Digital Sanskrit Buddhist Canon

3 भावनाविधिः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version 3 bhāvanāvidhiḥ


 



[अथ भावनाविधिः]



 



अथ कृतबाह्यार्चनविधिरुरुकरुणो निर्मितारिरमध्याब्जे।



व्यसुहृदयोष्णगुबिम्बे ध्यायात् पूर्वोदितां देवीम्॥१॥



 



अथेत्यादि। अथानन्तरं देवीं ध्यायादिति सम्बन्धः। पूर्वोदितामिति। विग्रहवतीं सहजरूपिणीं पूर्वप्रतिपादितां पूर्वतन्त्रे श्रीसंवरार्णवादौ भगवत्प्रतिपादितां वा। कृतबाह्यार्चनविधिरिति। कृत एव बाह्ये दर्पणतले अर्चनविधिर्येन स तथा। उरुकरुण इति। उरुर्महती करुणा कृपा यस्य। कुत्र ध्यायादित्याह-निर्मितारि(र)मध्याब्ज इति। निर्माणचक्रमध्यपद्मे। व्यसुहृदयोष्णगुबिम्ब इति। विगता असवः प्राणा यस्य स व्यसुर्मृतकः,तस्य हृदयं  व्यसुहृदयं तस्मिन् ,उष्णा गौर्यस्य स उष्णगुः सूर्यस्तस्य बिम्बे मण्डले मृतकहृदयगतसूर्यमण्डल इत्यर्थः।



 



      व्याख्यानान्तरमपि- देवीं ध्यायात्। महारागरसेन दीव्यतीति देवी। पूर्वोदितामिति व्याख्यातमेव। किंभूतः सन्नित्याह-कृतबाह्यार्चनविधिरिति। उह्यत इति वाह्या अवधूती। बाह्याङ्गनात्वात् कर्ममुद्रा वा। कृत एव बाह्यायामर्चनविधिः सुखोदयो येन स तथा। उरुकरुण इति। कं सुखं रुणद्धीति करुणा बोधिचित्तम् ,उरुर्महती करुणा यस्य स उरुकरुणः। कुत्र ध्यायादित्याह- निर्माणारि (र)मध्याब्ज इति। प्रभास्वरान्मनोनिर्मितं च तदरि त्रिदलचक्रं चेति निर्मितारि धर्मोदया ,तन्मध्यपद्मे। व्यसुहृदयोष्णगुबिम्ब इति। शवहृदयसूर्यबिम्बे। सुविशुद्धधर्मधातुसमुपजातज्ञानालोक इत्यर्थः। तथा च-



 



     निरात्मकत्वात् खलु धर्मधातोर्विशुद्धितः सुप्तशवो विमानः।



     अनालयं तत् सुविशुद्धरूपं प्रतीतये (यते)तद्‍हृदये शवस्य॥



 



     प्रज्ञोष्णगुर्ज्ञानमयं विशुद्धं विभावसोर्मण्डलमुग्रतेजः।



     तत्रोदितेयं सुविशुद्धधर्मधातुस्वरूपा जगदेकरूपा॥१॥



 



सन्ध्यासिन्दूरवर्णां खरकरनिकरापास्तसप्तार्ककान्ति



कर्त्रीं सर्वार्तिहन्त्रीं स्फुरदमितघृणिं बिभ्रतीं सव्यदोष्णा।



बिभ्राणां वामदोष्णा कमलमतिसितं रक्तपूर्णध्वजाढयां



काल्या दम्भोलिकाल्या परिगतशिरसं मुक्तमूर्ध्वोत्थहस्ताम्॥२॥    



 



भावनामाह-सन्ध्येत्यादि। सन्ध्यासिन्दूरयोरिव वर्णो यस्याः सुविशुद्धरागमयीत्वात् ,तां ध्यायादित्यनुवर्तनीयम्। खरकरेत्यादि। खरस्तीक्ष्णः करनिकरो रश्मिसमूहस्तेन अपास्ता निराकृता सप्तार्कस्य सप्तसूर्यस्य कान्तिर्यया सा तथा। पुनः किंभूतां कर्त्रीं विधात्रीं सर्वार्तिहन्त्रीमिति। सर्वदुःखच्छेदिकाम्। स्फुरदमितघृणिमिति। स्फुरदमितोऽपर्यन्तो घृणिर्दीधितिर्यस्याः। सव्यदोष्णेति दक्षिणबाहुना। पुनः किंभूतां कमलं बिंभ्राणां कपालं धारयन्तीम्। अतिसितमिति निर्मलम्। रक्तपूर्णमिति। चतुर्माराणां रक्तेन पूरितत्वात्। वामदोष्णेति वामबाहुना। ध्वजाढयामिति वामपार्श्वधृतखट्वाङ्गाम्। परिगतशिरसमिति। अनुगतमस्तकाम्। कयेत्याह- दम्भोलिकाल्येति। दम्भोलिरेव दम्भोलिका। स्वार्थे कन् कुलिशपङ्क्तिरित्यर्थः। किंभूतया काल्येति कृष्णया ,उपदेशात् कपालावलीमण्डितमस्तके (कये)ति बोद्धव्यम्। कं शिरः ,तदाल्या तत् पङ्क्त्या परिगतशिरसमिति वा। एतत्पक्षे वज्रावली कृष्णेत्युपदेशः। मुक्तमूर्ध्वोत्थहस्तामिति। मुक्तं यथा भवति तथोर्ध्वोत्थहस्ताम्। मुक्तमूर्ध्वोत्थाः केशकलापा मुक्तास्तत्पर्यन्तमीषल्लग्नो हस्तो दक्षिणकरो यस्या   इति वा॥२॥



