Digital Sanskrit Buddhist Canon

4 शिष्यानुग्रहविधिः

Technical Details


 



[अथ शिष्यानुग्रहविधिः]



 



अध्येषितश्च बहुशः शिष्यैः कृतमण्डलैः पदाब्जनतैः।



मन्त्री तिथौ दशम्यां विदधीतानुग्रहं तेषाम्॥१॥



 



     शिष्यानुग्रहविधिमाह- अध्येषित इत्यादि। मन्त्री गुरुस्तेषां  शिष्याणामनुग्रहं विदधीतेति सम्बन्धः। अध्येषितश्चेति। शिष्यैर्बहुशो याचितः। चकार एवार्थः। कृतमण्डलैरिति। कृतगुरुमण्डलैः। पदाब्जनतैरिति पादपद्मपतितैः। तिथौ दशम्यामिति। कृष्णायामन्यासां समयतिथित्वेनास्वीकारात्। योगिनीनामनुपलम्भस्वरूपत्वात् कृष्णपक्ष एवाधिकारात्॥१॥



 



संपूज्य मन्त्ररूपां देवीं चक्रस्थितां विहितयोगः।



आदाय मन्त्रजप्तं परमाद्यं निष्क्रमेत् तस्मात्॥२॥



 



     गुरोः कृत्यान्तरमाह- संपूज्येत्यादि। मन्त्री निष्क्रमेदिति सम्बन्धः। तस्मादिति देवीपूजास्थानात्। किंकृत्वेत्याह-संपूज्येति। देवीमभ्यर्च्य। मन्त्ररूपामिति मन्त्रोद्धारस्थितमन्त्ररूपाम्। चक्रस्थितामिति। ससिन्दूरमुकुरतललिखितत्रिकोणचक्रस्थिताम्। तथा च-



 



     त्रिदलसरोरुहमध्ये सिन्दूरक्षोदधूसरे मुकुरे।



     मन्त्रमयीमभिलिखितां गुरुरपि संपूज्य निर्गच्छेत्॥



 



इति साधनविभङ्गेऽस्मद्गुरवः। विहितयोग इति। कृतबाह्याध्यात्मप्रज्ञासङ्गः। प्रथमं किञ्चिन्मदनपानसमुत्तेजितचित्तवीरः ,दूरोत्सारितविकल्पगणः समुल्लासितशून्यता च। ततः प्रज्ञासङ्गेन समुपजातपरमानन्दो विहितयोग इत्याम्नायः। आदायेति गृहीत्वा। परमाद्यं मदनसहितपात्रम्। मन्त्रजप्तमिति। प्रे (त्र्य)क्षराधिष्ठितम्। शिष्यतोषणार्थं स्वयमेव पात्रं  गृहीत्वा निर्गच्छेदित्यर्थः॥२॥



 



अथ विहितपञ्चमण्डलमूर्ध्वस्थं दत्तदक्षिणं शिष्यम्।



कुसुमस्रजं दधानं ध्यातकेकनाथं गुरुः पश्येत्॥३॥



 



     गुरोः कृत्यान्तरमाह-अथेत्यादि। अथानन्तरं गुरुः शिष्यं पश्येदिति सम्बन्धः। विहितपञ्चमण्डलमूर्ध्वस्थमिति। विहितपञ्चमण्डलमध्ये मण्डलमूर्धनि समुपस्थितम्। ऊर्ध्वस्थितमित्युपदेशाद् बोद्धव्यम्। ऊर्ध्वस्थमिति योगविभागाद् वा। तत्पक्षे च मण्डलमध्यस्थमित्युपदेशः। गोमयादिना विना मन्त्रं पञ्चमण्डलिका कर्तव्येत्याम्नायः। विहितपञ्चतथागतमण्डलं शिष्यं पश्येदिति च परम्परां केचिन्मन्यन्ते। दत्तदक्षिणमिति। धनकनकदासदासीस्वशरीरनिर्यातनानि समीहम्। कुसुमस्त्रजं दधानमिति। ईषद्विकसितसंपुटीकृत्य (त)हस्तद्वयेन पुष्पमालाधरम्। ध्यातके(क)नाथमिति। ध्यातः क एव के शिरसि नाथो गुरुर्येन स तथा। आवेशमुत्पादयितुं पश्येदित्यभिप्रायः॥३॥



