Digital Sanskrit Buddhist Canon

महामायातन्त्रम् [गुणवतिटिकासहितम्]

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    2013
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of the Exact Methods
  • Sponsor:
    University of the West
महामायातन्त्रम्

गुणवतिटिकासहितम्

प्रथमो निर्देशः

॥ नमः श्रीवज्रडाकिनिभ्यः॥

नमः श्रीवज्रडाकिन्यै डाकिनीचक्रवतिर्ने।
पञ्चज्ञानत्रिकायाय जगत्त्राणविधायिने॥ १॥

गुणवति

[नमः] श्रीभूतडामराय
कायाः कृता येन जगढितार्थ
कुलानि ढेव्यः कुलनायकाश्च।
तन्मुर्तिमुढ्रानुसृतैकतत्व।
स मृग्यतां वज्रधरः शिवाय॥
अतिलघु महामायातन्त्रं गिरा गुरुणाऽर्थतो
जगति कतिचित् तस्यदानि निरन्तरवेदिनः।
प्रतिपदमतस्तत्र ज्ञान शुचि श्रुतशालिनां
निभृसितसुलभं लोके कर्तु ममैष परिश्रमः॥

विविधः सुगतेन बोधिमार्गः
कथितो भिन्नरुचि विलोक्य लोकम्।
रुचितो बहवः स्वयं प्रवृता
विवृतिर्मे गुणवत्यथोऽत्र कर्म॥
यश्चैता वज्रडाकिन्यः परिकल्पितबन्धनान्
विचिछध लोक कार्येषु प्रविष्टास्तदिते रताः॥२॥।

अथातो वज्रडाकिनिनां गुहोश्वरिणां परमगुप्तं नम तन्त्रं प्रवक्ष्ये॥३॥

अथेत्यादि। नैतत् तन्त्रं मुक्तकम्. किं तर्हि. तन्त्रन्तरैः
सम्प्रयुतम्। तस्मादयमथशब्दः पुर्वतन्त्रापेक्षयाऽऽनन्तर्यमस्य तन्त्रस्य
धोतयति। अत एवो नस्याधौ निदनवक्यमेवं मयेत्यादिकं प्रयुक्तम्
प्रागेव प्रयुक्तत्वात्। तधथा श्रिवज्रशेखरे।

अत इति। यस्मादतिसंक्षेपरुचीनामिदमेव बोधेराशु साधनम्, अतः प्रवक्ष्ये इति सम्बन्ध्ः। प्रविभज्य वक्ष्ये प्रवक्ष्ये। तन्त्रमिति प्रबन्धम्। त्रिविधं तन्त्रम्--हेतुतन्त्रम्, फलतन्त्रम्, उपायतन्त्रं च। तत्र प्रकृतिप्रभास्वरमनादिनिधनं चित्तं बोधिचित्तम्, सहेतुस्तद्बीजम्। कस्य बीजम्? बोधेः। सम्येक्संबोधिः फलम्, निरुत्तरफलत्वात्। सा पुनस्तस्यैव प्रक्रितिप्रभस्वरस्य चित्तस्यागन्तुकसर्वावरण्क्षय लक्षणा विशुधिः। सा बुधानां धर्मकायः, संभोगनिर्माणकायसंगृहितनमनन्तानां बुदधधभ र्माणामाश्रय इत्यत्र्थः। सैव बुदधानां बोधिर्धर्मकायो महावज्रधरपदम्। तस्मधेतोस्तस्य फलस्य परिनिष्पत्तये साधनमुपायः। स पुनबोधिसत्त्वानां त्रिकल्पसंख्येय भावितः सपरिकरो मार्गः। मन्त्रायनेऽत्र तस्यैवतिमहतो बोधिमार्गस्य संक्षेपरुपः, क्षिप्रतरं सुखतरं च बोधिसधनो मण्डलचक्राधाकारः सपरिकरो मार्ग उपायः। एतान् हेतुफलोपयनधिकृत्य ये देशनाप्रबन्धसते येथाक्रमं हेतुतन्त्रं फलतन्त्रमुपायतन्त्रं वा। तदेततित्रविधं तन्त्रं प्रवक्ष्ये।

तत्तर्हि तन्त्रं किं नामेत्याह--परम गुप्तं(गुह्यं) नामेति। नामश्ब्दोऽव्ययः प्रसिद्धौ वर्तते।परम्गुप्त(ह्य) मित्यनेन नाम्ना प्रसिद्धमित्यर्थः। केषां परम्गुप्त(ह्य)मित्याह--वज्र डाकिनिनाम्। अतश्च साकल्येन वज्रडाकिनिपरम्गुह्यं नमेदां तन्त्रम्, पुर्वपदलोपात्तु परम्गुह्यं नाम, सत्यभामा भामेति यथा। 'डै वैहायसगमने' (९६८ भ्वा.), एकारस्यात्वम्। डान्ं डाः, आकाशगमनमित्यर्थः। डाशब्दात् तृतीया। 'अक अग कुतिलायां गतौ' (७९२-७९३भ्वा.)। अत्र सर्वतो गमनं कुतिला गतिः। डा अकितुं शिलमस्या इति डाकिनि, स ह्याकाश कोटिनियुतशतसहस्रैर्युगपत् सर्वतो गामिनित्यर्थः। तथा चोक्तम्--

डै वैहायसगमने धातुरत्र विकल्पितः।
सर्वाकाश्चर(री) सिद्धिडाकिनीति प्रसिद्धयति॥इति।

वज्रग्रहणं बाह्यडाकिनिव्यवच्छेदार्थम्। वज्रमशनिः, अप्रपञ्चज्ञान मयत्वात, डाकिन्यश्चेति वज्रडाकिन्यः। तासां किर्दृशीनामित्याह--गुह्येश्वरीणामिति। अत्र पञ्चकुलानि पञ्चगुह्यानि, तेषामीश्वर्यः सृष्टिसंहारकारिकाः। तत्र तथागतकुलस्येश्वरी

यया व्याप्तमिदं सर्व ब्रह्माण्डं सचराचरम्।
उत्पतिः सर्वदेवानां ब्रह्मादिनां महर्द्धिका॥४॥

बुद्धडाकिनि, वज्रकुलस्य वज्रडाकिनि, मणिकुलस्य रत्नडाकिनि, पधमकुलस्य पद्मडाकिनि, कर्कुलस्येश्वरि विश्वडाकिनि। तासामपिश्वरि महामाया। यस्मादसौ तासां गुह्मातिगुह्मानां गुह्माम्, तस्मात् परमगुह्मा। तदभिधायकं तन्त्रमपि तथोच्यते। सिताहरणं काव्यमिति यथा॥३॥

इममेव नामार्थ दऱ्शियतुमाह--ययेंत्यादि। '' बृह बृहि वृद्धौ'' (७३५--७३६भ्वा.) , मनिन्। नैरुक्तो वर्णविकारः। एवं ब्रह्मेति भवति। इह तु सर्वलोकगुरुत्वात् सर्वतो वॄद्धा इति ब्रह्माणस्तथागताः संभोगनिर्माणकायसंगृहिताः। तेषामण्डमुत्पत्तिस्थानम्, धर्मकाय इत्यर्थः। अथवा मोक्षातिशयत्वाद् ब्रह्मा च तत् काय द्धयोत्पत्तिस्थानत्वादण्डश्चेति ब्रह्माण्डं धर्मकाय इत्यर्थः। परिशुद्धेषु बुद्धक्षेत्रेषु यः सत्वलोकः, सोऽत्र चरः,यस्तेषु भाजनलोकः, सोऽत्रऽचरः। सह ताभ्यां वर्तत इति सचराचर ब्रह्माण्डम्। तधया व्याप्तमिति सम्बन्धः। सकलमिति सर्वम्, सर्व ताथागतमित्याथः। तत्र कथं ब्रह्माण्डं तया व्याप्तम्? यसमात् तन्मयमेव सर्वबुद्धानां ब्रह्माण्डम्। कस्माच्चराचरौ लोकौ तया व्याप्तौ? तदुद्भवत्वात् तयोः। एतदेवाह--उत्पत्तिरित्यादिना। उत्पतिः कारणम्। सर्वदेवानामिति पञ्चानां कुलडाकिनीनाम् ब्रह्मादीनामिति पञ्चानां तथागतानाम्, उत कुलानां च प्रत्येकमनन्तानाम्। महर्द्धिकेति महाप्रभावा॥४॥

तासां परमियं गुह्यां महामाया महेश्वरि।
महामाया महारौ द्रा भुतसंहारकारिणी॥५॥

काऽसावित्याह-- महामायेति। महामायाशब्देन भगवतो। वज्रधरस्य परमरहस्या मुर्तिर्भगवान् हेरुक उक्तः। महेश्वरीति। ब्रह्मादयो हि देवाना सृस्तिं, अतस्त्ता रिश्वर्यः। ता अप्यस्या सृष्टः,अत इयं महेश्वरि। यत इयं महेश्वरि, अत एव तासां परमियं गुह्यं। तासामिति वज्रडाकिनीनाम्। परमगुह्यामिति परम्ं गुह्याम्। इयमिति महामाया। तथाहि-- सुक्ष्मयमौदरिकाणां रुपाणां गुह्यामुच्यते। ततश्च पञ्चानां कुलानां कुलधिपाः पञ्च गुह्यानि, तन्मयपञ्चकुलानां गुह्यानामपि गुह्यानि पञ्डाकिन्यं। तथाहि-- स्वकुलव्यपकप्रकाशलक्षणाः कुलेशः। तेन ते औदारिकाः, भावांशप्रधानत्वात्। तस्यैव प्रकाशस्य द्वयशुन्यतालक्षणा डाकिन्यः। ततस्ताः सुक्ष्माः, अभावाङ्गप्रधानत्वात्। तासां गुह्यातिगुह्यानां गुह्यां महामाया। तथाहि--एकै ककुलधर्मतालक्ष्णात्वादौदारिक्यस्ताः,। इयं तु पञ्चकुलसाधारणी धर्मता पञ्चानामपि तासां समता, ततस्तासामपियं गुह्यामिति परमगुह्यामेषा। तद्वाचकत्वात् तन्त्र मपिदं परमगुह्यामुच्यते।

उच्यतां परमगुह्याम्। महामाया तु कथमुच्यत इत्याह--महामायेत्यादि। साहि महारौद्रा, परमहिंस्रत्वात्। कुतः? यस्माद् भुतसंहारकारिणी। अविधासंभुतत्वाद् भुतं बुद्धबोधः सर्वमावरणम्, तस्य संहारकारिणी प्रलयकर्त्री। स हि प्रलयः परो मोक्ष्ः। एवं मन्यते मीनातीति माया, ''मिञ् हिंसायाम्'' (१४७७क्र्या.)। आत्वं ण्प्रत्यय इति॥५॥

यया वयाप्प्तं च सकलं त्रैलोक्यं सचराचरम्।
सैषा संहरते विश्वं सुजते सा पुनः पुनः॥६॥

गुह्याकानामियं माता महामायेति विश्रुता।
त्रैलोक्यसाधनी विधा सर्वकामप्रदायिका॥७॥

प्रकारान्तरमाह-- ययेत्यादि। त्रैलोक्यमिति परिशुद्धं बुद्धक्षेत्र सचराचरं पुर्ववत् (पृ. ४)व्याप्तम्, तदुद्भूतत्वात्॥ स हि धर्म कायः, तन्निष्पन्दं चैतत् सचराचरम्.। एवं मन्यते निर्र्मिमीत इति माया। ''माङ् माने'' (१०८८ जु.) णाप्रत्यय इति।

प्रकारान्तरम्प्याह--सा पुनरित्यादिना। पुनरिति पुनरपरम्, अपरः प्रकार इत्यर्थः। सैषेति हेरुकरुपा महामाया। संहरते त्रैलोक्यमिति, दृषिटपातेन महेश्वरादिनां भस्मिकरणात्। पुनः पश्चात् सृजते, तदेव निर्दोषीकृत्य महाध्वजघण्टाध्वनिभिः प्रत्युज्जिवनात्॥६॥

ततः किमित्याह--गुह्याकानामित्यादि। बाह्यावज्रकुले देवा रिष्द् गुह्यात्वाद् गुह्याकाः। तेषामियं माता, मात्रीत्यर्थः। अतश्चेयं महामायेति विश्रुता ख्याता। मिञो माङ्श्च णप्रत्ययं क्रित्वा पुर्ववदिति ( पृ. ५-६)भावः। आस्तामियं स्वयमिदृशि, साधकानां तु किं करोतित्यत आह--त्रैलोक्येत्यादि। निरुत्तरज्ञानस्वभावत्वाद् विधा। इयं महामायाख्या विधा साधकानां त्रैलोक्यं साधयति। सवकामाः सवीभि प्राया विधाधरत्वादयः, तांश्च प्रकर्षेण ददातीति।

यया विज्ञानमात्रेण साधकेश्वरिविधया।
देवदानवगन्धर्वा यक्षासुरनराश्च ये॥८॥

विधाधरा गुह्याकाश्च किन्न्नराश्च महोदराः।
राक्षसाश्च पिशाचाश्च सिद्ध यन्ते साधकेषु वै॥९॥

वश्यानि सर्व भुतानि जलजस्थलजानि च।
प्रकृतिप्रभास्वरा धर्मा आदिशुद्धा ह्यानाविलाः॥१०॥

इदं श्लोकार्धमुदेशः। तस्यैव निर्देशो 'यया' (१।८) इत्यादिः, 'अनेन योगमायायाविधेन' (१।१६) इत्येतत्पर्यन्तः॥७

यया विधया साधकेश्वरीति साधकानामिशार्य, विज्ञानमात्रेणेत्यनुषिठमात्रया, साधकेषु सिद्धयन्त इति सम्बन्धः।के सिद्धयन्त इत्याह--देवेत्यादि। देवाः शक्रादयः, दानवः प्रेतमहर्द्धिकाः, गन्धर्वाधृतराष्त्रप्रभृतयः। सह यक्षादिभिर्वर्तन्त इति तथोक्ताः। साधकेषिवति साधकानां सिद्धयन्त इति विधेया भवन्ति॥८--९॥

