Digital Sanskrit Buddhist Canon

2 बाह्यार्चनविधिः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version 2 bāhyārcanavidhiḥ


 



[अथ बाह्यार्चनविधिः]



 



विजनं मनोऽनुकूलस्थानं नाथाङ्ककः प्रविश्य सुधीः।



तत्र सुकुमारमासनमुपविश्य विभावयेच्छुद्धिम्॥१॥



 



   भावनास्थानमाह-विजनमित्यादि। शुद्धिं विशुद्धिं शून्यतां विभावयेदिति सम्बन्धः,तद्भावनायैव प्राकृताहङ्कारव्युदासात्। अथवा अधिमात्रसत्त्वानां शून्यतैव परं रक्षेति प्रथमतः शून्यतैव भाव्या। उक्तञ्च-



 



तथतैव परं रक्षा विघ्नाच्चित्तविनिर्मितात्।



सर्वत्र सर्वधर्माणां विशुद्धिस्तथतैव हि॥



 



किंकृत्वेत्याह-विजनं जनरहितं स्थानं प्रविश्य। मनोनुकूलमिति। मनसः प्रसादजनकम्। तत्रेति तस्मिन् विजने। आसनमुपविश्येति। आसनमाश्रित्य। सुकुमारमिति। सुखस्पर्शम्। नाथाङ्कक इति। नाथः श्रीगुरुस्तदङ्कं तच्चिह्नं कं शिरो यस्य स नाथाङ्ककः। सुधीः निष्कल (लुष)मतिः। योगिनी मयाऽधिकृतेयं भगवती,अत्र च महतामेवाधिकार इति गुरुणा प्रतिपादितविशेषोऽपि लिख्यते। सुधीः शुद्धिं चेतसो नैर्मल्यं विभावयेदुत्पादयेदिति सम्बन्धः। शोभना धीर्बाह्यप्रज्ञा अध्यात्मप्रज्ञा वा यस्य स सुधीः,सप्रज्ञ इत्यर्थः।"सैव भगवती प्रज्ञा धीति बुद्धैः प्रकल्पिता"इति हेवज्रवचनात्। कुत्र स्थित्वेत्याह - आसनमुपविश्येति। आस्यते वज्रेणोत्सर्गमण्डलेन वा अस्यामिति आसनं धर्मोदया। यदुक्तं श्रीहेवज्रे-



 



        एकाराकृति यद्दिव्यं मध्ये वंकारभूषितम्।



        आलयः सर्वसौख्यानां बुद्धरत्नकरण्डकम्॥इति।



 



तदाश्रित्य। सुकुमारमिति। मनोहरमशिथिलं सुखस्पर्शमिति यावत्। तत्रेति धर्मोदयायाम्। कथं विशुद्धिर्भाव्येत्याह-स्थानं प्रविश्येति स्थीयतेऽस्मिन् सर्वधर्मैरिति स्थानं महासुखं तदालम्ब्येत्यर्थः। विजनमिति। सर्वदा जायते इति जनो विकल्पः,तेन रहितम्। उक्तञ्च वज्रडाके-



 



विजनेऽध्यात्मसत्त्वादिविकल्परहितेषु च।



 



अथवा वज्रकुलादिकन्यासमुद्भवत्वाद् विजनम्। यदुक्तं तत्रैव तदेव सर्वतथागतप्रशस्तवज्रकुलादिविशिष्ट कन्याजनोद्भवत्वाद् विजनम्। अत एव मनोनुकूलमिति। इदं कृतमिदं न कृतमित्यादिविकल्पमलकलङ्कितमनसः सर्वदैव दुःखप्रसङ्गाद् विश्वमेव प्रतिकूलमिति भावः। निर्विकल्पकचित्तस्य सर्वदा सुखप्रसङ्गात्। अत एवोक्तं भगवता - "सुखितस्य मनः समाधीयते समाहितश्च यथाभूतं प्रजानाति"इति। किंभूतः सन्नित्याह- नाथाङ्कक इति। नाथो बिन्दुस्तदङ्कं तच्चिह्नं कं सुखं यस्य स नाथाङ्ककः,बिन्दुरहितस्य सुखस्य दुःखरूपत्वात्। अथवा नाथो गुरुस्तदङ्कं चिह्नं कं सुखं यत्र स तथा,प्रज्ञाद्यभिषेके गुरुणा तत्सुखस्य प्रतिपादितत्वात्। ततश्च कुलिशसरोरुहशब्दादेव महारागमुत्पाद्य विशुद्धिः शून्यताकरुणामध्ये कर्तव्येति स्थितम्। तथा च श्रीहेवज्रे-



 



         परमर्तौ न च भाव्य न भावक



             न च विग्रह न च ग्राह्य न ग्राहक।



         मांस न शोणित विष्ट न मूत्रं



             न च घृण मोह न शौच पवित्रम्॥



 



वज्रधर्मसाधनेऽप्युक्तम्- 'विस्फुरद् गुह्यवज्रं पद्मे प्रवेशयेत्। तत्र चित्तं स्थिरीकृत्य निर्विकल्परूपं महासुखं भावयेत्। ॐ शून्यताज्ञानवज्रस्वभावात्मकोऽहमिति पठेत्। तदत्र महारागनये वस्तुतैव शून्यता भावनीयेत्याम्नायः'॥१॥



 



तदनु च षष्ठजिनेन त्र्यक्षरजप्तेन वज्रधरहृदयम्।



संल्लिख्यानामिकया लोहितकुसुमार्चितं कुर्यात्॥२॥



 



विधेयान्तरमाह-तदनु चेत्यादि। तदनन्तरं वज्रधरहृदयं  लोहितकुसुमार्चितं कुर्यादिति सम्बन्धः। वज्रमभेद्यत्वात् सहजसुखं तद् धारयतीति वज्रधरो बिन्दुः,सुखसंवलितस्यैव बिन्दोर्दर्शनात्।



 



         उक्तञ्च श्रीहेवज्रे-



         शुक्राकारो भवेद् भगवान् तत्सुखं कामिनी स्मृतम्।इति।



 



