Digital Sanskrit Buddhist Canon

नित्यकर्मपूजाविधिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Nityakarmapūjāvidhiḥ
नित्यकर्मपूजाविधिः

ॐ नमः श्रीवज्रसत्त्वाय।

अथ नित्यकर्मपूजाविधिः प्रारभ्यते। तत्रादौ ॐ ह्रीं स्वाहा ३ कायविशोधने स्वाहा। इति मन्त्रेण त्रिधा आचम्य पूजाभाण्डसंकल्पं कुर्यात्।

तद्यथा - ॐ अद्य श्रीमच्छ्रीत्यादिना संकल्पोच्चारणानन्तरमिदं मन्त्रं पठेत्। ॐ नमो भगवते पुष्पकेतुराजाय तथागतायार्हते सम्यक्संबुद्धाय।

तद्यथा - ॐ पुष्पे २ महापुष्पे सुपुष्पे पुष्पोद्भवे पुष्पसंभवे पुष्पावकिरणे स्वाहा। इदं सपुष्पधूपदीप गन्धरसनैवेद्यादियुक्तं सुवर्णपुष्पभाजनं संकल्पयाम्यहम्। ततो प्राणायामादि न्यासयोगादि कृत्वा गुरुं च नमस्कृत्य शङ्खं पूजयेत्॥
ॐ गुरुभ्यो नमः ३ समस्त गुरु आज्ञा। ॐ आ हूँ वँ वज्रोदके हूँ स्वाहा॥ शिरसि शङ्खोदकेनाभिषिञ्चेत् -

यथा हि जातमात्रेण स्नापिताः सर्वतथागताः।
तथाहं स्नापयिष्यामि शुद्धदिव्येन वारिणा॥

ॐ सर्वतथागताभिषेकसमश्रिये हूँ। पुनः। ॐह्री स्वाहेति मन्त्रेणाचम्य पूर्वोक्तमन्त्रेण पूजाभाण्डमधिष्ठाय पुष्पैकं त्रिकायाधिष्ठानं कृत्वा भूमौ न्यसेत्। ॐ आः हुँ ३ तिष्ठ वज्रासने हुँ। पार्श्वाभ्यां क्षिपेत् द्वौ पुष्पौ। ॐ सर्वपापानपनय हुँ। एकं शिरसि न्यसेदनेन मन्त्रेण - ॐ मणिधरि वज्रिणि महाप्रतिसरे रक्ष २ मां सर्वसत्त्वानां च हुँ २ फ़ट् स्वाहा। मण्डले तिलकं कृत्वाऽऽत्मानं च भूषयेत्। ॐ वज्रतिलकभूषणे स्वाहा। सजलपुष्पाक्षतवासमण्डले पातयेदनेन मन्त्रेण , ॐ वज्रोदके हूँ। ॐ वज्रगोमये हुँ। ॐ वज्रभूमौ सुरेखे सर्वतथागताधिष्ठानाधितिष्ठन्तु स्वाहा। एतच्च पठेत्।

दानं गोमयम्बुना च सहितं शीलं च सम्मार्जनं
क्षान्तिं क्षुद्रपिपीलिकापनयनं वीर्यं क्रियास्थापनम्।

ध्यानं तत्क्षणमेकचित्तकरणं प्रज्ञासुरेखोज्वला
एताः पारमिता षडेव लभते कृत्वा मुनेर्मण्डलम्॥

