Digital Sanskrit Buddhist Canon

6 पूजाविधिः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version 6 pūjāvidhiḥ


 



 पूजाविधिः



     परम्परायातपूजाविधिर्लिख्यते। आदौ च भगवत्यहङ्कारमवलम्ब्य ॐ सुम्भ निसुम्भ हूँ हूँ फट्। ॐ गृह्ण गृह्ण हूँ हूँ फट्। ॐ गृह्णापय गृह्णापय हूँ हूँ फट्। ॐ आनय हो भगवन् वज्र हूँ हूँ फडिति चतुर्मुखमन्त्रैर्दिग्बन्धं कृत्वा शुचौ प्रदेशे त्र्यक्षरेण भूमिमधिष्ठाय कुङ्कुमरक्तचन्दनादिसरागसुगन्धिद्रव्यैः ॐ आँ गाँ राँ डेँ माँ काँ प्रेँ त्रिँ काँ कँ रँ कँ हिँ प्रँ गुँ सोँ लुँ मँ कुँ। पूर्वोक्तचतुर्मुखमन्त्राणामेकैकमन्त्रोच्चारणपूर्वकं पूर्वादिषु वामावर्तेन वामहस्तेन चतुरस्रं मण्डलं कारयेत्। पूँ जाँ इत्यादि  चतुर्विंशत्यक्षरपीठोपपीठक्षेत्रोपक्षेत्रच्छन्दोहोपच्छन्दोहमेलापकोपमेलापक श्मशानोपश्मशानोच्चारणमपि कर्तव्यमिति केचिदाम्नायविदः। ततो वामकरानामिकाग्रे षट्कोणमण्डलमध्यविलसितवँकारं बहिः पूर्वादिदिक्क्रमेण विनिर्मितचतुः स्वस्तिकं विलिख्य ॐ वज्ररेखे हूँ स्वाहा इति रेखामाकृष्य ॐ सुरेखे सर्वतथागताधितिष्ठन्तु स्वाहेति रेखामधितिष्ठेत्। तत आक्रान्तपादोर्ध्वदृष्टिस्तु मूर्ध्ना फेंकारनादतो ज्वालामुद्रां बद्धवा वामावर्तेन भ्रामयेत्। जः हूँ वँ होः इत्यादि कर्षणादिमन्त्रपुरः सरमकनिष्ठभुवनवर्तिनीं देवीमाकृष्य प्रवेश्य बद्धां कृत्वा परितोषयेत्। ततस्तामेव देवीं षड्योगिनीपरिवृतां रक्तां शृङ्गारादिनवनाट्यरसोपेतामष्टदिक्पतिसहितां नानायोगयोगिनीभूतप्रेतपिशाचडाकडाकिनीसमाबद्धसुविशुद्धसमयमण्डल(म?)स्य श्मशानस्य मध्ये नृत्यन्तीं भावनया अभिमुखीकृत्य मन्त्रोद्धारोत्थितहृदयमन्त्रेणैव देवीं रक्तवर्णकुसुमैरर्चयेत्। ततः ॐ वँ होँ योँ ह्रीँ मोँ हेँ ह्रीँ ह्रँ ह्रँ  फट् इति मन्त्रैस्त्र्यक्षरमन्त्रमिलितैः षड्देवीसम्बोधनपादविदर्भितैः षट्कोणेषु षड्देवीरर्चयेत्। ॐ आः नन्द्यावर्त हूँ फट् इति नन्द्यावर्तानपि चतुर्दिक्षु पूजयेत्। डाकिन्यादिचतुर्देवीरपि मध्येषु पूर्वादिषु पूजयेदित्याम्नायान्तरम्। ततः स्तुतिपूजादिकं कृत्वा मुरिति विसर्जयेत्। यथाशक्तितो  वस्त्रान्नपानपिष्टकादिभिः कुमारीपूजाऽवश्यं विधेया॥



 



            इति पूजाविधिः॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project