वश्यमिति विधेयत्वम्। भुतानीति सत्वाः। जलजानि मकरादीनि। स्थलजानि व्याघ्रदिनि। एवं तावद्धाह्यास्य त्रैलोक्यस्य साधनानीति निर्दिष्टम्। लोकोत्तरस्यापि त्रैलोक्यस्य साधनानीति निर्दे ष्टुमाह--प्रक्रितीत्यादि। अत्र श्लोकार्द्धेन संक्षेपतो हेतुतन्त्रमुक्तम्, ''स्वयम्भुपञ्चज्ञानिनाम्'' (१।११) इत्यनेन श्लोकपादेन फलतन्त्रम् तृतियपञ्चमषष्ठैः पादैरुपायतन्त्रम्।
प्रकृतिर्निजः स्वभवः, तया प्रभास्वराः प्रभासनशिलाः, प्रकर्षेण निर्मला इत्यर्थः। के पुनस्ता इत्याह--धर्मा इति। स्वलक्षणधारण धर्माः, सर्ववस्तुनीत्यर्थः। तानि पुनः सर्ववस्तुनि चितमात्राणि, चित्तस्यैव तेन तेनाकारेण प्रतिभासनात्। तधथा स्वप्ने भवनोधानवापीकरितुरगमनुष्यदिरुपेण ह्यानेकानामपि चितविशेषत्वात्। उक्त च दशभुमिके "चितमात्रमिदं यदुत त्रैधतुकम्'' (पृ ३२)इति। आर्यलङ्कावतारेऽप्युक्तम्

बाह्यो न विधते ह्यार्थो यथा बालैर्विकल्प्यते।
वासनालुठितं चित्तम र्थाभासः प्रजायते॥इति।
(१०.१५४-१५५)

वासनालुठ्तमिति वासनाभिरुपहतम्, विप्लुतमित्यर्थ।भवन्तु चितमात्रा सर्वधर्मा, ते तु ''कुतः प्रक्रित्यैव भास्वरः प्रभास्वराश्चेत्यत आह--आदीत्यादि। आ आदेरादिः, आदित प्रभृतित्यर्थः। सर्वा वरणमलाभावाच्छुद्धाः, मलवासनानामभावा दनाविलाः। हिशब्दो यस्मादर्थे। यसमादादिशुद्धास्तस्मात् प्रकृति प्रभास्वरास्त्रिभिः कार्य(यै)स्तस्मात् प्रक्रितिप्रभास्वराः।

ननु विधमानेषु मलेषु तद्वासनासु च कथं शुद्धा अनाविलिलाश्च, अतः स्वभावानां मलानां तत्रागन्तुकत्वात्, आकाशे तमस्तुहिन धुमाभ्ररजसामिव, तस्मात् प्रक्रितिप्रभास्वाराः। यधेवं नस्यात्तधा न कस्यचिबोधोधिः स्यात्, चित्तस्वभावानां मलानां सति चिते क्षय्योगात्।तस्मात् प्रक्रितिप्रभास्वरत्वां चितस्य बोधेर्हेतुः, बोधिः

तत्रोपायाः प्रगीयन्ते स्वयम्भुपञ्चज्ञानिनाम्।
योगिनी योगमाता च त्रैधातुकमशेषतः॥११॥

फलम्। स(सा) पुनबोधिः सवासनसर्वावरणक्षयादात्यन्तिकी चितसन्तानस्य विशुद्धिः, सैव धर्मकायः। संभोगनिर्माणकायसंगृहितानां धर्माणां कायो वास आश्रय इति कृत्वा॥१०॥

तत्र बुद्धा भगवन्तो धर्मकायेन स्वयंभुवः स्वयमेव भवन्ति, सर्वावरणरूपतः कैवल्यात् स्वरूपेणैव प्रख्यान्तीति कृत्वा पञ्चज्ञानिनः। पञ्चज्ञानान्येषाम्-- आदर्शन्ञानम्, समताज्ञानम्, प्रत्यवेक्षणज्ञानम्, कृत्यानुष्ठानज्ञानम्, सुविशुद्धधर्मधातुज्ञानं चेति। तत्रादर्शज्ञानमादर्शवन्निर्मलमनन्तं शाश्वतं च मध्यवर्तिनो ज्ञानत्रयस्याश्रयः, सर्वेषां ज्ञानान्तराणां प्रतिबिम्बोदयस्थानम्, येन प्रतिबिम्बोदयेन तथागताः सर्वाकारसर्वधर्मदर्शिनो भवन्ति। समताज्ञानं सर्वसत्त्वेष्वात्मनिर्विशेषताज्ञानं सदा महामैत्रीमहाकरुणासम्प्रयुक्तम्। प्रत्यवेक्षणाज्ञानं सर्वज्ञेयेष्वव्याहतं सर्वसमाधिधारणीनां निधानं धर्ममण्डालेषु सर्वासां स्वविभूतीनां निदर्शकम्, महाधर्मदृष्टीनां प्रवर्षकम्। येन ज्ञानेन तथागताः सर्वलोकधातुष्वनन्तैः कायवाक्चित्तनिर्वाणैः प्रतिक्षणमनन्तानां सत्त्वानामर्थं कुर्वन्ति, तदेषां कृत्यानुष्ठानज्ञानम्। येन ज्ञानेन तथागताः सर्वधर्मतथतां सुविशुद्धां पश्यन्ति, तन्मात्रदर्शनात्, सर्वनिमित्तमलानामत्यन्तमप्रख्यानात्, तदेषां सुविशुद्धधर्मधातुज्ञानम्। आद्यानि त्रीणि ज्ञानि संभोगकायः। "चतुर्थं निर्माणकायः। पञ्चमं धर्मकायैकदेशः। स्वयम्भुवश्च ते।

सिद्धयत्यशेषनिःशेषं सर्व मायाविकुर्वितम्।
हरते सर्वबुद्धनां भुङ्क्ते सुराग्रकन्यकाः॥१२॥

पञ्चज्ञानिनश्चेति तथोक्ताः, तथागता इत्यर्थः।तेषां फलभुतानामुपायाः प्रगियन्ते प्राधान्येन देश्यन्ते।

तत्रेति तस्मिन् हेतौप्रकृतिप्रभास्वरत्वे सति ंअह्योतत् फलं सत्यपि हेतौ विनोपयैर्भवति, हेतोरनादित्वेन सर्वेषामादित एववोधेः प्रसङ्गात्। तस्मादुपायाः प्रगियन्ते।के त इत्याह--योगिनीत्यादि। योगिनीति पञ्चडाकिन्यः। योगमातेति महामाया। त्रैधातुकमशेषात इति सर्व त्रैधातुकम्। तान्य्त्र च सम्भुताः कुलेशाः कुलानि च।कथमेतानि त्रैधातुकम्, त्रिषु वज्रधातुषु तथागतगुह्योष्वन्तर्भावा कथमेते उपायाः? हेतौ सम्प्तौ बोधि भव्यतालक्षणायं सत्यमेषामेव भावनया जायादिपरिच्छदया बोधेराशु प्राप्तेः, प्राप्तायां च तस्यामेभिरेव संभोग निर्माणकार्यसंगृहितैः परेषां यथाभव्यं बोधित्रयप्रापणात्॥११॥

सिद्धयतीति मार्गरुपेण फलरुपेण च साधकानां निष्पधते यया विज्ञातमात्रया। अशेषानिःशेषमिति। एतदेव योगीन्यादिराशित्रयम् एकस्यापि राशेपरित्यगान्निःशेषम्, एकस्या [अपि] देवताया अपरित्यागादशेषम्, अशेषं च तन्निःशेषा च। कस्मात् सिद्धयति ? यस्मात् सर्व मायाविकुर्वितम्। सर्वमिदं महामायाधिनं मार्गफलावस्थयोरित्यर्थः।

योगा योगेश्वरा विधा इन्द्रजालम् करोतिच।
मोहनं स्तम्भनं चैव मारणोच्चाटनादिकम्॥१३॥

वश्याकर्षणकर्माणि आकसशगमनं तथा।
परपुरादिकर्याणि अन्तर्धानादिकानि च॥१४॥

त्रैलोक्यसाधनीति यत् पुर्वम् (१।७) उद्धिष्टं तन्निर्दिष्टम्। सर्वकामप्रदायिकेति यद्दुद्धिष्टं (१।७) तदपि निर्दिष्टं (र्देष्टु) माहहरत इत्यादि। हरते आकर्षयति स्वार्थाय परार्थाय वा। बुद्धानामिति बुद्धान्। भुङ्क्त इति आकृष्योपभुङ्त्ते। सुराग्राः सुर्श्रेष्ठाः शक्रादयः॥१२॥

योगाः समाधयः। तेष्वैश्वर्य वशित्वं समापत्त्तये व्युत्थानाय च। विधा महामाया। इन्द्रजलं सैन्यादिनाण् निर्मापनं (णम्) दर्शनमन्तर्धानं च यथायोगं सदसताम। मोहनं मूच्छासञ्जननम्। स्तम्भनं निष्पन्दिकरणम्। मारणाम् रत्नत्रयादेरत्यन्तापकरिणाम्। उच्चाटनं स्थानत्याजनम्। आदिशब्दादङ्गभङ्गज्वरग्रहराक्षसग्रहणादिकम्॥१३॥

वशं गतो वश्यः। इह तु वश्य्र्थ् कर्म वश्यमुक्तम्। आकर्षणे द्धे-- पादाकर्षणं पिन्डाकर्षणं च। प्रथम्ं भुम्या, द्धितियं आकशेन। त्रिण्येतानि कर्माणि वश्याकर्षणकर्माणि। पर्पुरे परशरिरे प्रवेशः परपुरशब्देनोक्तः। आदिशब्देन व्युत्क्रान्त्यादीन गृह्यान्ते। तान्येव कार्याणि परपुरदिकार्याणि। अन्तर्धानानिति। अदृश्यत्वानि॥१४॥

विद्वेषाणं जम्भनं च पाताल्गमनं तथा।
विध्याधरचक्रवर्तित्वमजरामरत्वं तथा॥१५॥

निव्र्याधित्वं च भवति योगमायाविधः।
अक्ष्रं मन्त्ररुपं च विकुर्वन्ति हि यगिनः॥१६॥

अन्योन्यमनुरकतयोरपि विद्धेषणं। जमभनं मुकिकरणम्। पताल्गमनं बिल्प्रवेशः। विधाधराणां चक्रवर्ति यः , तेषां निग्रहानुग्रहक्ष्मो महाविधाधरः , तद्भावस्तत्वम्। अजरत्वममरत्वं निव्र्याधित्वमिति , त्रयमपि सुगमम्। चार्थो गम्यते निव्र्याधित्वं चेति। एतन्मोहनादिकं सर्वमनेन योगमायाविधेन , क्रियत इति शेषः। मायेति महामाया , विधैव विधः , सर्वबुद्धधर्माणामेकरसत्वं योगः , यगश्चासौ मायाविधश्च। विधाधरेत्यादि श्लोकार्ध सप्तदशाक्षरम् , निव्र्याधित्यादिकं चतुर्दशाक्षरम्। एतेषु सर्वबुद्धधर्महरणादिकर्मसु प्रयोगाः केचिदत्रैव तन्त्रे (२।३ नि .) वक्तव्याः। केचिदन्यन्त्रानुसारेण द्रष्तव्याः। विज्ञानमात्रेणेत्युक्तम् (१।८) अनुष्ठिमात्रयेत्यर्थः। अतोऽ नुष्ठानं दर्शयितुमाह--अक्षरे ( रमि) त्यादि। अक्षरं च मन्त्ररुपं च तेन तासामित्यर्थः। विकुर्वन्ति वक्रिडन्ति कर्मादिसिद्धिभिः। योगिनः साधकाः॥१५-१६॥

पठन्ति [ते ] चिन्तयन्ति भावयन्ति समाधिना।
पठिता कुरुते विधा विधासिद्धि च करयेत्॥१७॥

न व्रतं न तपो दुःसहमुपवासं न संवरम्।
सुखहर्षैश्च सिद्ध्यन्ति प्रज्ञोपायादिभिः सदा॥ १८॥

अक्षर कथमनुतिष्ठन्तित्याह --पठन्ति चिन्तयन्तीति। अत्र पाठो वाचा जपः। चिन्ता चितेन जपः। मन्त्रमूर्ति कथमनुतिष्ठन्तित्याह-- भावयन्तीत्यादि॥ भावयन्तीति प्राबन्धिकेन मनोविज्ञनेन पश्यन्ति , समाधिनेति तदालम्बनया चित्तस्थित्या। पठितेत्यादिना यथानुष्ठानफलमाह --पठितेति। जप्ता विधा महामाया। कुरुत इति। आकर्षणादिनि सर्वकर्माणि करोति। द्धितीयेन विधाशब्देन भावनामयि प्रज्ञोच्यते। सापुनर्मूर्त्तिभावनापरिनिष्पत्तिरुपं स्वदेवताकारस्यात्मनः परिस्फुटं दर्शनम्। सिद्धि करयेत साधकस्य महामुद्रासिद्धिम् , चकारात् कर्माणि च साधयेत्। स्वदेवतारुपस्यैवात्मनो निष्पत्तिः स्वयं परैश्च महामुद्रासिद्धिः॥१७॥

अनुष्थाने सौकर्यमाह--नेत्यादि। अत्र न-शब्देषु कारयेदिति वर्तते न कुर्यादित्यर्थः। त्रिस्नानत्रिचैलपरिवर्तादिकं नियमः। शाकयावकाधाहारत्वं तपः। '' दुःसहत्वं कष्टम्। अयमद्देशः। अस्यैव निर्देश उपवासः संवरश्च। तत्रोपवसो ऽ नशनम्। संवरस्तीव्ररास्यापि गृहिणो ब्रह्याचर्यः ( र्यम् )। अनुग्राहिका वेदनाः पन्ञ्चविज्ञान सहजाः सुखानि मनोविज्ञान सहजस्ता एव हर्षाः , तैः

नाभिमध्ये स्थितो वीरः कर्निकागुदगोचरः।
चित्तमचित्तं चिदुपं ज्ञानज्ञेयस्वरुपकम्॥१९॥

साधकाः सिद्धयन्ति। भावनामयि महाडाकिनी तदुपभाविता वा बाह्यास्त्री प्रज्ञाः तस्या उपाय उपशमः श्रिहेरुकरुपभावितेनात्मना परिभोगः। आदिशब्दात् पञ्चोपहाराः पञ्चकामगुणाश्चा , तैः सदेति प्रतिसान्ध्यम्॥१८॥

