Digital Sanskrit Buddhist Canon

श्री वज्रवाराहीसाधन

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June 13, 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Śrī Vajravārāhīsādhana

श्री वज्रवाराहीसाधन

ॐ नमः श्रीवज्रयोगिन्यै

श्रीवज्रदेवीचरणारविन्दं
संचिन्नसंकल्पविबन्धपाशम्।
प्रणम्य वक्ष्यामि यथोपदेशं
तत्साधनं विक्रमसेन यत्नात्। (१)

<घोरे> श्मशाने गिरिगह्वरे च
स्रोतस्वतीसागरसंनिधौ च।
अन्यत्र व हॄद्यतमे प्रदेशे
ध्यायाद् इमं योगम् अभीष्टसिद्ध्यै। (२)

वं वीक्ष्य बीजं हृदि पद्ममध्ये
बन्धूकपुष्पद्युतिम् आदधानम्।
तद्रश्मिसंदीप्तनभस्तलस्थं
पश्येत् समन्तात् सुगतादिवृन्दम्। (३)

तद्बीजरश्मिप्रभवैर् विचित्रैः
संपूज्य देवान् कुसुमादिभिस् तान्।
कृत्वार्चनां सप्तविधां जिनोक्तां
कुर्याच् चतुर्ब्रह्मविहारचिन्ताम्। (४)

(p २२६)

तत्र सप्तविधार्चना यथा पापदेशना पुण्यानुमोदना
त्रिशरणगमनं पुण्यपरिणामना बोधिचित्तोत्पादो
मार्गाश्रयणम् आत्मभावनिर्यातनं चेति।

एतस्य पापादिकदेशनादेर्
निरूपणं यत् क्रमतो यथा तत्।
एषां पुरस्तात् प्रतिदेशयामि
मया समस्तं यद् अकारि पापम्।(५)

गुर्वादिभिः पुण्यम् उपार्जितं यत्
तत् सर्वम् एवाभ्यनुमोदयामि।
कृतं करिष्यामि करोमि यच् च
सत्त्वा जिनाः सन्तु शुभेन तेन। (६)

रत्नत्रयं वै शरणं प्रयामि
स्यां धर्मराजो जगतो हिताय।
मार्गं जिनानाम् अहम् आश्रयामि
गृह्णीत नाथाः स्वतनुं ददामि।(७)

चतुर्ब्रह्मविहारास् तु मैत्रीकरुणामुदितोपेक्षालक्षणाः - ते चानुक्रमतो यथा:

यथा जनानां स्वसुते प्रवृत्तिः
स्नेहानुविद्धा नियमेन वृत्ता।
तथा भवेद् यान्यसुतेऽपि तेषां
तां द्वेषहन्त्रीं कुरुतात्र मैत्रीम्।(८)

(p २२८)

दुःखात् तथा दुःखनिमित्तभूतात्
प्रोद्धर्तुम् इच्छां सकलान् जनौघान्।
आघातचित्तप्रतिपक्षभूतां
विभावयेत् तां करुणां जगत्सु। (९)

अनन्तसत्त्वोद्धरणं न शक्यम्
एवं विषादस्य विघातदक्षाम्।
कीटोऽपि बुद्धोऽभवद् इत्य् अवेक्ष्य
संजातवीर्यो मुदितां विभाव्य। (१०)

ममेदम् अस्याहम् इति प्रवृद्धं
चित्तं यद् एतत् स च मोह एव।
तस्योपहन्त्रीम् अपरिग्रहत्वाद्
इमाम् उपेक्षां परिचिन्तय त्वम्। (११)

प्रतीत्यजत्वाज् जलचन्द्रतुल्यं
पश्येद् अलीकं बहिर् अन्तरं च।
स्वभावशुद्धादिकमन्त्रपाठात्
शुन्याधिमोक्षं विदधीत मन्त्री। (१२)

तत्रेदं मन्त्रद्वयम्। ॐ स्वभावशुद्धाः सर्वधर्माः स्वभावशुद्धोऽहम्। ॐ शून्यताज्ञानवज्रस्वभावात्मकोऽहम् इति।

(p २३०)

अथात्र हुंकारजविश्ववज्रं
दृष्ट्वा समन्तात् स्फुरदंशुजालम्।
तेनैव भूमीम् अथ पञ्जरं च
पश्येद् वितानं शरजालकं च। (१३)

पूर्वोत्तरादिक्रमतो दिशासु
सुम्भादिमन्त्रांश् चतुरो निवेश्य
तद्रश्मिजालप्रभवान् विदध्यात्
प्राकारनाम्नश् चतुरो बहिर् वै। (१४)

काकास्यकाद्याः पुनर् अष्टदेवीः
सुम्भादिमन्त्रप्रभवाः प्रपश्येत्।
हूंजाष्टकूपेषु निवेश्य मारान्
आकोटनं कीलनम् आचरन्तीः। (१५)

तत्रामी ते मन्त्राः। ॐ सुम्भ निसुम्भ हुं हुं फट्। ॐ गृह्ण गृह्ण हुं हुं फट्। ॐ ग्रिह्णापय ग्रिह्णापय हुं हुं फट्। ॐ आनय हो भगवान् वज्र हुं हुं फट्। अत्राष्टौ देव्यो यथा काकास्या उलूकास्या श्वानास्या सूकरास्या यमदाढी यमदूती यमदंष्ट्रिणी यममथनी चेति।

(p २३२)

अत्रोपदेशः। वामहस्तस्याङ्गुष्ठतर्जनीभ्यां चोटिकां दत्त्वा "ॐ सुम्भ निसुम्भ हुं हुं फड्" इत्यादिमन्त्रान्
उच्चारयन् कृष्णहरितरक्तपीतवर्णान् पातालब्रह्माण्डव्यापि-
ज्वलन्महाकायान् < वज्रप्राकारान् > वामावर्तेन पूर्वादिदिक्षु यथाक्रमं निवेशयेत्। पञ्जराद् बहिः
एतन्मन्त्रचतुष्टयनिष्पन्नाः ककस्यदिचतस्रो देविः,
एतन्निष्पत्तिकाल एव दक्षिणावर्तेनाग्नेय्यादेर् उभयमन्त्रकोणस्य रश्मिसंभूता यमदाढ्यादिचतस्रो देवीः पश्येत्।
एता अष्टौ द्विभुजैकवक्त्राः। अत्र प्रस्तावे नाभेर् अधः शूलाकाराः, दक्षिणे वज्रमुद्गर धराः, वामे
आत्मरूपकीलकहस्ताः। स्फरणयोगेन गत्वा दिग्विदिक्स्थित­सकलविघ्नवृन्दम् आनीय हूंकारनिष्पन्नेष्व् अष्टसु कूपेषु स्वमन्त्रसमानवर्णप्राकारसमीपवर्तिषु प्रवेष्य
कीलनाकोटन मन्त्रोच्चारणपूर्वकं विघ्नवृन्दं कीलयित्वा कोटयित्वा च प्राकारेषु लीयमानास् तः पश्येत्।

(२३४)

अत्र कीलनमन्त्रो यथा - ॐ घ घ घातय घातय सर्वदुष्टान् फट्। ॐ कीलय कीलय सर्वपापान् फट् हूं हूं हूं। वज्रकील वज्रधर आज्ञापयति। सर्वविघ्नानां कायवाक्चित्तवज्रं कीलय हूं फड् इति। आकोटनमन्त्रो यथा - ॐ वज्रमुद्गर वज्रकीलाकोटय हूं फड् इति।