 



मुण्डालीमण्डिताङ्गीं मुखगलदसृजं स्वादगुं मुक्तनादां



सव्ये चोर्ध्वं किरास्यां वरसुभगमनाक्क्रोधमूलाननान्ताम्।



सानन्दां सानुरागां विविधरसयुतामर्धपर्यङ्कनृत्यां



मुद्राभिर्मुद्रिताङ्गीं व्यपगतवसनां षोडशाब्दां वराङ्गीम्॥३॥



 



     अपरं विशेषणमाह- मुण्डालीत्यादि। नरशिरोमालामण्डितशरीराम्। मुखगलदसृजमिति। मुखात्पद्ममुखाद् गलदसृग् रक्तं यस्याः सा तथा। महारजोयोगाच्चतुर्माररक्तपानाद्वा वदनगलदसृजम्। स्वादगुमिति। स्वादो रसः ,स च षट्प्रकारः। स्वाद एव षडेव गावश्चक्षूंषि यस्याः सा तथा। प्रतिमुखं नयनत्रयत्वात्। मुक्तनादामिति मुक्तमहासुखजनितनादाम्। किरास्यामिति शूकरवक्त्राम्। कुत्रेत्याह- सव्य इति दक्षिणपार्श्वे।  ऊर्ध्वमिति क्रियाविशेषणम्। वरसुभगेत्यादि। वरं विशिष्टं सुभगं मनोहरं मनाक् ईषत् क्रोधमेव मूलं प्रधानमाननं मुखम्,अन्यन्मुखं शूकरमुखं च यस्याः सा तथा। तामिति द्वितीयैकवचनं वा। सानन्दामिति। सहजानन्दमग्नाम्। सानुरागामिति महारागमयीम्। विविधरसयुतामिति। शृङ्गारादिनवनाट्यरससहिताम् ,सकलक्लेशोपक्लेशशमनात्। अर्धपर्यङ्कनृत्यामिति।  अर्धपर्यङ्केन नृत्यन्तीं। कृतकृत्यत्वात्। मुद्राभिर्मुद्रिताङ्गीमिति। मुद्राभिः कण्ठिका-रुचक-कुण्डल-शिरोमणि-यज्ञोपवीतस्वरूपपञ्चमुद्राभिः सांवरीभिः सम्यग् मुद्रितमङ्गं यस्याः सा तथा। तथा च श्रीचक्रसंवरे-



 



      कण्ठिकारुचककुण्डलशिरोमणिविभूषितम्।



      यज्ञोपवीतं भस्मेति मुद्राषट्कं प्रकीर्तितम्॥इति।



 



    एता एव भस्मपरिहारेण देव्याः पञ्चमुद्रा बोद्धव्या इत्याम्नायः। तथा च शबरपादीयसाधनेऽपि "पञ्चमुद्राविभूषिताम्"इति। चक्रिका मेखला चोपमुद्रा बोद्धव्या। षण्मुद्रामुद्रिताङ्गीमिति पाठे एतत्प्रतिपादितपञ्चमुद्रामध्य एव मेखलाया अन्तर्भावात् षण्मुद्रा बोद्धव्याः। मुद्रयोः (द्रायाः)षट् मुद्राषडिति षष्ठीसमासश्च स्वीकर्तव्यः। उभयपक्षेऽपि षष्ठतथागतविषये गुरुपरम्परैवाश्रयणीयेति। व्यपगतवसनामिति। नग्नाम् ,आवरणद्वयरहितत्वात्। षोडशाब्दामिति। षोडशकलासम्पूर्णचन्द्रत्वात् ,षोडशानन्दमयीत्वाद् वा। यदुक्तं श्रीकालचक्रे-



 



    प्रज्ञाधृग् येन चक्रे शिरसि धृतमिदं शुक्रवैराग्यसौख्य-



    मुष्णीषे ब्रह्मरन्ध्रेऽक्षरपरमसुखं षोडशानन्दपूर्णम्। इति।



 