कथं तावत् प्रज्ञोपायेन सुखहर्ष इत्याह--नाभीत्यादि। नाभिपद्मः , तन्मध्ये स्थीतः। कोऽ सावित्याह--वीर इति। निरुत्तरविर्ययोगाद् विरो वज्रसत्वः। तत्रासौ कस्मिन् भाजने स्थित इत्याह--कर्णिकेत्यादि। नाभिकमलस्य कर्णिकायां गुद्गोचरः कर्निकागुदगोचरः। गुहनं गुदं गुप्तिः , तदर्थो गोचरः पात्रं गुदगोचरः , रविशशिनोः संपुट इत्यर्थः। इयता तस्य स्थान भाजने उक्ते। स्वभावमाह--चित्तेत्यादिना। चितं विज्ञानम्। सन्त्कपदान्यवधारणानि। तद्धथाऽ म्मात्रभक्षः , वायुमात्रभक्षो वायुभक्ष इत्युच्यते ; एवमिहापि विज्ञानव्यतिरिक्तस्यार्थस्य ग्राह्यास्याभावच्चित्तमात्रं विश्वमिति चित्तशब्दस्यार्थः। तदपि चित्तमचित्तम्। कस्माच्चित्तम् , ग्राह्याभावात्। कस्माच्चि (दचि) त्तं ? ग्राह्याभावे ग्राहकस्याप्यभावात्। अथ ग्राहकं हि लोके विज्ञानं प्रसिद्धम्। विज्ञानमेव चेह चित्तम्। तस्माच्चित्तं च तदचित्तं चेति चित्ताचित्तम्। यदि ग्राहकत्वेन चित्तलक्षणेन वियोगात्तदचित्तम् , कतरेण चित्तलक्षणेन योगाच्चित्तं तदित्यत आह--चिदूपमिति। चेतनं चित् , ख्यातिः प्रकाशः , प्रतिभासनं स्फुटत्वम् , अपरोक्षतेति यावत्। सा रुपमस्येति चिद्धुपम्। चिदूपत्वेन चित्त्वलक्ष्णेन योगाच्चित्तं तदित्यर्थः।

ननु सर्वमेव विज्ञानमीदृशम् , तत्र कोऽ तिशयो वीरस्वभावस्येत्यत आह--ज्ञानेत्यादि। स्वं निजं रुपंस्वरुपम्। ज्ञानं च ज्ञेयं चेति द्वन्द्वः। ज्ञानज्ञेयं स्वरुपमेव ज्ञानज्ञेयमस्येति ज्ञानज्ञेयस्वरुपकम्। ज्ञायतेऽ नेनेति ज्ञानम् , ज्ञायत इति ज्ञेयम्। तत्र पृथग्जनज्ञानानाम्स्वरुपमपि ज्ञेयं भवति , ग्राह्याग्राहकयो रसतोरपि तैः कल्पनात् , अवस्तुनोरपि ग्राह्याग्राहकाकारयोस्तेषु प्रतिभासात्। यच्च नस्ति , न वस्तु वा , न तद्विज्ञानस्य निजं रुपम् , कि तर्हि भ्रान्तिसमारोपितम्। अत एवो भ्रान्तिनिमित्तं तदुच्यते , भान्तिचित्तत्वात्। येषामस्वरुपं ज्ञेयम् , तेषामस्वरुपमपि ज्ञानं भवति , यदुत भान्तिः। तथाहि--भान्तिवशादसद् अवस्तु वाप्रख्याति। ततः सापि ज्ञानम् , प्रख्यातौ कारणत्वात। सा तु भ्रान्ति र् बुद्धेर्निजं रुपम् , आगन्तुकत्वाद मलानाम्। तस्मादस्वरुपमपि तेषां ज्ञानम्। पारमार्थिकं तु बोधिचित्तम् निष्प्रपञ्चज्ञानात्मकम्। प्रपञ्चो भ्रान्तिः। ततः सर्वप्रपञ्चानाम् तत्राभावात् , स्वरुपमेव तस्य ज्ञानम् न भान्तिरपि , सर्वप्रपञ्चनिमित्तानाम् तत्रास्तमयादप्रतिभासात्। स्वरुपमेव तस्य ज्ञेयम् , नासदवस्तूनामपि। तदनेन श्लोकार्धेन पारमर्थिकबोधिचित्तलक्षण निषप्रपञ्चज्ञानरुपत्वं विरस्य स्वभावः साक्षादुक्तः। महसुखरुपत्वं तु सामथ्र्यादुक्तः , निस्प्रपन्ञ्चज्ञानसहजत्वान्महासुखस्य। तथाचोक्तमविकल्पप्रवेशायां धारण्याम् --

अविकल्पाशयो भुत्वा सद्धर्मेऽ स्मिन् जिनात्मजः।
विकल्पदुर्ग व्यतीत्य क्रमान्निष्कल्पमाप्नुते॥

तं विरं कथयिस्यामि गम्भिरे बुद्धशासने।
आलिकालिसमां कृत्वा तत्र रेखात्रिसम्पुटाम्॥२०॥

प्रशान्तमचलं श्रेस्ठं वशर्वर्ति समासमम्।
निर्विकल्पसुखं तस्माद् बोधिसत्वो ऽ धिगच्छ्ति॥ इति॥

[ए] तस्मिन् गाथाद्धये अविकल्पाशय इति स्थिराशयः। सद्धर्मे ऽ।स्मिन्निति महायाने। जिनात्मज इति बोद्धिसत्वः। विकल्प एव चतुर्विधो दुर्गः , तं क्रमाद् व्यतीत्य अतिक्रम्य। निष्कल्पमाप्नुत इति निर्विकल्पं निस्प्रपञ्चज्ञानं प्राप्नोतीति। तस्मादेव ज्ञानान्निर्विकल्प सुखमाप्नोति। प्रशान्तम् , निष्क्लेशत्वात्। अचलम् , अपरिहाणीत्वात्। श्रेष्ठम् , सर्वलौकिकलोकोत्तरसुखोत्कृष्टत्वात्। वशवर्ति , यथेच्छ यावदिच्छं च संमुखीकरणात्। समं तुल्यं तदन्यसुखैः सुखजात्या , असममेभिरेव चतुभिर्विशेषैः॥१९॥

तमिदृशं वीरं कथयिश्यामि। कस्मिन् याने प्रसिद्धमित्याह--बुद्धशासन इति। येन यानेन बुद्धो भवति तद्धुद्धशासनम् , महायाने इत्याथः। ननु पुर्वश्लोकेन कथित एवायम् ,किमुच्यते कथयिष्यामिति अत आह--गम्भिर इति। गम्भिरमहायाने , मन्त्रयान इत्यर्थः। पारमितानयविलक्षणो हि मन्त्रनये बोधिचित्तस्य मुद्राकारः परिच्छेदश्च क्षिप्रतरं बोधिसधनो भाव्यते। स चाधापि नोक्तः। तेनाह--कथयिष्यामीति। तमेवाह आलिकालीत्यादिना। तत्रेति रविचन्द्रसम्पुटे नियोजितेति नियमनाय योजिता। केत्याह--रेखेति। तस्मादेव वराच्चन्द्रमध्य सुक्ष्मरन्ध्रेणोत्थिता अभेद्या अच्छेद्या मृणालतन्तुसूक्ष्मा रश्मिरेखा। कथं नियोजिता--आलिकालीसमां तामेव कृत्वा आलिः काली च समा

ज्वलितोध्र्वमुखी रेखा तदाधः स्रुतिकारिणी।
शुक्ररुपेण स्रवति अमृतं बिन्दुरुपिणम्॥२१॥

यस्यं सा तथोकता। ताः कथं तस्याम् ? तस्यामेव मुक्तावलियोगेन ग्रथिता यतः। कथं समाः ? यस्मादर्धकाली द्द्वे कालीशब्देनोक्ते , काल्येकदेशत्वात्। ते अपि षोडशाक्षरे , ङ्ञ्योर्वर्जनात्। अतस्तासां साम्यम्। सा च रश्मिरेखा त्रिभिर्वेष्टैः संपुटां वेष्टयति। तस्यामालित्रयं चन्द्रस्योपरि ग्रथितं यथापाठम्। तत्र मध्ये स्वराली अनयोरर्धकाल्यौ। तथा चवक्ष्यति " दिव्यमक्षरपङ्त्तिभिः '' (१।२६) इति। श्रिसंवरोत्तरे चोक्तम् -

ककारादि दकारान्त ङञ्वर्ज निवेशयेत।
धकारादि क्षकारान्तम् अलिद्वयं समालिखेत॥
मध्यस्था तु अकाराली न्यस्तव्या शशिमण्डले॥ इति॥ २०॥

ज्वलितेत्यादि। अपरा रश्मिरेखा प्रज्ञारागानलेन ज्वलिता यदा विरादुद्गच्छति , तदासौ अधः स्रुतिकारिणी भवति। अत्र हि स्रुतेरर्थः स्रवतिशब्देनोक्तः , स्रुतिरित्यर्थः। अथ तस्यां स्रुतौ कः स्रवतीत्याह--अमृतमिति। मुक्तत्वादविनाशित्वान्महासुखत्वाच्चा मृतम्। कीदृशमित्याह--बिन्दुरुपिणमिति। महासुखचित्तरुपं सितबिन्दु वीर इत्यर्थः। कथं स्रवतीत्याह--शुक्ररुपेणेति। विशुद्धज्ञानरसः सितमुखद्रवरुपत्वेन शुक्रसाधम्र्यात् शुक्रशब्देनोक्तः।

तेन रुपेण स्रवति , क्षरति , तत्क्षरतीति यावत्। तदत्रालिकालीत्यादिना विरस्य सौसिथत्यमुक्तम्। ज्वलितेत्यादिना कर्म। अमृतमित्यनेन स्वभावान्तरम्। बिन्दुरुपिणमित्यनेन तस्य मुद्राकारः कथितः। कथंपुनरियमस्य मुद्रा भवति ? उच्च्यते--योऽ।साविन्दुर्धवलः सुक्ष्मबिन्दुः , स चित्तम् , अन्तःप्रकाशमानत्वत्। या- पुनस्तन्मात्रे चित्तस्यावस्थितिः , सा चित्तव्यतिरिक्तार्थानुपलम्भाच्चित्तमात्रता। या तस्य ग्राह्या भावादग्राहकता , सातस्याचित्तता। अत एवासौ शुन्यरुपः। य पुनस्तस्य प्रकाशमानता सा चिदूपता। यः पुनस्तन्मात्रे स्थितचित्तस्य सर्वप्रपञ्चनिमित्तस्तमयः , सा तस्य ज्ञानज्ञेयरुपता। अय चास्य वज्रधरस्य सुक्ष्मज्ञानमुद्राकारः। श्रिसमाजे ऽ।प्युक्तम्

आकाशधातुमध्यसथं भावयेच्चन्द्रमण्डलम्।
बुद्धबिम्बं बिभावित्वा सुक्ष्मयोगं समारभेत्॥
नासाग्रे सर्षपं चिन्तेत् सर्षपे सचराचरम्।
भावयेज्ज्ञानपदं रम्यं रहस्य ज्ञानकल्पितम्॥ इति॥

श्रिवजामृते ऽ।प्ययमस्य सूख़्स्मयोगः साधारः सकर्मक उकत

तिष्ठते निश्चलं विद्या अमृतं ध्यानमारभेत्।
ध्यायते परमं तत्वममृतं बिन्दुरुपिणम्॥
खमध्ये शशिसंकाशं शुन्यतत्त्वमुदाह्यतम्।
अक्षयमव्ययं सुक्ष्मं वज्रसत्त्वमनाहतम्॥
नाभिमध्ये स्थितो देवः कर्णिकागुदगोचरे।
स्रवते शुक्ररुपेण भगलिङ्गान्तरे स्थितः॥ इति।

तस्माद्यादृशः पठयते , तादृश एवायमत्र योगः कर्म च।

यद्यदिन्द्रियमार्गत्व यायात् त्त्तत्स्वभावतः।
परमाहितयोगेन सर्व बुद्धमयं यतः॥२२॥

नन्विह तन्त्रे चतुर्षु स्थानेषु चत्वारि चक्राणि ध्ययानि , न चन्दलि ? न तया ज्वलन्त्या चक्रचतुष्टयं यापयित्वा निःसृत्य स्फारित्वा सर्वबुद्धानां चतुश्चक्रं तापयित्वा तत आगत्य महसुखचक्रे प्रविश्य हंकारादमृतस्रावणम्। यत्पुनः सर्वमेतदन्यतो दृष्टं कैशिचदानियते , तदयुक्तम् , वाचकाभावात , सर्वतन्त्राणां च नानाभिप्रायत्वात , सुसंक्षिप्ततिसमयत्वाच्चास्य तन्त्रस्य॥२१॥

यद्यदित्यादिना कर्मान्तरमाह। इन्द्रयाणि चक्षुरादीनि , तेषां मार्गत्वं विषयत्वं यायात् प्राप्नुयात्। यद्यद्वसतु यत्किञ्च दृश्येत , श्रुयेत , घ्रायेत , आस्वाध्य्त , स्पृश्येत ; एतदेव सर्व बुद्धमयं प्रत्येकमशेषाबुद्धस्वभावं निचि (श्चि) नुयात्। कथं सर्वबुद्धमयम् ? स्वभावतः स्वभावेन , प्रकृयेति यावत्। तथा ह्यानादिनिधनो धर्मधातुः सर्वधर्माणां प्रक्रितिः। स एव च धर्मधातुः सर्वबुद्धानां परम्ं रुपम्। तस्मात् तेन स्वभावेन सर्वबुद्धमयं तत्तन्न केवलं स्वभावेन परमहितयोगेन च। विनापि तेन चर्थगतेः परम् मुच्यते। लोकोत्तरं ज्ञानं निष्प्रपञ्चं विरख्यम् , तेनाहितसाधनं जनितत्वं परमाहितं विर्निष्प्रपन्दत्वमित्यर्थः। तस्मिन् योगोऽ धिमोक्षः , तेन दर्शनादौ प्रतिभासमानं दृश्यादिकं विरस्यैव निष्पन्द इत्यनेन चाधिमोक्षेणेत्यर्थः॥२२॥