 



तदनु च यथोक्तं देवीचक्रं प्रोद्यन्मरीचिकं रयवत्।



ध्यात्वाऽन्तवासिगात्रे वज्रभृत् तस्य सन्दद्यात्॥४॥



 



     अपरकृत्यमाह-तदनु चेत्यादि। तदनु दर्शनानन्तरं वज्रं बिभर्तीति वज्रभृन्मदनपात्रं तस्य शिष्यस्य गुरुर्दद्यादर्पयेदिति सम्बन्धः। ध्यात्वेति। चिन्तयित्वा। यथोक्तं देवीचक्रं सिन्दूरपातसमयोक्तत्रिकोणचक्रम्।



प्रोद्यन्मरीचिकमिति स्फुरत्किरणं च। रयवदिति वेगेन भ्रमत्। अन्तवासिगात्र इति। शिष्यस्य शरीरे। नाभेरधोभागे धर्मोदयायामित्युपदेशाद् बोद्धव्यम्। अन्तेवासीति पाठे त्रयोदशमात्रत्वात् छन्दोभङ्ग इत्यनुक्तसमासो न स्वीकर्तव्यः। एतद्गाथार्थ उपदेशाद् बोद्धव्य इति केचिदेनां न लिख्य(ख)न्त्यपीति चक्रोपदेशो लिख्यते।



 



     आदौ च यल्लोहितपुष्पपूर्वमनामिकालेख्यमवादिचक्रम्।



     त्रिकोणकं तद्विदधीत धीमान् सूँ वँ क्षमिति त्र्यङ्गुलमुज्ज्वलञ्च॥



 



     सिन्दूरपाते त्रिदलं सरोरुहं बाणाग्निसंख्याक्षरमन्त्रपूर्णम्।



     वँकारयुक्तं वरटकञ्च कुर्यात् दिशासु च स्वस्तिकमब्धिसंख्यम्॥



 



     श्रीवज्रदेवीकमलेऽपि काम्ये धर्मोदयान्तर्गतमन्त्रचक्रम्।



     यदुक्तमासीत्तदपि त्रिकोणं भ्रमेच्चक्र (लं)ज्ञानविदांवरं च॥



 



     शिष्यस्य चावेशविधौ सरोरुहं नाभेरधः सद्गुरुभावनीयम्।



     यन्मन्त्रपूर्णं तदपि त्रिकोणं षट्कोणमाम्नायविहीनमेव॥



 



     पटे सरोजं त्रिदलं विदध्याद् यत्रास्ति देवी स्वयमेकिकैव।



     षड्देवतीवृन्दविभूषितं वा षट्कोणमेतद्द्वितयञ्च दृष्टम्॥



 



     भूमौ पुनर्मण्डलकृत्यकाले षट्कोणमन्त्रौजमुषन्ति सन्तः।



     देव्यश्च पूज्याः षडपीह कोणे पूर्वादिषु स्वस्तिकमण्डलं च॥४॥



 



एवं स्यादावेशस्तस्योत्कलिका प्रकम्पनं बाष्पः।



पातो ज्ञानोत्पादः स्वासारूप्यं चापि परिपाटयाः॥५॥



 



       आवेशलक्षणमाह- एवमित्यादि। एवं क्रमेण तस्य शिष्यस्य। आवेशो देवताधिष्ठानं स्यादिति सम्बन्धः। आवेशलक्षणमाह-उत्कलिकेत्यादि। उत्कलिका रोमाञ्चः। प्रकम्पनं प्रकृष्टकम्पः। बाष्पो लोलापातः। पातः पतनम्। ज्ञानोत्पादः भूतभविष्यद्वर्तमानज्ञानलाभः। सर्वमेव कथयतीति भावः। स्वा (सा)रूप्यं चेति। अनया परिपाट्या आविष्टस्य शिष्यस्य स्वरूपपरिज्ञानमपि भवेन्न केवलमावेश इत्यर्थः। विना स्वरूपपरिज्ञानं शिष्यानुग्रहानुपपत्तेः॥५॥