भवति कनकवर्णः सर्वरोगौर्विमुक्तः
सुरमनुजविशिष्टश्चन्द्रवद्दीप्तकान्तिः।

धनकनकसमृद्धिर्जायते राजवंशे
सुगतवरगृहेऽस्मिन् कायकर्माणि कृत्वा॥

ॐ सुले(रे)खे सर्वतथागताधिष्ठानाधितिष्ठन्तु स्वाहा। पुष्पैकं हस्तस्योपरि न्यस्य न्युब्जहस्तं कृत्वा मण्डले क्षिपेत्। ॐ चन्द्रार्कविमले स्वाहा। मण्डलं प्रदक्षिणीकृत्य पुष्पैकं बलिभाण्डे क्षिपेत्। ॐ वज्रसत्त्व सर्वविघ्नानुत्सादयहुँ। पूर्वादिक्रमेण द्विपरिवर्तनं कृत्वा एकविंशतिपुष्पपातनं कुर्यात् मण्दले। ॐ हः महामध्ये मेरवे नमः। ॐ ह्रीं मध्ये मेरवे नमः। ॐ सूँ सूक्ष्ममध्ये मेरवे नमः। इति मध्ये। ॐ यं पूर्वविदेहाय नमः। पू। ॐ रं जम्बूद्वीपाय नमः। द। ॐ लं अपरगोदानीये नमः। प। ॐ वं उत्तरकुरवे नमः। उ। ॐ या उपद्वीपाय नमः। अ। ॐ रा उपद्वीपाय नमः। नै। ॐ ला उपद्वीपाय नमः। वा। ॐ वा उपद्वीपाय नमः। ई। तथैव। ईं यः गजरत्नाय नमः। ईं रः अश्वरत्नाय नमः। ॐ लः पुरुषरत्नाय नमः। ॐ वः स्त्रीरत्नाय नमः। ॐ या खड्गरत्नाय नमः। ॐ रा चक्ररत्नाय नमः। ॐ ला मणिरत्नाय नमः। ॐ वा सर्वनिधानेभ्यो नमः। ई। ॐ चं चन्द्राय नमः। द। ॐ सूं सूर्याय नमः। उ। ॐ आः हुँ श्रीवज्रसत्त्वगुरवे नमः। मध्ये। पञ्चोपचारपूजा। ॐ वज्रगन्धे स्वाहा। गन्धः। ॐ वज्रपुष्पे स्वाहा। पुष्पं। ॐ वज्रधूपे स्वाहा। धूपं। ॐ वज्रनैवेद्ये स्वाहा। नैवेद्यं। ॐ वज्रदीपे स्वाहा। दीपं। ॐ वज्रलाजाय स्वाहा। लाजां। पुष्पाक्षतसहितजलधारां मण्डले पातयेत् -

ॐ चतूरत्नमयं मेरुमष्टद्वीपोपशोभितम्।
नानारत्नसमाकीर्णं तद्येऽनुत्तरदायिनः॥

गुरुभ्यो बुद्धधर्मेभ्यः संघेभ्यश्च तथैव च।
निर्यातयामि भावेन सम्पूर्णं रत्नमण्डलम्॥

स्तुतिः। ॐ आः हुँ (हूँ) श्रीमद्वज्रसत्त्वसगुरुवरचरणकमलाय सम्यग्ज्ञानावभासनकराय नमोऽहं नमस्तेस्तु नमो नमः भक्त्याहं त्वां नमस्यामि गुरुनाथ प्रसीद मे। कृताञ्जलिना तिष्ठेत्।

यस्य प्रसादकिरणैः स्फ़ुरितात्मतत्त्व
रत्नप्रभापरिकरैः प्रहतान्धकाराः।

पश्यन्त्यनाविलदृशैः सविलासमुच्चै
स्तस्मै नमस्कृतिरियं गुरुभास्कराय॥

नमो बुद्धाय गुरुवे नमो धर्माय तायिने।
नमः संघाय महते त्रिभ्योऽपि सततं नमः॥

सर्वबुद्धं नमस्यामि धर्मं च जिनभाषितम्।
संघं च शीलसम्पन्नं रत्नत्रय नमोऽस्तु ते॥

रत्नत्रये मे शरणं सर्वं प्रतिदेशयाम्यहम्।
अनुमोदे जगत्पुण्यैः बुद्धबोधौ दधे मनः॥

आबोधौ शरणं यामि बुद्धधर्मगणोत्तमे।
बोधिचित्तं करोम्येष स्वपरार्थप्रसिद्धये॥

उत्पादयामि वरबोधिचित्तं निमन्त्रयाम्यहं सर्वसत्त्वान्।
इष्टां चरिष्ये वरबोधिचर्यां बुद्धो भवेयं जगतो हिताय॥

देशनां सर्वपापानां पुण्यानां चानुमोदनाम्।
कृतोपवासं चरिष्यामि आर्याष्टाङ्गमुपोषधम्॥

मया बालेन मूढेन यत्किञ्चित्पापमागतम्।
प्रकृत्यावद्यसावद्यप्रज्ञप्त्यावद्यमेव च॥

तदत्ययं देशयाम्येष नाथानामग्रतः स्थितः।
कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः॥