महासमयसिद्धिस्तु महागुलिकासाधनम्।
महामायाप्रयोगैश्च योगसंवरं कारयेत्॥२३॥

पञ्चपुजोपहारैश्च पञ्चकामगुणैस्तथा।
सिद्धेन्द्रादिभिर्ज्ञातव्यं सिद्धिः शाश्वताऽ व्यया॥२४॥

महासमयेत्यादिना कर्मान्तरमाह। समयो देवता। समण्डलो मण्डलाधिपतिर्महासमयः। तस्य सिद्धिर्निषोत्तिः। तिशब्द ,पादपूरणार्थः। सा सिद्धिर्महागुलिकासाधनं ज्ञानविन्दुर्गुलिका , चतुर्बिन्दु परिवारः , मध्यबिन्दुर्महागुलिका , त्या साधनं निष्पादनम् , महासमयस्य सिद्धिः। सिद्धे मण्डाले कि कुर्यादित्याह महामायेत्यादि। मण्डलधिपतिः श्रिहेरुको महामाया , तद्विद्यापि बुद्धडाकिनी महामाया , तयोरेकस्वभावत्वात्। तयोः प्रयोगैः कर्मीभिराश्लेषचुम्बनादिभिर्योगसंवरं कार्येत्। यगश्च संवरं च योगसंवरम्। तत्र नाभिकमलकर्णिकारविसोमसम्पुटगत सितसूक्ष्म्ब्ज्न्दुर्योगः। संवरं सुखवरं महासुखं प्रतिवेधविचारणानन्त्रं कर्म , ज्वलितेत्यादिना श्लोकेन यत्पूर्वमुक्तम् (१।२१)॥२३॥

किं केवलमेव ? नेत्याह--पञ्चेत्यादि। एभिर्दशभिः सहितमित्यर्थः। तस्मादेव ज्ञानरेतसो डाकिनीकमलोदरगतान् (ना)प्रत्येकं गगनव्यापिनां पुष्पादिमेघानां दशानां क्रमेण स्फुरणात्। उपह्रियन्त इत्यपहाराः पुष्पधूपदिपगन्धनि (नै) वेद्यानि। अप्राप्ताः काम्यन्तेऽ भिलष्यन्त इति कामाः , प्राप्ता गुण्यन्ते पुनर्भुज्यन्त इति गुणाः , कामाश्च ते गुणाश्चेति कामगुणाः , प्रणिता

येन ज्ञानेन सिद्देन त्रिदशालयमाश्वियात्।
तदहं कथयिष्यामि देवति सत्यमहं शपे॥२५॥

तदहं त्वा महामायां विद्यां त्रैलोक्यसाधनिम्।
विरं महायोगिनाम् हि दिव्यमक्षरपङ्त्तिभिः॥२६॥

रुपशब्दगन्धरसस्पर्शाः। तत्र संवर गुह्यापूजा रत्नपुजा च। शेषा बाह्यापुजा। एतस्मिन् देवताराधने फलमाह ज्ञातव्यमित्यादिना। ज्ञातव्यं निश्चेतव्यम्। अव्ययत्वादत्यन्ता , अक्षयत्वाच्छाश्वती महमुद्रासिद्धिः। ता प्राप्स्यामीति शेषः॥२४॥

एवं समासतः सानुशंसां भावनामुक्त्वा इदानी भावना साधारणैरनुशसैः सहितं जापमाह--यनेत्यादिना। ज्ञानेनेति विद्यया। सिद्धेनेत्यनुष्ठितेन। त्रिदशा देवाः , तेषामालयं भवनम्। देवतीति बुद्धडाकिन्याः सम्बोधनम्। किमिदं सत्यं न वेत्याह सत्यमित्यादि। अवधारणं गम्यते। सत्यमेवाहं वदामि न कदाचिन्मृषेत्यर्थः॥२५॥

तत्तर्हि ज्ञानं कतमा देवता किंप्रभावा किस्वभावा चेत्यत आह--तदहमित्यादि। त्वामित्यादौ द्धितिया , वक्ष्यामीत्यनेन सम्बन्धात्। कतमा देवतेत्यत्रोतरम्--त्वां महामायां विद्यामिति। किंप्रभावेत्यत्रोत्तरम्--त्रैलोक्यसाधनीमिति। किस्वभावेत्यत्रोत्तरम् महायोगिनां दिव्यमिति। षाष्ठीसमासोऽ यम्। दिव्यत्यस्मिन्निति दिव्यं गुह्याम् , रविसोमसंपुट मित्यर्थः। तद्धि तासां समता। ततस्तदेव योगिनां रतिस्थानम्। अक्षरपङ्त्तिभिरिति तिसृभिः स्वरव्यञ्जनपङ्त्तिभिः , भूषितमिति शेषः। तन्मध्यवर्ती विरः श्रिहेरुकः। स तु संपुटो बुद्धडाकिनीत्यर्थः॥२६॥

एन चिन्तितमात्रेण सिद्धयते सचराचरम्।
सर्वकामोपभोगैश्च सेव्यमानो यथेच्छया॥२७॥

विक्रिडन् हि महायोगि सिद्धयते सर्वदा शुभे)।
विभिन्नाकाररुपेण योगात्म दर्शयन्ति च॥२८॥

ददाति च महासिद्धि कुरुते ताथागतिं श्रियम्।
सत्त्वार्थ कुरुते सदा विभिन्नैस्तु रसायनैः॥२९॥

सुक्रमाहत्य मद्यं च महापिण्डां तथैव च।
महामांसं योगिनीभिराहत्य सह चर्यते॥३०॥

येनेति विराधिष्ठितेन रविन्दुसंपुटेन स्वरव्यञ्जनालित्रय भुषितेन। चिन्तितमात्रेणेति जप्तमात्रेण। यथा तु जापः कर्तव्यस्तद् द्वितीयनिर्देशे वक्ष्यति (२।१२)। सचराचरमिति बह्या त्रैलोक्यम्। सिद्धयते विधेयिभवति। सेव्यमानो योगि। कै वज्रयोगिनीभिः , यथेच्छयेति यादृशानिच्छ्न्ति , दर्शयन्तीति तस्मै दर्शनं ददति। योगात्मेति मन्त्रदेवताः॥२७-२८॥

ददातीति ददति। महासिद्धिमित्यष्टविधां खङ्गाञ्जना दिकाम्। ताथागतीमिति , तथाताधिगमात् तथागता बुद्धबोधिसत्त्वाः , तेषामियं ताथागती। श्रिः सम्पत्। कुरुत इति स एव योगि॥२९॥

मद्यमिति मद्याकर्षणम्। आहत्येति आकृष्य। आयुर्जीवितम्। विर्यमुत्साहः। तेजः प्रभावः। दिव्यं चक्षुश्च चक्षुर्विज्ञानम् ,

महायुश्च महावीर्य महातेजो बलं तथा।
दिव्यं चक्षुश्च ऋद्धि च सोम्पानं दिने दिने॥३१॥

स गच्छेद् विपुलमायुर्महाकल्पावसानकम्।
प्रातिहार्य दर्शयति असेचनकविग्रहम्॥३२॥

मनोजल्पनमात्रेण स्वरुपपरिवर्तनम्।
विद्येश्वरी महद्धिदा पठितसिद्धाऽ मोघिनी॥३३॥

ऋद्धि चेति ऋद्धयभिज्ञां च। सोम्पानममृतपानम्। दिने दिने प्रतिदिनम्। प्राप्नो (ती) ति श्लोकशेषः॥३०-३१॥

महायुरित्युक्तम् (१।३१)। तस्यैव निर्देशः-स इत्यादि। स योगि विपुलम् विस्तीर्णमायुर्गच्छेत् प्राप्नुयात्। महाकल्पो ऽ वसानम् पर्यन्तो ऽ स्येति यथोक्तम्। दर्शयतीति योगी। प्रति प्रति ह्ह्रियन्ते आवज्र्यन्ते ऽ नेन सत्वा इति प्रतिहार्यम् स्वार्थे ऽ ण प्रातिहार्यम्। तच्च त्र्विधम्--ऋद्धिप्रतिहार्यम् , आदेशनाप्रतिहार्यम् , अनुशासनी प्रातिहार्य च। यथा क्रमं तिस्रो ऽ। भिज्ञाः-- ऋद्धिः , परिचित्तज्ञानम् , आश्र (श्र) वक्षयज्ञानं च। असेचनकविग्रहं दर्शनैरतृप्तिकरं शरीरं दर्शयतीति पूर्वेण सम्बन्धः॥३२॥

स्वरुपमात्मस्वरुपं तस्य परिवर्तनं पररुपपरिग्रहः। मनसा चिन्तितं मनोजल्पमात्रम् , एवरुपो ऽ हं स्यामिति। स्तुतिमुखेनोप

विधे ते सदृशि नास्ति त्रिषु लोकेषु काचन।
तन्त्राणामागमः सोऽ यं कथितस्तव शोभने॥३४॥

॥ इति योगेश्वरीमहाविद्यासिद्धिनिमित्तनिर्देशः॥१॥

संहरन्नाह-- विद्येश्वरीत्यादि। पठितसिद्ध्हेति वर्तमाने क्तः। जापमात्रेण सिद्धयतित्यर्थः। अमोघप्रभावयोगादमोघिनी , सिद्धायां सत्यामवश्यं यथोक्तफलदानात्॥३३॥

विद्ये त इति। हे विद्ये। ते सदृशि त्वया तुल्या नास्ति मेऽ न्या विद्या। त्रिषु लोकेष्विति। त्रिषु तथागतवज्रपध्नकुलेषु। आगमः साधनम्। शोभने इति सम्बोधनम्॥३४॥

उपायाङ्गेन योगेश्वरी , प्रज्ञाङ्गेन महाविद्या। का चासौ ? महामाया। तस्याः सिद्धिरनुष्ठानम् , तस्या निमित्त चिह्नम् , विविधः प्रभावः , तस्य निर्देशः कथनम्॥

॥ गुणवत्वां श्रिमहामायातन्त्रटीकायां प्रथमो निर्देशः॥

द्वितीयो निर्देशः

अथातो महायोगेश्वरीणां दिव्यं योगसिद्धिफलप्रदं गुह्याक्ष्यामि॥१॥

येन चिन्तितमात्रेण प्रार्थितं ददते वरम्।
आदिमाक्षरयोगेन उच्छ्वासं कुरुते सदा॥२॥

अथात इत्यादि। इयमेकपदी गाथा द्वादशाक्षरा। अथशब्दः समग्र जपप्रस्तावनार्थः। अत इति देवतामूर्तिभावना दूध्र्वम्। महाय्प्गेश्वरीणां दिव्यमिति। सवीरं विर्भाजनम् नाभिकमलकर्णिकायां चिन्तयेदिति शेषः। तस्मिन् कि जप्यमित्याह गुह्योत्यादि। गुह्यामप्रकाश्यत्वात्। गुह्याते ऽ नेन देवतातत्त्वमिति वा गुह्याम्। गुह्यां च तदक्षरं च। योगो देवतसमाधिः , तस्य सिद्धिर्निष्पत्तिः , फल तस्या एव निष्पत्तेर्महामुद्रासिद्धिः। ते द्वे प्रकर्षेण ददातिती योगसिद्धिफलप्रदम्॥१॥

च्न्तितमात्रेणेति विनापि योगसिद्धि जपमात्रेण प्रार्थितं विद्याधरत्वादिकं वरम्। संपुतगर्ते गुह्याक्षरं दृष्टवा तच्छीर्षे विरमुत्थाप्य जपेदिति भावः। कथं जपेदित्याह--आदिमेत्यादि। अत्रादिममक्षरं प्रणवः , प्रायेण मन्त्राणमादौ तस्य दृष्टत्वात्। तस्य योगेन शनैरुच्चारेण। कुरुते , योगीति सम्बन्धः। कि कुरुते ? उच्छ्वासम् , प्राणवायोरुध्र्वगमनम्॥२॥

अष्टान्तेन च संयुक्तमूकारतिलकेन हि।
निःश्वासं कुरुते योगी भावाभावविवर्जितम्॥ ३॥

अष्टान्तेनेति अष्टमवर्गान्तेन,हकारेणेत्यर्थः। निःश्वासं कुरुत इति सम्बन्धः। कथं कुरुते ? उकारेण हकारस्याधस्तात् समायुक्तं यथा भवति, हकारं शीर्षे च सबिन्दुकं यथा भवति। हूंकारेणेति समुदायार्थः। कीदृशमुच्छ्वासनिःश्वासं कुरुत इत्याह -- भावाभावविवर्जितमिति। यथाक्रममिति शेषः। ज्ञानमात्रता हि प्रणवार्थः, "ॐकारं ज्ञानद्वयम्" (११.२) इति श्रीगुह्यसमाजवचनात्। निराभासत्वेन कायवाक्चित्तसमता हूंकारार्थः, "हूंकारं कायवाक्चित्तं त्रिवज्राभेद्यसमावहम्" (११.३) इति तत्रैव वचनात्। अत ओंकारसूचिताया विश्वस्य चित्तमात्रताया दर्शनाद् भाववर्जितम्। तदेव चित्तमात्रं विश्वमभावः, चित्तव्यतिरिक्तानां भावानामसत्ता, तस्यापि चित्तमात्रस्य विश्वस्य या समतापत्तिर्निराभासीभावो हूंकारः सूचितः। तद्दर्शनादभाववर्जितम्। एवं भावाभावविवर्जितम्। तत्तर्हि चित्तमात्रतायाः समतापत्तेश्च दर्शनं कीदृशम् ? अत्रोपदेशः -- प्रणवमुच्चारयन्नेव वीरादुच्छ्वासेन सह ज्ञानरश्मिरेखामुद्गच्छन्तीं पश्येत्। तया स्फुरित्वा विश्वस्य बुद्धमयीकरणं बीजाक्षरमुच्चारयन् स्वदेवताकारेण तस्य विश्वस्य विभावनं चित्तमात्रतादर्शनम्। ततो हूंकारनिःश्वासेन विश्वस्य वीरे संशारः समतापत्तिदर्शनम्। एतदुभयं शनैः [शनैः] पुनः पुनस्तावत् कुर्याद्यावत् खेदो न भवतीत्ययमत्र तन्त्रे जापः॥ ३॥

