। स च योगी अमावास्यान्तेन चन्द्रकलामिवाशरीरत्वात्। तेनाह -

असरिर [कोइ] सरीरहि लुक्को।
जो तहि जाणइ सो तहि मुक्को।। इति।

अशरीरं सत्त्वे साक्षादस्तमितं भवति लुक्को स येन ज्ञानं स तस्मिन् मुक्कोभवति। कुतः( ? ) यतः प्रत्यात्मवेदको लोकः। वेद्यञ्चादावेव नोत्पन्नशरीरत्वात्। निराकार ज्ञानमेतत्। तस्य संज्ञा सुखप्रवृत्तिः। तदमृतं सहजमिति। पुरूषपुद्गलाना सहजात् पूर्वोत्पादविनाशकाले तत्रैव लीनः सुखस्य स्थितिः नास्ति अस्थानत्वात्। तस्मात् पुर्वभावं निराकारं ज्ञानं तस्यैव धर्म्मधातुरिति आदिसंज्ञा। एवं यो जानाति गुरूपदेशात् स इहैव जन्मनि अनेनैव शरीरेण मुक्तो भवति नान्यथेति। अनेनोक्ते सति ग्रन्थकारस्य तत्परिणामतया स्पररस्तु न पश्यति तेनेदमुदीरयन्नाह -

सिद्धिरत्थु मइ पढमे पढिअउ।
मण्ड पिवन्तेँ विसरअ ए मइउ।।
अक्खरमेक्क एत्थ मइ जाणिउ।
ताहर णाम ण जाणमि ए सइउ।। इति।

(१३८)

यथा बालत्वे त्वादावेवाक्षरशिक्षणायोपाध्यायस्याग्रे फलकेषु सिद्धिरस्तु इत्यादिना यावत्सूत्रधात्वादिव्याकरणपर्य्यन्तं तर्कमीमांसादि सर्व पठितं तदा सर्वाक्षरेषु न किञ्चित् फलं दृष्टमज्ञानत्वात्। पुनरपि सुकल्याणमित्राराधनायां सत्यां परिज्ञानेन विचारितं यः प्रथमं वाक्यं सिद्धिरस्त्वीति स सत्यं तत्परं यत् मया पठितमन्याक्षरमसारम्। यथा भक्तरन्धनायां सारं गृहीतं खण्डं समयी पीत्त्वा शेषमसारमण्डमेव सारं तं पीत्वान्यं विस्मृतं गृहीतः सिद्धिरस्त्विति। एतदेवाक्षरमेकं पूर्वोक्तज्ञानमिह मया ज्ञातम्। तस्मित् वामस्य नामं न जानामि कीदृशमिति अवाच्यत्वात् नार्थं वत्ति सिद्धिरस्तु च। तथाप्यसौ प्रौढत्वेऽपि च। नास्ति नामवर्णादिख्यातिः। अन्ये कुधियः न जानन्ति तेषाम् आह -

रूअणेँ सअल वि जोहि णउ गाहइ।
कुन्दुरू- खणहि महासुहे साहइ।। इति।

सहजरूपणेन सकलत्रिभुवनपतितं न ग्राहितं स्वयंभूज्ञानाकारेण च अवाच्यनामेव वा। तदा पुनरपि स्वयं नष्टाः परानपि बन्धायन्ति। किं तत् ? कुन्दुरूक्षणेषु महासुखं साधयतीति। तस्मात् ते मूर्खदेहिनः। पुनरप्याह

जिम तिसिअ मिअ- तिसिणेँ धावइ।
मरइ सो सोसहिँ णभजलु कहिँ पावइ।।

(१३९)

यथा तृष्णार्त्तः अतितृष्णया अन्धत्वेन पानीयं दृष्ट्वा धावति तदा चक्षुषा नीहारमात्रं न पानीयं तदार्त्ततया सिसेन म्रियते। आकाशजलं कुतः प्राप्यते न प्राप्यते इति यावत्। एवमिव कुन्दुरूयोगेन तत्त्वं न प्राप्यते। मूदलोकैरेवं तत्त्वं क्व ज्ञेयं किं युक्तिर्वा एतदेवाह -

कन्ध भूअ- आअत्तण- इन्दीविसअ- विआरू अप हुअ।
णउ णउ दोहाच्छन्दे ण कहवि किम्पि गोप्प।। इति।