अत्ययमत्ययं तेन प्रतिगृह्णन्तु नायकाः।
न भद्रकमिदं चाथ न कर्तव्यं पुनर्मया॥

यथा ते तथागता आर्यार्हन्तः सम्यक्संबुद्धा बुद्धज्ञानेन बुद्धचक्षुषा जानन्ति पश्यन्ति यत् कुशलमूलं यज्जातिकं यन्निकायं यादृशं यत्स्वभावं यल्लक्षणं यथाधर्मतया संविद्यते। तत्कुशलमूलं नित्यमनुत्तरायां सम्यक्संबोधौ परिणामितं तथाहं परिणामयामि।

तथा ममानेन समानकालं लोकस्य दुःखं च सुखोदयं च।
हर्तुं च कर्तुं च सदास्तु शक्तिस्तमःप्रकाशं च यथैव भानोः॥

दृष्टः श्रुतोऽनुस्मृतिमागतो वा पृथक्कथायोगमुपागतो वा।
सर्वप्रकारं जगतो हिताय कुर्यामजस्त्रं सुखसंहिताय॥ इति॥

अत्रावसरे जापयोगं कुर्यात्। तदावसानेऽमृतकुण्डलिवलिभाण्डे शङ्खोदकचुलुकं दद्यादनेन ॐ ह्रीं आचमनं [प्रोक्षणं] प्रतिच्छ स्वाहा। भावना। ततो यंकारेण वायुमण्डलं रंकारेणाग्निमण्डलं तदुपरि त्रिमुण्डकृतचूडिकोपरि सितपद्मभाजनं तत्र भक्तादिपरिपूरितं तत्रोपरि ब्रुँ आँ जिँ खँ हुँ लां मां पां तां वंकारजातः पञ्चामृतपञ्चप्रदीपरुपं निष्पाद्य ततो गरुडमुद्रां दर्शयेत्। फ़्रें ३। पुनः शङ्खोदकचुलुकं दद्यादनेन -

ॐ इन्द्रादिलोकपालेभ्यः पाद्याचमनं [नार्घं] प्रोक्षणं प्रतिच्छ स्वाहा। जः हुँ वँ होरिति मुद्रां प्रदर्श्य इन्द्रादिदशदिक्पाललोकपालमुद्रां च प्रदर्श्य पूर्वादिक्रमेण बलिभाण्डे पुष्पं पातयेदेभिर्मन्त्रैः।

ॐ इन्द्राय स्वाहा। ॐ वरुणाय स्वाहा। ॐ कुवेराय स्वाहा। ॐ अग्नये स्वाहा। ॐ नैरृत्ये स्वाहा। ॐ वायवे स्वाहा। ॐ ईशानाय स्वाहा। ॐ ऊर्ध्वं ब्रह्मणे स्वाहा। ॐ अधः पृथिवीभ्यः स्वाहा। ॐ सूर्याय ग्रहाधिपतये स्वाहा। ॐ चन्द्रादि (य) नक्षत्राधिपतये स्वाहा। ॐ नागेभ्यः स्वाहा। ॐ असुरेभ्यः स्वाहा। ॐ यक्षेभ्यः स्वाहा। ॐ सर्वदिग्विदिग्लोकपालेभ्यः स्वाहा। पञ्चोपचारपूजा पूर्ववत् स्तुतिः।

इन्द्रादयो महावीरा लोकपाला महर्द्धिकाः।
कीलयन्तु दशक्रोधा विघ्नहर्ता नमोऽस्तु ते॥

तर्पणम् -
बिभ्राणं बुद्धबिम्बं दिवसकरधर राशि या बिन्दुलेखम्।
मैत्रीयं चारुरूपं शिरसि वरतनुं मञ्जुघोषं च गात्रम्॥

पद्मस्थं दण्डरूपं कुलिशवरतनुं वज्रिणं भीमनादम्।
विज्ञानं ज्ञानरूपं निहितभवभयं पञ्चमूर्ति प्रणम्य॥

साक्षतपुष्पजलधारां बलिभाण्डे पातयेत्।

इन्द्रादिवज्री सह देवसंघैरिमं च गृह्णन्तु बलिं विशिष्टम्।
अग्निर्यमो नैरृतिभूपतिश्च अपांपतिर्वायुधनाधिपश्च॥

ईशानभूताधिपतिश्च देवा ऊर्ध्वश्च चन्द्रार्कपितामहश्च।
देवाः समस्ता भुवि ये च नागाः धराधरा गुह्यगणैः समेताः॥

प्रतिप्रतित्वेक निवेदयन्तु स्वकस्वकाश्चैव दिशासु भूताः।
गृह्णन्तु तुष्टाः सगणैः समेताः स पुत्रदाराः सह भृत्यसंघैः॥

