Digital Sanskrit Buddhist Canon

महामायासाधनोपायिका

Technical Details
महामायासाधनोपायिका
कुक्कुरीपादानाम्

नमो वज्रडाकाय।

प्रथमं मुखशौचादिकं कृत्वा मृदुविष्टरोपविष्टः स्वहृदि सूर्यमण्डले हुंकारबीजं दृष्ट्वा पुरतः करुणाचलवज्रं वक्ष्यमाणकवर्णभुजायुधं विचिन्त्य पूजापापदेशनापुण्यानुमोदनापुण्यपरिणामनात्रिशरणगमनादिप्रणिधिं च कृत्वा स्वकायवाक्चिते नामाक्षरं- हे इति हेत्वपगताः सर्वधर्माः, ह इति हान्युत्पादिताः सर्वधर्माः, ए इति पर्येषणविमुक्ताः सर्वधर्माः, रु इति प्रतिश्रुत्कोपमाः सर्वधर्माः, र इति रतिसमायुक्ताः सर्वधर्माः, उ इति उत्पादव्ययधर्मिणः सर्वधर्माः, क इति सर्वसौख्यसमायुक्ताः सर्वधर्माः, अ इति अकारो मुखं सर्वधर्माणामाद्यनुत्पन्नत्वात्। इति कृत्वा शून्यतां विभाव्य मन्त्रमुच्चारयेत्- ॐ शून्यताज्ञानवज्रस्वभावात्मकोऽहम्। हुँकारेण विघ्नमुत्सार्य वज्रपञ्जरं विभाव्य श्मशानाष्टकमध्ये रक्तचतुर्दलकमलपद्मवरटकसूर्यमण्डले हुँकारबीजं दृष्ट्वा मैत्रीकरुणामुदितोपेक्षास्वभावात्मिकाश्चतुर्देव्यः सञ्चोदयन्ति श्रीवज्रगीत्या अभ्यन्तरसाधने-

हले सहि विअसिअ कमलु पबोहिउ वज्जें।
अललललहो महासुहेण आरोहिउ नृत्यें॥
रविकिरणेण पफुल्लिअ कमलु महासुहेण।
अललललहो महासुणेह आरोहिउ नृत्यें॥
[ वज्रडाकिनीनृत्येन वज्रसत्त्वं निवेशयेत्॥ ]

इति गीतिसमनन्तरं मायाबद्धवस्तुसंवित्त्या मनसा हुँकारोद्भूतं करुणाचलवज्रं नीलपीतसितश्यामचतुर्मुखं चतुर्भुजं दक्षिणे भुजे कपालशरधरं वामे खट्वाङ्गधनुर्धरं रौद्रासनस्थं त्रिनेत्रं सार्द्रमुण्डस्रग्दाममालिनं कपालमालाभिः शिरसि भूषितम् अस्थ्यलङ्कारविभूषितम् ईषद्दंष्ट्राकरालवदनं पिङ्गलोर्ध्वकेशम् काये चीकारं पीतं चक्षुषोः ॐकारं सितं श्रोत्रयोः हुँकारं रक्तं नासिकायां खकारं सितं कण्ठे आःकारं सितं हृदये रेफं रक्तं षडङ्गन्यासलक्षितं स्वाभप्रज्ञालिङ्गितं व्योमावकाशिनं वज्रधराविशे(भिषे)किनं कायवाक्चित्ताधिष्ठितं सुविशुद्धधर्मधातुज्ञानस्वभावमात्मानं विभाव्य तत्र पूर्वदले वज्रडाकिनी नीलवर्णा नीलपीतरक्तश्यामचतुर्मुखा चतुर्भुजा वामभुजे खट्वाङ्गघण्टां दक्षिणे वज्रकपालहस्ता पृथिवीधात्वादर्शज्ञानस्वभावा, दक्षिणदले रत्नडाकिनी पीतवर्णा पीतनीलरक्तश्यामचतुर्मुखा चतुर्भुजा वामभुजे पताकां कञ्चुकं च दक्षिणे त्रिशूलरत्नहस्ता अब्धातुसमताज्ञानस्वभावा, पश्चिमदले पद्मडाकिनी सितारुणवर्णा रक्तपीतनीलश्यामचतुर्मुखा चतुर्भुजा वामभुजे धनुः कपालं दक्षिणे शरविश्वपद्महस्ता तेजोधातुप्रत्यवेक्षणाज्ञानस्वभावा, उत्तरदले विश्वडाकिनी श्यामवर्णा श्यामपीतरक्तनीलचतुर्मुखा चतुर्भुजा वामभुजे पाशकपालं दक्षिणे खट्वाङ्गडमरुहस्ता वायुधातुकृत्यानुष्ठानस्वभावा। देव्यः सर्वा रौद्रासनस्थाः कपालमालाभिः शिरसि विभूषिताः सार्द्रमुण्डस्रग्दाममालिन्यस्त्रिनेत्रा ईषद्दंष्ट्राकरालवदना ज्वलितोर्ध्वपिङ्गलकेशाः स्फुरद्रश्मिमालिन्यः। एवं चतुर्देवीसमावृतमात्मानं करुणाचलवज्रं ध्यात्वा शिरसि हृदि नाभौ गुह्ये वायुमाहेन्द्रवरुणाग्निमण्डलेषु यथोपदेशं विभाव्य नपुंसकजापं कुर्याद् मन्त्री। खिन्ने सति मन्त्रजापं कृत्वा ॐ आः ह्रीं हुं फट् एवं भवसमसर्वभावस्वभावमन्त्रसंस्थानधर्मात्मा योगी सर्वविषयादिकृत्यं कुर्यात् प्राकृतकल्पमुक्तये इति।

॥ महामायासाधनोपायिका समाप्ता॥

कृतिरियं कुक्कुरिपादानामिति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project