Digital Sanskrit Buddhist Canon

1 आशीर्वादाभिधानम्

Technical Details


 



तत्त्वज्ञानसंसिद्धिः



 



[आशीर्वादाभिधानम्]



 



नमो भगवत्यै वज्रवाराह्यै।



 



उद्याता तलचक्रतोऽनिलधुता विद्युच्छटाभास्वरा



दग्धारित्रितया त्रिलोकमहिता पीयूषधाराप्लुता।



बुद्धज्ञानरसाविला विकलुषा सानन्दसन्दोहदा



भावाभावविचारणाविरहिता वाराहिका पातु वः॥१॥



 



 मर्मकलिकापञ्जिका



        ॐ नमः श्रीवज्रविलासिन्यै।



चण्डालीकरलीलया निजपदादुल्लासितो विश्वभू-



र्विश्वग्भूरि महासुखं विरचयंल्लीनः स्वबोधोदये।



अम्भोजाग्र[ग]तोऽपि निर्वृतिपदं प्राप्तोऽपि धत्ते यया



द्रागद्रावुदयद्वयं   च   सहजानन्दाय  वन्दामहे॥



 



जलधिरिव नवो नवोपमश्रीः प्रभुरयमम्बरमात्रलब्धसङ्गैः।



जगदवतु तडिद्वतीव सन्ध्या विलसति वज्रविलासिनी यदङ्गे॥



 



     एष शिष्योऽस्मि सर्वेषां दिव्योपायविदामहम्।



     वज्रदेवीगभीरार्थगम्भीरानन्दवर्तिनाम्॥



 



     क्षन्तव्यमत्र यदयं मित्रो व्यधितपञ्जिकः।



     अन्धकारे पदार्थानां मित्र एव प्रकाशकः॥



 



     परमार्थो गभीरोऽयं व्याख्यातारो न तादृशाः।



     इति चेत् क्रियतामत्र संवृत्यंशेऽपि गौरवम्॥



 



  अन्तर्हिते भगवति संवरार्णवे आचार्यः समाधिवज्रो वज्रविलासिनीकृतानुग्रहः सद्‍गुरुचरणारविन्दादुपदेशमाकृष्य हेतुफलस्वरूपचाण्डालीद्वयरूपिण्याः सहजरूपिण्याश्च श्रीमद्वज्रवाराह्याः साधनमतिप्रणीतगुणगणाभरणरमणीयं प्रणीतवान्। अतः प्रथमश्लोकद्वयेनापि प्रतिश्लोकं परस्परप्रतिबद्धभिन्नभिन्नार्थदशदशविशेषणविशेषितस्वरूपिणीं



तद्रूपिणीमेव सकृज्जगदविद्यान्धकारशमनीं शमनीतिसमुपनीतचतुर्थक्षणलक्षणानन्दसन्दोहसंजननीमिव तनयजनप्रतिपालनप्रतियोगिनीं योगिनीं



वज्रवाराहीमाशीर्वादद्वारेणाभिदधे-



 



उद्यातेत्यादि। वाराहिका वो युष्मान् पात्विति सम्बन्धः। वरयति



इच्छति विश्वेषां क्षेममिति वरं बोधिचित्तम्,वरमेव वारः,"वर



ईप्सायाम्"  चुरादावदन्तः,प्रज्ञादित्वात्स्वार्थिकोऽण्विधिः,पृषोदरादित्वाद्



वाऽऽत्वम्। यद्वा आवृणोति प्रतिरोमकूपं शरीरमिति वारः शुक्रम्,"वृणु आवरणे",आ पृषादिः। तं महासुखचक्रस्थं बिन्दुरूपं हेरुकं निर्माणचक्रादाहिनोति अनुगच्छतीति वाराहिका। संज्ञायां कन्। अथवा वरं स्वामिनं सुखचक्रगतं मानिनीव करेण हतवतीति निरुक्त्या स्वार्थिकादण्णन्ताच्च डाब्विधेर्वाराही। अत्रोपदेशक्रमोऽपि लिख्यते-



 