तत्पञ्जरान्तर्निवसच्छ्मशान­
मध्यस्थिताम् ऊर्ध्वविशालरूपाम्।
पश्येत् त्रिकोणां शरदिन्दुगौरां
धर्मोदयां रक्तसरोजगर्भाम्।(१६)

तत्पद्ममध्यस्थितयो रवीन्द्वोर्
मध्यस्थितं विस्फुरदंशुजालम्।
वंकारबीजं स्फुटविद्रुमाभं
विभावयेत् स्पष्टतरं यथा स्यात्। (१७)

निःसृत्य बीजोद्भवरश्मिजालात्
कृत्वा जनौघान् जिनबोधिभाजः।
तत्रैव बीजे <हि> निवेशितान्तर्­
बुद्धादिकां सम्परिभावयेद् वै। (१८)

(p २३६)

चन्द्रार्कबीज प्रभवां त्रिनेत्रां
काश्मीरवर्णां द्विभुजैकवक्त्राम्।
आलीढ-म्-आक्रान्त शिरःकुचाग्राम्
उत्तानयोर् भैरवकालरात्र्योः। (१९)

उत्क्षिप्तवामस्थितपद्मभाण्डात्
पतत्प्रवाहं रुधिरं पिबन्तीम्।
सवज्रसव्येतर - --
भूतर्जनीतर्जितदुष्टवृन्दाम्। (२०)

खट्वाङ्गसंशोभितवामभगां
विलम्बिरक्ताक्तनृमुण्डमालाम्।
नग्नां क्वणन्नूपुरभूषिताङ्घ्रीं
दंष्ट्राकरालं वदनं वहन्तीम्। (२१)

वज्रेण विश्वध्वनिपूर्वकेण
क्रान्तोत्तमाङ्गां च्युतकेशबन्धाम्।
वज्रावलीमध्यविराजमान­
ललाटपट्टस्थितपञ्चमुण्डाम्। (२२)

(p २३८)

चक्रीचलत्कुण्डलचारुकण्ठि-
समुल्लसद्रोचकमेखलाभिः।
अभ्युल्लसन्मस्तककर्णकण्ठ­
हस्तद्वयग्रन्थिकटिप्रदेशाम्। (२३)

स्फुरद्गभस्तिस्थगितत्रिलोकाम्
आक्रान्तदेहां नवयौवनेन।
महासुखाकाररसैकपूर्णं
वाराहिकाम् आत्मतनुं विदध्यात्। (२४)

अथात्र नाभौ हृदये च वक्त्रे
शिरः शिखायां सकलेतराङ्गे।
मन्त्रैस् तु षड्भिः कवचं विधाय।
ज्ञानप्रवेशं समये विदध्यात्।(२५)

अमी ते षण् मन्त्राः - ॐ वं, हां यों, ह्रीं मों, ह्रें ह्रीं, हुं हुं, फट् फड् इति। एते
वज्रवाराहीयामिनीमोहिनीसंचालिनीसंत्रासिनीचण्डिकास्वरूपाः
रक्तनीलश्वेत<पीत>हरितधूम्रधूसरवर्णाश् च।

हृदिस्थचक्रस्थितवंमयूख-
प्रभूतपुष्पादिभिर् अर्चयित्वा।
प्रवेशयेत् तां समये नभःस्थाम्।
सर्पिर् यथा सर्पिषि वारि वारि। (२६)

(p २४०)

ज्ञानसत्त्वप्रवेशे तु आकर्षणप्रवेशनबन्धनतोषणकराः जः हूं वं होर् इति चत्वारो मन्त्रा बोद्धव्याः।

मन्त्रेण सेकं दधतो नभःस्थान्
तथागतांस् तान् व्यवलोक्य सम्यक्।
शेषाभिषेकोदकबिन्दुजातं
वैरोचनं पश्य शिरोनिविष्टम्।(२७)

तत्रायं सेकमन्त्रः:

यथा हि जातमात्रेण स्नापिताः सर्वतथागताः।
तथाऽहं स्नापयिष्यामि शुद्धं दिव्येन वारिणा। (२७इ)

"ॐ सर्वतथागताभिषेकसमयश्रिये हूं" इति।

अत्रायम् उपदेशः। हृद्बीजरश्मिना, अष्टाभिर् योगिनीभिर् यथा हित्यदिकं वारिणेत्यन्तं पठन्तीभिर् ईषदावर्जितपचमृतभृतवामकरकपालेभ्यो
निजज्ञानमृतवारिधाराभिर् अभीषिच्यमानं महासुखमयम् आत्मानं विभाव्य, शेषांबुनिष्पन्न<ं> शिरसि वैरोचनं दृष्ट्वा, ॐ सर्वतथागताभिषेकेत्यादिमन्त्रम् उच्चारयेद् इति।

(p २४२)

नभःस्थदेवीर् अभिपूजयन्तीर्
वाराहिकां तां स्तुवतीर् च वीक्ष्य।
यद् वक्ष्यमाणक्रमसाधितं वै
पीयूषम् आस्वादनम् अस्य कुर्यात्। (२८)

गत्वा समस्तां स्फरणेन काष्ठां
कृत्वा च सर्वं जगदर्थकृत्यम्।
बीजे स्वमूर्तिं विशतीः प्रपश्येद्
आखेदम् एवं पुनर् एव कुर्यात्। (२९)

अथ स्वचित्तं स्थिरतां विनेतुं
पश्येत् सुसूक्ष्मां स्फुरदंशुरेखाम्।
नाभिस्थचन्द्रार्कसमुद्गवर्ति-
सुसूक्ष्मवंनादसमुच्छ्रिता या। (३०)

अत्रोपदेशक्रमलब्धमार्गो
विभावनीयोऽनुपलम्भयोगः।
सत्त्वार्थसम्पादनहेतुभूत­
प्रभास्वरत्वप्रतिलम्भहेतोः। (३१)

(p २४४)

विभावनायां परिजातखेदो।
मन्त्री जपेन् मन्त्रवरं विधानात्।
वृक्षेण चिन्तामणिनोपमोक्ता।
स्वयं जिनैर् यस्य दशाक्षरस्य। (३२)

ततोऽपि खिन्नो विहरेद् यथेच्छम्।
स्वदेवताहंकृतिम् आदधानः।
इत्थं जपध्यानसदाभियोगात्
षण्मासतः सिद्धिम् उपैति योगी। (३३)

योऽनारतं भावयितुं न शक्तः।
सोऽपि प्रसिध्येद् यदि तस्य सम्यक्।
प्रत्यूषमध्याह्नदिनावसान­
संध्याख्यकाले क्षणभावना स्यात्। (३४)

तत्रायं दशाक्षरो हृदयमन्त्रः। ॐ वज्रवैरोचनीये स्वाहा। अस्य जपविधिर् यथा, भावनायां खेदे सति झटिति देवतीम् अधिमुच्य, तन्नाभिचन्द्रे रक्तवंकारं नादं वा दृष्ट्वा, मन्त्रम् उच्चारयन्, तस्मा<द् बीजान्> नादाद् वा निर्गमवायुना देवीसमूहं संस्फार्य, जगदर्थं कृत्वा च पुनर् मन्त्रम् उच्चारयन् सहैव माला सूत्राकर्षणन्यायेन प्रवेशवायुना तस्मिन्न् एव बीजे नादे वा प्रवेशयेन् मन्त्री। एवं पुनः कुर्याद् यावत् खेदो भवतीति।

(p २४६)

तत्पञ्जरान्तःपरिभावितानां
वाय्वग्निवारिक्षितिमण्डलानाम्।
स्वबीजजानाम् उपरिस्थमेरौ
तथैव देवीम् अपि भावयेद् वा। (३५)

<इति> प्रथमो भावनाक्रमः। I.