न तस्य व्रतादिनियमो यन्त्रणाधारणादिकम्।
होमयागादिकर्माणि निवर्तन्ते ऽ परापरम्॥४॥

मन्त्रसंस्थानधर्मात्मा योगस्त्रिविध उच्यते।
त्रिविधेन तु ज्ञानेन भवदोषैर्न लिप्यते॥५॥

एवं योगपरो नित्यं सतताभ्यासतत्परः।
वज्रसत्त्वसमः सो ऽ पि मासेनैकेन सिद्धयते॥६॥

अत्रानुष्ठनसौकर्यमाह--न तस्येत्यादिना। तस्येति जपतः , व्रतं मौनस्नानभक्ष्यादिनियमः , यन्त्रणा धारणा च प्राणवायोः। निवर्तन्त इति तन्त्रान्तरेभ्यो नानुवर्तन्ते। अपरापरमिति चार्थो गम्यते . एभ्यो ऽ न्यदपि बाह्याकर्म सर्व निवर्तत इत्यर्थः॥४॥

ननु जल्पनं जपः। तदत्र जपता किं कवल एव जल्पः करणीयः , किं वा मूर्तिज्ञानयोरपि भावनेत्यत आह--मन्त्रेत्यादि। त्त्त्वालम्बनसमाधिर्योगः। स योगस्त्रिविधस्त्रिप्रकारः। कुतः ? यस्मान्मन्त्रसंस्थानधर्मात्मा। तत्त्वद्योतकं वचनं मन्त्रः ,देवतामूर्तिः सस्थानम् , मन्त्रार्थज्ञानं धर्मः। त्रिविधेन तु ज्ञानेनेति। अनन्तरोक्तेन योगत्रयेण , न तु जल्पमात्रेण। भवदोर्षैर्न लिप्यत इति संसारदोसैः पापादिभिर्विमुच्यत इत्यर्थः॥५॥

एवमिति यगत्रयम्। नित्यमिति प्रत्यहम्। सततमिति प्रतिसन्ध्यम्। सिधयत इति सम्पद्यते। वज्रसत्त्वः

इन्द्रवर्णसम्प्रयुक्तामादिमक्ष्रभावनाम्।
स विद्यया सम्पुटितं तमाकर्षयति क्षणात्॥७॥

द्वितीयाक्सरप्रयुक्तया चिन्तया हि विभावनम्।
सर्वमपि च त्रैलोक्यं समस्तं वशमानयेत्॥८॥

श्रिहेरुकः , तेन समः सदृशाः। अपिशब्दाद् वज्रडाकिनीसमः। स इति योगि। तदत्र हेरुकस्य ज्ञानडाकिनीना मूर्तिस्तदहङ्कारेण भावनीया। मन्त्रः प्रणवहुंकारौ शनैरुच्चार्यमाणौ , तन्मध्ये च शनैरुच्चार्यमाणो मूलमन्त्रः। मन्त्रार्थज्ञानं रविसोमसम्पुटोदरगत विध्याक्षर शीर्षे विरबिन्दुमुत्थाप्य तदुत्थितेन रश्मिना सर्वभावानां बुद्धमयिकरणं विरबिन्दौ च संहरणं वेदितव्यम्। एवं मन्त्रसंस्थानधर्मयोगैः षण्मासजपे कृते सदृशसिद्धौ लब्धायामलब्धायां वासम्यक् प्रयुक्तानि विध्याक्षरणि यथास्वमवश्य कर्म साधयन्ति॥६॥

विध्याक्षरनि तत्प्रयोगांश्च सूचयितुमाह--इन्द्रवर्णेत्यादि। इन्द्रगोप इन्द्रशब्देनोक्तः। आदिमाक्षरं प्रणवः। तस्य भावनां यस्याकर्षणाय प्रयुञ्जीत। विध्येति विध्यायोगि। स योगि तं साध्यं क्षिप्रमानयति। क्षिप्रमित्यस्य निर्देशः-- क्षणादिति। एतदुक्तं भवति--बुद्धडाकिन्यादियोगं कुङ्कुमारुणं कृत्वा विरभाजने कुङ्कुमारुणं प्रणवं विचिन्त्य तद्धिन्दौ विरं विन्यस्य प्रणवरश्मिभिर्विरमरुणीकृत्य विरादरुणरश्मिरेखाद्वयं निःसार्य एकस्या अग्रें पाशं द्वितीयस्या अङ्कशं विचिन्तयेत्। साध्यं पाशेन कण्ठे बद्ध्वा अङ्कशेन हृदि विद्ध्वा क्षिप्रमाकृस्यमाणं विचिन्तयेत्। मुहूर्तादाकृष्टो भवतीति॥७॥

द्वितीयेत्यादि। आलिपाठे द्वितीयमक्षरमाकारः , तस्मिन्

ब्रह्मा विष्णुश्च विश्नुश्च रुद्रश्च इन्द्रःकामेश्वरस्तथा।
आकृष्यन्ते सपत्नीकाज्ञानाक्षरेण चोदिताः॥९॥

आकाराक्षरसंयुक्ताः कायवाक्चित्तसंस्थितम्।
त्रिसंयोगभावनया पिण्डाकृष्टिश्च उत्तमा॥१०॥

प्रयुक्तस्तस्तच्छिर्षमुत्थापितो विरः। तेन भावयन्ति परमाणुशो रञ्जयन्ति स्वदेवतायोगिनः। विभावनमिति विधिसाध्यभावनम्। सर्वमपि चेति साध्याङ्गसमस्तमित्यादि। अप्यर्थो गम्यते। त्रैलोक्यमपि समस्तं वशमानयति , किं पुनः प्रणिशतं प्रणिसहस्रं वेत्यर्थः। किमुक्तं भवति--षण्णामन्यतमयोगं जवारुणां कृत्वा आकारं जवारुणां सम्पुटे विन्यस्य तच्छिर्षे च विरं तेनैव रञ्जितं तद्रश्मिना साध्यान् प्रति परमाणुं रञ्यित्वा वशिकृतान् पादतले निपतितांश्चिन्तयेत्। सर्वे ते वशमायान्तीति॥८॥

ब्रह्मोत्यादि। कामेश्वरो मारः। एते ब्रह्मादय आकृष्यन्ते। अक्षयत्वादक्षरश्चित्तवज्रस्तस्य गुह्याक्षरम् अक्षरा क्षरम्। अक्षरज्ञानेति क्वचित् पाठः। तत्र ज्ञानं बिजाक्षरम् , उभयस्थायिहुंकार इत्यर्थः। स चाकृष्टौ जवारुणः , तेन चोदिताः प्रेरिताः सन्तः। कथं चेदिताः ? प्रथमाकृष्टि प्रयोगवत्। हुंकारनिश्वासेनात्राकृष्टिरित्यपरे। विरोत्थितरश्मिशुण्डाभिरत्र तन्त्रे सर्वाकृष्टिप्रयोगा इति केचित्॥९॥

उत्तमां पिण्डाकृष्टिमाह--आकारेत्यादिना। आकारश्चाक्षरं च ताभ्यां युक्ताः , आकरेण हुंकारेण वा सम्यग् युक्ताः , साधका

खेकारसंयुतं रक्तं श्वेतं ध्यात्वा चतुर्मुखम्।
कपालहस्तमात्मानं शुक्राकृष्टिश्च उत्तमा॥११॥

चिकारेण समायुक्तं पीतवर्ण प्रभास्वरम्।
ध्यात्वात्मानं हयमुखं मध्याकृष्टिश्च उतमा॥१२॥

इत्यर्थः। त्रिभिः संयोगस्त्रिसंयोगः। कायवाकचित्तसंस्थितमिति साध्यस्य काये कण्ठे ह्यदये चावस्थितमिति। किमुक्तं भवति षण्णामन्यतमयोगं जवारुणं कृत्वा सम्पुटगर्भे आकारस्य शिर्षे हूंकारस्य वा बिन्दौ विरं विन्यस्य यंकारजं वायुमन्डलारुदं साध्यं वीरारुणरश्मिरेखाद्वयमुखपाशाङ्कुशाभ्यां यथाक्रमं कण्ठे बद्ध्वा ह्यदि विद्ध्वा च द्रुतमन्तरिक्षेणाकृष्यमाणं चिन्तयेत्। क्षणादाकृष्टो भवति॥१०॥

खेकारेत्यादि। एतदुक्तं भवति--खेकारेण--श्वेतं चतुर्मुखं कपाल पाशहस्तमात्मानं रक्तचित्तं विभाव्य खेकारशिरः स्थित विरोत्थितरश्मिनलिकया साध्यगुह्याप्रविष्टया तदियं शुक्रमाकृष्य कपाले क्रियमाणं चिनयेत्। क्षणादाकृष्टं भवतीटि॥११॥

चिकारेत्यादि। ह्रस्वचिकारेण पीतवर्ण पीतप्रमात्मानं हयमुखं ध्यात्वा चिकारशिरः स्थितवीरश्मिशुण्डयापात्रस्थं मद्यमाकष्य भाजनं पुर्यमाणं चिन्तयेत्। क्षनात् पूरितं भवतीति॥१२॥

रकारेण समायुक्तं रक्तवर्ण महाद्युतिम्।
चतुर्भुजं चतुर्मुखं जम्बुवक्त्रं च सुस्थितम्॥१३॥

विभाव्य कुद्धमात्मानं रक्ताकृष्तिश्च उत्तमा।
षडक्षरसमायुक्तं षडभिः स्थानेषु संयुतम्॥१४॥

सिद्धयन्ति वज्रयिगिन्यो योगश्च डाकिनीगणः।
चक्षुर्द्वयं च कर्णो च नासिका हृदयं तथा॥१५॥

रकारेणेत्यादि। रेफेण रक्तवर्ण चतुर्भुजं चतुर्भुजं चतुर्मुखं जम्बुवक्त्रं महाधुतिं कुद्धमात्मानं विभाव्य रश्मिजलूकया साध्यशरीराद् रुधिरमाकृष्यमाणं चिन्तयेत् पूर्ववदिति॥१३--१३ १/२॥

स्वदेवतायोगेषु षडङ्गन्यास एषामेव विध्याक्षराणाम्। अतः प्रस्तावात् तमप्याह --षडित्यादिना। अनन्तरोक्तानि षड् विध्याक्षराणि षड् वर्णाः , तैः समायुक्तं चितयेदिति सम्बन्धः। स्वदेवतादेहमिति शेषः। क्व समायुक्तमित्याह--षड्भिः स्थानेष्विति। षट्सु प्रदेशेष्वित्यर्थः। एवं सति वज्रयोगिन्यः सिद्धयन्ति , नान्यथा। वज्रो हेरुकः , योगिन्यः पञ्चडाकिन्यः। योगःश्रिहेरुकः , तस्य डाकिनी गणः । संवरे ताभिरेव योगिनीभिः सह सुखवरे सति षट् सुखस्थानेष्वित्युक्तम्। तान्येव स्थानान्याह-- चक्षुरित्यादिना। मानसं ह्यदयम्। चकाराज्जिह्वा कायश्च॥ १४-१५॥

सिंहविक्रिडितां मुद्रां योगिनो बन्धयन्ति हि।
प्राणायामं सुयन्त्रित्वा ध्यात्वा ज्वलति तत्क्षणात्॥१६॥

अकनिष्ठभुवनपर्यन्ते सप्तलोके चराचरे।
सर्वे ततो भावयन्ति न च तं बुद्धयन्ति हि॥१७॥

योगान्तरमाह--सिंहेत्यादि। सिंहो वीरः , तस्य विक्रीडितं यस्यां सा तथोक्ता। मुद्रामिति रविसोमसम्पुटाम् , बन्धयन्तीति बद्धां चिन्तयन्ति , तिसुभिरक्षरपङ्क्ति भिः पुर्ववत् (१।२६)। योगिन इति चतुर्देवीपरिवृतश्रिहेरुकयोगे स्थिताः। प्राणायाममिति उच्छ्वास निश्वासौ। सुयन्त्रित्वेति सुष्ठु यन्त्रित्वा , क्रमेण सुक्ष्मीकृत्येत्यर्थः। ध्यात्वेति। तत्रैव शशिविवरद्वारदृश्ये मनः समथाय ज्वलति तत्क्षणादिति॥१६॥

विरे स्थिरीकृतचित्तस्य धगिति ज्ञान ज़्वलति , अवभास करोति। कियति दूरे ज़्वलतीत्याह--सप्तलोक इति। पातालं भू स्वर्गः प्रथम्ं ध्यानं द्वितीयं तृतीयं चतुथिमिति सप्त लोकाः , तेष समाहारः सप्तलोकम् , नपुंसकं त्रिभुवनवत्। त्रीणि ध्यानानि प्रत्येकं त्रिभूमिकानि , चतुर्थमष्टभूमिकम्। तस्याष्टमी भूमिरकनिष्ठम्। तेनाह-- अकनिष्ठभुवनपर्यन्त इति। तत्र चराः सत्वाः , अचरा विमानभुवनादयः। तेनाह-- चराचर इति। इदानी तस्य वीरस्य सर्वसत्त्वैर्दृश्यतां च दर्शियतुमाह--भावयन्तीत्यादि। सर्व इति सर्वसत्त्वाः , भावयन्तीत्भ्यस्यन्ति , स्वचित्तस्यैव तथा

यदि सर्वे बुद्धयन्ति जगत्क्रिडा विनश्यति।
तस्माद् गुप्तमिदं ज्ञानमप्रकाश्यमनक्षरम्॥१८॥

बुद्धयन्ति हि संबुद्धा योगनिद्रासमागताः।
ध्यायन्त एकरुपाणि पिण्डं तद्रतमानसाः॥१९॥

तथा दर्शनात्। न च तं बुद्धयन्तीति तत्वादर्शनात् , अभुतैरेव रुपैस्तस्य बालेषु प्रख्यानात्॥१७॥

जगत्क्रिड्ति विश्वस्य क्रिडा तैस्तैराकारैर्द्वयकल्पना विनश्यतीति पुर्वमेव नष्टा स्यात् । न चाध्यापि नष्टा। यत एवं तस्मात्। इदं ज्ञानमिति ज्ञानतत्त्वमद्वयं विराख्यम् , गुप्तमिति बालेषु गोपितम्। केन (कभिः) ? अभुतरुपसन्दर्सिनीभिभ्रिन्तिभिः। किदृशम् ? अवाग्गोचरत्वादप्रकाश्यम्। मनजल्पाविषयत्वा दन्क्षरम्॥१८॥