तस्य वज्रधरस्य हृदयं तदेकनिष्ठत्वाद् धर्मोदयां लोहितकुसुमैरम्लानकरवीरबन्धूकप्रभृतिभिरर्चितं कुर्यात्। चकारोऽभिधेयान्तरसूचनार्थः।  वक्ष्यमाणश्लोकद्वयप्रतिपादितस्या[शया]ङ्गन्यासान् विधाय पश्चाद् धर्मोदयामर्चयेदित्यर्थः। अथवा उपदेशादेव तदनन्तरमेतद्विधानमिति बोद्धव्यम्। तत्पक्षे चकारोऽप्यर्थ एव। किंकृत्वेत्याह-संल्लिख्येति। सम्यक् लिखित्वा प्रव्यक्तत्र्यङ्गुलं चेत्यर्थः। केनेत्याह- षष्ठजिनेनेति। अक्षोभ्येण। अक्षोभ्यस्य द्रवत्वात् कृष्णत्वाच्च कृष्णवर्णमदनेनेत्यर्थः। श्रीचक्रसंवरे अक्षोभ्यस्य षष्ठतथागतत्वेन व्यवस्थितत्वात्। तथा च लूयीपादीयाभिसमये "विज्ञानस्कन्धे वज्रसत्त्वः सर्वतथागतत्वे श्रीहेरुकवज्रम्"इति। त्र्यक्षरजप्तेनेति। ॐ आः हूँ इत्यनेन वारत्रयं  शोधितेन। कयाऽभिलिख्येत्याह-अनामिकयेति। वामकरानामिकया,संवराणां वामाचारत्वात्। तथा चोक्तं श्रीसंवरे-"वामाचारः सदा योगी वामपादं पुरः क्रमेत्"इति।



 



व्याख्यानान्तरमपि-वज्रधरहृदयं धर्मोदया। लोहितकुसुमेन रजसा अर्चितमुल्लासितं कुर्यात्। महारागमयत्वात् तदस्यानेनैव महार्थसिद्धेः। ततश्च विश्वमेव लौकिकरागपतितमुत्पद्यते क्षीयते चेति परमपदप्राप्तये सुविशुद्धरागावलम्बनमेवोचितमिति। कर्ममुद्रामपि चित्तस्थिरीकरणहेतुत्वेन प्रतिपादितवानाचार्यः। तथा च श्रीहेवज्रे-



 



        यथा पावकदग्धाश्च स्विद्यन्ते वह्निना पुनः।



        तथा रागाग्निदग्धाश्च स्विद्यन्ते रागवह्निना॥



 



        येनैव विषखण्डेन म्रियन्ते सर्वजन्तवः।



        तेनैव विषतत्त्वज्ञो विषेण स्फोटयेद्विषम्॥



 



        यथा वातगृहीतस्य माषभक्ष्यं प्रदीयते।



        वातेन हन्यते वातो विपरीतौषधिकल्पना॥



 



यद्वा वज्रधरहृदयमध्यात्म धर्मोदयां लोहितकुसुमेन सरागमानन्दचित्तेनार्चितमुल्लसितं कुर्यात्। विनापि प्रज्ञायोगसद्गुरुचरणप्रसादादेव तादृग्विशिष्टचित्तोत्पत्तेः। तथा च  द‍उडीपादाः-



 



   विना प्रज्ञायोगाज्झटिति कुरुते वज्रपदवीं



       सतां तद्योगाद् वा शिशिरकरसंबोधकरणात्।



   अधिष्ठानज्ञो यः स गुरुरिह नैवापर इति



       प्रभावो यस्य द्राक् प्रहरति मनो दुर्जनमिव॥



 



तस्मात् सुखचित्तायत्तैव सुसिद्धिरिति स्थितम्। वज्रडाके च-



 



       दुष्करैर्नियमैस्तीव्रैर्मूर्तिः शुष्यति दुःखिता।



       दुःखाद्विक्षिप्यते चित्तं विक्षेपात् सिद्धिरन्यथा॥



 



   यद्वा महारसायनत्वादवश्यमेवास्य नस्यार्थमभावभावार्थञ्चोत्पादः कर्तव्य उक्तञ्च तत्रैव-



 



       महारक्तं सकर्पूरं सर्वोत्कृष्टरसायनम्।



       महारक्तं भवेत् पुष्पं ऋतुकालसमुद्भवम्॥इति।



 



   संल्लिख्येति। 'लिख'अक्षरविन्यासे। अक्षरणरूपेण विन्यासं कृत्वेत्यर्थः। कयेत्याह- अनामिकयेति। न नमतीत्यनामिका,तच्च बोलः। केन लक्षित इत्याह- षष्ठजिनेनेति। कृष्णमदनेन लक्षितः। तत्सेवयेति भावः। लक्षणे तृतीया। यथा कमण्डलुना च्छात्रमद्राक्षीत्। त्र्यक्षरजप्तेनेति। त्रयाणां कायवाक्चित्तानामक्षरणेन अचाञ्चल्येन जप्तं जल्पनं लयो यस्मात् तत् तथा। भावे क्तः। तथा च-



 



       मोदकानामपि वने वने वर्त्मनि वर्त्मनि।



       विन्यासेन यथा वारिविहारी क्रियते गजः॥



 



       तथा चित्तगजं नेतुमिच्छुः सहजवारिकाम्।



       सेवते मदनं योगी बलमप्यबलामपि॥



 



       बद्धश्चेच्चित्तमातङ्गो गुडतण्डुलिकादिना।



       भयमस्तङ्गतं सर्वं कोटिलाभोऽपि संस्थितः॥



 



       साधकस्तेन साध्यार्थमसाध्यमपि साधयेत्।



       तद्द्वारेण यतश्चित्तमसाध्यमपि साध्यते॥



 



   गुह्यवज्रविलासिनीसाधनेऽपि-



 



       कृष्टं (ष्णं)मदनमासाद्य सुखाद्यं विद्यया सह।



       तावन्मात्रं तु कर्तव्यं न मनो विकलं यथा॥



 



       यथा महौषधं  किञ्चित्सुस्वादं व्याधिघातकम्।



       प्रज्ञोपायसुखं तद्वद् हेलया क्लेशनाशनम्॥



 



       सर्वश्य रमणी रामा रागिनी शुद्धरागिणाम्।



       एकस्य गलपाशः स्यादपरस्य बन्धकर्त्तिका॥



 



   यद्वा किंभूतया अनामिकयेत्याह- षष्ठजिनेनेति। सहार्थे तृतीया। षष्ठजिनेन बोधिचित्तेन सहितया। सम्यक्संपूर्णबोधिचित्तमिलितयेत्यर्थः,तदधीनत्वादुत्थानस्य। त्र्यक्षरजप्तेनेति। त्र्यक्षरैः कायवाक्चित्तैर्जप्तेन लयं नीतेन। तेषामविक्षेपाच्च तदस्खलनात्। तथा च श्रीहेवज्रे-



 



      जल्पनं जपमाख्यातम् आलिकाल्योः प्रजल्पनात्॥२॥



 



तदनु परमाद्यपात्रे करकमलं दक्षिणेतरं क्षिप्त्वा।



विदधीत वज्रसवनं  यथोपदेशं शयस्पर्शात्॥३॥



 