स्कन्धधात्वायतनेन्द्रियविषयविकल्पविभ्रमरूपं पश्यति। यत्र लक्ष्यं लक्षणञ्च न विद्यते तेषु सर्वथा मरीचिजलवद्विश्वमुदकसंज्ञा प्रतीयते। उदकभावञ्च नास्त्येव मरीच्याभाससंज्ञया। मरीचिभ्रान्तिमेव हि उदकस्याभासं प्रतीयते इति। तस्मात् नवनवान्यान्यदोहाशब्देन तत्त्वं दर्शितम्। तस्मिन् दोहामध्ये कस्मिन् दोहेषु किञ्चित् गुप्तं न कृतं गुरूपदेशं न विनाशितं स्यादिति। एतदर्थ सर्वेषां पण्डितानां क्षमापयतीत्याह -

पण्डिअ- लोश्रहु खमहु महु एत्थु ण किअइ विअप्पु।।
जो गुरूवअणेँ मइ सुअउ तहि किं कहमि सुगोप्पु।। इति।

हे पण्डितलोक ईदृशं ज्ञानं गुप्तागुप्तं मया कथितं तथा मम क्षमां करोषि। कुतः ? यतः सुगुप्तस्थाने न गुप्तीकृतं यथा गुप्तस्थाने प्रकाशितं सत्त्वोपकार चेतसा तेनेदं विकल्पं न कार्य्यमेवञ्च सम्मतम्। ममैकाकिनस्य न भवति। कुतः ? यतः ममापि स्वगुरोः सकाशात् यद्वचनमीदृशं श्रुतं तत् किं करोति सुगुप्तं प्रकटञ्च। एवमुक्तेन किं स्यात्। भव्यसत्त्वेषु गुप्तमिति। एतदेवाह -

(१४०)

कमलकुलिस वेवि मज्झठिउ जो सो सुरअ- विलास।
को त रमइ णह तिहुअणे हि कस्स ण पूरइ आस।। इति

अनेनात्यन्तादिकर्म्मिकाणां मृदुयोगिनां वा रागासक्तानाञ्च महारागकीडनैव बुद्धत्वमुपाय इति दर्शितं भगवता। तथा इह मया अवतारितं कमलकुलिशद्वयेषु यत् सुरतविलासं को वीरपुरूषस्तत्र रमते। तेन त्रिभुवने कस्य न पूरित आसः। सर्व्वेषां तन्मयत्वेन तत्स्वभावतया सर्व्वासां महामुद्रा- सिद्धिः पूरिता भवति। महाकरूणाया आमुखीकरणादिति नियमः। किन्तु अधिमात्रेन्द्रियाणां नेदृशः। किं तदाह- यदि कमलकुलिशेन तत्त्वं तदा आत्मना सुखमुत्पाद्य परस्य सुखानुभवं विना गते न सर्व्वत्रिभुवनस्य सा पूरिता भवति। बुद्धज्ञानमेवेति। तस्मान्न तादृशं बुद्धज्ञानैकक्षणे अभिसम्बोधिः सर्व्वेषां समनाकालत्वात् संक्षेपतः।

खण उवाश्र सुह- अहवा वेण्णि वि सोवि।
गुरूपाअ- पसाएँ पुण्ण जइ विरला जाणइ कोवि।।

क्षणञ्चेदं सुखस्य चतुःक्षणभेदात्। अथवा अभिन्नेऽपि क्षणे तत्त्वमुपलक्षयेत्। स च परमविरमयोर्मध्ये अभिन्नमेव। प्रथमारम्भे विचित्रादिक्षणे उत्पादनायाऽभिन्ने सहजभावं सैव गुरूपादप्रसादेन पुण्यवशात्। यः कश्चित् तत्त्वविरलो लोकः जानाति क्वचिदिति न सर्व्वसत्त्वेषु साधारणत्वं भवति। तेनेदं मया सद्गुरूपदेशेन व्यक्तीकृतं पूर्व्वोक्तन्यायात्। सर्वजनेषु साधारणमिति। एवञ्च-

(१४१)

गम्भीरइ उआहरणेँ णउ पर णउ अप्पाण।
सहाजन्देँ चउठ्ठक्खण णिअ सम्वेअण जाण।। इति।

यत् पुण्येषु विरला लोका जानन्ति तत् गम्भीरस्य विचारबलेन निरन्तरस्मरणतया पक्षापक्षं निरूध्यते। परमगम्भीरे तत्र न परं नात्मनकिञ्चिदस्ति। आदावेव रहितत्वात्। ईदृशं सहजानन्देन चतुर्थक्षणे लोक कल्पितमध्ये निजसवेदनं जानासि। पुनरपि ता जानाति स एव हि। अस्यानुशंसामाह -