वराङ्गीमिति सकलसुकुमारादिश्लाध्ययौवनगुणोपेतत्वात्॥३॥



 



ज्ञानाकर्षादिविधिं प्रागिव कृत्वा विधानविन्मन्त्री।



स्वस्तिकमलिकाभिमुखं भ्रमन्तमेकं द्रुतं ध्यायात्॥४॥



 



    कृत्यान्तरमाह- ज्ञानाकर्षादीत्यादि। मन्त्री भावकः। स्वस्तिकं नन्द्यावर्तं ध्यायात्। सुष्ठु अस्ति कं सुखं यस्मात् स स्वस्तिको बिन्दुः। चण्डालीकरसंगमादावर्तयति तद्बिन्दुविशुद्धया चिन्तनीय इत्युपदेशः। तथा च शबरपादीयसाधने-"कोलास्यासन्निधौ दृष्ट्वा नन्द्यावर्तं तु सद्बुधः"। तस्यार्थः-सुखरूपिण्या देव्या सह नन्दयतीति नन्दी बिन्दुः। तस्य च चण्डालीसङ्गमादावर्तान्नन्द्यावर्त इति। भ्रमन्तमित्यविच्छिन्नं कुलालचक्रवद् भ्रमन्तम्। अलिकाभिमुखमिति। अलमिवालं दंष्ट्रा तदस्यास्तीत्यलिकं मस्तकं तदभिमुखम्। अथवा वज्रडाके "अलिकं पशुः"इत्यष्टमे छोमापटले प्रतिपादितम्। तदभिप्रायाद्वा। अलिकाभिमुखं पशुमुखाभिमुखमिति बोद्धव्यम्। एकमिति एकमेव। द्रुतमिति। अनवरतभ्रमणयोगात्। किंकृत्वेत्याह-विधानविदिति उपदेशज्ञः॥४॥



 



तदनु वियद्वति धातौ त्रिकूटगिरिगह्वरे भ्रमच्चक्रम्।



प्रागुक्तमिव ध्यायाद्रक्तं जाज्वल्यमानं सत्॥५॥



 



     विशेषकर्तव्यमाह-तदन्वित्यादि। तदनन्तरं चक्रं ध्यायात्। कुत्र  तद्धयातव्यमित्याह- वियद्वति धाताविति। वियद् गगनं शून्यं शुषिरमिति यावत् ,तेन युक्तो वियद्वान् देवीकमलम्। दधातीति धातुः ,पृथिवीधातुसाधर्म्यात् तत्र देवीकमलोदर इति वाक्यार्थः। त्रिकूटगिरिगह्वर इति। त्रिकोणत्वात् त्रिकूटं दुरारोहत्वात् प्रपातभूतत्वाच्च गिरिस्तस्य गह्वरेऽभ्यन्तरे देवीकमलोदरगतपरधर्मोदयायामिति भावः। किंभूतं चक्रम् ?भ्रमत् प्रागुक्तमिवेति। यथा सिन्दूरपातसमये शिखिकोटिकं लिखितं तथैवेत्यर्थः। रक्तमिति लोहितम्। जाज्वल्यमानमिति प्रकाशमयत्वात्। सदिति शोभनमनुपमसुखयोगात्॥५॥



 



तत् स्थिरमिवातिवेगान्निर्वातनिष्कम्पदीपमिव दीप्तम्।



द्रावयदुरु सुखचक्रं स्रवदमृतासारकृतसवनम्॥६॥



 



      विशेषमाह- तत् स्थिरमित्यादि। तदेव चक्र मतिवेगादतिशयितचलनात् स्थिरमिव निश्चलमिव ध्यायात्। अत्रोपदेशः- अनन्तरश्लोकस्थितपश्चाच्छब्दोत्थपश्चादित्यपरक्रियापदाच्चक्रभावनानन्तरं चण्डालीरूपं निर्वातनिष्कम्पदीपमिव दीप्तं निश्चलप्रदीपवद् देदीप्यमानं पश्येदिति बोद्धव्यम्। एतन्निर्वातनिष्कम्पदीपमिवेत्याद्यव्यभिचारविशेषणदीप्तशब्दस्य पुनरुक्तस्योपादानाच्च भगवत्याश्चण्डाल्या एवंरूपस्य सकलमविकलं नपुंसकशब्देन विशेषणमित्याम्नायविदः। अन्यथा संवृतिपक्षे चण्डालीदर्शनमेव न स्यात् ,अनुक्तत्वात्। एतदेव वा चक्रं चण्डालीरूपं स्यात्। द्वयमप्यसंप्रदायमिति तद् व्याख्यानं परिहृत्योच्यते किंभूतं चण्डालीरूपं द्रावयत् उरु महत् सुखचक्रं द्रावयत् द्रुतापन्नं कुर्वत्। स्रवदमृतासारकृतसवनमिति। महासुखचक्रादमृतस्रवणकृतस्नानम्॥६॥