   कृत्यान्तरमाह- तदन्वित्यादि। वज्रसवनं विदधीतेति सम्बन्धः। वज्रं शून्यता तदभिमुखीकरणहेतुत्वात्। वज्रशब्देन कृष्णयोगि द्रव्यमभिधीयते,कारणे कार्योपचारात्। सवनं स्नानम्। 'षुञ्'अभिषवे। किं कृत्यमि (कृत्वे)त्याह-करकमलं क्षिप्त्वेति। करपद्मविन्यासः। दक्षिणेतरमिति वामम्। कुत्रेत्याह-परमाद्यपात्र इति। परमः परमानन्दः,तदर्थमाद्यं मदनं माध्वीप्रभृति,तस्य पात्रे। यथोपदेशमिति। उपदेशानतिक्रमेण। शयस्पर्शादिति पाणिभ्यां गात्रस्पर्शात्।



 



    अत्रोपदेशः-प्रथममलिबिन्दुमात्रं गृहीत्वा देवीमन्त्रेण त्र्यक्षरेण वा स्नानं कुर्यात्। ततो वामदक्षिणहस्ताभ्यामालिङ्गनाभिनयेन शिरःप्रभृति पादाङ्गुष्ठपर्यन्तं तत्कर तललग्न द्रवेण गात्रं स्पर्शयेदिति। यद्वा वामकरतलभावितरक्तपञ्चदलकमलस्थितषडयोगिनीमन्त्राणां षडयोगिनीस्वरूपाणां दक्षिणकरवृद्धानामिकया द्रवद्रव्येण स्पर्शनं शयस्पर्शनम् ,शयस्पर्श इति चाम्नायः।



 



     व्याख्यानान्तरमपि- वज्रं महासुखं तेन सवनं स्नानं सुधीः कुर्वीत महासुखमयमात्मानं विदधीतेत्यर्थः। वज्रस्य बोलस्य बोधिचित्तेन सवनं वा। अभ्यासधृत् किञ्चित् पतितेनेति भावः। कुत्रेत्याह-परमाद्यपात्र इति। परममनिर्वचनीयं रूपं तदर्थमाद्यं पात्रं महासुखधारणात् सर्वतथागतानामाधारभूतत्वाच्च धर्मोदया,तत्राधारस्थितेत्यर्थः। तत्रैव सहजसुखोत्पत्तेः। उपायप्रज्ञानां च तस्मिन्नेव बन्धच्छेदात्। तथा च श्रीहेवज्रे-



 



     येन तु येन तु बध्यते लोकस्तेन तु तेन तु बन्धनमुञ्चेत्।



     लोको मुह्यति वेत्ति न तत्त्वं तत्त्वविवर्जित सिद्धि न लप्स्येत्॥



 



     येन येन हि बध्यन्ते जन्तवो रौद्रकर्मणा।



     सोपायेन तु तेनैव मुच्यन्ते भवबन्धनात्॥



 



     यद्येवं सहजसुखञ्च तदुत्पद्यते चेति व्याहतमेतत्,उत्पन्नस्य नित्यविनाशित्वात्। विनश्वरस्य च लौकिकसुखसाधारणत्वात्। भवतु नाम तथापि दृष्टान्तत्वेनोपनीते न दोषः। यथोक्तम्- 



 



     धावल्यमात्रमिलितो हंसश्चन्द्रस्य दीयते ह्युपमा।



     दत्तं तथैव लौकिकसुखमपि लिखितं प्रतीतिपथे॥



 



     यच्च सरोरुहसङ्गत्वे प्रतिपाद्यं श्रीमहागुरुणा।



     गतिरेषाऽगतिकानां यत्तद् दृष्टान्तभूमिरपि॥



 



     बोधो न संस्कृतगिरा हास्यं भाषान्तरं विशिष्टमपि।



     गिरिभिल्लपल्लिपुरुषाः स्ववचनकल्पेन साध्यन्ते॥



 



  यथोक्तम् आर्यदेवपादाः (दैः)-



 



     नान्यया भाषया म्लेच्छः शक्यो ग्राहयितुं यथा।



     न लौकिकमृते लोकः शक्यो ग्राहयितुं तथा॥



 



  किञ्च ,यथा स्वप्नपुत्रस्योत्पत्तिस्थितिनाशादयः सुखदुःखहेतवोऽनुभूयन्ते प्रभाते सर्वमेव मृषा,तथैव सर्वमभ्यासकाले विद्यत एव,आदिज्ञाने तु सहजे नास्त्येवेति सर्वमेव सुस्थम्। ततश्च जाते पक्षपुटे पक्षिवदाकाशगमनमभीष्टं भूमिपतनमपि समनुभवन्नेकलग्नसुजातपक्षपुटः क्रमशो गगनाभोगमप्यात्माधीनमनुभवति। योगीन्द्रे[ण]ततश्चात्र प्रपातेऽवहितेन भवितव्यमिति। उक्तञ्च श्रीहेवज्रे-



 



     सेवितव्यः प्रयत्नेन यथा भेदो न जायते।



 



  भेदः कायवाक्चित्तानां पृथग्भावो बिन्दोरपि स्खलनमिति। किं कृत्वेत्याह- करकमलं दक्षिणेतरं क्षिप्त्वेति। वामकरवृद्धाङ्गुष्ठाङ्गुलिभ्यां कमलपक्षद्वयस्य घटितोद्धाटितविधानात्। उक्तञ्च गुह्यवज्रविलासिनीसाधनेऽपि-



 



     करवृद्धाङ्गुलीभ्यां तु पद्मपक्षद्वयं शनैः।



     घटितोद्घाटितं कुर्यात् स्फुरदञ्चाम्बुजाननम्॥इति।



 



  अथवा परमर्थं माति परिच्छिनत्तीति परं संविल्लक्षणक्षणं बोधिचित्तं तस्याद्यं पात्रं भिदुरं तत्र करकमलं क्षिप्त्वा करवन्निर्लोमतादिगुणसम्पन्नं कमलं प्रज्ञापद्मं तद्विन्यस्येत्यर्थः। उक्तञ्च श्रीचक्रसंवरे-''पद्मं पाणितलं कुर्यात्''इति। गुह्यवज्रविलासिनीसाधनेऽपि- पद्मं पाणितलं कुर्याद् बाहुमूलद्वयं तथा। इति।



 