       वा-शब्दो वायुवाचीह वा-धातोर्गमनार्थके।



       तस्यैव    प्रेरणाद्यस्माद्देवीयं  समुदेव्यति॥



  तथा च शबरपादीयसाधने प्रकाशितम्-



       राक्षसास्यं समाकुञ्च्य समुज्ज्वाल्य प्रभास्वरम्।



       आकाल(र)स्तलचक्रस्थो वाराही सोऽभिधीयते॥



       रेफस्ततः  समुद्भूतो या रेखा वह्निरूपिणी।



       अकारो  वाऽवधूतीति  सर्वधर्मसुखं  हि  सा॥



      रेफो वह्निमयी रेखा तद्वर्त्तमाना(र्त्मना)चलिता सती।



       अत्राप्यकारो  द्रष्टव्यः  प्रभास्वरसुखाकृतिः॥



       द्वयोः  संयोगतो वेति  मध्यवर्णायतो भवेत्।



       हकारः सुखचक्रस्थो  रेखयाऽऽलिङ्गितस्तया॥



       ततः  संप्लावयन्  देवीमिकारो बिन्दुरुच्यते।



       तस्माल्लोकोत्तरा   काचिल्लोकोत्तरसुखप्रदा॥



       लक्ष्मीरक्षीणविभवा   सेयमीकाररूपिणी।



       एनां  सप्ताक्षरीं  देवीं  त्रैलोक्यज्ञानशुद्धितः॥



       वाराहीमवदद्वीरो      हेरुको हेरुकीमिमाम्।



     चण्डमालमलीकं हि विश्वमस्याः  प्रकाश्यते॥



      अत एवाह भगवान् चण्डालीमपि हेरुकीम्॥



 



      अत एव मूलतन्त्रस्यादिकारिकायाम्-"अथातो  रहस्यं वक्ष्ये"इत्यस्मिन् "तत इति निर्माणचक्रस्थितवज्रवाराहीस्वरूपादकाराद् रेफेण सूर्यरूपशिखया सुखचक्रस्थितसंवररूपस्य हकारस्य स्पर्शनाद्विन्दोः



स्पन्दनम्"इति चण्डालीयोगं व्याख्यातवान् भगवानस्मद्गुरुः। एतत्तु सद्गुरुचरणैर्दासपादैर्नन्दिपादात् कर्णाकर्णिकयाऽधिगत्य प्रकाशितम्। अत एव महता[मा]म्नायत्वादवधानमपि विधेयं सद्भिः। सैव किंभूतेत्याह-



 



      उद्यातेत्यादि ऊर्ध्वं गता। तलचक्रत इति धर्मसम्भोगमहासुखचक्रणात्तलस्थितत्वात् तलचक्रं निर्माणचक्रम्। ततोऽनिलधुतेति अपानवायुना प्रेरितेत्यर्थः। विद्युच्छटाभास्वरेति तडिल्लेखेव देदीप्यमाना,ज्ञानाग्निरूपत्वात्तस्याः प्रकाशमयित्वात् सरागत्वाद् वा। अत एव स्कन्धधात्वायतनदारुदाहिकेयं भगवती। दर्शितं च वसन्ततिलकटीकायाम्-



        कालमेघपटलान्तरोच्छलद्विद्युदुग्रपटलाधिकत्विषम्।



        सत्त्वभाजनयुगप्रदाहिकां त्वां नमामि जगदम्बहेरुकीम्॥



        नाभिचक्रकुहराम्बुराशितो वज्रवारिजसमाजसंभवाम्।



        सौधसाररसपानलम्पटां त्वां नमामि वडवानलत्विषम्॥



 



        दग्धारित्रितयेति। अरशब्देन आरा भण्यन्ते,तदस्यास्तीति अरि चक्रम्। दग्धं निःस्वभावीकृतमेकरसीकृतं चक्रत्रयं धर्मसम्भोगमहासुखाख्यं यया सा तथा। त्रिलोकमहितेति। त्रयो लोकाः स्वर्गमर्त्यपातालानि तैर्महिता। कायवाक्चित्तैर्वा,तदाकारेणात्मनिष्पत्तेः। पीयूषधाराप्लुतेति। पीयूषधाराभिः सुखचक्रस्थितहंकारसन्तापानन्तरगलत्सुधादीधितिसुधाधाराभिः प्लुता आप्यायिता,सकलविकल्पकलाकलापसमूलोन्मूलनसंजाताऽविच्छिन्नसहजसुखैकलोलीभूतत्वात् स्थितीभूतेति यावत्। अत एव तस्मिन् समये सैव ज्ञानमयी भगवती व्यपगतज्ञानज्ञेयकलुषा अचिन्त्यरूपेण निष्पादनीया योगधरैः। एतदेव स्पष्टयतिबुद्धज्ञानरसाविलेति। बुद्धोऽक्षोभ्यो वज्रवारिजसमाजसंयमसमासादितमणिमूलमध्याग्रो विरमप्राग्देशीयः परमेश्वरो बिन्दुः,तस्माद्यदुद्भूतं ज्ञानं प्रथमोपभुक्तकुमारीसुरतवत्,असमरसविशेषास्वादवत्,मूकदृष्टविशिष्टस्वप्नवत् ,स्वसंवेदनमप्रकाश्यं तत्त्वं तस्य रसास्वादनम्,तेनाविला तदेकनिष्ठा अनवसरेति यावत्। अत एव विकलुषा। कलुषं क्लेशा रागादयस्तैर्विरहिता विहीना,तेषामपि महासुख एवान्तर्भावात्। उक्तं च-