के तर्ह्योनं पर्मार्थतः पश्यन्तीत्याह--बुद्धयन्तीत्यादि। हिशब्दोऽ वधारणे भिन्नक्रमश्च , संबुद्धा हीति। तथागता एवेत्यर्थः। तथागतानामपि तद्दर्शनं यधिन् प्रक्रितिसिद्धं स्यात् , तदाऽ न्येषामगतिरेव स्यात। अथ योगाधीनम् , तदा तेनैव योगनान्येऽ पि तं पश्येयुरित्यत आह--योगेत्यादिना। एकान्तनिर्विक्षेपत्वेन निद्रासाधम्यीन्निद्रेव निद्रा , च योगनिद्रा तया समागताः संगताः सन्तः। तस्यैव निर्देशो ध्यायन्त इत्यादि। रुपाणिति सर्वधर्मात्। एकैति निराभासप्रकाशमात्रैकरसान्।

भावयन्ति नवद्वारोद्भ वान् बुद्धात्मकान् हि ते।
भक्षयेन्निर्विकल्पेन निःस्वभावेन धिमता॥ २०॥

अङ्गुष्ठानामिकाद्वारे चिन्तामणिरवस्थितः।
अमृतात्मकं संवृत्तं नित्यसिद्धिरवाप्यते॥२१॥

इति योगेश्वरिमहाविध्यायोगनिर्णयो नाम द्वितीयो निर्देशः॥ २॥

पिन्दमिति तान्येवात्यन्तपिण्डनात् सुसूक्ष्मीकरणात् पिण्डं बिन्दुमात्रं सर्षपसूक्ष्ममित्यर्थः। एतेन विरस्य मुद्रारुपं प्रसाधितम्। तद्रतमानसा इति। तत्रैव पिण्डे स्थितचित्ताः। एतेन योगनिद्रार्थः सुचितः॥१९॥

एवविधाना योगानां निष्पत्तिकारणं समयमाह--भाव यन्तीत्यादिना। भावयन्तीत्यधिमुञ्चेदित्यर्थः। कानधिमुञ्चेत् ? नवद्वारोद्भवा येऽर्थास्तान्। किदृशानधिमुञ्चेत् ? बुद्धात्मकान् शाश्वताऽ क्षोभ्यत्नेशलोकेशामोघस्वानित्यर्थः। भक्षयेत् तानेव विकल्पभक्षणार्थम्। निविकल्पेनेति निःशङ्केन। निःश्वभावेनेति ग्राह्याग्राहकनिराभासेन। धिमतेति प्रकाशमात्रतानिष्ठेन , चेतसेति शेषः॥ २०॥

अङ्गष्ठेत्यादि। द्वारे चिन्तामणिरिति। अङ्गुष्ठानामि कयोर्मुखे चिन्ता मणिरवस्थित इत्यर्थः। ततस्तेनैव तान् भक्षयेदिति भावः। कदेत्याह-- अमृतेतादि। यदा तस्र्वममृतात्मकं संवृत्तम् , वक्ष्यमाणविधिनेत्यर्थः। ततः किं स्यादित्याह--सिद्धिरित्यादि॥ २१॥
योगेश्वरी महाविध्येति व्याख्यातम् (पृ।२४)। तस्यायोगो रविसोमसम्पुटे बिन्दुयोगः , सयेन प्रकारेण निरुप्यते सिंहविक्रिडितमित्यादिना (२।१६) तस्य निर्णयः , तस्य निर्देशःकथनम्।

॥ गुणवत्वा महामायातन्त्रटीकायां द्वितीयो निर्देशः॥

तृतीयो निर्देशः

अथापरान् सम्प्रवक्ष्ये समयोत्तमसाधनान्।
द्रव्यगणान् भक्ष्यमाणान् सर्वज्ञफलदायकान्॥ १॥

येन भक्षणमात्रेण सिद्ध्यन्ते गूढमातरः।
दन्तिनो नुस्तुरङ्गस्य तथा गोः कुक्कुरस्य च॥ २॥

महापलसमायुक्तं पञ्चज्ञानामृतं तथा।
अष्टमिथश्चतुर्दशी यावदसह भाविताः॥ ३॥

सप्तदिनानि जम्बूके स्थापिता अथ चोद्धृताः।
तानि सिद्धार्थमाना वै गुलिकाः पञ्च कारयेत्।
गोपितं चान्यतन्त्रेषु सम्यग् बुद्ध्वा महाफलम्॥ ४॥

अपरानिति अनन्तरोक्तेभ्यो नवभ्योऽन्यान्। द्रव्याणि च तानि गणाश्च गणैकदेशत्वात् प्रत्येकमिति द्रव्यगणाः, [तान्]। सर्वज्ञेति सर्वज्ञत्वम्, तदेव फलम्, तद्दायकान्॥ १॥

येनेति येन द्रव्यगणेन। गूढमतरो वज्रडाकिन्यः॥ २॥

महत्त्वेन समायुक्तं महागुणेन भूषितं महापलम्। तथाशब्दः समुच्चये। चतुर्दशी[मि]त्यादि। अष्टमिह्रस्वो पञ्चामृतेन लिप्तशोषितानि कृत्वा, सप्तदिनानि॥ ३-४॥

यावत् तथा चाष्टमितश्चदुर्दशी।
जम्बूकमध्येऽसह सम्प्रयोज्य।
शिवाङ्गमध्ये त्वथ भूतरात्रौ।
स्थाप्यानि सिद्धार्थफलानि तानि॥ ५॥

द्रव्याणि वै पञ्च तथा प्रमाणं।
यथा मयैव त्विह तन्त्र उक्तम्।
अन्येषु तन्त्रेषु च नोक्तसर्वं।
संगोपितं बुद्ध्य महाफलानि॥ ६॥

कृष्णाष्टमीमारभ्य यावत्कृष्णचतुर्दशीमिति। एवं कृते पश्चात् संप्रयोज्येति एकीकृत्य। भूतरात्रौ श्वाङ्गमध्ये स्थाप्यानीति स्थापनीयानि तानीति। तथा भावितस्थापितानि द्रव्याणि सिद्धार्थफलानीति सर्षपप्रमाणानि॥ ५॥

कानि पुनस्तानि द्रव्याणीत्याह - पञ्चेति। पञ्चपललानीत्यर्थः। तथा प्रमाणमिति। उपलक्षणत्वात् तथाविधानं च। तन्त्रेषु चेत्यादि। नोक्तसर्वमिति न सर्वमुक्तम्। ततः किमित्याह - संगोपितमिति। किं कृत्वा गोपितमित्याह - बुद्ध्वा महाफलानीति। महाफलानि तानि ज्ञात्वेत्यर्थः। कुतो महाफलानि ? पञ्चानां स्कन्धानां पञ्चज्ञानभावितानां शिवाङ्गस्थितानां सपुटपात्रे स्थितानां वीरसारूप्यगमनात्॥ ६॥

अथात्र साधनं येन चित्तपद्मं विभावयेत्।
चतुर्देवीसमायुक्तं रक्तवर्णसमप्रभम्॥ ७॥

नीलोत्पलप्रभं पूर्वे बुद्धबिम्बोपशोभितम्।
दक्षिणे पीतवर्णं च पश्चिमे तु सितप्रभम्॥ ८॥

अथेत्यादि। अथेति अनन्तरम्। अत्र तन्त्रे यत् साधनम्। येन कर्मणा भगवान् समण्डलः साध्यते आराध्यते, तद्भवति तत्प्रभूयत इत्यर्थः। विभावयेत् पद्ममिति। निराभासबोधिचित्तभावनया गगनसमीकृते जगति वज्रमयी भूमि विचिन्त्य घोरश्मशानाष्टकमध्यस्थकूटागारान्तरालकमलमष्टदलं चतुर्दलं वा चिन्तयेत्। रक्तवर्णसमप्रभमिति रक्तं रक्तप्रभं च। मनसेति वीराख्येन सुविशुद्धमनोबिन्दुना कर्णिकावस्थितेन स्फुरित्वा च चतुर्षु दिग्दलेषु स्थितेन संलक्षितम्। चतुर्देवीसमायुक्तमिति। पूर्वदलादिबिन्दुभ्यो यथाक्रमं वज्रमणिपद्मकर्मकुलेशानामुत्कुलानां च प्रत्येकमनन्तानां स्फुरणे सति तत्र संहारजनिताभिर्वज्ररत्नपद्मविश्वडाकिणिभिस्तेष्वेव दलेष्वध्यासितम्॥ ७॥

बुद्धबिम्बोपशोभितमिति। बुद्धो वज्रधरः, तस्य बिम्बं मूर्तिः श्रीहेरुकः, तेन मण्डलनायकेनोपशोभितम्। ताभिरेव देवीभिर्वक्ष्यमाणगीतिसंचोदिताद् मूलमनोबिन्दोर्बीजद्वयाकारपरिणतात् पञ्चकुलेश-उत्कूलस्फुरणव्याप्तासु दिक्षु तत्संहारोच्छ्वसित बीजद्वयपरिणामेन बुद्धडाकीनीपरिरब्धेन भगवता श्रीहेरुकेण उपशोभितम्। तत्पुनर्बुद्धबिम्बं कीदृशमित्याह - पूर्वेत्यादि। चतुर्वक्त्रमिति चतुर्मुखम्। चतुर्भुजं त्रिनेत्रमिति सुगमम्।

उत्तरे रक्तवर्णं तु ज्वालामालाकुलं तथा।
त्रिनेत्रं सुन्दरं ध्यायेच्चतुर्वक्त्रं चतुर्भुजम्॥ ९॥

पूर्वे देवीं त्रिनेत्रीं वामे खट्वाङ्गघण्टे दक्षिणतस्तथा वज्रकपालहस्तामिति भाअयेत्। दक्षिणे देवीहस्ते त्रिशूलं च रत्नं च पताका च जम्बुकश्च। पश्चिमेन देवीहस्ते धनुश्चे बाणश्च विश्वपद्मं च कपालं च। उत्तरे देवीहस्ते खड्गश्च पाशश्च डमरुश्च कपालं च॥ १०॥

कस्मिन् मुखे कि वर्णमित्याह - पूर्वमुखे नीलोत्पलवर्णम्, दक्षिणमुखे पीतम्, पश्चिममुखे सितम्, उत्तरमुखे रक्तवर्णमित्यर्थः। यश्च मूले मुखे वर्णः, स एव देहे इति प्रसिद्धमेतत्। ज्वालामालामुकलमिति। प्रलयानलसमानां ज्वालानां माला आकुला अस्येति तथोक्तम्॥ ८-९॥

वाम इत्यादिना देवीनां चिह्नमाह - वामे खट्वाङ्गघण्टे अस्या इति वामखट्वाङ्गघण्टाम्, दक्षिणतस्तथा वज्रकपालहस्तामिति, वज्रं च कपालं च ते हस्तयोरस्या इति तथोक्ताम्। पूर्व इति पूर्वदले। देवीमिति। एतदुत्तरत्रापि सर्वत्र सम्बन्धनीयम्। इह तावद् वज्रडाकिनीम्। उत्तरत्र यथाक्रमं रत्नडाकिनी पद्मडाकिनी विश्वडाकिनीं च। दक्षिण इत्यादि। त्रिशूलं च रत्नं च पताका च जम्बुकश्च हस्ते यस्या इति तथोक्ताम्। पश्चिमेनेति। सप्तम्यर्थे तृतीया। धनुश्च बाणश्च विश्वपद्मं च कपालं च, तद्योगाद् धनुर्बाणविश्वपद्मकपालिनीम्। खद्गेत्यादि। खद्गश्च पाशश्च डमरुश्च कपालं च, तानि