स्वयं पद्मासनासीनो नायिकामङ्गे निवेश्येति भावः। यद्वा बाह्यमुद्राया अभावात् कर एव कमलं  करकमलं करेणैवोल्लासयेदित्यर्थः। न केवलं करकमलं दक्षिणेतरं वामदक्षिणबाहु (यु)द्वयञ्च क्षिप्त्वा अन्तर्लीनीकृत्य। महासुख इति शेषः। किं च,च्यवनमहासुखमहौषधादिना बिन्दुस्तम्भनमिदं द्वयमशुद्धरागिणामपि सम्भाव्यते। कथं वा अनवच्छिन्नरूपो महासुखमयः कर्माङ्गनायामुत्पद्यताम् ?यथोक्तम्-



 



      यैर्यैस्त्रिभुवनमध्ये क्षरसुखमनुभूतमेकदा तच्चेत्।



      एकत्र भवति लभते न सहजसुखकोटिमांशमपि॥



 



      लघुताकारणजत्वं क्षणक्षयित्वं च दुःखकारित्वम्।



      यत्रास्ति तेन साध्यः सत्सुखनाथः कथं भविता॥



 



इति शङ्कायामाह- यथोपदेशं शयस्पर्शात्। शयनं शयो निद्रा विज्ञानेन्द्रियया (योः)निरोधः,अनन्यगामित्वमेकनिष्ठतेति यावत्। तस्य स्पर्शात्तदभिमुखीकरणात्। यद्वा शयो निद्रा तत्साम्यान्मरणमभिधीयते। मरणं च वायुविज्ञानेन्द्रिययोर्निरोधस्वरूपं ध्यानम् तस्य स्पर्शात् तदभिमुखीकरणात्। यथोक्तं श्रीहेवज्रे-



 



    मरणं येन सुखेनेह तत्सुखं ध्यानमुच्यते।



 



   अल्पस्य मरणस्य मिथ्यारूपत्वात्। यथोक्तं श्रीचक्रसंवरे-



 



    मृत्युर्नाम विकल्पोऽयं नीयते खेचरीपदम्। इति।



 



   अत्रोपदेशोऽप्यभिधीयते-



 



   चलश्चेत् पवनो दष्टं महासुखमनुत्तरम्।



   तद्द्वारेणैव श्रयणं प्रतिदंशः प्रतिक्रिया॥



 



   साक्षात्पूर्वानुभूतां वा मुखयन् सुखसंपदाम्।



   अन्तर्गतेन मनसा कामसिद्धिं तु भावयेत्॥



 



 श्रीहेवज्रे च-



 



   भाव्यते हि जगत् सर्वं मनसा यस्मान् न भाव्यते।



   सर्वधर्मपरिज्ञानं भावना नैव भावना॥



 



   तेषामेकं परं नास्ति स्वसंवेद्यं महत्सुखम्।



   स्वसंवेद्याद् भवेत् सिद्धिः स्वसंवेद्यं हि भावना॥



 



 तथा च-



 



   भुञ्जन् महासुखं सुप्तो विज्ञानविषयेन्द्रियैः।



   स्तुतिनिन्दायशोलाभविकल्पान् कुटिवत् कुरु॥



 



   इयं भुसुकचर्यापि  क्रियते यदि चेतसि।



   तदा शान्तमनोवाहान् सुखेन प्रहरिष्यति॥



 



   इयं भुसुकपादेन कृपया प्रतिपादिता।



   सुप्त्वापि निवसनं (न्)क्वापि सिध्यत्येव प्रतीक्ष्यताम्॥३॥



 



प्रविधाय करन्यासं वृद्धाङ्गुष्ठाङ्गुलिसमायोगात्।



कुर्वीताङ्गन्यासं षड्भिर्वीरेश्वरीमन्त्रैः॥४॥



 



   कृत्यान्तरमाह- प्रविधायेत्यादि। अङ्गन्यासं कुर्वीतेति सम्बन्धः। कैरित्याह- षड्भिर्वीरेश्वरीमन्त्रैरिति। वीरे श्वर्यो वज्रवाराही-यामिनी-मोहिनी-सञ्चालनी- सन्त्रासनी-चण्डिकाऽभिधेयाः षडयोगिन्यस्तासां षड्भिर्मन्त्रैः। तत्रायं मन्त्रन्यासः-ॐ वं नाभौ। हों यों हृदये। ह्रीं मों कण्ठे। ह्रें ह्रीं मुखे। हूँ हूँ शिरसि। फट् फट् सर्वाङ्गेष्वस्त्रम्। प्रविधाय करन्यासमिति। आदौ करन्यासं कृत्वा। वृद्धाङ्गुष्ठाङ्गुलिसमायोगादिति वामहस्तवृद्धाङ्गुष्ठमारभ्याङ्गुलीषु समायोगात् कनिष्ठां यावदित्यर्थः। तत्रायं क्रमः-ॐ वँ अङ्गुष्ठे। हों यों तर्ज्जन्याम्। ह्रीं मों मध्यमायाम्। ह्रें ह्रीं अनामिकायाम्। हूँ हूँ कनिष्ठायाम्। फट् फट् सर्वाङ्गुल्यग्रे। सर्वासामेव मूलेष्वित्याम्नायः।



 



      व्याख्यानान्तरमपि-अङ्गन्यासं कुर्वीतेति सम्बन्धः। अङ्गः अपानवायुः। कैरित्याह-वीरेश्वरीमन्त्रैरिति। वीरो महासुखचक्रस्थितः श्रीहेरुकरूपो हकारः,तस्येश्वरी निर्माणचक्रस्थितचण्डालीरूपिणी भगवती,तस्या मन्त्रैरिति। मननात्त्राणात्,मन्त्रैरुपायैः। षड्भिरिति। प्राणायामादिषट्प्रकारैः। अथवा षड्भिरिति सहार्थे तृतीया। षड्भिः सहितमङ्गन्यासं कुर्वीतेत्यर्थः। तथा चोक्तम्-



 



      प्रत्याहारस्तथा ध्यानं प्राणायामश्च धारणा।



      अनुस्मृतिः समाधिश्च षडङ्गो योग इष्यते॥



 



तथा च श्रीकालचक्रे-



 



      प्रत्याहारो जिनेन्द्रो भवति दशविधो ध्यानमक्षोभ्य एव



      प्राणायामश्च खड्गी पुनरपि दशधा धारणा रत्नपाणिः।



      डोम्ब्यां चानुस्मृतिः स्यादपि कमलधरः श्रीसमाधिश्च चक्री



      एकैकः पञ्चभेदैः पुनरपि च यतो भिद्यते ह्यादिकाद्यैः॥



 



      प्रत्याहारो दशानां विषयविषयिणामप्रवृत्तिः शरीरे



      प्रज्ञा तर्को विचारो रतिरचलसुखं ध्यानमप्येकचित्तम्।



      प्राणायामो द्विमार्गः स्खलनमपि भवेन्मध्यमे प्राणवेशो



      बिन्दौ प्राणप्रवेशो ह्युभयगतिहतो धारणा चैकचित्तम्॥



 