दाकिन्यादिचतुर्देवीश् चतुष्करोटमध्यगाः।
काकास्याष्टदेवीर् व, अधिकत्वेन भावयेत्। (३६)

वद् वा चक्रत्रयासीन प्रचण्डादिविभावनाम्।
समधिकं सुधीः कुर्याद् इति स्यात् पूर्णमण्डलम्। (३७)

महासुखचक्रस्थां वज्रवाराहीं
पूर्वोत्तरपश्चिमदक्षिणदिक्स्थिताभिर्
.........माखण्डरोहारूपिणीभिः सहितां भावयितुम् इच्छन्-
----- आह -
.....चतुर्देवीश् चतुष्करोटमध्यगा" इति।

(p २४८)

तद् उक्तं -
डाकिनी च तथा लामा खण्डरोहा तु रूपिणी।
न्यसेत् पद्मदिशः स्थाने सर्वसिद्धिप्रदायिकाः। (३८)

कृष्णा श्यामा रक्ता गौरा एकवक्त्राश् चतुर्भुजाः।
वामे खाट्वाङ्गकपालाः दक्षिणे डमरुकर्त्रिकाः। (३९)

त्रिनेत्रा मुक्तकेशाश् च आलीढासनसंस्थिताः।
दंष्त्राकरालवदनाः पञ्चमुद्राविभूषिताः। (४०)

विदिक्षु <चैव> चत्वारो बोधिचित्तकरोटकाः। इति।

डाकिन्यादिचतुष्टयं रत्नसंभवमुद्रितं बोद्धव्यम्।

तत्र भगवत्या हृदयमन्त्र उक्तः। उपहृदयमन्त्रो यथा -

ॐ सर्वबुद्धडाकिनीये वज्रवर्णनीये हुं हुं फट् स्वाहा।

अष्टपदमन्त्रस् तु यथा -
ॐ नमो भगवति वज्रवाराहि वं हुं हुं फट्।

(p २५०)

ॐ नम आर्यपराजिते त्रैलोक्यमाते महाविद्येश्वरि हुं हुं फट्।
ॐ नमः सर्वभूतभयावहे महावज्रे हुं हुं फट्।
ॐ नमो वज्रासने अजितेऽपराजिते वशंकरि नेत्रभ्रामिणि हुं हुं फट्।
ॐ नमः शोषणि रोषणि क्रोधनि करालिनि हुं हुं फट्।
ॐ नमः संत्रासनि मारणि सुप्रभेदनि पराजये हुं हुं फट्।
ॐ नमो जये विजये जम्भनि <स्तम्भनि> मोहनि हुं हुं फट्।
ॐ नमो वज्रवाराहि महायोगिनि कामेश्वरि खगे हुं हुं फट्।

डाकिन्यादीनां मन्त्रा यथा। ॐ डाकिनीये हुं हुं फट्। ॐ लामे हुं हुं फट्। ॐ खण्डरोहे हुं हुं फट्। ॐ रूपिणीये हुं हुं फट्।

इति द्वितीयो भावनाक्रमः। २।

(p २५२)

इदानीम् एव महासुखचक्रं पूर्वोत्तरपश्चिमदक्षिणद्वारेष्व् अवस्थिताभिः काकास्योलूकास्याश्वानास्यासूकरास्याभिर् आग्नेयनैरृत्यवायव्यैशानकोणस्थिताभिर् यमदाढीयमदूतीयमदंष्ट्रिणीयममथनीभिश् च सहितां भावयितुम् इच्छन्तं प्रत्य् आह -

"काकास्याद्यष्टदेवीर् वा, अधिकत्वेन भावयेद्" इति।

काकास्यादयश् चतस्रः स्वनाममुखाः। यमदाढ्यादयस् तु मनुष्यमुखा द्विवर्णास् च। एता अष्टाव् अमोघसिद्धिमुद्रितः, डाकिन्यादिसमाश् च शवासनत्वं परम् आसां विशेषः। तद् उक्तं -

यथा डाकिनीजनस्य तथा काकास्यादि तु भेदतः।
विदिक्स्थास् <तु> तथा देव्यो, द्वौ हि रूपौ मनोहरौ। प्रेतासना महाघोराः सत्त्वार्थकरणोद्यताः। (४१)
इति।

(p २५४)

आसां मन्त्रा यथा। ॐ काकास्ये हुं हुं फट्। ॐ उलूकास्ये हुं हुं फट्। ॐ श्वानास्ये हुं हुं फट्। ॐ सूकरास्ये हुं हुं फट्। ॐ यमदाढीये हुं हुं फट्। ॐ यमदूतीये हुं हुं फट्। ॐ यमदंष्ट्रिणीये हुं हुं फट्। ॐ यममथनीये हुं हुं फट्।

इति तृतीयो भावनाक्रमः। ३।

अधुना संपूर्णम् एव देवीचक्रं भावयितुम् इच्छन्तं प्रत्य् आह -

"यद् वेत्यादि"

चक्रत्रयशब्देन चित्तचक्रं वाक्चक्रं कायचक्रम् उच्यते।

(p २५६)

तत्राकाशे मेरोर् अष्टदिक्षु चित्तचक्रम् अष्टारं नीलवर्णं
नीलवज्रावलीपरिवृतं, तस्य पूर्वोत्तरपश्चिमदक्षिनारेषु
पुल्लीरमलयजालन्धर-ओड्डियानार्बुदाख्येषु यथाक्रमं
प्रचण्डाचण्डाक्षीप्रभावतीमहानासा ध्येयाः,
आग्नेयनैऋत्यवायव्यैशानारेषु गोदावरीरामेश्वरदेवीकोटमालवाख्येषु
वीरमतीखर्वरीलङ्केश्वरीद्रुमच्छायाः। इति चित्तचक्रम्। खेचरीणां संग्रहः।

तत्र भूमिवलये मेरोर् अष्टदिक्षु वाक्चक्रम् अष्टारं रक्तं
रक्तपद्मावलीपरिवृतम्। तस्य पूर्वोत्तरपश्चिमदक्षिणारेषु कामरूप-ओड्रत्रिशकुनिकोशलाख्येषु
ऐरावतीमहाभैरवावायुवेगासुराभक्ष्यो भाव्याः,
आग्नेयनैरृत्यवायव्यैशानारेषु कलिङ्गलंपाककाञ्चीहिमालयसंज्ञकेषु श्यामादेवीसुभद्राहयकर्णाखगाननाः। इति वाक्चक्रम्। भूचरीणां संग्रहः।

(p २५८)