 



तदनु कथयेत् समाधिं पूजामन्त्रं च वज्रयोगिन्याः।



श्रद्धान्वितस्य गुणिनो गुरुबुद्धाभिन्नसद्भक्तेः॥६॥



 



      अनुत्तरकृत्यमाह- तदन्वित्यादि। शिष्यजिज्ञासनानन्तरम्। गुरुः समाधिं कथयेदिति सम्बन्धः। पूजामन्त्रं च वज्रयोगिन्या इति। किरवक्त्रायाः पूजार्थं विहितं मन्त्रमपि कथयेत्। श्रद्धान्वितस्येति। सत्यरत्नत्रयकर्मफलादिसंजातसम्प्रत्ययस्य। बुद्धोऽस्ति,धर्मोऽस्ति,  संघोऽस्ति,पापमस्ति,पुण्यमस्तीत्यादिविशिष्टवासनावासितान्तः करणस्येति भावः। गुणिन इति। अशेषगुणशालिनः। गुरुबुद्धाभिन्नसद्भक्तेरिति। गुरुश्च बुद्धश्च गुरुबुद्धौ,तयोरभिन्ना सम्यग् भक्तिर्यस्य स तथा। तथा चोक्तम्-



 



         गुरुर्बुद्धो गुरुर्धर्मो गुरुः संघस्तथैव च। इति।



 



   अत एव नाथाङ्कक इत्युक्तम्। वैरोचनस्थाने गुरोरेवोपादानात्॥६॥



 



कथयेन्न योगमेनं सद्यः प्रत्ययकरं सुसिद्धं वा।



श्रद्धाविरहितमनसो भक्तिविहीनस्य शिष्यस्य॥७॥



 



     निषेधमाह- एनं योगं शिष्यस्य न कथयेन्न प्रकाशयेत्। किंभूतस्येत्याह-श्रद्धाविरहितमनस इति। श्रद्धात्यक्तचित्तस्य। भक्तिविहीनस्येति। गुरुबुद्धयोरभक्तस्य। सद्यः प्रत्ययकरमिति। अचिरप्रतीतिजननम्। संप्रत्ययकरमिति पाठे मात्राधिकं षष्ठगणभङ्गश्च। सुसिद्धं वेति सुष्ठु सिद्धि[मन्त]मपि सुनिष्पन्नं वा। सुसिद्धिदमिति पाठोऽप्यपपाठः। पूर्वोक्तदोषप्रसङ्गात्॥७॥



 



विदधाति यस्तु पूजां देवीचक्रस्य मन्त्रयुक्तस्य।



तस्यापयान्ति भयान्यष्टौ पापानि च महान्ति॥८॥



 



      अनुशंसामाह- विदधातीत्यादि। तस्य योगिनो भयान्यपयान्ति नश्यन्तीति सम्बन्धः। अष्टाविति हरिकरिदहनप्रभृतिजनितानि। पापानीति पञ्चानन्तर्यप्रभृतीनि। महान्तीति समुच्छ्रितानि भयानि। उपशमकारणमाह- विदधातीत्यादि। यो योगी देवीचक्रस्य भगवत्याः षडा(ड)रचक्रस्य पूजां करोति तस्येत्यर्थः। मन्त्रयुक्तस्येति। देवीमन्त्रषडयोगिनीमन्त्रकृतार्चनस्य। अथवा पूर्वोक्तसिन्दूरमन्त्रसंपूर्णत्रिकोणस्य॥८॥



 



दुर्भगता दारिद्रयं व्याधिजरादुःखदौर्मनस्यानि।



भ्रमकलिकलुषक्लेशाः पीडा नानाविधाश्चापि॥९॥



 