 



       यत्र यत्र मनो याति ज्ञेयं तत्र नियोजयेत्।



       चलित्वा यास्यते कुत्र सर्वमेव हि तन्मयम्॥



तथा च-



       येन येन हि भावेन मनः संयुज्यते नृणाम्।



       तेन तन्मयतां याति विश्वरूपो मणिर्यथा॥



 



 अथवा के सुखे रुषा रोषो यस्मात्तत् कलुषं विरागः,कपिरेका (कपीलिका)दित्वान्निरुक्तत्वाद्वा रेफस्य लत्वम्,तेन रहिता।कलुषं पापं वा विरागविलक्षणस्य पापस्याभावात्। पापमपि विराग एव। तथा चार्यदेवपादाः-



 



न विरागात्परं पापं पुण्यं न सुखतः परम्।इति।



 



       च्युतिर्विरागसंभूतिर्विरागाद् दुःखसम्भवः।



       दुःखाद् धातुक्षयः पुंसां क्षयान्मृत्युः प्रजायते॥इति॥



 



   सानन्दसन्दोहदेति। आनन्दा विरमान्तास्तैरेव सह विश्वेषां सम्यग्दोह आकर्षणं निराभासीकरणं यत्र स आनन्दसन्दोहः,तं ददातीति तथा। अथवा सम्यग्दृश्यन्ते निराभासीक्रियन्ते इन्द्रियविषयविज्ञानान्यनेनेति सन्दोहः सहजानन्दः। आनन्दा विरमान्तास्तैः सहित एकरसतामापन्नश्चासौ सन्दोहश्चेति सानन्दसन्दोहः,तं ददातीति तथा। अथवा सेति वाराहिकाविशेषणम्। आनन्दसन्दोहः स्रक्चन्दनवनिताद्युपभोगैर्लौकिकी सुखसम्पत्तिः लोकोत्तरा वा तत्प्रदात्रीत्यर्थः। एनां भगवतीमाराधयतामास्तां लौकिकोऽभ्युदयो लोकोत्तरमपि सुखमिति भावः। उक्तं चात्रैव साधने "अयन्तु सौख्यसाधनं ददातीति"। स्वानन्दसन्दोहदेतिपाठे द्वन्द्वमणिमूलमणिमध्यमण्यग्रावगतविपाकविचित्रादिचतुः क्षणलक्षणचतुरानन्दामन्दावबोधात् शोभनमानन्दानां सन्दोहं समूहं ददातीति तथा। एतेनैवैतदुक्तं भवति-एतस्या एव भगवत्याः प्रसादाद् दुर्लभध्यानक्षणलक्षणमुत्पद्यते। अन्यथा कथं न सुस्थस्य तलादधस्थस्य बिन्दोरवस्थानमृते कमलकिञ्जल्कं स्वकीयमिव आनन्दसन्दोहमर्पयतीति वा। भावाभावविचारणाविरहितेति भावाभावौ शाश्वतोच्छेदौ संवृतिविवृत्यंशौ,तयोर्विचारणा स्वरूपनिरूपणं तेन विरहिता वियुक्ता। तत्क्षणादेकरसतापत्तौ शून्यताकरुणाऽभिन्नमेव रूपं सिद्धमन्त्र इव शाश्वतोच्छेदे पिशाचदम्पतीकस्य साम्यात्कारणमुत्पद्यते। यदास्मात्तद्‍विचारणात् दत्तजलाञ्जलिर्योमिनीरेव शेषं सुखमनुभवतीति।



 