ततो भूमितले समुद्रवलये कायचक्रम् अष्टारं शुक्लं शुक्लचक्रावलीपरिवृतम्। तस्य पूर्वोत्तरपश्चिमदक्षिणारेषु प्रेतपुरीगृहदेवतासौराष्ट्रसुवर्णद्वीपाख्येषु चक्रवेगाखण्डरोहाशौण्डिनीचक्रवर्मिण्यो ध्येयाः, आग्नेयनैरृत्यवायव्यैशानारेषु नगरसिन्धुमरुकुलताख्येषु सुवीरामहाबलाचक्रवर्तिनीमहावीर्याः। इति कायचक्रम्।
पातालवासिनीनां संग्रहः।

तत्र चित्तवाक्कायचक्रस्था देव्योऽनुक्रमात् कृष्णा रक्ताः शुक्ला अक्षोभ्यामिताभवैरोचनमुद्रिताश् च, सर्वाः प्रचण्डादयो देव्य एकवक्त्राश् चतुर्भुजाः वामे खत्वाङ्गकपालधराः दक्षिणे कर्त्रिडमरुधरास् त्रिनेत्रा मुक्तकेशा नग्नाः पञ्चमुद्राविभूषिताश् च कण्ठावलम्बिनरशिरोमाला आलीढपदाश् च।

ततः पातालतलेऽग्निवायुवलयमध्ये मेरोर् अष्टदिक्षु अष्टसु श्मशानेषु काकास्यादयो भाव्याः।
सर्वासाम् एव वज्रवाराह्यादीनां ललाटे वज्रमाला।

(p २६०)

अथ -
देवताहंकारलाभाय सर्वज्ञताप्तये तथा
देवतायोगतो योज्या बोधिपाक्षिकधर्माः।
एते पुनर् धर्माः सप्तत्रिंशत्।

तत्र चतुर्विपर्यासानां शुचिसुखनित्यात्मनां प्रतिपक्षतया चत्वार्य् अनुस्मृत्युपस्थानानि भवन्ति। तद् यथा कायानुस्मृत्युपस्थानं डाकिणी, वेदनानुस्मृत्युपस्थानं लामा, धर्मानुस्मृत्युपस्थानं खण्डरोहा, चित्तानुस्मृत्युपस्थानं रूपिणी।

गृहीतग्राहि ज्ञानं स्मृतिः स्मरणं, तस्या उपस्थानम्
उपस्थापकं, बहुलवचनात् अन्तर्भावितण्यर्थात् कर्तरि
ल्युट्। तत् पुनः पूर्वानुभूतस्योपस्थापकत्वाद्
आत्मगुणविस्मरणप्रतिपक्षभूतम्।

भूतेन्द्रियसंघातः कायः, सुखाद्यनुभवो वेदना, भूतकोटिर् धर्मः, प्रतिभासमात्रं चित्तम्। तेषां मायोपमत्वेनानुस्मरणं, तस्योपस्थापकं
कायाद्यनुस्मृत्युपस्थानम्।

(p २६२)

चत्वार ऋद्धिपादाः। तत्र छन्दर्द्धिपादः प्रचण्डा, वीर्यर्द्धिपादश् चण्डाषी, मीमांसार्द्धिपादः प्रभावती, चित्तर्द्धिपादो महानासा, इति।

सद्धर्मविषये श्रुताद्यभिलाषश् छन्दः।

ऋद्धिः समृद्धिः चित्तस्य समाधानं, तस्याः पादा अङ्गानि ऋद्धिपादाः। छन्दश् चासौ ऋद्धिपादश् चेति विगृह्य समासः।
एवं वीर्यर्द्धिपादादिषु च बोद्धव्यम्। "ऋत्य् अक," इति प्रकृतिभावाद् गुणाभावः। कुशले कर्मणि चेतसोऽभ्युत्साहो
वीर्यं, मीमांसात्यन्तविचारणा, चित्तं ज्ञानम्।

इन्दति ज्ञानं यस्मिन् सति तद् इन्द्रियं चक्षुरादि। तत्साधर्म्यात् श्रद्धादिकम् अपीन्द्रियम् उच्यते। तत् पञ्चविधं, तद् यथा श्रद्धेन्द्रियं वीरमती, वीर्येन्द्रियं खर्वरी, स्मृतीन्द्रियं लङ्केश्वरी, समाधीन्द्रियं द्रुमच्छाया, प्रज्ञेन्द्रियम् ऐरावती।

(p २६४)

तत्र वीर्यम् उक्तम्। स्मृतिस् चोक्ता। श्रद्धा तु लौकिकलोकोत्तरायां सम्यग्दृष्टौ कर्मफलोपभोगे च चित्तप्रसादः। समाधिश् चित्तैकाग्रता। हेयोपादेयस्यावधारिका बुद्धिः प्रज्ञा।

श्रद्धेन्द्रियाश्रितान् धर्मान् यद् उदानयत्य् उपढौकयति तद् वीर्येन्द्रियम्।
वीर्योपढौकितस्यार्थस्यासंप्रमोषः स्मृतिः। स्मृतीन्द्रियम् आश्रितान् धर्मान् यद् अभिमुखी करोति तत् समाधीन्द्रियं। समाधीन्द्रियेणैकाग्रीकृतान् धर्मान् यद् विध्यति तत् प्रज्ञेन्द्रियम्।

इन्द्रियाण्य् एव तरतमादिभेदेन प्रकर्षप्राप्तानि बलान्य् उच्यन्ते। तद् यथा श्रद्धाबलं महाभैरवा, वीर्यबलं वायुवेगा, स्मृतिबलं सुराभक्षी, समाधिबलं श्यामादेवी, प्रज्ञाबलं सुभद्रा चेति।

सम्यग् बोधेर् अङ्गानि कारणानि संबोध्यङ्गानि। तानि पुनः सप्त, तद् यथा समाधिसंबोध्यङ्गं हयकर्णा, वीर्यसंबोध्यङ्गं खगानना, प्रीतिसंबोध्यङ्गं चक्रवेगा, प्रस्रब्धिसंबोध्यङ्गं खण्डरोहा, धर्मप्रविचयसंबोध्यङ्गं शौण्डिनी, स्मृतिसं बोध्यङ्गं चक्रवर्मिणी उपेक्षा संबोध्यङ्गं सुवीरेति।

(p २६६)

समाधिश् चित्तैकाग्रता। स चासौ बोध्यङ्गं चेति विगृह्य समासः। एवं <वीर्य>संबोध्यङ्गादिषु बोद्धव्यम्। कौशिद्यानवकाशं वीर्यम्। मनसो धर्मैकाग्रता प्रीतिः। आत्मात्मीयादि वासनोच्छेदात् कायवाक्चित्तानां कुशले कर्मणि सक्तत्वं प्रस्रब्धिः। धर्माणां नैरात्म्यरूपेणावधारणं। धर्मप्रविचयः। सकलसत्त्वार्थनिमित्तसंबोधिप्रणिधानश्रुतचिन्ताभावनादेर् असंप्रमोषः स्मृतिः। औदासीन्यचित्ततोपेक्षा।

क्लेशावरणस्य प्रतिपक्षभूतत्वाद् आर्याणि सम्यग्दृष्ट्यादीन्य् अष्टाङ्गानि यस्य स आर्याष्टाङ्गो मार्गः।
ज्ञेयावरण प्रहाणभावनायै मृग्यतेऽन्विष्यते, इति मार्गः। अस्याङ्गानि यथा सम्यग्दृष्टिर् महाबला, सम्यक्संकल्पश् चक्रवर्तिनी, सम्यग्वाग् महावीर्य, सम्यक्कर्मान्तः काकास्या, सम्यगाजीव उलूकास्या, सम्यग्व्यायामः श्वानास्या, सम्यक्स्मृतिः सूकरास्या, सम्यक्समाधिर् भगवती वज्रवाराही।