 



कायत्रयस्वभावं परमं सहजात्मकं जगद्‍व्यापि।



स्फुरदमितशातसन्ततिं पश्येत् पश्चान्मुखः पश्चात्॥७॥



 



     कायत्रयस्वभावमिति। धर्मसंभोगनिर्माणस्वरूपमेकलोलीभूतत्वात्। परममिति। असाधारणरूपत्वात्। परमतिशयितं सहजक्षणं माति परिच्छिनत्तीति वा परमम्। सहजात्मकमिति। महासुखरूपत्वात्। जगद्वयापीति। तद्विलक्षणस्यान्यस्याभावात्। यद्वा जगद्वयापि चेति जगद्वयापि जगतोऽपि तत्स्वरूपत्वात्। स्फुरदित्यादि। स्फुरन्ति (न्ती)अमिता अनवच्छिन्ना शातस्य सुखस्य सन्ततिर्यस्मात् तत् तथा। पश्चान्मुख इति। पश्चिमाभिमुख एव देवीं भावयेदिति नियमः। पश्चान्निर्माणचक्राद् वँकाररूपिणीं देवीमिन्दुबिन्दुस्थितनादरूपरेखया ऊर्ध्वं गच्छन्तीं यावदेवोक्तविशेषणसहितां भावयेदित्याम्नायः। सा च रेखारूपिणी भगवती चक्रत्रयसमुद्भेदे महासुखरूपमासाद्य महासुखमयं स्वस्तिकं प्रवेश्य महासुखचक्रं गत्वा महाज्वालावलीविलीनसच्छिद्रघटघृतेनेवानवरतस्रवदमृतद्रवेणात्मानं स्नापयन् स्फुटमेवाचिन्त्यपदे विश्रमेदिति विशेषः।



 



      व्याख्यानान्तरे तु चण्डाल्याः प्रथममेवोक्तत्वात् चक्रस्यैव विशेषणमेतद् बोद्धव्यम्। प्रथमतश्चक्रमुक्तविशेषणविशिष्टं ध्यायात्। पश्चाद् महा सुखचक्रं भावयेत् द्रुतापन्नं कारयेत् पश्येत्। न तु महासुखचक्रमत्र बोद्धव्यं स्फुरदमितासारकृतसवनमिति ,चण्डालीज्वलनात्। तस्य चाधः स्थितत्वात्। तत्र च श्रीमति चण्डालीयोगे सकलशक्तिनिधाने गुरुवाक्यादिषु संयोगशक्तिसमुत्पादितविशिष्टरागवत् ,इक्ष्वादिषु पीडनशक्तिसमुपजात दिव्यरसवत् ,काष्ठादिषु शयनीयशक्तिसमुत्पादितमहालोकवत् ,मैथुनेषु दम्पतीप्रीतिशक्तिसमुत्पादितसत्प्रसववत् ,क्षीरादिषु धारापातशक्तिसमुत्पादितसारवत् ,नवनीतेषु ज्वालाशक्तिसमुत्पादितविशिष्टसारवत् ,मृत्तिकादिषु  आवर्तशक्तिसमुत्पादिततैजसवत् ,द्राक्षादिषु भैषज्यशक्तिसमुत्पादित बलविशेषवत् ,मन्त्रादिष्वाकर्षणशक्तिसमुत्पादितसकलवाञ्छितवत् अनुष्ठानात् सकलमविकलमेवोत्पद्यते। अननुष्ठानात्तु श्रावकाणामिव महायानयायिनामपि समूलमेव सर्वमालूनं विशीर्णम्। तथा च-



 



      संयोगात् चक्रपद्माभ्यां पीडनीयं सरोरुहम्।



      क्रमशो मथनीयञ्च प्रीतिमुत्पाद्य तात्त्विकीम्॥



 



      धारापातेऽपि च गिरेर्ज्वालाशक्तिश्च वं-भवा।



      आवर्तशक्तिर्ज्वालाया  महारागौषधीवधूः॥



 



      आकर्षणशक्तिः पवनात् कथं न स्यान्महोदयः।



      अननुष्ठानदोषेण कारणैः सह नश्यति॥



 



      अथ भगवत्येवात्मानं सकलसत्त्वनिस्तारणार्थमेव प्रतिपादितवतीति विशुद्धिरभिधीयते। तथा च साधनविभङ्गे सिन्दूरपातविशुद्धावस्मद्गुरवः-



 



      प्रीतेयं किरवक्त्रा यद्यपि सिन्दूरपाततो मुकुरे।



      अध्यात्मरूपदेवीपूजा श्रेष्ठा तथापीह॥



 