      अपरानुशंसामाह- दुर्भगतेत्यादि। दुर्भगता लोकेष्वसौभाग्यम्। दारिद्रयं निःस्वता। व्याधिः कष्टादिः। जरा वार्धक्यम्। दुःखं कायचित्तोपहतिः। दौर्मनस्यं चित्तदुःखम्। भ्रमो भ्रान्तिरधर्मे धर्मबुद्धिः,यथा तीर्थिकानां हिंसा स्वर्गाय। कलिर्विवादः। कलुषं पापं कलिमाहात्म्योपदिष्टकलुषं वा। क्लेशा रागद्वेषमोहाः। पीडा नानाविधाश्चेति। नानाप्रकारभूतप्रेतपिशाचाद्युपद्रवाश्चेति। चकारः समुच्चये। अपिशब्द एवार्थे। अपयान्तीति पूर्वोक्तश्लोकेन सम्बन्धः॥९॥



 



यो जपति चक्रमन्त्रं ध्यात्वा हृदये निरोधवाचाऽसौ।



प्राप्नोत्यष्टौ सिद्धीः पञ्चाभिज्ञास्तथाष्टगुणान्॥१०॥



 



     अपरानुशंसामाह-यो जपतीत्यादि। असौ अष्टौ सिद्धिरञ्जनगुटिकादीनि प्राप्नोतीति सम्बन्धः पञ्चाभिज्ञा इति। दिव्यचक्षुः,दिव्यश्रोत्रम् ,परचित्तज्ञानम् ,आकाशगमनम्,पूर्वनिवासानुस्मृतिश्च। तथाऽष्टगुणानिति। दशबलवैशारद्यादीन्,अणिमादीन् वा। य इत्यादि। यश्चक्रसहितं मन्त्रं ध्यात्वा हृदये मनसि निधाय। जपति,तस्य स्यादेवेत्यर्थः।  निरोधवाचेति वाक्संयमेन॥१०॥



 



ध्यायति यः किरवक्त्रां प्रतिदिवसं यत्नतश्चतुःसन्ध्यम्।



हरिहरहिरण्यगर्भैर्जेतुमशक्यां मृतिं जयति॥११॥



 



      अपरानुशंसामाह- ध्यायतीत्यादि। यः किरवक्त्रां कोलमुखीं ध्यायति अतियोगेन मनस्यारोपयति। स मृतिं जयतीति सम्बन्धः। किंभूतां मृतिमित्याह-हरिहरेत्यादि। केशवादिभिरपि जेतुमशक्यामपराजितामित्यर्थः। प्रतिदिवसमिति नित्यमेव। यत्नत इति पूजादिपुरःसरम्। चतुःसन्ध्यमिति प्रभातमध्याह्नसायाह्नार्धरात्रेषु॥११॥



 



वस्त्रान्नपानधनधान्यविशालभूमि-



प्रासाददिव्यशयनासनसाधनानि।



तस्योद्भवन्ति दयिता विविधाश्च विद्या



यो भावयत्यशनिकोलमुखीं सचक्राम्॥१२॥



 



इति तत्त्वज्ञानसंसिद्धौ सानुशंसाशिष्यानुग्रहविधिः॥



 



      अपरानुशंसामाह- वस्त्रान्नेत्यादि। योऽशनिकोलमुखीं वज्रकोलास्यां भावयति तस्य वस्त्रादय उद्भवन्ति सम्पद्यन्त इति सम्बन्धः। सचक्रामिति। धर्मोदयमध्यमन्त्रपूर्णचक्रसहिताम्। वस्त्रं चीनांशुकम्। अन्नं भक्षादिकम्। पानं पानकादि। धनं रत्नादि। धान्यं यवगोधूमादि। विशालभूमिः विपुलतरा वसुन्धरा। प्रासादो रमणीयगृहम्। दिव्यशयनं विचित्ररत्नखचितपटतूलिका। आसनं सिंहासनादि। साधनं गजवाजिप्रभृतयः। दयिताश्चेति हृदयङ्गमा युवतयः। विविधा इति नानाप्रकारशृङ्गारगीतवाद्याभिज्ञाः। दिव्या इति देवैरपि काम्याः॥१२॥



 



इति मर्मकलिकायां तत्त्वज्ञानसंसिद्धिपञ्जिकायां शिष्यानुग्रहविधिः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project