      चण्डाल्यालोकनं यद्भवति खलु तनौ चाम्बरेऽनुस्मृतिः स्यात्



      प्रज्ञोपायात्मकेनाक्षरणसुखवशाज्ज्ञानबिम्बे  समाधिः।



      एतन्मृद्वादिभेदैस्त्रिविधमपि भवेत् साधनं विश्वभर्तु-



      स्तिस्त्रो मुद्रास्त्रिमात्रास्त्रिविधगतिवशात् कर्मसङ्कल्पदिव्याः॥



 



       किं कृत्वेत्याह-प्रविधाय करन्यासमिति। कं महासुखचक्रं राति गुह्णातीति करः प्राणवायुः,तस्य न्यासं हठेन मध्यमामार्गप्रवेशनं कृत्वेत्यर्थः। तथा च तत्रैव-



 



      या शक्तिर्नाभिमध्याद् व्रजति परपदं द्वादशान्तं कलान्तं



      सा नाभौ सन्निरुद्धा तडिदनलनिभा दण्डरूपोत्थिता च।



      चक्राच्चक्रान्तरं वै मृदुललितगतिश्चालिता मध्यनाडयां



      यावच्चोष्णीषरन्ध्रं स्पृशति हठतया सूचिवद्बाह्यचर्म॥



 



      आपानं तत्र काले परमहठतया प्रेरयेदूर्ध्वमार्ग



      उष्णीषं भेदयित्वा व्रजति परपुरं वायुयुग्मे निरुद्धे।



      एवं वज्रप्रबोधान्मनसि सविषयात् खेचरत्वं प्रयाति



      पञ्चाभिज्ञास्वभावा भवति पुनरियं योगिनां विश्वमाता॥



 



      कस्मात् कर्तव्यमित्याह- वृद्धाङ्गुष्ठाङ्गुलिसमायोगादिति। अङ्गुष्ठो वज्रं वृद्धश्चासावङ्गुष्ठश्चेति वृद्धाङ्गुष्ठः तच्च बोलः। अङ्गे लीयते इत्यङ्गुली शुक्रं नैरुक्तो वर्णविपर्ययः। ताभ्यां समायोगोऽस्खलनं तस्मादित्यर्थः।



 



      वीरेश्वरीशब्दस्योपदेशाऽर्थो लिख्यते-



 



         ऊकारादूर्ध्वगामित्वं   ईकारात्पवनेरणा।



         रेफो वह्निमयी रेखा ईश्वरी सर्वसौख्यतः॥



 



      इयं त्वालम्बनरूपा हेतुचण्डाली ज्ञानरूपिणीत्वाद् मुद्रोत्पन्नस्पन्दसुखदायिनी। बिन्दोरुत्थापनार्थमेवोत्थापितेत्यस्मद्गुरवः। त दे व दृष्टान्तरसिकानां प्रतिपाद्यते-



 



        कमलं समपात्रस्थं प्रदीपोद्दीपितान्तरम्।



        पिधानाधोमुखी(ख)घटीमूलं मूर्धनि तिष्ठति॥



 



वस्तुतस्तु स्वरसवाहिनिः स्पन्दसुखदायिन्यां सहजरूपिण्यामेव योगिभिः पतितव्यम्। यदाह-''षडङ्गे बोधिचित्तस्य रक्षणमिति मृदुमात्रा,स्पन्दगतिर्मध्यमात्रा,निःस्पन्दगतिरधिमात्रमात्रेति। एवं कर्ममुद्रा क्षरसुखदायिनी,ज्ञानमुद्रा स्पन्दनसुखदायिका,महामुद्रा निःस्पन्दनसुखदायिका"इति। उक्तञ्च-



 



         कुलीरशिशुवत् पक्वकदलीफलवद् दृढम्।



         निष्प्रतीहेतुसद्भावानु(द)देति फलरूपिणी॥



 



         चण्डाल्येवोपदेशेन महासुखविलासिनी।



         सैव नैरात्मिका देवी वज्रवैरोचनी च सा॥



 



         ततश्चण्डालीपरिहारेण व्याख्यायते-अङ्गन्यासं कुर्वीतेति सम्बन्धः। अं-अकाररूपिणीं निर्माणचक्रस्थितां देवीं गं-गच्छतीत्यङ्गोऽपानवायुः। तस्य न्यासमाकुञ्चनमुत्तोलनं विदधीत। किं कृत्वेत्याह-प्रविधाय करन्यासमिति। करस्य द्विधात्वात् करशब्देन  बाहु(वायु)द्वयमभिधीयते,तस्य न्यासं निरोधं कृत्वेत्यर्थः। तथा च श्रीहेवज्रे-



 



           मण्डलं पादलेखः स्याद् मलनाद् मण्डलमुच्यते॥



           करस्फोटो भवेन्मुद्राऽङ्गुल्या मोटनं तथा।



 



        अन्यथा अपानवातस्य शैथिल्योत्पत्तेः। अनेन पूर्वोक्तमेव बाहु(वायु)द्वयमाकृष्य महासुखे प्रवेशनीयमिति सूचितम्।वायुस्थैर्येणैव कार्यसिद्धिः।यथोक्तं श्रीकालचक्रे-



 



           मध्ये प्राणप्रवेशः सरविशशिगतेर्बन्धनं सव्यवामे



           चित्तं मुद्राप्रसङ्गे परमसुखगतं वज्रसम्बोधनं च।



 



           अब्जे वज्रध्वनिर्वा स्वकरसलिलजोल्लालनं सौख्यहेतो-



           र्बीजात्यागः ससौख्यो मरणभयहरः श्रीगुरोर्वक्त्रमेतत्।



 



     तथा च-



 



           वायोरायुर्वपुर्बिन्दोर्मुक्तिश्चित्तात् सुनिश्चलात्।



           त्रयाणामेकसंयोगात् त्रिपुटी सा प्रकीर्तिता॥



 



     कस्मात् कर्तव्यमित्याह- वृद्धाङ्गुष्ठाङ्गुलिसमायोगादिति। अङ्गे तिष्ठतीत्यङ्गुष्ठो वज्रम्। नैरुक्तो वर्णविपर्ययः। वृद्धाङ्गुष्ठस्तीव्रबोलः,अङ्गुली शुक्रं ताभ्यां समायोगात्स्खलनम् तस्मात्। उक्तञ्च-



 



           यस्य प्रज्ञासङ्गे पतति शितांशुः कुतः सुखं तस्य।



           मुकुलं वसन्तसङ्गे पतति फलं केन चूतस्य॥



 



      तथा च-



 