घोरान्धारेँ चन्दमणि जिम उज्जोअ करेइ।
परममहासुह एक्कुखणे दुरिआसेस हरेइ।। इति।

इह घोरान्धकारमध्ये चन्द्रकान्तमणिरूद्द्योतनं करोति। यादृश सर्व्वचौर-चण्डालदिभिर्हरति। तादृशः परममहासुख एकक्षणे संसारदुश्चिरिताशेषं करोति। तथा -

दुक्ख- दिवाअर अत्थगउ ऊवइ तरवइ सुक्क।
ठिअ- णिम्माणेँ णिम्मिअउ तेणवि मण्डल- चक्क॥ इति।

यथा ग्रीष्मकालदुःखदिवाकरः अस्तमितो भवति तदा अत्यन्तशीतलत्वं करोति। तारागणनायकश्चन्द्रः शुक्रश्चः उत्थितो भवति। ईदृशमण्डलचक्रादि -

(१४२)

भावना क्रियते। येन निर्म्माणस्थितेन विश्वं बुद्धसंवृत्या निर्म्माणं निर्म्मिणोति। तत्स्वरूपमण्डलचक्रं विज्ञेयादिति भावार्थः। पुनर्योगिनां कर्त्तव्यमाह -

चित्तहिँ चित्त णिहालु वढ सअल विमुच्च-कुदिट्ठि।
परममहासुहे सोज्झ परू तसु आअत्ता सिद्धि।। इति।

चित्तेन चित्तं त्वं विचारयसि। किन्तु चित्तम् अचित्तं चास्ति। पूर्व्वोक्तन्यायादेव द्वयोर्नास्ति। तथा चाह -

चित्तमेवेह नाचितं द्वयाभावान्न किञ्चन।
न किञ्चिन्नाम विद्येत भ्रान्त्या सर्व्वमिदं जगत्।।

तस्मात् सर्व्वं कुदृष्टयः मुञ्चसि त्यजसि। सकलात्मजीवपुरूषपुद्गलादयः सर्व्वे कुत्सितलोकव्यवहारसंवृतमात्रमेतत्। तेन् तत् तथोक्तं। सर्व्वे परमममहासुखेषु शोधनं कुरु। येन परमभूमिलोकोत्तरबुद्धसंवृतेषु प्रवेशं करोति। तस्य परश्रेष्ठसिद्धिरायता भवति तेनेदं -

मुक्कउ चित्तगएन्द करू एत्थ विअप्प णु पुच्छा।
गअण- गिरी णइजल पिअउ तहिँ तड वसइ सइच्छ।।

इति मुक्तचित्तगजेन्द्र कुरु। यथेच्छया संसारमध्येषु क्रीडनं कुरू। अस्येदं विकल्पं न पृच्छसि। कुतः ? यतः सर्व्वे भावस्तत्त्वात्मकास्तत्त्वाश्रिताः तत्त्वेषु निलीनाः भवन्ति। किन्तु प्राणातिपातादिकुकर्म्म वर्ज्जसि। यैस्तीर्थिकादि

(१४३)

नरकं यान्ति कारूणिकैश्च दशकुशलकर्म्मपथपरिपालनया सर्व्वं सुस्थं भवति। तेन गगनगिरिणा हस्तिवत् सर्व्वव्यापकत्वेषु नद्यां जलं पिबन्ति। यः पुरूषो यतः तस्मिन् तटेषु महासुखनद्यां शोषयति। इदं महासुखेऽपि विकल्पमात्रं तस्या सङ्गमिति भावार्थः।

विसअ- गएन्देँ करेँ गहिअ जिम मारइ पडिहाइ।
जोइ कवडिआर जिम तिम तहो णिस्सरि जाइ।।

तथा विषयगजेन्द्रेषु चक्षुरादिषु सर्व्ववस्तुषु गृहीत्वा इन्द्रियविषयादिभिः करेण ग्रहणमिव दन्तिना तदा मारणमिव प्रतिभासते।[ यावत् प्रतिभास्यति तावत् कस्य विषयिणस्य च]। स्वभावमेतत् तस्यैव दृश्यते। न मारणं क्रियते नरकादिषु नीयते। ईदृशं योगेन्द्राणां कवडीकाराद्यैर्यादृशं प्रतिभास्यति। तादृशमिव ततो निःसरित्वं गच्छति। सहजेषु प्रलीयते। न कवडिकारद्याः तस्य बाध्यते लोकस्य प्रतिभास एवेति। एवं भक्ष्याभक्ष्येषु न लिप्यते इति यावत्। तथाचाह -