तत्र बुद्धवाक्ये परमगौरवं सम्यग्दृष्टिः। प्रारब्धस्य कृत्यस्यापरित्यागः सम्यक्संकल्पः। सत्त्वार्थाविसंवादकं वचनं सम्यग्वाक्। दशकुशलानतिक्रमेण कृत्यं सम्यक्कर्मान्तः। न्यायार्जितवित्तेनाजीवनं सम्यगाजीवः। स्वपरार्थसम्पन्निमित्तं कायवाङ्मनसां कर्म सम्यग्व्यायामः। बुद्धवचनानुस्मरणं सम्यक्स्मृतिः। श्रिवज्रवाराहीरूपालम्बनं सम्यक्समाधिः।

(p २६८)

रागादयः। सम्यक् प्रहीयन्ते एभिर् इति कृत्वा सम्यक्प्रहाणानि चत्वारि, तद् यथा अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादनं यमदाढी, उत्पन्नानां कुशलानां धर्माणां रक्षणं यमदूती। उत्पन्नानाम् अकुशलानां धर्माणां प्रहाणम् यमदंष्ट्रिणी, अनुत्पन्नानाम् अकुशलानां धर्माणाम् अनुत्पादनं यममथनी चेति।

अथातः सम्प्रवक्ष्यामि कायमन्डलम् उत्तमम्।
पीठादिक्रमयोगेन दशभूमिविशुद्धितः। (४२)

पु जा ओ अ गो रा दे मा का ओ त्रि को क ल का हि प्रे गृ सौ सु न सि म कु। इत्य् आगमः। अत्रार्थः, पुल्लीरमलयादीनाम् आद्याक्षराणि <पु-ज>-इत्यादीनि सानुस्वाराण्य् उच्चार्यन्ते।
पुंकाराद्यक्षरपरिणतानि अग्रे शून्यानि चक्राणि, पुल्लीरमलयादीनि पीठादिस्थानानि शिरःप्रभृतीनि झटिति बोद्धव्यानि। तेषु शिरःप्रभृतिष्व् अवस्थिता नाड्यः, प्रचण्डादिदेवतापरिणामेण व्यवस्थिता भाव्या इति।

(p २७०)

पुल्लीरमलये चण्डां प्रपूर्वां शिरसि स्थिताम्।
जालन्धरे शिखायां तु चण्डाक्षीं परिभावयेत्। (४३)

दक्षिणकर्णतो ध्यायाद् ओड्डियाने प्रभावतीम्।
अर्बुदे शिरसः पृष्ठे महानासां विभावयेत्। (४४)

इति पीठं प्रमुदिता भूमिः।

वामे गोदावरी कर्णे वीरमतीम् विचिन्तयेत्।
रामेश्वरे च भ्रूमध्ये खर्वरीं पश्य संस्थिताम्।
चक्षुर्द्वये च देवीणां कोटे लङ्केश्वरीम् इमाम्। (४५)

स्कन्धद्वये समाख्यातं मालवदेशसंज्ञकम्।
तत्र वै चिन्तयेत् देवीं द्रुमच्चायेति नामिकाम्। (४६)

(p २७२)

इत्य् उपपीठं विमला भूमीः।

कक्षयोः कामरूपे तु ध्यायाद् ऐरावतीम् इमाम्।
ओड्रे स्तनद्वये देवीं महाभैरविकां तथा। (४७)

इति क्षेत्रं प्रभाकरी भूमिः।

नाभौ त्रिशकुनौ पश्येद् वायुवेगां स्फुरद्द्युतिम्।
कोशले नासिकाग्रे तु सुराभक्षीम् इमां तथा। (४८)

इत्य् उपक्षेत्रम् अर्चिष्मती भूमिः।

कलिङ्गे वदने देवीं श्यामाख्यां तु विभावयेत्।
लम्पाके कण्ठदेशे तु सुभद्रां देवतीं तथा।(४९)

इति छन्दोहोऽभिमुखी भूमिः।

काञ्च्यां तु हृदये देवीं हयकर्णाम् विभावयेत्।
मेढ्रे हिमालये स्थाने खगाननाम् इमां तथा। (५०)

इति उपच्छन्दोः सुदुर्जया भूमिः।

प्रेतपुर्यां स्मरेल् लिङ्गे चक्रवेगां लसद्द्युतिम्।
या गृहदेवता तस्यां गुदे स्यात् खण्डरोहिका। (५१)

(p २७४)

इति मेलापको दूरङ्गमा भूमिः।

नगरेऽङ्गुलिकास्व् एषा सुवीरा नाम योगिनी।
सिन्धौ तत्पादयोः पृष्ठे योगिनीं तां महाबलाम्। (५२)

इति श्मशानं साधुमती भूमिः।

मराव् अङ्गुष्ठयोर् ध्यायाद् योगिनीं चक्रवर्तिनीम्।
कुलतायां महावीर्या जानुद्वये मता तथा। (५३)

इत्य् उपश्मशानं धर्ममेघा भूमिः।

काकास्याद्या मुखे नाभौ लिङ्गे गुदे क्रमात् स्थिताः।
ऊर्णाकर्णाक्षिनासे तु यमदाढ्यादयस् तथा। (५५)

(p २७६)

डाकिन्याद्याश् चतुर्देव्यो हृदयम् आश्रित्य संस्थिताः।
इति संपूर्णं सदा भाव्यं कायमण्डलम् उत्तमम्। (५६)

बाह्ये पिठादिषु नद्या यथा तोयेन पोषणम् कुर्वन्ति तथा देहे नद्यो श्रवन्त्यो नखादिकं पोषयन्ति। बाह्ये वज्रपीठं महाबोधिस्थानं, निरञ्जना नदी, देहे तु महासुखचक्रं वज्रपीठम् अवधूति निरञ्जनेति मतम्।

इदानीं देवतानां मन्त्रा उच्यन्ते। तत्र वज्रवाराह्या हृदयोपहृदयाष्टपदमन्त्रा उक्तः। मूलमन्त्रस् त्व् अस्याः कथ्यते:

ॐ नमो भगवति वज्रवाराहि वं - अपराजिते त्रैलोक्यमाते महाविद्येश्वरि - सर्वभूतभयावहे महावज्रे - वज्रासनि
अजितेऽपराजिते वशंकरि नेत्रभ्रामिणि - शोषणि रोषणि क्रोधनि करालिनि - संत्रासनि मारणि सुप्रभेदनि पराजये - जये विजये जम्भनि स्तम्भनि मोहनि -
वज्रवाराहि महायोगिनि कामेश्वरि खगे -

(p २७८)

प्रोत्तुङ्गे, हन हन प्राणान्, किङि किङि खिङ्खिणि खिङ्खिणि धुन धुन वज्रहस्ते शोषय शोषय वज्रखत्वाङ्गकापलधारिणि महापिशितमांसाशिनि मनुषान्त्रप्रावृते सांनिध्य नरशिरोमालाग्रथितधारिणि, सुम्भनिसुम्भे, हन हन पापं मम सर्वसत्त्वानां च, सर्वपशूनां महामांसच्छेदनि क्रोधमूर्ते दंष्ट्राकरालिनि महामुद्रे श्रिहेरुकदेवस्याग्रमहिषि सहस्रग्रीवे सहस्रबाहवे शतसहस्रानने ज्वलिततेजसे ज्वालामुखि पिङ्गललोचने वज्रशरीरे वज्रासने मिलि मिलि तिमिलि तिमिलि हे हे हे हे हुं हुं ख ख धु धु रु रु, धुरु धुरु मुरु मुरु अद्वैते महायोगिनि पठितसिद्धे ॐ ध्रं हे हे ह ह भीमे हस हस हा हा हो हो