      वज्रमभेद्यज्ञानधारणात् तस्याम्बुजं च मदनं च।



      वज्रधरशब्दवाच्यं तदुपरि शब्दात्तदावलम्ब्य॥



 



      मुकुरमिव निर्मलतरे चेतसि रागं विशुद्धमिव भुजगभवम्।



      विन्यस्य विकिर बाह्याभ्यन्तरधर्मोदयामथवा॥



 



      मन्त्रालीमिव मननात्त्राणान्मन्त्राक्षरं विलिख बीजम्



      काञ्चनशलाकयैव स्फुटमवधूत्या सुशोभनया॥



 



      तत्रोदिता विकलुषा सुविशुद्धज्ञानरूपिणी याऽऽसीत्।



      उज्झितसकलविवादा तामिह परितोषयेद् योगी॥



 



      मुण्डाली मण्डिताङ्गीयमालिकाल्योर्विधारणात्।



      महासुखमयित्वेन रजोयोगयुता सदा॥



 



      यद्वाननगलद्रक्ता माराणां रक्तपानतः।



      मूलास्यं परमार्थेन संवृत्या शौकरं मुखम्॥



 



      मूलानने त्रिणेत्रेयं त्रैकाल्येक्षणशुद्धितः।



      कोलानने त्रिणेत्रेयं सत्याभ्यां तुल्यदर्शनात्॥



 



      ऊर्ध्वाननस्थितो बिन्दुर्मूर्ध्वोत्थमिति कथ्यते।



      प्रत्यङ्गभ्रमणान्मुक्तं वियच्छुद्धया शितद्युतिः॥



 



      सुबद्धमुक्तगतिवद्वासनाशेषनाशतः।



      मनाक्क्रोधं मुखं देव्याः सौस्थित्या सुभगं वरम्॥



 



      भावाभावविकल्पानां च्छेदार्थं कर्तिका कृता।



      दक्षिणस्तीक्ष्णकिरणस्तीक्ष्णत्वाद् दक्षिणे धृता॥



 



      बोधिचित्तविशुद्धयैव कपालं रक्तपूर्णता।



      सुविशुद्धेन रागेण संयोगप्रतिपादिका॥



 



      यद्वा महासुखसदाकृपारसमयं नृकम्।



      रक्तपूर्णं धृतं वामे बिन्दोर्वामप्रवाहतः॥



 



      खे नाडयां तुङ्गत इति खट्वाङ्गं बिन्दुरुच्यते।



      तदेव ध्वजमित्युक्तं योगिचिह्नतयाऽनया॥



 



      पञ्चात्मकोऽयं भगवान् क्रीडते सुखचक्रके।



      विहीनः पञ्चतो बिन्दुरिति काली शिरःस्थिता॥



 



      कृताः सुखतया भेद्याः सुखचक्रे तथागताः।



      इति दम्भोलिकीराजी राजते शिरसि स्थिता॥



 



      ऊर्ध्वं बिन्दुः सहाऽविद्यासुरमुन्मूलितुं क्षमः।



      बिन्दोः संवृतिरूपत्वात् संवृत्या शौकरं मुखम्॥



 



      तदुद्भूतं महारागरसविद्धं महासुखम्।



      तथैव परमार्थत्वाल्लोहितं मूलमाननम्॥



 



      निमील्यापि दृशं पश्यन्नभः स न विलोहितम्।



      तच्छुद्धया लोहिता देवीत्याह मे गुरुरन्तिमः॥



 



      धर्मोदयोदितं रूपं स्थिरबीजं निरञ्जनम्।



      तदेव चक्रमित्युक्तं कल्पनाजालनाशतः॥७॥



 



प्रतिदिवसं प्रतिसन्ध्यं यथाक्षणं वा विभावयेदेतत्।



यावत्सिद्धिनिमित्तं तावदिदं तूच्यते व्यक्तम्॥८॥



 



कदा भावयेदित्याह-प्रतिदिवसमित्यादि। प्रतिदिवसं प्रत्यहं भावयेदिति सम्बन्धः। एवं प्रतिसन्ध्यं सन्ध्याचतुष्टये। यथाक्षणं वा यथावसरम्। यावत् सिद्धिनिमित्तमिति। यावत् सिद्धिनिमित्तं नोपजायते तावदित्यर्थः। इदं तूच्यते व्यक्तमिति। इदं पुनर्व्यक्तमेव निमित्तमुच्यते ,येन योगी उत्पन्ननिमित्तोऽभिधीयते इति॥८॥



 



अयत्नजं प्रीतिरयानुबन्धाद्



यदा भवेद् व्यक्तमिदं विभावितम्।



कशाचपेटादिहते न वेदना



तदा भवेत्सिद्धिरदूरवर्तिनी॥९॥



 