           प्रज्ञासङ्गे शशी यस्य परिसीदति पङ्कजे।



           अन्वेषते फलं मूर्खः स भित्त्वा कुसुमावलीम्॥



 



      गुह्यवज्रविलासिनीसाधनेऽपि-



 



           मन्थयेत् कमलाम्भोधिं सहजामृतकाङ्क्षया॥



           वैराग्यकालकूटं च नोत्तिष्ठति यथा तथा।



 



      षड्भिरिति। चक्षुरादिषड्विज्ञानेन लक्षितः सहितो वा। किंभूतैरित्याह-वीरेश्वरीमन्त्रैरिति। वीरो भगवान् तस्य ईश्वरी शून्यता सैव मननात्त्राणान् मन्त्र उपायो येषां तैः। अथवा वीरेश्वर्याः शून्यताया मन्त्रैरुपायैस्तानेव लक्ष्यीकृत्य तस्या उदयात्॥४॥



 



तदनु च वज्रधरोपरि रङ्गारुणयोगजं समममत्रम्।



भुजगभवैः सुविशुद्धैः सिचयगतैरवकिरेच्छनकैः॥५॥



 



      विधेयान्तरमाह-तदनु चेत्यादि। च-शब्दः पुनरर्थे। अमत्रं पात्रम् अवकिरेत् छुरयेदिति सम्बन्धः। रङ्गारुणयोगजमिति। रङ्गो वङ्गः,अरुणं ताम्रं तयोर्योगो मेलकम् तस्माज्जातं  कांस्यमित्यर्थः। सममिति तुल्यं कलङ्कखरदर्दुरादिरहितम्। दर्पणमिति भावः। कैश्छुरयेदित्याह-भुजगभवैरिति। भुजगो नागः शीशकस्तद्भवैः। सुविशुद्धैरिति दलरहितैः। सिचयगतैरिति। सिचयं श्लक्ष्णं वस्त्रं तद्गतैः। शनकैरिति। लघुक्रमाङ्गुलन्यासेन रक्तवस्त्रेण दोलिकां कृत्वा तत्र सिन्दूरं दत्त्वा अङ्गुल्या किञ्चित् क्रमेण चालयेत् इत्याशयः। कुत्रेत्याह-वज्रधरोपरीति। वज्रं मदनं तद् धारयतीति वज्रधरं मदनसहितं पात्रम् तस्योपरि।



 



        व्याख्यानान्तरमपि-अमत्रं पात्रमवकिरेदिति सम्बन्धः। अमो रोगश्चतुरुत्तरचतुः शतव्याध्यात्मकं दुःखम् तस्मात् त्रायत इत्यमत्रं महासुखं विश्वेषामाधारभूतत्वाद् वा अमत्रं महासुखस्वरूपं पात्रम्। तदवकिरेत् संयोजयेत्। सममिति सर्वत्रैकरूपत्वात्। रङ्गारुणयोगजमिति। रङ्गः शुभ्रत्वात् सरागत्वाद् वा बोधिचित्तम् अरुणममिताभो रजः,तयोर्योग-स्तस्माज्जातम्। कुत्र तद्विधेयमित्याह-वज्रधरोपरीति। वज्रं  कुलिशं तदेव धरः सर्वतोऽगम्यत्वात् प्रपातत्वाज्जातस्योपरि तस्य शिखरे। कैः सहावकिरेदित्याह-भुजगभवैरिति। भुजगो नागस्तदुद्भवैर्विषैर्विषया एव विषम् अनर्थहेतुत्वात्। तथा च श्रीहेवज्रे-



 



         सेवितव्या इमे सेव्या निर्विषीकृत्य शुद्धितः।इति।



 



     तथा च तत्रैव-



 



         तद्वत् संसारकं रत्नं पञ्चकामगुणैर्युतम्।



         अशुद्धो विषतां याति शुद्धः पीयूषवद् भवेत्॥



 



     किंभूतैः?सुविशुद्धैः। एतेऽपि विषयाः स्वरूपतो महासुखरूपिणः,किन्त्वविद्यावशाद्विषवन्निष्पद्यन्त इति सहजवृत्त्या सुपरिशोधितैः। सिचयगतैरिति। सिचये कर्पटे निबद्धैरिव संवृतैरित्यर्थः। शनकैरिति धैर्येण। अथवा भुजगः सिह्लस्तद्भवै रागैः। सहेति शेषः। लौकिकरागोऽपि तत्र निक्षेप्तव्य इति भावः। यद्वा भुजगभवैः सिन्दूरैरिव सिन्दूरैः सरागत्वाद् महारागरसैः। अवकिरेदित्यर्थः॥५॥



 



तत्र जिनहृदयहृदयं चक्रं शिखिकोटिकं समभिलिख्य।



तद्गर्भे मन्त्रालीं गाङ्गेयशलाकया विलिखेत्॥६॥



 



     कर्तव्यान्तरमाह-तत्रेत्यादि। मन्त्रालीं भगवतीं मन्त्रपङ्क्तिं विलिखेदिति सम्बन्धः। किंकृत्वेत्याह- चक्रं समभिलिख्येति। जिनहृदयहृदयमिति। जिना वैरोचनादयश्चत्वारस्तथागताः,तस्य (तेषां)हृदयमक्षोभ्यस्वरूपो भगवान् श्रीहेरुकः,तस्यापि हृदयं धर्मोदया,तत्स्वरूपम्। शिखिकोटिकमिति। शिखिः अग्निः,तस्य त्रयत्वात् त्रय एव कोटयोऽस्त्राणि यस्य। स्वार्थे कन्। चक्रस्य त्रिकोणमित्यर्थः। तत्रेति सिन्दूरक्षोदधूसरमुकुरे। मन्त्राल्येव कुत्र लिखितव्येत्याह-तद्गर्भ इति। दर्पणतललिखितधर्मोदयागर्भे। कया तल्लिखनीयमित्याह- गाङ्गेयशलाकयेति। गाङ्गेयं सुवर्णं तच्छलाकया वामहस्तेन लिखितव्यमित्यनन्तरश्लोकाद् बोद्धव्यमुपदेशाद् वा।



 



       अत्राम्नायः- आदौ इन्दुबिन्दुनादसहिता वँकाररूपिणी भगवती धर्मोदया किञ्जल्के लिखनीया। पश्चाद् धर्मोदयामध्ये कायवाक्चित्तविशुद्धया स्मरशङ्करदिक्संख्यामिलितपङ्क्तित्रयेण मन्त्रोद्धारोत्थितभगवतीमन्त्रराजो लिखनीयः। उभयचक्रप्रतिपादकभगवद्भगवतीस्वरूपहकाराकाराभ्यां हाकाररूपनिष्पन्नशेषाक्षर (रै)श्चाद्वैतविशुद्धया अधसि वँकारोपरि लिखनीयमिति। अथवा किञ्जल्के ॐँकारं दत्त्वा धर्मोदयारेखयैव पार्श्वे त्रयो लिखनीयाः। मध्ये वँकार इत्यपि कस्यचिदाम्नायः।