      व्याख्यानान्तरमपि-उत्पन्नक्रमयोगमधिकृत्य विग्रहवतीमपि सहजरूपिणीमपि देवीमाह-उद्यातेत्यादि।



 



      सा वाराहिका पात्विति सम्बन्धः। आवृणोति विश्वमिति वारः क्लेशज्ञेयस्वरूपमावरणद्वयं तमाहतवती वाराही। एतत्पक्षेऽप्युपदेशायातो वाराहीशब्दः प्रतिपाद्यते।



 



        वाशब्दो वागतीतार्थे रेफः सर्वरसैकता।



        नित्यस्वानुभवोऽकारो हकारोऽनाहतं सुखम्॥



 



        विदः प्रज्ञास्वभावत्वाज्जीवं तेन निदर्शितम्।



        एवं पिण्डीकृतार्थेयं(न)वाराहीतत्त्वमुच्यते॥



 



   उक्तं च संवराख्ये सिद्धाचार्यकृष्णपादैः-



 



        वाक्पथातीतवाशब्दो  राकाराकारवर्जितः।



        हेत्वनुपलब्धिहीकारं वाराहीशब्दकीर्तितम्॥इति॥



 



   उद्याता तलचक्रत इति। तलशब्दोऽधःस्वभावार्थेऽपि प्रयुज्यते। तलं स्वरूपं प्रभास्वरं शून्यतेति यावत्,तदेव चक्रम्,सकलविकल्पोच्छेदकत्वात्। तस्मात्तरङ्गलेखेव जलधेस्तदभिन्नैवोद्याता समुत्थिता



प्रणिधानादेव सामर्थ्यादिति भावः। अकारः प्रश्लेषो वात्र शून्यताप्रतिपादको द्रष्टव्यः। तेनात्र तलचक्रत इति बोद्धव्यम्। अनिलधुतेति। अनिलशब्देन तद्योगादनिलसमारूढं विज्ञानमभिधीयते,यथा मञ्चाः क्रोशन्तीति मञ्चे स्थिता एव पुरुषा अभिधीयन्ते,तेन प्राणवायुवाहनेन विज्ञानेन धुता निष्पीडिता निरासङ्गरूपेण नर्तत इत्यर्थः। यदिदं सपवनं विज्ञानं लीनं भवेद् विश्वमपि न रचयेत्। अत एवात्र प्रयत्नः कर्तव्यः। एतदर्थमेव सहजरूपिणीयं देवी वर्णचिह्नादिरहिता सकलवाग्विषयातीतापि शक्रधनुरिव गन्धर्वनगरमिव विचित्रमाकाशचित्रं पञ्चवर्णपञ्चरत्नविनिर्गतपञ्चरश्मिसमूहमिव सितकपालपीतशवकृष्णकर्तिहरितैकपताकिकादिनानाविचित्रयोगियोगिनीमध्ये मिलितमेव बन्धूककुसुमसमपञ्चतथागतात्मकभावकप्रणिधानचित्तरत्नवशादात्मनि निर्मलान्तर्गगनदेशे निर्मितवती भगवती। अत एवाकाररूपिणी च देवी,उकारेणामोघसिद्धिरूपपवनेन सह समरसतामापन्ना वंकाररूपिणी च निर्मितवती निर्माणचक्रम्,एतदभिमुखीकरणानवसरचित्तस्यैव पवनयोर्निरोधादकृत्रिमपदप्राप्तेः।



 



     उक्तञ्च श्रीहेवज्रे-



 



            भावेनैव विमुच्यन्ते वज्रगर्भ महाकृपा।



            बध्यन्ते भावबन्धेन मुच्यन्ते तत्परिज्ञया॥इति।



 



     तथा च-



            भाव एव परं मित्रं भाव एव परं रिपुः।



            शुद्धः पीयूषतां गच्छेदशुद्धो विषतोऽधिकः॥



 