जो भव सो णीव्वाण खलु स उ ण मण्णहु अण्ण।
एक्क सहावेँ विरहिअ णिम्मल मइँ पडीवण्ण।। इति।।

नास्ति योगिनां विशेषाद्विशेषः संक्षेपः। यथा युगनद्धक्रमेषूक्तमार्य्य- नागार्ज्जुनपादेन भवनिर्व्वाणेत्यादिना च इह एतदेव यत् भवनिर्व्वाणं खलु

(१४४)

सर्वेषां द्वयं द्वयवचनेषु सविज्ञेययुगनद्धद्वयं तच्च भेदमन्यं विज्ञेयादिति। किं तर्हि एकस्वभावेन यदद्वयं सर्वशास्त्रेषु सिद्धान्तं तत् तस्मादवि रहितम् एकानेकभावम्। किन्तु अद्वयोऽपि निर्मलः प्रतिपन्नः परमाद्वयमिति भावः। एतदेव स्पष्टार्थमाह -

घरहि म थक्कु म जाहि वणे जहि तहि मरग परिआरण।
सअलु णिरन्तर वोहि- ठिउ कहिँ भव कहिँ णिव्वाण।।

इत्यनेन स्वगृहेषु स्थितिं मा कुर्वन्ति। वनान्तरमपि गमनं मा कुरू। किं तर्हि निश्चितं द्वयस्थानेषु गम्याद्विकल्पं जायते। कथं क्रियते इत्युच्यते। यस्मिन् यस्मिन् स्थित्वा वा चंक्रमणभक्षादिं कृत्वा तत्र मनस्य परिभावनं कुरु अलीकं मनः स च विज्ञप्ति कुरु। तच्च पूर्वे निराकृतमसिद्धत्वात्। तस्मात् सकलत्रैधातुकेषु निरन्तराव्यवच्छिन्नप्रवाहात्। बोधिस्थितं सिद्धम्। न केनचिदुत्पादितं स्वयम्भूत्वात्। तदिह कुधीभिः मूढत्वेन परिकल्पितं भवनिर्वाणयोरद्वयोः केनेदं न स्यात् उक्तन्यायादपि। तस्मिन् निर्वाणं न भवति। कुतः? यतः आदावेव विश्वस्योत्पादं नास्ति तत् किमिति दृश्यते। मायावदिति भ्रान्त्या प्रतिभासमात्रमेवेति। यथा दर्पणादिषु प्रतिबिम्बं दृश्यते तद्विचारान्नोपलभ्यते। तत् बिम्बपिण्डपरिमाणवत्त्वादिभेदेनासम्भवमिति। कस्मात् भवनिर्वाणयोरसम्भवम्। तथा चोक्तम्-

निर्वाणञ्चैव लोकञ्च मन्यन्तेऽतत्त्वदर्शिनः।
नैवं लोकं न निर्वाणं मन्यन्ते तत्त्वदर्शिनः।।
निर्वाणञ्च भवश्चैव द्वयमेतत् न विद्यते।
परिज्ञानं भवस्यैव निर्वाणमिति कथ्यते ।।

(१४५)

तस्मात् सिद्धं परमाद्वयं बोधिरूपं स चाह -

णउ घरे णउ वणेँ वोहि ठिउ एहु परिआणहु भेउ।
णिम्मलचित्त-सहावता करहु अविकल सेउ।। इति।

इदम् उपलक्षणायां न घरे न वनेषु बोधिस्थितम्। एवं भेदं परिजानासि सन्ध्याभाषान्तरेऽपि गृहं शरीरं वनं घटपटादिषु तत्र न बोधिः। कुतः सर्वे ह्यसम्भवात्। एवं भेदं यत् दृश्यते लोकादि तत् सर्वम् उत्पन्नविनाशिनः। नेदृशी बोधिरविनष्टत्वात् च। तेनेह निर्मलचित्तस्वभावतां कुर्वति। यैर्विकल्पना विकल्पसि समस्ता सङ्गता त्यजसीति विस्तरः। तैर्बोधिरूपमायाति तदाह -

