Digital Sanskrit Buddhist Canon

5 मन्त्रोद्धारविधिः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version 5 mantroddhāravidhiḥ


 



[अथ मन्त्रोद्धारविधिः]



मन्त्रोद्धारमतः परमभिधास्ये वज्रयोगिनीहृदयम्।



कर्णात्कर्णमुपागतमास्यादास्यं तथा क्रमतः॥१॥



 



मन्त्रोद्धारमित्यादि। मन्त्रोद्धारमभिधास्य इति सम्बन्धः।अतः परमिति। आवेशाद्यनन्तरं परं श्रेष्ठं वा। वज्रयोगिनीहृदयमिति। कोलमुख्या हृदयं हृदयमन्त्रमित्यर्थः। हृदयमिव हृदयं वा। कर्णात्कर्णमिति कर्णाकर्णिकया। उपागतं समायातम्। अतिरहस्यभूतत्वादिति भावः। आस्यादास्यमिति। एकगुरुवक्त्रादपरगुरुवक्त्रमित्यर्थः। तथेति। अव्यभिचा(च)रितवृत्तितया दीपाद्दीपान्तरमिवेति भावः। क्रमत इति। परिपाट्या वेत्यर्थः॥१॥



 



पूर्वोदितमिव चक्रं संलिख्य मरुद्गणालयोपेतम्।



तत्र लिखेत् परिपाटित आलिं कालिं तथैवैकोनाम्॥२॥



 



     चक्रमाह- पूर्वोदितमिवेत्यादि। आलिमकारादिषोडशस्वरान्। तथा तेनैव क्रमेण कालिं ककारादिहकारपर्यन्तं त्रयस्त्रिंशदक्षराणि। लिखेदिति सम्बन्धः। एकोनामिति। क्षकाररहितां षकारककाराभ्यामेव तस्योक्तत्वात्। किंकृत्वेत्याह-पूर्वोदितमिव चक्रं संलिख्येति। पूर्वोदितमिव चक्रं धर्मोदयाकारं लिखित्वा तत्र मध्ये लिखेदित्यर्थः। इवशब्दस्तु  धर्मोदयाकारमात्रसूचनार्थः,पूर्वोक्तचक्रस्य देवीमन्त्रलिखितत्वात्। मरुद्गणालयोपेतमिति। मरुद्गणा ऊनपञ्चाशवायवस्तत्संख्येनालयेन स्थानेनोपेतमुपगतम्। ऊनपञ्चाशदपि कोष्ठकानि धर्मोदयाकाराणीति भावः। उक्तञ्च श्रीचक्रसंवरे- "सर्व(र्वं)धर्मोदयं विश्वम्"इति। परिपाटित इति क्रमतः। उपदेशागतश्चक्रक्रमो लिख्यते-



 



  विधु दहन बाण मुनि नव शंकर मदन क्रमेण कोष्ठानाम्। धर्मोदयाकृतीनां कुर्यादुपदेशतो न्यासः (सम्)।



 



   धर्मोदयां लिखित्वा रेखात्रितयस्वरूपिणीं पुरतः।



   या या यथा त्रिरेखा षट् षट् प्रदेशा तथा तथा मध्ये॥



 



   इति सप्त सप्तगुणितव्यानि संलिख्य गृहाणि दक्षिणावर्तैः।



   वरटके प्रथममकारो निपतति मध्ये स च हकारः।



 



   त्रिगुणविशुद्धया त्रिदलं कमलं तस्मिन् वर्णाश्च पवनविशुद्धयैव धर्मोदयासु लीनाः। पवन इत्येव सर्वं संकलितम्।



 



   अकाररूपिणी देवी किञ्जल्के संव्यवस्थिता।



   हकाररूपी भगवान् हेरुको मध्यदेशगः॥२॥



 



झाधरगं डाधरस्थं हाधरगविभूषितं समायुक्तम्।



त्रिकमादितो विलिख्य सदक्षरं तत्त्वपरिदीपि॥३॥



 



  मन्त्रोद्धारमाह-झाधरगेत्यादि। त्रिकमादितो विलिख्यमिति सम्बन्धः। अव्यक्तगुणसंदोहे नपुंसकलिङ्गम्। किं तदित्याह-झाधरगं झाधरस्थमिति  झकारस्याधरगोऽधसि स्थितः,अकार इत्यर्थः। डाधरस्थमुकारः। हाधरगविभूषितमिति हकाराधरगेण मकारेण शिरस्यङ्कितम्। समायुक्तमिति। अकारोकाराभ्यामोकारः,मकारस्य स्थाने बिन्दुः। सेन्दुरित्युपदेशतो बोद्धव्यः। प्रथममेतदेव त्रिकम् ॐँकारस्वरूपं लिखनीयमित्यर्थः। ॐँ ॐँ ॐँ। सदक्षरमिति विशिष्टार्थप्रतिपादकत्वात्। इन्दुबिन्दुसमायोगादेव पवनरूपस्योकारस्य शून्यतायामकाररूपिण्यां लय इति ॐँकारशब्दस्याम्नायार्थः। त्रित्वं तु कायवाक्चित्तरूपेणैकं (क्य)प्रतिपादनार्थम्। अत एव तत्त्वपरिदीपि तत्त्वप्रकाशकमित्यर्थः॥३॥