     विद्युच्छटाभास्वरेति। सकलदुःखहरकिरणभरदेदीप्यमानेत्यर्थः। दग्धारित्रितयेति। दग्धमनुपलम्भीकृतमिन्द्रियविषयविज्ञानस्वरूपमरित्रयं शत्रुत्रयं यया। अथवा दग्धा भस्मसात्कृता मोहरागद्वेषा यया। त्रिलोकमहितेति। त्रयो लोकाः कायवाक्चित्तं तैस्तदाकारेणात्मनिष्पत्तेः। महिता सत्कृता। देवीरूपेणात्मनिष्पादनमेव देवी पूजेति भावः। पीयूषधाराप्लुतेति। पीयूषमिव पीयूषं सुखम्,अनुपमसुखधारास्नातेत्यर्थः। बुद्धज्ञानरसाविलेति। बुद्धो यथास्वरूपवस्तुबोधः। तथा श्रीहेवज्रे-"बुद्धोऽहं वस्तुबोधनाद्"इति। तदेव ज्ञानं तत्त्वं तत्र रस आस्वादस्तेनानाभोगेनाऽऽविला मिलिता। विकलुषेति। कलुषं क्लेशादि रागादयो विकल्पा वा,तेन रहिता। आनन्दसन्दोहदेति। आनन्दसन्दोहपरिशोधयित्री। 'दैप्'शोधने,आनन्दत्रयाणां तद्रूपेणाग्रहणात्,सहजे वाऽन्तर्भावात्। स्वानन्दसन्दोहदेति पक्षे स्व आत्मा सत्कायदृष्टिर्वा तद्विषय आनन्दो अभिनिवेशः,तस्य सन्दोहोऽविच्छिन्ना प्रवृत्तिः,तस्य खण्डयित्री।'दो'खण्डने। अत एव भावाभावविचारणाविरहितेति। भावः त्रयोपलम्भः,अभाव उच्छेदः,तयोर्विचारणा ग्राहकचित्तं तेन विरहिता।



 



     उक्तं च भगवत्या-"अस्ति तच्चित्तं यच्चित्तमचित्तमिति"



 



निर्माणारिदिनेशमण्डलगता काद्यादिवर्णावृता



प्रोज्ज्वालज्वलनोज्ज्वलाऽमृतसवा सूक्ष्माब्जसूत्रोपमा।



विद्या बुद्धकदम्बकं दहति या चक्रत्रयोद्भेदिनी



सानन्दा ललितोर्ध्वगा स्फुरतु वो वाराहिका चेतसि॥२॥



 



     विशेषार्थप्रतिपादनार्थमपरश्लोकमाह-निर्माणेत्यादि। वो युष्माकं वाराहिका पूर्ववत् कृतान्वया,स्फुरतु आविर्भवतु। किंभूतेत्याहनिर्माणारिदिनेशमण्डलगता इति। प्रथमतो निर्माणचक्रस्थितसूर्यमण्डलगता स्थिता। ततस्तलचक्रत उद्याता। भावकप्रौढचित्ताधिपत्यादिति भावः। काद्यादिवर्णावृतेति। ककार आदिर्यस्यासौ कादिः कालिः। अकार आदिर्यस्यासौ आदिरालिः। "अकोऽकि"दीर्घः। ककारषकाराभ्यां क्षकारस्य निष्पादितत्वात् क्षकारं परित्यज्य ऊनपञ्चाशद्वर्णाः पवनस्योनपञ्चाशत्त्वात् पवनप्रतिपादका बोद्धव्याः। अत आलिकालिशब्देन वामदक्षिणबाहु (वायु)द्वयमेव ग्रहीतव्यम्। एतेनैतदुक्तं भवति-प्रथमतः पवनद्वयेनावृता संवृता,तयोरुभयोर्वाह्वो(य्वोः)परित्यागात्,तत एव मध्यमाप्रवेशात् पश्चादनिलधुता अपानवायुना प्रेरितेत्यर्थः। संवृत्या तु आलिकालिपङ्क्तिद्वयेन वामदक्षिणावर्तमिलितेन ऊर्ध्वशिरस्तदवस्थेन दिनेशमण्डलमेवावृतं बोद्धव्यम्। प्रोज्ज्वालज्वलनोज्ज्वलेति। प्राक् निर्माणचक्रे सैव वंकाररूपिणी भगवती ज्वलनराशिरिव समुज्ज्वलाऽऽसीत्। ततो विद्युच्छटाभासु (स्व)रा तडिल्लेखेवाऽ भवदित्यर्थः। अमृतसवेति। अमृतस्य पीयूषस्य सवः प्रसव उत्पत्तिर्यस्याः सा तथा। सुखचक्रगतभगवत्याधिपत्यादिति भावः।अत एव दग्धारित्रितया। उपमर्दितचक्रत्रितया। सूक्ष्माब्जसूत्रोपमेति। सूक्ष्ममतिसूक्ष्मं च तदब्जसूत्रं मृणालसूत्रं चेति सूक्ष्माब्जसूत्रम्,सैवोपमा सादृश्यं यस्याः सा तथा। अनुपलम्भस्वभावत्वादवधूती स्वरूपत्वाच्च। अत एव त्रिलोकमहिता,'मह'पूजायाम्।