एहु सो अप्पा एहु परु जो परिभावइ कोवि।
तेँ विणु वन्धे वेट्ठि किउ अप्प विमुक्कउ तोवि।। इति।

इदमात्मा न इदं परः येन केनचिद्विपरिभावितं तेन विना बन्धनेन आत्मानं विटकितं विकलीकृतं मुक्तोऽपि स्वभावयातं तदा नो मुक्तः तस्मात् स्वपरविभागं न क्रियते इति यावत्। तदिह -

पर अप्पाण म भन्ति करू सअल णिरन्तर वुद्ध।
पह से णिम्मल परमपउ चित्त सहावेँ सुद्ध।। इति।

(१४६)

परञ्चात्मदञ्च एकस्वभावं न द्वयरूपेण भ्रान्तिं कुरु किन्तर्हि सकलसत्त्वाधातुनिरन्तरादावेव स्वभावेन शुद्धः तदादावेव परिभावनायानन्तकमलावृता न बुद्धात्मानं परिभावयन्ति। एवं द्वयरहितेन बुद्धः सः निर्मलं परमचितं स्वभावतोरूपं बोधिचित्तं स्वभावरहिततया -

अद्दअ चित्त- तरूअरह गउ तिहुवणेँ वित्थार।
करूणा फुल्लीफल धरइ णाउ परत्त ऊआर।। इति।

उक्ते सति परोपकारं सूचयति यदद्वयं चित्तं योगिनां तद्धरन्तु भवराजः। कल्पवृक्षमिव सर्वगतत्रिभूवनविस्तारः। सर्वं परमाद्वयमिति भावः। तस्य करूनापुष्पफुलितेन तत् फुल्लं भवति। नानेन स परोपकारः। सर्वेषां सर्वासां शुद्धत्वादि परिपूरयति इति ते तया।। सु

[ सुण्ण तरूवर फुल्लिअउ करूणा विविह विचित्त।
अण्णा भोअ परत्तफलु एहु सोक्ख परु चित्त।
सुण्ण तरुवर णिक्करूण जहिँ पुणु मूल ण साह।
तहिँ आलमूल जो करइ तसु पडिभज्जाइ वाह।।
एक्केम्वी एक्केव्वि तरु तेँ कारणे फल एक्क।
ए अभिण्णा जो मुणइ सो भवणिव्वाण विमुक्क।।

(१४७)

जो अत्थीअण ठीअऊ सो जइ जाइ णिरास।
खण्ड सरावेँ भिक्ख वरू च्छडहु ए गिहवास ।।

पाडयादिति। मनसि विहाय तदा सत्त्वेषु करूणावन्तः यस्मादायाति। यः कश्चिदथिनः स [ यदि ] निरासं याति मया लोकेन किञ्चित् दत्तम्। तदा येन किञ्चित् सिद्धं भवति। तस्मात् [त्वं] खण्डसरावेति [भि] क्षां करोषि। न भोगासक्तं भवसि। त्यजसि वरमिदं गृहवासम्। य [था चोक्तं]-

पर- ऊआर ण कीअऊ अत्थि ण दीअउ दाण।
एहु संसारे कवण फलु वरू च्छड्डहु अप्पाण।। इति।

किन्तेन भोगेन गृहेण वा क्रियते यतः परोपकारं न भवति। अस्ति णादि वस्तुदानं न दीयते। तच्च तेन धनेन एवम् इदं संसारे स्थितत्वात् किं फलं भवति न भवति [याव]द् वरमिदम् आत्मानं त्यजामः। कायजीवितनिरपेक्षे न विहरिष्यामीति....।

[समाप्ते]यं दिहाकोषस्य पञ्जिका

दोहा अभिभ्रष्टवचनस्येति। तेनेदं कोषिताच्छादिता तत्त्वम्। बालजनेषु विस्मयीकृतमिति।।

कृत्वा चेयं मयाऽस्य( ? ) पञ्जिका चात्मबोधिनी।
नाम्नापि सात्मवेधी च गुर्वाम्नायप्रकाशिनी।।

अन्याञ्च ईक्षपेत्वा [.... र्म्माणयपि कुरु।

स्वार्थं वापि परार्थं वा साधितं मे शुभं यतः।
तेन पुण्येन लोकोऽस्तु ज्ञानभूमिः स्वयम्भुवः।।

समाप्तेयं दोहाकोषस्य पञ्जिका। ग्रन्थप्रमाणमष्टशतमस्य। कृतिरियं श्रीअद्वयवज्रपादानामिति। ]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project