 



भोर्ध्वगतं छोर्ध्वस्थितसमेतं टोर्ध्वस्थितं तदनु लेख्यम्।



डाधरयुतं षाधरगं षोर्ध्वस्थितयुक्तशोर्ध्वगतम्॥४॥



 



    अपरमाह-भोर्ध्वगतमित्यादि। भकारस्योर्ध्वगतं सकारः। स।  छोर्ध्वस्थितसमेतं टोर्ध्वस्थितमिति। छोर्ध्वस्थितेन ब (व)कारेण समेतं संयुक्तम्। टोर्ध्वस्थितं रेफः। तदनु लेख्यं तदनन्तर (रं)लिखनीयमित्यर्थः। र्व। डाधरयुतं षाधरगमिति। डकारस्याधरम् उकारः,तेन युतं षाधरगमिति बकारः। बु। षोर्ध्वस्थितयुक्तशोर्ध्वगतमिति। षकारस्योर्ध्वस्थितं धकारस्तेन युक्तं  संयुक्तं शकारस्योर्ध्वगतं दकारः। द्ध। लिख्यमिति सर्वत्र योज्यम्॥४॥



 



ञाधरयुतलृतलस्थं टाधरयुतपोर्ध्वसंस्थितं तदनु।



ठाधरगान्वितफोर्ध्वगमैवामयुतं हटान्तःस्थम्॥५॥



 



    अपरमाह- ञाधरयुतलृतलस्थमित्यादि। ञकारस्याधरगम् आकारः,तेन युतं लृकारस्य तलस्थं डकारः। डा। टाधरयुतपोर्ध्वसंस्थितं  तदन्विति। टकारस्याधरम् इकारस्तेन युतं पकारस्योर्ध्वसंस्थितं ककारः। तदनु तदनन्तरं लेख्यम्। कि। ठाधरगान्वितफोर्ध्वगमिति।ठस्याधरगम् ई,तेनान्वितं फकारस्योर्ध्वगं नकारः। नी। ऐवामयुतं हटान्तः स्थमिति। ऐकारस्य वाम एकारः। तेन युतं हकारटकारयोरन्तःस्थं यकारः। ये॥५॥



 



चसमध्यगतं ठसव्यगसमेतं भाधरसुसंस्थितम्।



तदनु हथमध्यगतं तवामगसंयुक्तं ठलमध्यगं पश्चात्॥६॥



 



     पुनराह-चसमध्यगमित्यादि। चकारसकारयोर्मध्यगं ब(व)कारः। व। ठसव्यगसमेतं भाधरसुसंस्थितमिति। ठसव्यगेन रेफेण समेतं संयुक्तं भकारस्याधरसुसंस्थितं जकारः। तदनु लेख्यमिति योज्यम्। ज्र। हथमध्यगतमिति हकारथकारयोर्मध्यगं वकारः। व। तवामगसंयुक्तं ठलमध्यगं पश्चादिति। तकारस्य वामगं णकारस्तेन युक्तं ठकारलकारयोर्मध्यगं रेफः। पश्चाल्लेख्यमिति शेषः। र्ण॥६॥



 



सर्वकलान्तफमध्यं तृतीयवर्गादिवामगसमेतम्।



णोर्ध्वयुतं लाधरगं छोर्ध्वस्थं भतलगं ठसव्ययुतम्॥७॥



 



     पुनराह- सर्वकलान्तफमध्यं तृतीयवर्गादिवामगसमेतमित्यादि। सर्वकलान्ता अःकारस्तस्य फकारस्य मध्यं नकारः। तृतीयवर्गस्यादिः टकारः। तस्य वामगम् ईकारस्तेन समेतं संयुक्तम्। नी। णोर्ध्वयुतं लाधरगमिति। णकारस्योर्ध्वम् एकारः,तेन युतं संयुक्तं लकारस्याधरगं यकारः। ये। छोर्ध्वस्थमिति। छकारस्योर्ध्वं ब(व)कारः। व। भतलगं ठसव्ययुतमिति। भकारस्य तलगं जकारः। ठसव्यं दक्षिणं रेफः,तेन युतं लेख्यमिति योज्यम्। ज्र॥७॥



 



तोर्ध्वगयुतं षाधरगं थोर्ध्वगसंयुक्तं णाधरगं पश्चात्।



फाधरगं ठाधरयुतं फोर्ध्वस्थं णोर्ध्वयुतं लाधरगम्॥८॥



 