कायवाक्चित्तावज्रं तं तत्र मध्ये विचिन्तयेत्।
कपालमथ खट्वाङ्गं धनुर्बाणधरं तथा॥११॥
आदिमन्त्रेण संयुक्तं ध्यात्वा ज्वलति तत्क्षणात्।
तथा योगी साधयते द्रव्यं सिद्धिफलप्रदम्॥१२॥
हस्तेष्वस्या इति तथोक्ताम्। एता अपि ज्वालामालाकुलाश्चतुर्वक्त्राश्चतुर्भुजास्त्रिनेत्राः, प्रधानानुवर्तित्वाद् गुणानाम्। अत एव भगवन्मुखानुसारेण पूर्वा नीलवर्णा, दक्षिणा पीता, पश्चिमा सितवर्णा, उत्तरा श्यामा। मुखमप्यासां तथैव, किन्तु मूलमुखमासां देहवर्णम्।
देहवर्णस्य भगवन्मुखस्य स्थाने नीलमुखमासाम्॥१०॥
भगवतः स्थानचिह्नान्याह- कायेत्यादिना। कायवाक्चित्तवज्रः श्रीहेरुकः, तं विचिन्तयेत्। तत्रेति रक्तकमले। मध्य इति कर्णिकायाम्। कपालमित्यादि। तस्य हस्तेष्विति शेषः। यथैव श्रीहेरुकस्तथैव बुद्धडाकिनी, किन्तु रक्तवर्णा रक्तमूलमुखा च। सा चास्य संमुखी भुजद्वयेन गाढमाश्लिष्टकन्धरा॥११॥
समयं विना न सिद्धयः, ततः समयप्रज्वालनमाख्यातुमाह आदीत्यादि। आदिमन्त्रः प्रणवः तेन संयुक्तं समयद्रव्यं ज्वलतीति सम्बन्धः। ध्यात्वेति यथोपदेशं ध्याते सति। द्रव्यमिति समयद्रव्यम्। साधयत इति निष्पादयति। कीदृशं निष्पादयति? सिद्धिफलप्रदम्। उक्तं च श्रीमति गुह्यसमाजे- ' ऊँकारं सर्वमन्त्राणां ध्यात्वा ज्वलति तत्क्षणात्' ( १६.३८) इति॥१२॥
योगाश्च सिद्धयोगाश्च सहसाऽऽस्था प्रवर्तते।
अन्तधार्नाददृश्योऽसौ साहस्रैकावभासकः॥१३॥
हरति सर्वसिद्धानां प्रभुङ्क्ते देवकन्यकाः।
गङ्गावालुसमान् बुद्धान् सवज्रालसंस्थितान्॥१४॥
स्वहस्तथामलकवात् पश्यति वज्रचक्षुषा।
गङ्गावालुसमान् क्षेत्रान् कायवाक्चित्तलक्षणम्॥१५॥
भावयन्ति हि सर्वात्म स्थितं चित्ताख्यनाटकम्।
तत्त्वानुत्तरसंसिद्धं बुद्धबोधिस्थितं शिवम्॥१६॥
ज्वालानानुशंसामाह- योगा इत्यादि। अत्र योगिन एव योगाः। योगिनो योगिन्यश्च सिद्धाः सन्तीति प्रत्ययो लोकस्य प्रवर्तते, प्रभावदृष्टान्तस्य ज्वालनस्य दर्शनादित्यर्थः। अन्तर्धानादिसिद्धेः प्रभावमाह- अन्तरित्यादिना। साहस्रैकावभासक इति। चतुर्द्वीपकानां लोकधातूनां सहस्रं साहस्रो लोकधातुः, तस्यैकस्यावभासकः, आधिपत्येन परार्थक्रियया च॥१३॥
सर्वसिद्धानमिति विद्याधरादिनाम्, कन्यामिति योज्यम्। वज्रालयस्तेषामेव बुद्धानां बुद्धक्षेत्रं संस्थितम्, तेषामेषा पर्षत्। सह तासामिति सवज्रालयसंस्थितान्॥१४॥
चक्षुर्वज्रं वज्रचक्षुः, द्वियचक्षुरभिज्ञेत्यर्थः। स्वहस्ते त्यादि। स्वहस्ते स्थितमेकमामलकं यथेत्यर्थः। कायवाक्- अत्र श्लोक-
रूपणि मुद्राणि च न्यासचिह्नं
द्रव्याणि ध्यानानि च भावनानि।
नानाविधा उपायश्च निदर्शितानि
उक्तानि देवीमनैप्सितानि॥१७॥
चित्तलक्षणमिति। कायचित्तनि इन्द्रियज्ञानानि, वाक्चितानि मनोविज्ञाननि, सजल्पत्वात्। तेषां लक्षणं स्वरूपम्, भावयन्तीति मनसा पश्यन्ति। कथं पश्यन्ति ? सर्वात्म, सर्वात्मनेत्यर्थः। किमेतदित्याह- चित्तेत्यादि। चित्तख्यामिति वज्रचित्तम्, परचित्तज्ञानमित्यर्थः। आत्मनः स्वदेवताकारेण भावनं योगतन्त्रे तदिह नाटकम्, नाटकसार्धम्यात्। तस्मादुद्भवोऽस्येति। यथोक्तम्, समयद्रव्यसाधाने स्तोकमुक्तम्।
अयं.....
श्रावकप्रत्येकबुद्धानामपीदृशं शिवमस्ति, ततो विशिनष्टितत्त्वेति। सर्वप्रपञ्चरहितं ज्ञानमित्यर्थः। बोधिसत्त्वानामपीदृशं ज्ञानमस्ति, तत्तु बुद्धज्ञानेन सोत्तरम्। ततो विशेषणार्थमाह- अनुत्तरमिति। नास्मादुत्तरमस्तीत्यनुत्तरम्॥१५-१६॥
अत्र श्लोक इति। यथोक्ते तन्त्रार्थे संग्रहश्लोकः।
रूपाणीति देवतादीनां वर्णसंस्थानानि। मुद्राणीति मुद्राणानि। षडङ्गन्याकुलिशाब्जशोधनादीनि, तस्यैव चिह्नमिति
तन्त्रं गृहे यस्य भवेत नित्यं
धारेत वाचेत विभावयेत।
न तत्र रोगा न जरा न मृत्यु-
विघ्नानि देव्यः परिरक्षयन्ति॥१८॥
इति महावज्रडाकिनीनां मतं महागुह्यं समाप्तं सोपचारम्।
॥ इति तृतीयो निर्देशः॥
॥ इति महामायातन्त्रं समाप्तम्॥
कपालखट्वाङ्गादि। द्रव्याणि समयवस्तूनि। ध्यानानीति। ' ध्यै चिन्तायाम्', जपा इत्यर्थः। भावनानि मण्डलचक्रादिसमाधयः। नानाविधा उपायाः कर्मप्रसरहीनासिद्ध्यादयः। एतानि सर्वाणि निदर्शितानि सूचितानि। इयता सर्वेणा किं कृतमित्याह- देवीत्यादि। देव्या महामायया यानि मनैप्सितामि हृदयेप्सितानि तान्युक्तानि॥१७॥
तन्त्रपरिग्रहेऽनुशंसामाह- तन्त्रमित्यादिना श्लोकेन। तन्त्रं महामायाख्यम्। गृहे यस्येति यस्य गृहे। भवेत नित्यमिति नित्यं तिष्ठते। धारेतेति धारयेत। वाचेतेति वाचयेत, पठेदित्यर्थः। विभावयेतेति विभावयेत्। विघ्नानीति विघ्नाः॥१८॥
महत्यश्च ता वज्रडाकिन्यश्च तासाम्, मतम् उपरिगृहीतः सिद्धान्तः, समस्तं योगिनीतन्त्रमित्यर्थः, तस्य रहस्यं सारम्। किं तदित्याह- महागुह्यमिति। आदौ परमगुह्यमित्युक्तम्, अन्ते तदेव महागुह्यमिति पर्यायान्तरेणोक्तं महामायाख्यं तन्त्रमित्यर्थः। तत् समाप्तं निष्ठितम्। सोपचारमिति। साध्यसाधनर्थो विधिरुपचारः, सह तेन वर्तत इति सोपचारम्, न तेन शून्यमित्यर्थः।
महामायातन्त्रे विवृत( ति)मिति कृत्वा गुणवती-
मवाप्तं यत्पुण्यं परिणतमृगाङ्कद्युति मया।
जिनानामात्मैकः कुलिशधरभावो भवतु मे
ततोऽत्यन्तं दुःखक्षयमखिललोकं च लभताम्॥
इति गुणवत्यां महामायातन्त्रटीकायां तृतीयो निर्देशः।
गुणवतीनाम महामायातन्त्रटीका
महापण्डितरत्नाकरशान्तिपादानां समाप्तेति।