 



     कायवाक्चित्तानां देवीरूपेणात्मनिष्पादनमेव देवीपूजा सकलविकल्पातीतातिसूक्ष्मा। नादमात्रावशिष्टायामस्यामेवान्तर्भावो युक्त इत्यभिप्रायः। विद्येति। या देवी विद् ज्ञानरूपिणी। वेत्तीति वित्।'विद्'ज्ञाने,क्विप्। अत एव पीयूषधाराप्लुता ज्ञानज्योतिरूपिणी हि सा देवी सुधास्नातेति शुद्धा। यद्वा पीयूषमिव पीयूषं महासुखं तन्मयीत्यर्थः। बुद्धकदम्बकं दहति येति। बुद्धकदम्बः पञ्चतथागतास्तेषां कमात्मानं पृथक् पृथग् बोधं या दहति निःस्वभावीकरोति,पञ्चबुद्धानामेवोपलम्भस्वरूपत्वात्। उक्तं च भगवता श्रीगुह्येन्दौ- 'पञ्चबुद्धात्मकु सर्वजगोऽयम्'इति। संध्याव्याकरणेऽपि-'स्कन्धा एव हि संबुद्धाः'इति। एषामुपलम्भाद्विश्वस्यैवोपलम्भ इत्यर्थः।



भगवद्भगवत्योरभेदाद्देवीनामपि ग्रहणम्। बुद्ध शब्देनैव वा तद्ग्रहणम्। 'अबुद्धो नास्ति सत्त्वकः'इतिवचनात्। अत एव बुद्धज्ञानरसाविला यथावद् बोधमयी। विद्याबुद्धकदम्बकं दहति येति समासपाठे वितं ज्ञानं यान्ति प्राप्नुवन्तीति विद्या लोचनादयः। तत्पक्षे सूक्ष्मेति भिन्नयोगोऽनुपलम्भज्ञानप्रतिपादकः कर्तव्यः। चक्रत्रयोद्भेदिनीति। चक्रत्रयमुद्भेत्तुं शीलं यस्याः सा तथा। भिदुरशिखरगतमपि सरसिजोदरपतितमपि भगवन्तं भगवतीमपि रजोरूपिणीमादाय चक्रत्रयमुद्भिद्य गच्छन्ती वेति भावः।अत एव विकलुषा क्लेशरहिता,महासुखसंवलितत्वात्। तथा चाह- सानन्देति। आनन्दो बिन्दुः सोऽशेषानन्दावाप्तिस्तेन युक्तं कार्यकारणम्,अथवा कार्यकारणयोरभेदात् सुखं वा,तेन महिता अत एव स्वानन्दसन्दोहदा शोभनानन्दवृन्दप्रदात्री,स्वयं समर्थस्यैव परानुग्रहोपपत्तेः। ललितोर्ध्वगेति।ललितेन महारागानुबन्धेन मध्यमानुप्रवेशेन,ऊर्ध्वगामिनीत्यर्थः। अथवाललिता अद्वयमहारागानुबद्धा चासौ ऊर्ध्वगा। महासुखचक्रगा चेति वा। अत एव भावाभावविचारणावि रहिता महारागानुबद्धस्वरूपाया विचारणाऽनुपपत्तेः। विचारोऽपि विक्षेपः। स च महारागानुबन्धश्चेति व्याहतमेतत्। उक्तञ्च भगवता-



 



           बोधाम्भोधावनुल्लोके कतरः कल्पबुद्बुदः। इति।



 



     व्याख्यानान्तरमपि-निर्माणारीत्यादि। निर्माणस्योत्पादस्यारिः वैरी शवरूपप्रतिपादितं विशुद्धनैरात्म्यम्। तत्र स्थितदिनेशमण्डले ज्ञानालोकमण्डले गता ज्ञाता गमिरत्र ज्ञानार्थः,सर्वे गत्यर्था ज्ञानार्था इति न्यायात्।



 