    पुनरप्याह- तोर्ध्वगयुतं षाधरगमित्यादि। तकारस्योर्ध्वगम् ऐकारः,तेन युतं षकारस्याधरगं ब(व)कारः। वै। थोर्ध्वसंयुक्तं णाधरगं पश्चादिति। थकारस्योर्ध्वगम् ओकारः,तेन संयुक्तं णाधरगं रेफः पश्चाल्लेख्यमित्यर्थः। रो। फाधरगमिति फकारस्याधरगं चकारः। च। ठाधरयुतं फोर्ध्वस्थमिति। ठकारस्याधर ईकारः,तेन युक्तं फकारस्योर्ध्वस्थं नकारः। नी। णोर्ध्वयुतं लाधरगमिति। णकारस्योर्ध्वं एकारः। तेन युक्तं लाधरगं यकारः। ये॥८॥



 



डाधरशून्यसमेतं त्रिवतलगं चोर्ध्वस्थितं रतलम्।



थाधरयुतं शाधरगं ञाधरगसमायुक्तं चापि॥९॥



 



    पुनरप्याह-डाधरशून्यसमेतं त्रिवतलगमित्यादि। डकारस्याधर उकारः,शून्यं बिन्दुः,इन्दुसहितमित्युपदेशः। ताभ्यां समेतं संयुक्तं त्रयं च ततो वकारस्य तलगं हकारं चेति त्रिवतलगं हकारत्रयं ह्रस्वोकारत्रयसहितं हकारत्रयमित्यर्थः। हुँ हुँ हुँ। यद्यपि श्रीमच्छबरपादीयसाधनप्रक्रियायां हूँकारत्रयमभ्युपेतम्,तथापि भिन्नसाधनत्वादत्र ह्रस्वस्वीकारोऽप्यविवाद एव। चोर्ध्वस्थितमिति चकारस्योर्ध्वसंस्थितं फकारः। रतलमिति रेफस्य तलं टकारः। एष फट्कारोद्धारेऽपि। फट्कारत्रयमुपदेशाद् बोद्धव्यम्। थाधरयुतं शाधरगं ञाधरगसमायुक्तं चापीति। थकारस्याधरगं वकारः,तेन युतं शकारस्याधरगं सकारः। ञकारस्याधरगेणाकारेण समायुक्तमिति तम्। स्वा॥९॥



 



सयमध्यगं झवामगसमेतमुक्ताक्षरकृतो रहस्यः।



मन्त्रोऽयमशनिदेव्या लेख्यो जप्यो विभाव्यश्च॥१०॥



 



      पुनरप्याह-सयमध्यगं झवामगसमेतमिति सकारयकारयोर्मध्यगं  हकारः। झकारस्य वामगेन आकारेण समेतं संयुक्तम्। हा। उक्ताक्षरकृतो रहस्यमिति। उक्ताक्षरेभ्य आलिकालिभ्यः कृत आहृत आकृष्टोऽयं रहस्योऽप्रकाश्यः। परमपदप्राप्तिहेतुत्वात्। कोऽसावित्याह- मन्त्रोऽयमशनिदेव्या इति। अशनिदेवी वज्रदेवी कोलास्या,तस्या अयं मन्त्रः। किंभूतः?लेख्यो जप्यो विभाव्यश्चेति। लेख्यः सिन्दूरपातविद्याविधानादौ। जप्यो भावनाजनितखेदानन्दनम्। विभाव्यो देवीकमलोदरे। चकारस्तु लक्षणसूचनार्थः॥१०॥



 



चिन्तामणिः कल्पकुठाग्रकुम्भः



श्रीकामधुग्धेनुरपि प्रशस्ताः।



ते साध्यमाना ददतीह वित्ता -



न्ययं तु सौख्यं सधनं ददाति॥११॥



 



इति तत्त्वज्ञानसंसिद्धौ मन्त्रोद्धारविधिः॥



 



     अनुशंसामाह-चिन्तामणिरित्यादि। अयं तु मन्त्रराजः सधनं सौख्यमनुत्तरसुखं ददातीति सम्बन्धः। चिन्तामणिः वसुवर्षरत्नविशेषः। कल्पकुठः कल्पवृक्षः,अग्रकुम्भो भद्रघटः,श्रीः सम्पत्तिः,कामो अभिलाषः,तत्प्रेरिका धेनुः श्रीकामधेनुरित्यर्थः। ते साध्यमाना इति। ते चत्वारोऽपि साध्यमाना इह संसारे वित्तानि धनानि ददति अर्पयन्ति,अयं तु भुक्तिमुक्ती प्रददातीत्यर्थः॥११॥



 



इति श्रीमर्मकलिकानामतत्त्वज्ञानसंसिद्धिपञ्जिकायां मन्त्रोद्धारविधिः॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project