(p २८०)

हूं हूं त्रैलोक्यविनाशिनि शतसहस्रकोटितथागतपरिवारे हूं हूं हूं फट् फट् सिंहरूपे खः गजरूपे आः त्रैलोक्योदरे महासमुद्रमेखले ग्रस ग्रस हूं हूं फट् फट् वीराद्वैते हुं हुं हा हा महापशुमोहनि, महायोगेश्वरी त्वं, डाकिनि सर्वलोकानां वन्दनि सद्यःप्रत्ययकारिणि हूं हूं फट् भूतत्रासनि
महावीरे परमसिद्धयोगेश्वरि फट् हूं हूं हूं फट् स्वाहा।

डाकिन्यादीनां मन्त्रा उक्ताः, काकास्यादीनां चाष्टानाम्, प्रचण्डादीनां तु कुलिशपदक्रमेण मन्त्राः, यथा -

ॐ कर कर प्रचण्डे हुं हूं फट्। ॐ कुरु कुरु
चण्डाक्षीये हुं हूं फट्। ॐ बन्ध बन्ध प्रभावतीये

(p २८२)

हुं हूं फट्। ॐ त्रासय त्रासय महानाशे हुं हूं फट्। ॐ क्षोभय क्षोभय वीरमतीये हुं हूं फट्। ॐ ह्रें ह्रें खर्वरीये हुं हूं फट्। ॐ ह्रः ह्रः लङ्केश्वरीये हुं हूं फट्। ॐ फें फें द्रुमच्छाये हुं हूं फट्। ॐ फट् फट् ऐरावतीये हुं हूं फट्। ॐ दह दह महाभैरवीये हुं हूं फट्। ॐ पच पच वायुवेगे हुं हूं फट्। ॐ भक्ष भक्ष वस रुधिरान्त्रमालावलम्बिनि सुराभक्षीये हुं हूं फट्। ॐ ग्रिह्ण ग्रिह्ण सप्तपातालगतभुजङ्गं सर्पं वा तर्जय तर्जय श्यामादेवीये हुं हूं फट्। ॐ आकड्ड आकड्ड सुभद्रे हुं हूं फट्। ॐ ह्रीं ह्रीं हयकर्णे हुं हूं फट्। ॐ ज्लों ज्लों खगानने हुं हूं फट्। ॐ क्ष्यां क्ष्यां चक्रवेगे हुं हूं फट्। ॐ हां हां खण्डरोहे हुं हूं फट्। ॐ हिं हिं शौण्डिनीये हुं हूं फट्। ॐ हुं हूं चक्रवर्मिणीये हुं हूं फट्। ॐ किलि किलि सुवीरे हुं हूं फट्। ॐ सिलि सिलि महाबले हुं हूं फट्। ॐ चिलि

(p २८४)

चिलि चक्रवर्तिनीये हुं हूं फट्। ॐ धिलि धिलि महावीर्ये हुं हूं फट्।

अत्र प्रचण्डादिमन्त्रेषु प्रथमो हूंकारो ह्रस्वः, द्वितीयो दीर्घः। एतच् च गुरूपदेशाद् बोद्धव्यम्। भव्यादिमतेन तु "ॐ प्रचण्डे हुं हुं फट्, ॐ चण्डाक्षि हुं हुं फट्" इत्यादि च आसां मन्त्रा इति वक्ष्यते, तथा हि -

स्वनामोच्चारणं मन्त्राणां हुंहुंफट्कारयोजितम्।

इत्य् अस्यागमस्यायम् अर्थस् तैर् उपदर्शितः। आसां योगिनीनां स्वनाममन्त्रः। आदौ परमंकारः, अन्ते च हुंहुंफट्कारः कार्य, इति स्वनामेत्यादिना दर्शितम्।

इति चथुर्थो भावनाक्रमः।

पूजादिविधयः सर्वे ये केचिद् आगमोदिताः।
बलिप्रदानपूर्वास् ते कर्तव्याः सिद्धिकाङ्क्षिभिः। (५७)

देवतायोगयुक्तेन बलिर् देयो यतो मतः।
तस्मात् तद्योगतः पश्चाद् बलिर् एष निगद्यते। (५८)

(p २८६)

तत्र बल्यमृतास्वादनम् उच्यते, तद् यथा -

कृष्णयंकारसंभूतं धन्वाभं वायुमण्डलम्।
रक्तम् अस्योपरि मध्ये रंजातं वह्निमण्डलम्। (५९)

तस्योपरि स्थितं शुक्लम् आःकारजं करोटकम्।
आक्रान्तकंत्रयोद्भूतत्रिमुण्डकृतचुल्लिकम्। (६०)

पञ्चामृतादि ॐआदिबीजजं तदधिष्ठितम्।
तद्रूपेण करोटस्थं रक्ताद्यं च विचिन्तयेत्। (६१)

ॐआदीति: ॐ <बुं/वुं> आं ज्रीं खं हूं लां मां पां तां इति पञ्चतथागतचतुर्देवीनां बीजानि।

वायूद्दीप्ताग्नितापेन विलीनं तत्र बीजजम्।
वीक्ष्य तद् दाडिमीपुष्पवर्णेन सदृश द्युतिम्। (६२)

(p २८८)

ततो हूंभवखट्वाङ्गे सुधात्माधोमुखे सिते।
विलीने शुक्लशीतलं द्रवं तस्यावलोकयेत्। (६३)

तस्योपर्य् आलिकालीनां परिणामसमुद्भवात्।
ॐ आः हूं इत्य् अतो मन्त्रात् क्रमोपर्युपरिस्थितात्। (६४)

स्फरित्वा देवताचक्रं कृत्वा सत्त्वप्रयोजनम्।
विलीय त्र्यक्षरे विष्टं त्र्यक्षरं चामृते तथा। (६५)

तम् अमृतं द्रवं पश्येत् त्र्यक्षरैः समधिष्ठितम्।
निष्पादिते तस्मिन् बलिं दद्यात् विधिनामुना। (६६)

ज्वालामुद्रा फेत्काराभयाम् आनीतं देवताचक्रम् अर्घादिपुरःसरं पूजयित्वा -

<ॐ> अन्योन्यानुगताः सर्वधर्माः परस्परानुप्रविष्टाः सर्वधर्माः हूं

(p २९०)

इति मन्त्रपाठपूर्वकं चन्द्रसूर्यारूढहूंकारद्वय­
परिणामेण वज्राञ्जलिकृतकरतले अमृतभाण्डम् अवस्थाप्य ध्यात्वा वा अभिमतसिद्ध्यर्थं पठेद् इदम् -

देव्यः प्रमाणं समयः प्रमाणं तदुक्तवाचश् च परं प्रमाणम्।
एतेन सत्येन भवेयुर् एता देव्यो ममानुग्रहहेतुभूता<ः>।