 



      व्याख्यानान्तरमपि- तत्रेति धर्मोदयायां मन्त्रालीम् अवधूतीं विलिखेत्। अक्षररूपेण स्थापयेदित्यर्थः। मनसस्त्राणान्मन्त्राः पवनसहाया बिन्दवस्तेषां सुखचक्रगमनाद् आली सेतुः पद्धतिरिति मन्त्रालीशब्देनावधूत्येवाभिधीयते। कया विलिख्यै (खे)दित्याह-गाङ्गेयशलाकयेति। गां पृथिवीं धर्मोदयां गच्छतीति गङ्गा सुमेरुशिखरान्निपतन्ती अमृतधारा तस्याः संजाता इति गाङ्गेया बिन्दवः,तत्प्रवाहादेव तेषां मणिशिखरोत्पत्तेः,त एव बिन्दवस्तद्वर्त्मना गच्छन्तः। शलाकेव शलाका अवधूतीशुषिरमेवावाप्य तद्गमनात्। किंकृत्वेत्याह-चक्रमित्यादि। जिनः श्रीहेरुकस्तस्यापि हृदयं महासुखाख्यं चक्रं तत्र सर्वदैवोदयात्। तदभिलिख्य तदाकार्येत्यर्थः। शिखिकोटिकमिति। शिखी चण्डाली ज्वाला तस्या कोटिरग्रभागः,स एव के मस्तके यस्य ,अधोमुखत्वाद् वकारस्येति भावः। तद्गर्भमिति। महासुखमध्य एवेत्यर्थः। अथवा मन्त्रालीं विलिखेद् बिन्दुधारामर्पयेत्। कयेत्याह- गाङ्गेयशलाकयेति। गाङ्गेयो बिन्दुः,तद्गमनार्थं शलाकेव शलाका अवधूती,तया। किंकृत्वेत्याह- जिनहृदयहृदयं समभिलिख्येति। जिनः श्रीहेरुकस्तस्य हृदयमक्षरो बोधिचित्तं तस्य हृदयं महासुखं तत् सम्यक् चेतसि निधायेत्यर्थः। चक्रमिति। सकलविकल्पोच्छेदकत्वात्। शिखिकोटिकमिति शिखी वह्निस्तस्य कोटिरग्रमतिशयरूपं यस्य तथा,अज्ञानेन्धनदहनादतितीक्ष्णत्वाच्च॥६॥



 



चक्रस्य बाह्यभागे पूर्वोत्तरपश्चिमार्किदिग्देशे।



सत्स्वस्तिकानभिलिखेत् क्रमेण वामेन हस्तेन॥७॥



 



      विशेषमाह- चक्रस्येत्यादि। सत्स्वस्तिकानविशिष्टानावर्तानभिलिखेत्। कुत्राभिलिखेदित्याह- चक्रस्य बाह्यभाग इति। धर्मोदयाबहिर्भागे। तत्राप्यनेकस्थानसंभवान्निश्चयमाह-पूर्वोत्तरपश्चिमार्किदिग्देश इति। अर्कस्यापत्यमार्किर्यमः। क्रमेणेति। पूर्वोत्तरादिक्रमेण वामहस्तेनेति सुबोधम्।



 



      व्याख्यानान्तरमपि- सद् विद्यमानं सुष्ठु स्वस्तिकं सुखं येषां ते स्वस्तिका बिन्दवः। तानभिलिखेद् विन्यसेदिति सम्बन्धः। कुत्र न्यसेदित्याह- चक्रस्य बाह्यभाग इति। महासुखचक्रस्य बहिर्भागे। किंभूते?पूर्वोत्तरपश्चिमार्किदिश एव देशो यस्य तस्मिन्। प्रतिपरमाणु प्रतिरोमकूपमित्यर्थः। केन लिखिता इत्याह- हस्तेनेति पवनेन। पञ्चाङ्गुलीप्रतिपादितपञ्चत्वात् शरीरस्थितानां पवनानां ग्रहणम्। किंभूतेन?वामेन मनोहरेण,अविक्षिप्तेनेत्यर्थः। कथं विलिखेदित्याह-क्रमेणातिधैर्येण,अच्युतत्वात्। प्रतिरोमकूपक्रमेण वा॥७॥



 



आकृष्य वज्रदेवीं प्रवेश्य मन्त्राक्षरेषु बद्ध्वा च।



परितोषयेद् विधानाज् जः हूँ वँ होरिति पठित्वा॥८॥



 



      विधानान्तरमाह- आकृष्येत्यादि। वज्रदेवीं परितोषयेदिति सम्बन्धः। किंकृत्वेत्याह- आकृष्येति। मुकुरतललिखितदेवीमन्त्रमालामयूखैरङ्कुशाकारैरकनिष्ठभुवनस्थितां देवीं जःकारेणाकृष्य। प्रवेश्येति। मन्त्राक्षरेषु दर्पणतललिखितेषु  हूंकारेण प्रवेश्य। बद्ध्वेति। तत्रैव मन्त्राक्षरेषु वंकारेण बद्धवा सुप्रतिबद्धां कृत्वा।कथमाकर्षणं कर्तव्यमित्याह- जः हूँ वँ होरिति पठित्वा। एतानाकर्षणप्रवेशनबन्धनतो म(मू)लमन्त्रान् प्रत्येकं प्रतिकृत्य भावनापूर्वकं पठित्वेत्यर्थः। विधानादिति। जा (ज्वा)लामुद्रादिकं कुर्वन्। "आक्रान्तपादोर्ध्वदृष्टिस्तु मूर्ध्ना फेंकारनादतः"इति चाम्नायः।



 



       व्याख्यानान्तरमपि-वज्रदेवीं चण्डालीं परितोषयेदाप्यायितां कुर्यात्। आकृष्येति। ऊर्ध्वं गतामपि पतितामृतधारा(र)याऽवनतां कृत्वेत्यर्थः। प्रवेश्य मन्त्राक्षरेष्विति। मन्त्रो बोधिचित्तं तस्याक्षरेषु महासुखज्ञानेष्वन्तर्भाव्य तद्रूपे निष्पाद्येत्यर्थः। निष्पादितकलायास्तु तस्या हेतुरूपेण स्थातुमयुक्तत्वात् सहजचण्डालीत्वमेव युक्तमित्यभिप्रायः। बद्धवा चेति। महासुखे सुप्रतिबद्धां कृत्वा। विधानादिति। यथाऽभिधानेन। तदेव स्पष्टयति-जः हूँ वँ होरिति पठित्वा। एतदक्षरचतुष्टयार्थयुक्तक्रमेणामुखीकृत्वे (त्ये)त्यर्थः॥८॥