   निमित्तमाह- अयत्नजमित्यादि। तदा सिद्धिर्भवेदिति सम्बन्धः। अदूरवर्तिनी सन्निहिता। कदेत्याशङ्कायामाह-यदा विभावितं व्यक्तं भवेत्। अयत्नजमिति। यत्ननिरपेक्ष्यं स्वरसवाहितया इत्यर्थः।



 



  कुतस्तद्भवेदित्याह-प्रीतिर्महासुखं तस्य रयो वेगः ,तस्यानुबन्धनमपरित्यागः,तस्मात्। कदा किं न भवेदित्याह- कशेत्यादि। कशा चर्मठी। चपेटश्चवटुः। आदिशब्दात् पादप्रहारादिः। एतैरपि हते वेदना नोत्पद्यते। तदेव सिद्धिरित्यर्थः॥९॥



 



प्रताडितानां पणवादिकानां



पटुध्वनिर्न श्रुतिगोचरश्चेत्।



तदाप्यते बोधिरनुत्तराग्य्रा



स्वप्नेऽचिराद् ध्यानवतोऽग्रसिद्धिः॥१०॥



 



     द्वितीयं निमित्तमाह-प्रताडितानामित्यादि। तदा बोधेना(धिरा)प्यते प्राप्यते इति सम्बन्धः। अनुत्तरेति। न विद्यते उत्तरं श्रेष्ठं यस्याः। अग्र्येति। सहजानन्दरूपा सर्वोपरि विद्यमानत्वात्। कदेत्याशङ्कायामाह - प्रताडितानामित्यादि। प्रकर्षं ताडितानामपि मृदङ्गादीनां पटुः प्रकृष्टो  ध्वनिः श्रुतिगोचरे श्रवणविषयेन्द्रिये नानुभवतीति शेषः। स्वप्न इति। अपिशब्दोऽत्र बोद्धव्यः। स्वप्नेऽपि निद्रायामपि ध्यानवतो योगधरस्याचिरादेवानुत्तरा सिद्धिः स्यात्। निद्राणोऽपि योगी महासुखसमाधिलीन एव वज्रविलासिनीमनोहारिकारी भवतीति भावः। यद्वा स्वप्नेऽपि यद्येवं निमित्तमालोकते तदापि सिद्धिर्भवत्येवेत्यर्थः॥१०॥



 



दृष्ट्वा सिद्धिनिमित्तं पितृवनगिरिकुञ्जे वृक्षमूलादौ।



निवसन्नुत्पन्नक्रमयोगमजस्रं सुधीः कुर्यात्॥११॥



 



     स्थानविशेषमाह-दृष्ट्वेत्यादि। सुधीः पण्डितः सप्रज्ञो वा। उत्पन्नक्रमयोगमध्यात्मयोगं कुर्यादभ्यसेदिति सम्बन्धः। किंकृत्वेत्याहदृष्ट्वा सिद्धिनिमित्तमिति। सिद्धेरेतदुक्तनिमित्तं ज्ञात्वा। निवसन्निति।  समाहितस्तिष्ठन्। कुत्रेत्याह-पितृवनेत्यादि। पितृवनं श्मशानम्। अन्यत्सुबोधमेव। पक्षान्तरे तु पितुर्वज्रधरस्य वनं विजनत्वात् ,रागाटवीत्वाच्च महासुखम्। पितृवनशब्दस्य श्मशानपर्यायत्वात्। अष्टविज्ञानोपशमनलक्षणं वा। तत्र स्थित इत्यर्थः। गिरिः प्रपातस्थानत्वात् कमलकिञ्जल्कं तस्य कुञ्जे कोषचर्मपिहितत्वात् तद्गर्भे। वृक्षमूलादौ। "कृषू वृषू सेचने "सिच्यते बोधिचित्तं धारयतीति वृक्षः कुलिशमवधूती वा ,तस्य मूले निवसन् चित्तमर्पयन्निति भावः। आदिशब्दान्मणिमध्यमण्यग्रयोरपि ग्रहणम्। अजस्त्रमित्यनवरतं यथा भवति॥११॥



 



सिद्धौ वसुधादीनां भवति लयो ह्युत्तरोत्तरे क्रमशः।



ख्याति तदा गगनाभं प्रभास्वरं ज्ञानमात्रं सत्॥१२॥



 



      तत्क्षणस्य माहात्म्यमाह -सिद्धावित्यादि। अस्य योगस्य सिद्धौ वसुधादीनां पृथिव्यादिमहाभूतानां लयो भवति।उत्तरोत्तरे क्रमश इति। उत्तरमुत्तरक्रमेण लीयते इत्यर्थः। तथा च-



 