इति। ततः पूज्यपूजापूजकान् अभेदेन पश्येत्। पूर्वादिदिक्षु वामेनावर्तेन विदिक्ष्व् अग्निकोणम् आरभ्य दक्षिणेनावर्तेन भाण्डम् भ्रामयन् हूंभववज्रजिह्वानां देवतानां मन्त्रद्वयं पठंस् तद् अमृतम् उपढौकयेत्।

तत्रायम् मन्त्रः -

ॐ कर कर, कुरु कुरु, बन्ध बन्ध, त्रासय त्रासय,
क्षोभय क्षोभय, ह्रौं ह्रौं, ह्रः ह्रः, फें फें, फट् फट्, दह दह, पच पच, भक्ष भक्ष
वसरुधिरान्त्रमालावलम्बिनि, ग्रिह्ण ग्रिह्ण

(p २९२)

सप्तपातालगतभुजङ्गं सर्पम् वा तर्जय तर्जय, आकड्ड आकड्ड, ह्रीं ह्रीं, ज्लों ज्लों, क्ष्मां क्ष्मां, हां हां, हिं हिं, <हूं हूं>, किलि किलि, सिलि सिलि, ढिलि ढिलि, धिलि धिलि, हूं हूं फट्

इति। अयम् मन्त्र एकवारम् पठितव्यः।

तद् अनु च -

ॐ वज्रारल्लि होः जः हूं वं होः, वज्रडाकिन्यः समयस् त्वं दृश्य होः।

इत्य् अयं मन्त्र। एकद्वित्रिचतुःपञ्चवारान् उच्चार्य ढौकयेद् अमृतम्। तत आचमनादिकं कृत्वाभिमतसिद्ध्यर्थं श्लोकम् इदं पठेत् -

भवशमसमसङ्ग भग्नसंकल्पभङ्गाः
खम् इव सकलभावं भावतो वीक्षमाणाः।
गुरुतरकरुणाम्भः स्फीतचित्ताम्बुनाथाः
कुरुत कुरुत देव्यो मय्य् अतीवानुकम्पाम्। (६९)

(p २९४)

इति।

ततोऽष्टश्मशानस्थितदिक्पालादीनां दिक्षु विदिक्षु च पूर्ववत् भ्रामयन् मन्त्रं द्वित्रिवारान् पठन्न् उपढौकयेद् अमृतम्।
तत्रायम् मन्त्रः -

ॐ ख ख खाहि खाहि सर्वयक्षराक्षसभूतप्रेतपिशाचोन्मादापस्मारडाकडाकिन्यादय इमं बलिं गृह्णन्तु समयं रक्षन्तु मम सर्वसिद्धिं प्रयच्छन्तु यथैवं यथेष्टं भुञ्जथ पिबथ जिघ्रथ मातिक्रमथ मम सर्वाकारतया सत्सुखविवृद्धये सहायका भवन्तु हूं हूं फट् स्वाहा।

इति दिक्पालाः संतुष्टाः सन्तो भावकस्य सिद्धिं ददतो द्रष्टव्याः।

तद् अनु तेषां समुदायेन ताम्बुलादिकं दत्त्वा च्छोमकहस्तेन संच्छोम्य वामेन न्यूनाधिकविधिपरिपूरणार्थं घण्टां वादयन् पूर्वं पठेन् मन्त्रम् अमुं -

ॐ वज्रहेरुक समयम् अनुपालय, हेरुकत्वेनोपतिष्ठ, दृढो मे भव, सुतोष्यो मे भव, सुपोष्यो मे भव, अनुरक्तो मे भव, सर्वसिद्धिं मे प्रयच्छ, सर्वकर्मसु च मे चित्तं श्रेयः कुरु हूं, ह ह ह ह होः भगवन् वज्रहेरुक मा मे मुञ्च, हेरुको भव महासमयसत्त्व आः हूं फट्

(p २९६)

इति। ततः ॐ योगशुद्धाः सर्वधर्माः योगशुद्धोऽहम् इति पठन् कमलावर्तमुद्रया संतोष्य तन्मुद्रोपसंहारेणालिङ्गनाभिनयं
कृत्वानामिकाङ्गुष्ठच्छोटिकादानपूर्वकम्, ॐ मुर् इति मन्त्रं पठन् विसर्ज्य तच् चक्रम् आत्मनि प्रवेशयेत्।

अथ बाह्यपूजाविधिर् उच्यते। प्रातर् उत्थाय स्वदेवतायोगवान् योगी शुचिप्रदेशे वामहस्तं दत्त्वा ॐ सुम्भ निसुम्भेत्यादिमन्त्रचतुष्टयम् उच्चार्य
पञ्चमृतसुगन्धादिवटिकया पञ्चमृताद्यभावेऽन्यतममिश्रितया वा गोमयमिश्रितया वा मध्यवर्तुलं त्रिकोणं मण्डलं कृत्वा
तन्मध्यावस्थितरक्त<पद्म>करिणिकायां हृदयनिर्गतं वंकारम् अवस्थाप्य तद्बीजरश्मिभिर् ज्ञानस्वभावां भगवतीम् आनीय वंकारे प्रवेश्य तत्परिणतां भगवतिं पश्येत्।

ततो हृद्बीजविनिर्गतपुष्पाद्यैः संपूज्य यथाविधिशोधित वामकरेण ॐ आः हूं इति मन्त्रम् उच्चारयन् पुष्पं दद्यात् तद् अनु हृदयोपहृदयाष्टपदैश् च पुष्पं दद्यात्। तद् अनु

(p २९८)

श्मशानस्थितदिक्पालादिकं त्र्यक्षरेण संपूज्य नामविदर्भितेन पूजयेत्।

ततो वामकरविन्यस्तानां देवतानां तत्तत्स्थानेषु तत्तन्मन्त्रेण वक्ष्यमाणेन ॐ ह इत्यादिना पुष्पं दद्यात्।
<ततस् तद् वामकरगतपुष्पम् अष्टपदमन्त्रोच्चारण>­
पूर्वकं मण्डले प्रक्षिप्य शिरसि पुष्पञ्जलिं बद्ध्वा वामकरगतं देवताचक्रम् आत्मनि प्रवेशयेत्।

ततो हृदयाष्टपदमन्त्रैर् अन्यैश् च स्तोत्रैः स्तुतिं च
कृत्वा पापदेशनादिकं ध्यानजपप्रणिधानादिकं च कृत्वा -

न्यूनाधिकविधिच्छिद्रपूरणार्थं शताक्षरमन्त्रं पठेत्। तद् अनु ॐ योगशुद्धाः सर्वधर्मा योगशुद्धोऽहम्
इति मन्त्रपाठपूर्वकं कमलावर्तमुद्रया संतोष्य तन्मुद्रोपसंहारेणालिङ्गनाभिनयं कृत्वा च्छोटिकां च दत्त्वा भूमिं स्पृशन् ॐ मुर् इति मन्त्रेण विसृज्य तां देवतीम् आत्मनि प्रवेशयेत्। ततो मण्डलरेखां लुम्पेद् इति।

(p ३००)