 



तदनु सपर्यां विविधां तस्या विदधीत मन्त्ररूपायाः।



भक्ष्यैर्भोज्यैर्लेह्यैः पेयैश्चोष्यैः सकामगुणैः॥९॥



 



      पूजामाह- तदन्वित्यादि। तदनन्तरं तस्याः सपर्यां पूजां विदधीत कुर्वीतेति सम्बन्धः। मन्त्ररूपाया इति। क्षीरनीरवदेकीकृतमन्त्ररूपायाः। विविधामिति। नानाप्रकाराम्। भक्ष्यैरिति पिष्टकादिभिः। भोज्यैरिति अन्नैः। लेह्यैरिति मधुप्रभृतिभिः। पेयैरिति पानकादिभिः। चोष्यैरिति आम्रादिभिः। सकामगुणैरिति पञ्चकामोपभोगैः।



 



      व्याख्यानान्तरमपि-तस्या देव्याः सपर्यामनवरताभ्यासादेकनिष्ठतां  कुर्वीत। मन्त्ररूपाया इति। महासुखरूपायाः। कैर्हेतुभूतैरित्याह- तेषामेव सेचनाद्बलवृद्धैः,बलाच्च सुखोत्पत्तिरिति। सकामगुणैरिति। पञ्चकामगुणोपभोगमपि निःसंगेन विदधीतेत्यर्थः। यद्वा कामस्य त्रयोदशत्वाद् गुणानां च त्रित्वात् कामगुणशब्देन षोडश संक्रान्तयः पवनानामभिधीयन्ते। प्रतिदिनमनया भावनया श्वासलाभात् क्रमशो महासुख एवान्तर्भावादिति भावः॥९॥



 



विविधैर्बलैः समदनैरुपहारैः पञ्चभिरतिपरार्ध्यैः।



गीतैर्वाद्यैर्नृत्यैः प्रदक्षिणाप्रणतिनुतिभिश्च॥ १०॥



 



     न केवलमेतैरित्याह-विविधैरित्यादि। बलैर्मांसैः। विविधैर्नानाप्रकारैर्गोकुदहनैरित्यर्थः। समदनैरिति द्रव्यसहितैः। उपहारैः पञ्चभिरिति। पञ्चोपहारैः। अतिपरार्ध्यैः श्रेष्ठैः। गीतैर्वज्रगीतैः। अन्यैरिति सुललितैः। वाद्यैर्वीणावेणुप्रभृतिनिर्गतैः। नृत्यैर्वज्रपदोपनीतैः। प्रदक्षिणाप्रणतिनुतिभिश्चेति। प्रदक्षिणप्रणामस्तवैः।



 



      व्याख्यानान्तरमपि-बलैरिति। गोकुदहनस्वरूपैः पञ्चस्कन्धात्मकवैरोचनरत्नसंभवामिताभामोघाक्षोभ्याख्येभ्यस्तेषामपि महासुखेऽन्तर्भावात्। समदनैरिति। मदयतीति मदनोऽङ्कारस्तत्सहितैः। उपक्रियते आद्रियते विश्वमेभिरिति उपहारा विषयास्तैः। पञ्चभिरिति चक्षुरादिपञ्चविज्ञानैः। अतिपरार्ध्यैर्द्वेषादिभिः। गीतैरिति। महासुखोत्थितनादरूपध्वनिभिर्लक्षितैः। वाद्यैरिति कुलिशशब्दैः। नृत्यैरिति सुरताङ्गभङ्गैः। प्रदक्षिणेति वज्रपद्मस्य  दक्षिणावर्तचालनैः। प्रणतिरिति ध्यानावनतदृष्टिता। नुतिरिति हाकारसीत्कारादिः। अथवा एतैः सर्वैरेव सहेत्यर्थः। तत्कार्ये सर्वेषां तुल्यरूपत्वात्॥१०॥



 



प्रतिदिवसं प्रतिपक्षं प्रतिमासं वा तिथौ दशम्यां सत्।



कुर्याद् यथोक्तपूजाविधिमस्याः सिद्धिमाकाङ्क्षन्॥११॥



 



इति तत्त्वज्ञानसंसिद्धौ बाह्यपूजाविधिः॥



 



     कदा कर्तव्यमित्याह- प्रतिदिवसमित्यादि। यथोक्तपूजाविधिं कुर्यादिति सम्बन्धः। अस्या इति। मन्त्ररूपाया देव्याः। प्रतिदिवसं नित्यं प्रतिपक्षं सितासितदशम्याम्। प्रतिमासमिति कृष्णदशम्याम्। योगिन्याः कृष्णपक्ष एवाधिकारात्। तिथौ दशम्यामिति। दशम्येव देवीतिथिरित्यर्थः। स तु पण्डितः सिद्धिमाकाङ्क्षन् इति। लौकिकलोकोत्तरसिद्धिमभिवाञ्छन्।



 



     व्याख्यानान्तरमपि- अस्या महासुखरूपाया यथोक्तपूजाविधिं कुर्यात्। प्रतिदिवसमिति,दिनस्योपलम्भरूपत्वात् प्रत्युपलम्भम्। यद्यदुपलभ्यते तत्तन्महासुखे प्रवेशयेदित्यर्थः। प्रतिपक्षमिति। भावपक्षमभावपक्षं  वा। प्रतिमासमिति। मासस्य पक्षद्वयमिलितत्वात्। उभयपक्षमपि महासुखे नियोजयेदिति भावः। उक्तञ्च भगवता-



 



      अर्थप्रतिशरणेन बोधिसत्त्वेन भवितव्यं न शब्दप्रतिशरणेन। इति।



 



      सिद्धिमाकाङ्क्षन्निति सिद्धिमिच्छन्। कुत्रेत्याशङ्कायामाह-दशम्यामिति। दशम्यां भूमौ दशभूमीश्वरत्वमिच्छन्नित्यर्थः। तिथाविति।



दशमीभूमिरेव देवीतिथिस्तत्र सर्वदा सन्निहितत्वात्॥११॥



 



श्रीमद्विक्रमशीलदेवमहाविहारीयमहापण्डितभिक्षुवीर्यश्रीमित्रविरचितायां तत्त्वज्ञानसंसिद्धिपञ्जिकायां बाह्यपूजाविधिः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project