      भूधातुर्लीयते तोये तोयं तेजसि लीयते।इति।



आशयस्तु-



      पृथ्वी काठिन्यमब्धातुः स्नेहतां तेज उष्णताम्।



      पवनं प्रेरणां मुञ्चन् बोधाम्भोधौ निमज्जति॥



तथा च हेवज्रे-



      पृथिव्यापश्च वायुश्च तेज आकाशमेव च।



      क्षणात् सर्वे न बाध्यन्ते स्वपरसंवित्तिवेदनम्॥



 



      यद्वा वामदक्षिणनाडीवाहगतानि पृथिव्यादीनि मण्डलस्वभावानि पृथिवीमण्डलमब्मण्डलं यातीत्येवं क्रमतो यावदक्षयसुखस्वरूपं ज्ञानमण्डलं प्रविशन्तीति। यदुक्तं कालचक्रे-



 



      पृथ्वी तोयं प्रयाति ज्वलनमपि जलं पावको मारुतं च



      वायुः शून्यं च शून्यं व्रजति दशविधं वै निमित्तं निमित्तम्।



 



      सर्वाकारं प्रयात्यक्षरपरमसुखानाहतं ज्ञानकायं



      ज्ञानादृद्धिश्च सिद्धिर्भवति नरपते जन्मनीहैव पुंसाम्।



 



      तदा योगिनः कथमिव प्रकाशत इत्याह- ख्याति तदा गगनाभमिति। गगनसदृशं प्रकाशते। प्रभास्वरमिति। निष्कलुषं तलविलीनबाष्पक्रमव्यपगमसंप्राप्तनिजरूपं दर्पणवन्निर्मलं तादृशि ज्ञानदर्पण इव बाष्पं विश्वमेव लयमापद्यत इत्यर्थः। ज्ञानमात्रमिति। स्वप्नज्ञानवज्ज्ञेयनिरपेक्षं स्वप्रकाशमात्रम्। सदिति अनवच्छिन्नरूपम्॥१२॥



 



जानीयात्तच्चिह्नैश्चिह्नानि तु पञ्चधा विदुस्तज्ज्ञाः।



अत एव तानि योगी समाहितो लक्षयेन्मनसा॥१३॥



 



      ज्ञानकारणमाह- जानीयादित्यादि। तज्ज्ञानं चिह्नैर्वक्ष्यमाणैर्जानीयादिति सम्बन्धः। चिह्नानि त्विति। चिह्नानि निमित्तानि पुनः पञ्चधा पञ्चप्रकाराणि तज्ज्ञास्तदद्वैतयोगज्ञा विदुर्जानन्ति ,तेषामेव तच्चिह्नोत्पत्तेः। अत एवेति अस्मादेवाकारात्। शून्यतासमाधेरेव वा। योगी तत्त्वे निपुणस्तानि लक्षयेत्। समाहित इति। अविक्षिप्तचित्तः। मनसेति। ध्यानाग्रचेतसैवान्यविज्ञानानामविषयत्वात्॥१३॥



 



प्रथमं मृगतृष्णाभं धूमाकारं द्वितीयकं चिह्नम्।



खद्योतवत्तृतीयं तुर्यं दीपोज्ज्वलं स्पष्टम्॥१४॥



 



      कानि तानि चिह्नानीत्याह- प्रथममित्यादि। मृगतृष्णाभं मरीचिकासमं प्रथमं चिह्नमुत्पद्यते। यद्यप्येवं तथाप्युपदेशाद्धूमाकारमेव प्रथमं चिह्नमिति बोद्धव्यम्। मरीचिका तु द्वितीया। प्रथममाकाशासक्तचित्तो योगी धूमं पश्यति पश्चान्मरीचिकादिकमिति।



 



      यदुक्तं कालचक्रे-



 



      आकाशासक्तचित्तैरनिमिषनयनैर्वज्रमार्गं प्रविष्टैः



      शून्याद् धूमो मरीचिः प्रकटविमलखद्योत एव प्रदीपः।



      ज्वाला चन्द्रार्कवज्राण्यपि परमकला दृश्यते बिन्दुकश्च



      तन्मध्ये ज्ञानबिम्बं विषयविरहितानेकसंभोगकायम्॥



 



षडङ्गे च तत्र गुरूपदेशेनाकाशे प्रथमं योगी धूमं पश्यति न  मरीचिकामिति स्वानुभवतो ज्ञेयं ततो मरीचिकाः। पश्चादेव धूमादिकं कल्पनारहितं प्रतिसेनावदिति। उक्तञ्च डाकिनीवज्रपञ्जरे-



 



      सर्वज्ञहेतुकं तद्धि सिद्धिनिकटे प्रवर्तकम्।



      पश्चान्मायोपमाकारं स्वप्नाकारं क्षणात्क्षणम्॥इति।



 