एवम् अनया दिशा द्वितीयादिभावनाक्रमेषु देवतीनां पूजाक्रमः स्वयम् ऊहनीयः।

अथ हस्तपूजाविधिर् उच्यते। गणमण्डलादौ स्वेष्टदेवतायुक्तो मन्त्री वामहस्तवृद्धातर्ज्जनी मध्यमानामिकाकनिष्ठासु नखेषु षट्सु यथाक्रमं वज्रसत्त्ववैरोचनामिताभाक्षो­
भ्यरत्नसम्भवामोघसिद्धिरूपान् शुक्लसितरक्तकृष्णपीतश्यामवर्णान्।

ॐ ह, नम हि, स्वाहा हुं, वौषट् हे, हुं हुं हो, फट् हं

इति मन्त्रान् न्यसेत्। करोदरे तु झटिति निष्पन्नं रक्तं पञ्चदलकमलं ध्यात्वा कर्णिकामध्ये वज्रवाराहीस्वरूपं रक्तं "ॐ वं" इति < बीजं> पश्येत्।
पूर्वोत्तरपश्चिमदक्षिणकोणदलेषु यथाक्रमं यामिनीमोहिनीसंचालिनीसंत्रासिनीचण्डिकास्वरूपाणि नीलशुक्लपीतहरितधूम्रधूसरवर्णानि -

(p ३०२)

हं यों, ह्रीं मों, ह्रें ह्रीं, हुं हुं, फट् फट्

इति बीजानि पश्येत्। एतत्करस्थबीजाक्षरप्रतिबिम्बं त्रिचक्रं वाधः करपृष्ठे परिस्फुवं पश्येत्।

ततः करगतानि सकल बीजाक्षराणि द्रवद्रव्येण म्रक्षयित्वा करतलं सर्वयोगिनीभिर् अधिष्ठितं ध्यात्वा तद्द्रवादिद्रव्यं त्र्यक्षरेणाष्टपदमन्त्रेण वा दद्यात्।

ततः संपूज्य न्यूनाधिकविधिच्छिद्रपूरणार्थं शताक्षरमन्त्रं पठित्वा वज्रयोगिन्या अधिष्ठानार्थम्

देव्यः प्रमाणं समयः प्रमाणम्।

इत्यादिनाध्येष्य तत्करगतद्रव्यम् अपरद्रव्ये पात्रे वा स्थापयित्वा, हस्तलग्नेन द्रव्येण वामानामिकागृहीतेन
हृज्जिह्वाशिरांसि हूं आः ॐ इत्य् उच्चार्य म्रक्षयंस् तद्देवतावृन्दम् आत्मनि प्रविष्टम् अधिमुञ्चेद् इति। एष तु विधिः संचारतन्त्रोक्तो बोद्धव्यः।

(p ३०४)

अथवा पूर्वोक्तविधिशोधितवामकरस्यानामिकया यथा<विधि>शोधितमदनेन सहितया त्रिकोणं वामावर्तेन भूमौ मण्डलकं कृत्वा तन्मध्ये हृदयविनिर्गतबीजनिष्पन्नां वज्रवाराहीम् अष्टश्मशानशोभितां दृष्ट्वा एतस्यै पञ्चामृतादिरूपेण निष्पादितं खाद्यादिकं त्र्यक्षरेणाष्तपदमन्त्रेण वा ढौकयित्वा पद्मभाण्डादिगतद्रव्यम् अमृतायितं मदनं वृद्धानामिकाभ्यां गृहीत्वा भगवतीं त्र्यक्षरमन्त्रहृदयोपहृदयाष्टपदमन्त्रैः संतर्पयेत्। श्मशानदेवतास् त्र्यक्षरेण तर्पयेत्।

एवं संपूज्य न्यूनधिकविधिच्छिद्रपूरणर्थं शताक्षरमन्त्रं पठित्वा देवताधिष्ठानार्थं पूर्ववद् अध्येष्य च <ॐ> योगशुद्धाः सर्वधर्मा योगशुद्धोऽहम् इति पठन् कमलावर्तमुद्रया संतोष्य मुद्रोपसंहारेणलिङ्गनाभिनयपूर्वकं त्रिच्छोटिकाभिर् ॐ मुर् इति विसृज्य देवताम् आत्मनि प्रवेशयेत्। ततो भूमिगतमदनं वामानामिकया गृहीत्वा हृज्जिह्वाशिरांसि हूं आः ॐ इत्य् उच्चार्य म्रक्षयेत्। करगतम् अपि देवताचक्रम् आत्मनि प्रविष्टम् अवलोकयेद् इति।

(p ३०६)

एवम् अनया दिशा द्वितीयादिभावनाक्रमेषु स्वस्वमन्त्रैर् देवताः पूजयेद् इति।

तद् अनु शुक्लहूंकारपरिणतशुक्लवज्रजिह्वां दक्षिणहस्तस्रुवेतराहुतिः स्वनाभिकमले कर्णिकाव्यवस्थितां ज्वालामालाकुलां देवीं जुहुयाद् इत्यध्यात्महोमविधिः।

तद् अनु -

ॐ आः उच्छिष्टवज्राधितिष्ठेमं बलिं हूं हूं हूं फट् स्वाहा,

इति मन्त्रेणोच्छिष्टबलिम् अधिस्थापयेत् बहिर् गत्वेति।

(p ३०८)

इदानीं प्रागुद्दिष्टं श्मशानम् उच्यते -

प्राच्याम् उदीच्यां वरुणान्वितायां
यामेश्वरायां दिशि वै श्मशानम्।
चण्डोग्रनामाथ च गह्वरं च
करङ्ककाख्यं च सुभीषणं च। (७०)

एषु श्मशानेषु शिरीषबोधी
कङ्केलिचूतौ क्रमतो द्रुमाः स्युः।
इन्द्रः कुबेरो वरुणो यमश् च।
प्राच्यादिकोणे पतयोऽनुबोध्याः। (७१)

श्रीवासुकिस् तक्षकसंज्ञकश् च।
कर्कोटपद्माव् इह सन्ति नागाः।
मेघास् त्व् अमी गर्जितघूर्णितौ च
घोरस् तथावर्तकशब्दवाच्यः। (७२)

ईशानवैश्वानरजातुधान -
प्रभञ्जनानाम् अथ कोणकेषु।
चतुर्षु चत्वार्य् अतिभीषणानि
क्रमाच् छ्मशानानि वसन्त्य् अमूनि। (७३)

(p ३१०)

अट्टट्टहासध्वनिवाच्यम् एकं
लक्ष्मीवनं नाम तथा द्वितीयम्।
घोरान्धकारं च यथार्थनाम
किलारवाख्यं किल शब्दपुर्वं। (७४)

वृक्षाः क्रमेण त्रिवटः करञ्जः
श्रिमल्लतापर्कटिर् अर्जुनश् च।
ईशानवैश्वानरजातुधान-
प्रभञ्जनान् कोणपतीन् प्रतीहि। (७५)

नागास् तु पद्मो महता विशिष्टो
हुलुर् द्विर् उक्तः कुलिकश् च शंखः
एको घनो द्वौ प्रपुराणवर्षौ
चण्डश् चतुर्थो जलदाः स्युर् एते। (७६)

इदं विधायोपचितं मदीयं
पुण्यं शरच्चन्द्रमरीचिगौरम्।
तेनाहताशेषविकल्पदोषाः
श्रीवज्रदेवीपदवीं लभन्ताम्। (७७)

श्रिवज्रवाराहीसाधनं समाप्तम्। कृतिर् इयं पण्डितमहोपाध्यायश्री-उमापतिदेवपादानाम् इति।

(p ३१२)
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project