     काद्यादिवर्णावृतेति। आलिकालिमयी। प्रज्ञारूपिण्या अस्याः सकलवाङ्मयस्वभावत्वात्। अथवा कश्च अश्च आदी येषां ते कादयः स्वरव्यञ्जनानि,तेषामादिवर्णोऽकारस्तेन रूपेणावृता संवृता,अथवा कादयः क च ट त प य श स्वरूपाः सप्त वर्गाः। तेषामादिः षोडशकलास्वरूपोऽकारः। तेन रूपेण संवृता,अकारस्यैव सर्वधर्मसंवरणरूपत्वात्। श्रीहेवज्रे च-



 



            योगिन्या  देहमध्यस्थम् अकारसंवरस्थितम्।



            यथा बाह्यं तथाऽध्यात्मं संवरं तत् प्रकाशितम्॥इति॥



 



      एकाक्षरायामपि  प्रज्ञापारमितायामस्यैव सुविशुद्धधर्मधातुस्वरूपेण प्रतिपादितत्वात्। प्रोज्ज्वालज्वलनोज्ज्वलेति। विश्वविसर्पाङ्गगभस्तिभरभास्वरशरीरा।अमृतसवेति। अमृतं मोक्षः स एव सवः प्रसवो यस्याः सा तथा। सूक्ष्माब्जसूत्रोपमेति। अतिसूक्ष्माब्जप्रभवरूपत्वात्। विद्येति। सहजप्रज्ञारूपिणी। अथवा या देवी वित् अकृत्रिमज्ञानमयीत्यर्थः। बुद्धकदम्बकं दहति येति। बुद्धाः श्रावकप्रत्येकास्तेषां कदम्बकं कुत्सितमम्बकं कुदृष्टिरेवैकमात्मानं दमयिष्यामीत्याद्यधिमोक्षः,तद्दहति या तस्य नाशमयीत्यर्थः। सत्त्वार्थनिष्ठत्वात् तस्याः। तथा च वैभाषिकस्य वैशेषिकमतानुप्रवेशे भगवद्वचनमपि-



 



           वरं जेतवने रम्ये शृगालत्वं व्रजाम्यहम्।



           न तु वैभा(शे)षिकं मोक्षं गौतमो गन्तुमर्हति॥इति।



 



    यद्वा बुद्धकदम्बा विषयविषयिणस्तान् दहति अनुपलम्भे नियोजयतीत्यर्थः। चक्रत्रयोद्भेदिनीति। चक्रत्रयं कायवाक्चित्तस्वरूपम्,तेभ्य एव विशकलितेभ्यो विशिष्टदृष्टिच्छेदप्रसङ्गात्,तद् भेत्तुं विदारयितुं शीलं यस्याः सा तथा। सानन्देति सहजानन्दस्वभावा। ललितोर्ध्वगेति। ललितेन महारागेण ऊर्ध्वमतिशयितमवाग्गोचरमर्थं गच्छन्ती प्राप्नुवतीत्यर्थः॥२॥



 



प्रणिपत्य वज्रपूर्वां वाराहीं वज्रयोगिनीं शिरसा।



स्वस्मृतये वक्ष्येऽहं तत्त्वज्ञानस्य संसिद्धिम्॥३॥



 



    नमस्कारद्वारेणाभिधेयं प्रतिपादयन्नाह-प्रणिपत्येत्यादि। अहं तत्त्वज्ञानसंसिद्धिं सम्यक्‍सिद्धिमुपादाय वक्ष्य इति सम्बन्धः। कारणे कार्योपचारात्। तत्त्वं स्वपरविकल्पातीतमनिर्वचनीयसत्सुखरूपं तद्वत् तद्ज्ञानं स्वसंवेदनं चेति तत्त्वज्ञानम्। तथा चोक्तं श्रीहेवज्रे-'सत्सुखत्वेन तत्त्वञ्च'इति। किंकृत्वेत्याह-वाराहीं प्रणिपत्येति। उभयचण्डालीरूपिणीं सहजरूपिणीं नमस्कृत्येत्यर्थः। वज्रपूर्वामिति। वज्र एव पूर्वं यस्यास्तां वज्रवाराहीमभेद्यज्ञानस्वभावामित्यर्थः। वज्रयोगिनीमिति। वज्रेण बिन्दुना महासुखेन वा योगः संयोगो यस्याः सा तथा। शिरसेति मस्तकेन। स्वस्मृतय इति। आत्मनः स्मरणाय। औद्धत्यपरिहारोऽस्य वाक्यार्थः॥३॥



 



[इत्याशीर्वादाभिधानम् ]    


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project