यो नैको नाप्यनेकः स्वपरहितमहासम्पदाधारभूतो
नैवाभावो न भावः स्वमिव समरसो दुर्विभाव्यस्वभावः।
निर्लेपम् निर्विकारं शिवमसमसमं व्यापिनं निष्प्रपञ्चं
वन्दे प्रत्यात्मवेद्यं तमहमनुपमं धर्मकायं जिनानाम्॥
महामायासाधनम्
महामायाह्वयं देवं चतुर्मुखं चतुर्भुजम्।
अङ्के यस्य तथा देवी चतस्रो दिक्षु चापाराः॥
महावज्रधरस्यैव कृपया भीषणाकृते।
महामायाभिधानस्य साधनं साधु कथ्यते॥
इह भावनाधिकृतो मन्त्री चतुर्देवीगीतिचोदनाविबुद्धः प्रातरुत्थय स्वहृत्सूर्यस्थं हुँकाररश्मिभिरात्मानं विशोध्य कृतमुखशौचादिको हुं फडिति स्थानत्मयोगरक्षां कृत्वा ध्यानालयं प्रविश्य हुंकारेण अर्घ्यं परिजप्य सुखासनोपविष्टः पुरस्तादन्तरिक्षे भगवन्तं सपरिवारमालोक्य हृन्मन्त्रकिरणोद्भवैः पञ्चोपहारमेघैः सम्पूज्य पापदेशनादिकमिति कुर्यात्- देशयाम्यहमात्मनः पापम्, अनुमोदे सर्वपुण्यानि, सर्वबुद्धबोधिसत्त्वार्यपृथग्जनानां परिणामयामि सर्वमात्मनः कुशलमनुत्तरायां सम्यक्संबोधौ, आबोधेस्त्रीणि रत्नानि शरणं गच्छामि, बुद्धरत्नं धर्म्मरत्नं संघरत्नम्, अहो बताहमनुत्तरां सम्यक्सम्बोधिमधिगच्छेयं सर्वसत्त्वानामर्थाय हिताय यावदेतेषाम् अत्यन्तनिष्ठे निर्वाणे निरुत्तरे च तथागतज्ञाने प्रतिष्ठापनाय। तदनु चित्तमात्रमेवेदं सर्वमसत्येव तेन तेनाकारेण प्रख्याति। तद्यथा स्वप्न इत्यधिमुच्य सर्वकारान् परित्यज्य निर्मलनभोनिभं निराभासमनन्तं प्रकाशमात्रं पश्येत्, ऊँ शून्यताज्ञानवज्रस्वभावात्मकोऽहमिति चाधितिष्ठेत्। अनन्तरं पुरस्तादन्तरिक्षसूर्ये हुँकारेण विश्ववज्रं विचिन्त्य तद्दीप्तरश्मिस्फुरणैरधो वज्रमयीं भूमिं तिर्यग्वज्रप्राकारमुपरि वज्रपञ्जरां मध्ये घोरश्मशानं विभाव्य तन्मध्ये कूटागारमेकपुटं सर्वरत्नमयं पश्येत्-
चतुरस्रं चतुर्द्वारं चतुस्तोरणभूषितम्।
हाराद्यैरप्सरोभिश्च भास्वद्वेदीचतुष्टयम्॥
तन्मध्ये रक्तकमलमष्टदलं ध्यात्वा तत्कर्णिकायामनादिनिधनं तारमुक्ताफलनिभं ज्ञानामृतबिन्दुं ध्यायात्।
इत्ययमनादियोगो नाम प्रथमः समाधिः।
मध्यबिन्दुत एव चतुरो बिन्दूनष्टदिग्दलेषु संस्फार्य बीजाकारपरिणतान् पश्येत्, यथाक्रमं हुं स्वा आ हाः। यथाक्रमं तेभ्यो वज्रमणिपद्मकर्मकुलेशान् तत्कुलानि च संस्फार्य पुनस्तेष्वेव संहृत्य तत्परिणताश्चतस्रो योगिनीः पश्येत्। पूर्वदले वज्रडकिनीं नीलवर्णां नीलपीतसितहरितवदनां वज्रकपालघण्टाखट्वाङ्गधारिणीम्, दक्षिणदले रत्नडाकिनीं पीतवर्णां पीतनीलसितहरितवदनां रत्नच्छटात्रिशूलग्रीवानिपीडीतजम्बूकपताकाधारिणीम्, पश्चिमदले पद्मडाकिनीं सितवर्णा सितपीतनीलहरितवदनां विश्वकमलशरकपालचापधराम्, उत्तरदले विश्वडाकिनीं हरितवर्णां हरितपीतसितनीलवदनाम् असिडमरुपाशकपालधराम्। चन्द्रासनप्रभाः सर्वाः। शेषमासां प्रभुमिव नाथमुत्थापयेयुस्ता वज्रगीतिकयाऽनया-
हले सहि वि असि कमलु पबोहि वज्जें।
अललललहो महासुहेण ओरिहि णच्चें॥
रविकिरणेण पफुल्लि कमलु महासुहेण।
अललललहो महासुहेण ओरिहि णच्चें॥
अथ गीतिकानुभावेन भगवान् बिन्दुरूपतां हित्वा बीजद्वयाकारेणाविर्भवति। ऊँ हुँ॥ ततः ऊँकाराद् वैरोचनं तत्कुलं च संस्फार्य संहरेत्, हुँकारात् पञ्चजिनान् तत्कुलानि च। ततः ऊँकारोद्भवया बुद्धडाकिन्या सहैव भगवान् हेरुको हुँकारादुत्पद्यते।
भस्मनोद्धुलीतः कृष्णो ललितार्कासनप्रभः।
कपिशोर्ध्वज्वलत्केशः कपालामकुटोत्कटः॥
नीलपीतमहाश्वेतहरिताद्यचतुर्मुर्खः।
कपालशरखट्वाङ्गचापधारितुर्भुजः॥
पञ्चबुद्धविशुद्ध्या तु पञ्चमुद्राविभूषितः।
चक्री कुण्डलकण्टी च हस्ते रुचकमेखलाम्॥
नरचर्माम्बरधरो द्वादशारुणलोचनः।
ज्वालामालाकुलक्रोधः परमानन्दसुन्दरः॥
अर्धपर्यङ्कनाट्यस्थो नवनाट्यरसैर्युतः।
अन्तकरणोद्गीर्णैश्च जनौघैर्जगदर्थकृत्॥
प्रियतुल्यायुधा रक्ता तत्कण्ठाश्लेषिदोर्द्वया।
श्रीबुद्धडाकिनी रक्तपीतश्वेतहरिन्मुखी॥
बुधाभिषेका शबरी हेवज्रे गीयते यथा।
तथेह बुद्धडाकिन्या हेरुकः संप्रपूज्यते॥
बुद्धो रक्तोऽत्र सत्त्वानां बुद्धकायेन रञ्जनात्।
शुद्धा धर्माः प्रकृत्येति वागीशस्यैव शुक्लता॥
तदनु भगवतश्चक्षुरिन्द्रिये ऊँकारं रक्तं श्रोत्रेन्द्रिये हुँकारं नीलं घ्राणेन्द्रिये चीकारं पीतं जिह्वेन्द्रिये आःकारं सितम् उष्णीष्स्थाने रेफं हरितं मनसि खकारं सितं चिन्तयेत्। इति षडिन्द्रिये षडक्षरन्यासः।
कवचम्- ऊँ आः हुँ इति कायवाक्चित्ताधिष्ठानं यथाक्रमं शिरःकण्ठहृदयेषु। स्तानान्तरे सूर्ये स्वदेवताबीजं तज्ज्ञानस्वभावं दृष्ट्वा तत्किरणाङ्कुशैर्ज्ञानमण्डलमाकृष्य हुँकारेण विघ्नानुत्सार्य अर्घ्य दत्त्वा जः हुँ वँ होः इत्याकृष्य प्रवेश्य बद्ध्वा वशीकृत्य तेन सहैकलोलीभूतं समयमण्डलं पश्येत्। ततो ज्ञानबीजरश्मिचोदित तथागतप्रेषिताः पञ्चयोगिन्य आगत्य पञ्चज्ञानाम्बुपूर्णै रत्नकलशैर्भगवन्तो योगिन्यश्चाभिषिञ्चेयुः। अभिषिच्यमानानां शिरसि स्वकुलेश उत्पद्यते। भगवतोक्षोऽभ्यः, बुद्धडाकिन्यादीनां यथाक्रमं शाश्वताक्षोभ्यरत्नेशवागीशामोघसिद्धयः। ततो ज्ञानबीजरश्मिमुखस्फारिताभिः पञ्चोपहारपञ्चकामगुणपूजाभिर्भगवन्तं भगवतीं च पूजयेत्। ततो भगवन्तं देवीनां मुखैः स्तूयात्-
दंष्ट्रोत्कटमहाभिममुण्डस्रग्दामभूषितम्।
भक्षमाणं महामांसं श्रीहेरुकं नमाम्यहम्॥ इति।
ततो दिग्देव्यः स्फुरणयोगेन बुद्धडाकिन्यामन्तर्भवेयुः। ततोऽस्याः शिरसी हृदि नाभौ गुह्ये ऊर्वोश्च यथाक्रमं ऊँ हुँ स्वा आ हा इत्येतान् विभाव्य तैरन्योन्यावधिस्फुरद्भिरस्याः शरीरमभिव्याप्य तया ह्रीःकारजरक्तकमलया अकारजमुक्ताकर्णिकया तद्वद् हुँकारजकुलिश ऊँकारजमणिः प्रारभेत् रतिमनुरागं यामीत्यनेन मन्त्रेण। ततो मणिद्वयरश्मिचोदितास्तथागता आगत्य मुखे प्रविश्य विलीय कमलदले पतेयुः। तत् पञ्चज्ञानामृतं जिह्वाग्रललितेन गृह्यमाणं चिन्तयेदिति।
श्रीमण्डलराजाग्रीनाम द्वितीयः समाधिः।
ततो भगवच्चोदिता बुद्धडाकिन्यादयः पञ्चभगवत्कायमेघस्फुरणैः सत्त्वानामर्थं यथाक्रमम् आदर्शज्ञानं सुविशुद्धधर्मधातुज्ञानं समताज्ञानं प्रत्यवेक्षणाज्ञानं कृत्यानुष्ठानज्ञानं महावज्रधरपदं चोत्पाद्य स्वकायमेघान् मूलकाये संहरेयुरिति।
कर्मजाग्रीनाम तृतीयः समाधिः।
यदि पुनर्योगी चित्तं स्थिरीकर्तुमिच्छेत्, सर्वसाधीनामग्रनिष्पत्तये, तदा समासतः समाधित्रयं विभाव्य नाभिकमलकर्णिकायां रविसोमसम्पुटप्रान्तेषु निःसन्धि ध्यात्वा तन्मध्ये सर्षपसूक्ष्मसितस्वछज्ञानं बिन्दुरूपं महासुखमयं वीरं विचिन्त्य तद्रश्मिरेखां मृणालतन्तुनिभां चन्द्रमध्येन निर्गत्य सम्पुटं तिर्य्यक् त्रिभिर्वेष्टैः संयम्य स्थितां दृष्ट्वा चन्द्रोपरि स्थितेषु त्रिषु वेष्टार्धेषु ग्रथितान् प्रत्येकं षोडश वर्णान् पश्येत्। उक्तं हि संवरोत्तरे-
ककारादिदकारान्तं ङ्ञावर्जं निवेशयेत्।
धकारादिकारान्तं आलिद्वयं समालिखेत्।
मध्यस्थेन त्वकारालिर्न्यस्तव्यः शशिमण्डले॥ इति।
इहाप्युक्तम्- " दिव्यमक्षरपङ्क्तिभिः" ( १.२६ ) इति। एवं नाभिमध्ये कमलकर्णिकारविसोमसंपुटगर्भे वीरं भावयन् भावनापरिपाकमधिमुच्य तस्मादेव द्वितीयसूक्ष्मरेखाज्वलितैकज्वालावदवस्थितां पश्येत्। तस्या प्रभावे(ण) स्रवदमृतपूरप्लावितो वीरः सा च रश्मिरेखा सितीभवेत्। ततो वीरे नियमितचित्तस्तं पश्येत्, यावत् चेतसः स्थैर्यलाभ निमित्तैरुपलक्षयेत्। उपलक्षिते स्थैर्ये तस्या रश्मिरेखायाः स्फुटमालोकमनन्तं विश्वमवभासयन्तं विचिन्त्य सर्वं करतालामलकवत् पश्येत्, सर्वसमाधींश्चाशु निष्पादयेत्।
इति बिन्दुयोगः।
जप्तविद्यस्य सिद्धिरिति जप उच्यते। तथैव षड्देवताचक्रं योगी नाभिकमलकर्णिकावस्थितरविसोमसम्पुटगर्भे चिरं विचिन्त्य तथैव च तद्रश्मिरेखया वर्णावलीत्रयग्रथितया वेष्टत्रयसंयुते मन्त्रं जपेत्। इह तन्त्रे अ(त्र्य )क्षरा मन्त्राः। तत्र भगवतो मन्त्रः, ऊँ हुँ हुँ। बुद्धडाकिन्यादीनां यथाक्रमम्- ऊँ ऊँ हुँ, ऊँ हुँ हुँ, ऊँ स्वा हुँ, ऊँ आ हुँ, ऊँ हा हुँ। कथं जपेत् ? संपुटगर्भे जप्यं बीजाक्षरं विन्यस्य तच्छीर्षे वीरमुत्थाप्य ऊँकारमुच्चारयन् वी(वि)राट्रश्मिरेखामुच्छ्वासवायुना सहोत्थाप्य तयावभास्य जगद् बुद्धमयं कुर्यात्। बीजाक्षरमुच्चारयन् तेषु सर्वबुद्धेषु स्वदेवतास्वभावतामधिमुञ्चेत्। अन्त[ः] हुँकारं उच्चारयन् निश्वासवायुना समाकृष्य तद्बुद्धमयं जगद् वीरे संहरेत्। एवं पुनः पुनः कुर्यात्, यावत् खेदो न भवति। सति खेदे विश्रम्य सर्वमिदं कुशलमनुत्तरायै सम्यक्सम्बोधयेऽभिमतफलसिद्धये च परिणमय्य पूर्ववत् पूजां कृत्वा स्वहृद्बीजाक्षरे मण्डलमन्तर्भाव्य, तत उत्थाय स्वदेवतात्मकमात्मानमधिमुच्य सर्वं कुर्वीत। सर्वं च भोज्यं पञ्चभिर्बीजैः पञ्चज्ञानामृतमयं कृत्वा स्वहृदये च देवताचक्रमधिमुच्य विचिन्त्य च तज्जिह्वासु तदमृतं जुहुयात्। स्नानं कुर्वन् देवताभिषेकविधिं ध्यायात्।
मध्याह्नसायाह्नसन्ध्ययोस्तु मण्डलगृहं प्रविश्य स्वहृद्बीजरश्मिभिराधारमण्डलं निर्माय [ तस्मा ]देव बीजच्चतस्रो योगिनीः क्रमेण संस्फार्य यथास्थानं निवेश्य पूर्ववदभिषेकादिकं सर्वविधिमनुष्ठाय मण्डलमन्तर्भाव्य तत उत्थाय पूर्ववत् समाहितयोगं कुर्यात्।
अर्धरात्रसन्ध्यायां त्वयं विशेषः- संपूज्यार्घ्यं दत्त्वा ऊँ वज्र मुरिति ज्ञानमण्डलमुत्सृज्य स्वज्ञानबीजे समयमण्डलमन्तर्भाव्य निराभासं सम्बोधिचित्तमधिमुच्य सुप्यात्। एवं दिनानतरेष्वपि देवीसङ्गीतिचोदनोत्थापितः सर्वं पूर्ववत् कुर्यात्। एवं प्रत्यहं यावत् सिद्धिनिमित्तानि लभते। तत्र मण्डलेश्वरस्य मन्त्रो लक्षजापेन सिद्ध्यति, शेषाणामयुतजापेन। मालामन्त्राश्च तन्त्रान्तरादानेतव्याः। तान् स्वहृत्सूर्ये हृच्चन्द्रे वा यथायोगं मण्डलीकृत्य प्रदीपमालावज्ज्वलतश्चेतसाऽभिलिख्य मनसा वाचयन्निव जपेदिति।
ब्रुवतैवं महामायासाधनं यन्मयार्जितम्।
कुशलं तेन बुद्धः स्यां वशी विश्वार्थसाधने॥
॥ महामायासाधनं समाप्तम्॥

महामायासाधनोपायिका
कुक्कुरीपादानाम्
नमो वज्रडाकाय।
प्रथमं मुखशौचादिकं कृत्वा मृदुविष्टिरोपविष्टः स्वहृदि सूर्यमण्डले हुंकारबीजं दृष्ट्वा पुरतः करुणाचलवज्रं वक्ष्यमाणकवर्णभुजायुधं विचिन्त्य पूजापापदेशनापुण्यानुमोदनापुण्यपरिणामनात्रिशरणगमनदिप्रणिधिं च कृत्वा स्वकायवाक्चित्ते नामाक्षरं भावयेत्। तच्च नामाक्षरम्- हे इति हेत्वपगताः सर्वधर्माः, ह इति हान्युत्पादिताः सर्वधर्माः, ए इति पर्येषणविमुक्ताः सर्वधर्माः, रु इति प्रतिश्रुत्कोपमाः सर्वधर्माः, र इति रतिसमायुक्ताः सर्वधर्माः, उ इति उत्पादव्ययधर्मिणः सर्वधर्माः, क इति सर्वसौख्यसमायुक्ताः सर्वधर्माः, अ इति अकारो मुखं सर्वधर्माणामाद्यनुत्पन्नत्वात्। इति कृत्वा शून्यतां विभाव्य मन्त्रमुच्चारयेत्- ऊँ शून्यताज्ञानवज्रस्वभावात्मकोऽहम्। हुँकारेण विघ्नमुत्सार्य वज्रपञ्जरं विभाव्य श्मशानाष्टकमध्ये रक्तचतुर्दलकमलपद्मवरटकसूर्यमण्डले हुँकारबीजं दृष्ट्वा मैत्रीकरुणामुदितोपेक्षास्वभावात्मिकाश्चतुर्देव्यः सञ्चोदयन्ति श्रीवज्रगीत्या अभ्यन्तरसाधने-
हले सहि वि असि कमलु पबोहि वज्जेँ।
अललललहो महासुहेण आरोहि नृत्यें॥
रविकिरणेण पफुल्लि कमलु महासुहेण।
अललललहो महासुणेह आरोहि नृत्ये॥
[ वज्रडाकिनीनृत्येन वज्रसत्त्वं निवेशयेत्॥ ]
इति गीतिसमनन्तरं मायाबद्धवस्तुसंवित्त्या मनसा हुँकारोद्भूतं करुणाचलवज्रं नीलपीतसितश्यामचतुर्मुखं चतुर्भुजं दक्षिणे भुजे कपालशरधरं वामे खट्वङ्गधनुर्धरं रौद्रासनस्थं त्रिनेत्रं सार्द्रमुण्डस्रग्दाममालिनं कपालमालाभिः शिरसि भूषितम् अस्थ्यलङ्कारविभूषितम् ईषद्दंष्ट्राकरालवदनं पिङ्गलोर्ध्वकेशम् काये चीकारं पीतं चक्षुषोः ऊँकारं सितं श्रोतयोः हुँकारं रक्तं नासिकायां खकारं सितं कण्ठे आःकारं सितं हृदये रेफं रेफं षडङ्गन्यासलक्षितं स्वभप्रज्ञालिङ्गितं व्योमावकाशिनं वज्रधराविशे( भिषे )किनं कायवाक्चित्ताधिष्ठितं सुविशुद्धधर्मधातुज्ञानस्वभावमात्मानं विभाव्य तत्र पूर्वदले वज्रडाकिनी नीलवर्णा नीलपीतरक्तश्यामचतुर्मुखा चतुर्भुजा वामभुजे खट्वाङ्गघण्टां दक्षिणे वज्रकपालहस्ता पृथिवीधात्वादर्शज्ञानस्वभावा, दक्षिणदले रत्नडाकिनी पीतवर्णा पीतनीलरक्तश्यामचतुर्मुखा चतुर्भुजा वामभुजे पताकां कञ्चुकं च दक्षिणे त्रिशूलरत्नहस्ता अब्धातुसमताज्ञानस्वभावा, पश्चिमदले पद्मडाकिनि सितारुणवर्णा रक्तपीतनीलश्यामचतुर्मुखा चतुर्भुजा वामभुजे धनुः कपालं दक्षिणे शरविश्वपद्महस्ता तेजोधातुप्रत्यवेक्षणाज्ञानस्वभावा, उत्तरदले विश्वडाकिनी श्यामवर्णा श्यामपीतरक्तनीलचतुर्मुखा चतुर्भुजा वामभुजे पाशकपालं दक्षिणे खट्वाङ्गडमरुहस्ता वायुधातुकृत्यानुष्ठानस्वभावा। देव्यः सर्वा रौद्रासनस्थाः कपालमालाभिः शिरसि विभूषिताः सार्द्रमुण्डस्रग्दाममालिन्यस्त्रिनेत्रा ईष्द्दंष्ट्राकरालवदना ज्वलितोर्ध्वपिङ्गलकेशाः स्फुरद्रश्मिमालिन्यः। एवं चतुर्देवीसमावृतमात्मानं करुणाचलवज्रं ध्यात्वा शिरसि हृदि नाभौ गुह्ये वायुमाहेन्द्रवरुणाग्निमण्डलेषु यथोपदेशं विभाव्य नपुंसकजापं कुर्याद् मन्त्री। खिन्ने सति मन्त्रजापं कृत्वा ऊँ आः ह्रीं हुं फट् एवं भवसमसर्वभावस्वभावमन्त्रसंस्थानधर्मात्मा योगी सर्वविषयादिकृत्य कुर्यात् प्राकृतकल्पमुक्तये इति।
॥ महामायासाधनोपायिका समाप्ता॥
कृतिरियं कुक्कुरिपादानामिति।

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project