      यद्वा मृगतृष्णाभमिति। विश्वमेव योगिनो मरीचिकेव मिथ्या। प्रतिभास इत्यर्थः। अतस्मिंस्तद्ग्रहणेन प्रतिभासमानत्वात्। धूमाकारमिति। धूमाकारमेवाकाशज्ञानमुत्पद्यते। मायागजादि च। मायागजः प्रतीत्यसमुत्पन्नो निःस्वभाव इति विश्वमेव प्रतीत्यजं प्रतिभासमात्रं रूपं  धूमवत् पश्यतीत्यर्थः। खद्योतवदिति। यथा खद्योतः खे आकाशे क्षणं  क्षणं द्योतते ,तथैव स्फुटास्फुटभावेन शून्यतायां ज्ञानज्योतिरालम्बन इति तृतीयं चिह्नम्। तुर्यमिति। दीपवदुज्ज्वलं चतुर्थं चिह्नम्। यद्वा दीपवदुज्ज्वलं स्पष्टं व्यक्तम्। प्रकाशरूपं चिरमपि स्थित्वा बोधिविरहितात् पुनर्विनश्वरमिति। अकल्याणमित्रसम्पर्कादिति भावः॥१४॥



 



विगताभ्रगगनसदृशं पञ्चमं चिह्नं प्रकाशमविकल्पम्।



एवं लब्धनिमित्तो मुद्रां महतीमवाप्नोति॥१५॥



 



     पञ्चमचिह्नमाह-विगताभ्रेत्यादि। शरदमलमध्याह्ननभोनिभम्। प्रकाशमिति। ज्ञानस्वरूपत्वात्। अविकल्पमिति विगतद्वैतात्पञ्चमं चिह्नमुत्पद्यते। एवमिति। एवं क्रमेणोत्पन्नज्ञाननिमित्तो योगी मुदमानन्दं राति गृह्णातीति मुद्रा ,महतीमिति महामुद्रामवाप्नोति प्रतिपद्यते,महामुद्रालाभी भवतीत्यर्थः॥१५॥



 



उत्थातुकामः प्रणिपत्य योगिनीं



नाथं च कस्थं समुदीर्य मूःकृतिम्।



उत्थाय कृत्यं विदधीत तत्त्वधी -



स्तिष्ठेत् सदा योगयुगेन योगवित्॥१६॥



 



इति तत्त्वज्ञानसंसिद्धौ भावनाविधिः॥



 



      कर्तव्यान्तरमाह- उत्थातुकाम इत्यादि। उत्थातुकामो योगी उत्थाय कृत्यं विदधीतेति सम्बन्धः। किंकृत्वेत्याह-प्रणिपत्य योगिनीमिति। देवीं नमस्कृत्य। नाथं चेति। नाथमपि गुरुमपि। कस्थमिति। शिरः स्थितम्। मूःकृतिं समुदीर्येति। मूःकारं विसर्जनमन्त्रं समुच्चार्य विसर्जनानन्तरमेव कृत्यं कुर्वीतेत्यर्थः। कृत्यमपि कुर्वन् भावकः कथं  तिष्ठतीत्याह- तिष्ठेदित्यादि। योगयुगेन मुद्राद्वययोगेन सदैव तिष्ठन्निवसेत् ,  सचक्रां देवीं चण्डालीं च भावयन्नित्यर्थः। यद्वा हेतुफलव्यवस्थया  चण्डालीद्वयमेव योगद्वयमिति बोद्धव्यम्। ये तु भगवतीधर्मोदयान्तर्गतापरधर्मोदयाचक्रे वंकारं काद्यादिवर्णावृतं ज्वलद्रूपं प्रथमतो दृष्ट्वा पश्चाद् वंकारकिरणरेखया मृणालीतन्तुसूक्ष्मया निर्माणचक्रधर्मसम्भोगस्वरूपचक्रत्रयमुद्भिद्य महासुखचक्रमनुगच्छन्त्याप्लावितशीतांशुद्वारेण महासुखमामुखीकृत्य योगालम्बनं विधेयमिति व्याचक्षते व्याख्यातारः ,तन्मते योगयुगशब्दस्य योगासङ्गेनेत्यपव्याख्यानत्वाद् एक एव योगः  प्रतिपादितः। स चास्मद्गुरुभिरनाम्नायत्वात् शबरपादीयसाधनविरोधाच्च न स्वीकृतः। दृश्यन्तेऽपि केचित् तन्मतेऽपि भावका इति। योगविदिति योगज्ञः। तत्त्वधीरिति। तत्त्वार्था धीः प्रज्ञा यस्येत्यर्थः॥१६॥



 



इति मर्मकलिकायां तत्त्वज्ञानसंसिद्धिपञ्जिकायां भावनाविधिः॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project