हृष्टाः प्रसन्नाः स्रग्गन्धामाल्यं पुष्पं बलिर्धूपविलेपनं च।
गृह्णन्तु भुञ्जन्तु पिबन्तु चेदं इदं च कर्मं सफ़लं भवेन्मे॥

हुँ हुँफ़ट् फ़ट् स्वाहा पुनस्तथैव च। ॐ नमो रत्नत्रयाय ॐ चण्डवज्रपाणये महाक्रोधाय दंष्ट्रोत्कटभैरवाय असिमुशलपाशगृहीतहस्ताय। ॐ अमृतकुण्डलि ख ख खाहि २ तिष्ठ २ बन्ध २ हन २ दह २ पच२ गर्जय २ तर्जय २ विस्फ़ोटय २ महागणपतये जीवितान्तकराय हुँ हुँ फ़ट् २ स्वाहा। तत्र पुष्पादि पूजा। तद्विधिं देवतापूजायां दर्शद्दीपान्ते लाजाभिरेतद्गाथया पूजयेत्।

ये धर्मा हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत्।
तेषां च यो निरोध एवंवादी महाश्रमणं॥

पूष्पाक्षतजलैः पूजयेदनेन। ॐ अकारो मुखः सर्वधर्माणामाद्यनुत्पन्नत्वात्। ॐ आः हुँ (हूँ) फ़ट् स्वाहा। दक्षिणा। ॐ मञ्जुश्रिये कुमारभूताय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय तण्डुलदक्षिणा संप्रढो (तो) षयाम्यहम्। साक्षताञ्जलेना तिष्ठेत्। ॐ वज्रसत्त्वसमयमनुपालय वज्रसत्त्वत्त्वेनोपतिष्ठ दृढो मे भव सुतोष्यो मे भव सुपोष्यो मे भव अनुरक्तो मे भव सर्वसिद्धिं मे प्रयच्छ सर्वकर्मसु च मे चित्तश्रियं कुरु हुँ ह ह ह ह हो भगवन् सर्वतथागत वज्रं मा मे मुञ्च वज्रीभव महासमयसत्त्व आः। इति गुरुमण्डलक्रिया।

ततो देवतापूजार्थं देवताया शिरःप्रदेशे पुष्पमारोप्य एतद्भावनावाक्यं पठेत्। ॐ स्वभावशुद्धाः सर्वधर्माः स्वभावशुद्धोऽहम्। ॐ शून्यताज्ञानवज्रस्वभावात्मकोऽहम्। धूपवाक्यम्। ॐ भगवन् श्री अमुकवज्रविद्याराज नमोऽस्तु ते।

कर्तुमिच्छामि ते नाथ मण्डलं करुणात्मक।
शिष्याणामनुकम्पाय युष्माकं पूजनाय च॥

तन्मे भक्तस्य भगवन् प्रसादं कर्तुमर्हसि।
समन्वाहरन्तु मां बुद्धा जगच्चक्रक्रियार्थदाः॥

फ़लस्था बोधिसत्त्वाश्च या चान्या मन्त्रदेवताः।
देवता लोकपालाश्च भूताः संबोधिसाधिताः॥

शासनाभिरताः सत्त्वा ये केचिद्वज्रचक्षुषः।
अनुकम्पामुपादाय सशिष्यस्य च तन्मम॥

अमुकदेवतानामाचार्यम् अर्चयिष्यामि। तत्र वज्रधूपं निर्यातयामि तत्र वज्रधूपं प्रतिच्छ स्वाहा। ततः साक्षात् पुष्पाञ्जलिं धृत्वैतदध्येषणावाक्यं पठेत् -

अद्य मे सफ़लं जन्म सफ़लं जीवितं च मे।
समयं सर्वदेवानां भावितोऽहं न संशयः॥

अवैवर्ती भविष्यामि बोधिचित्तैकचेतसा।
तथागतकुलोत्पत्तिर्ममाद्य स्यान्न संशयः॥

अग्रो मे दिवसो ह्यद्य यज्ञो मेऽद्य ह्यनुत्तरः।
सन्निपातो भवो ह्यद्य सर्वबुद्धनिमन्त्रणात्॥

ॐ कुसुमाञ्जलिनाथ होरिति मन्त्रं पठन् देवतासन्निधौ प्रकिरेत्।
तदनु स्नानविधिः॥ तत्रादौ सुवर्णादिभाजने शुभ्रस्वच्छसुनिर्मलकांस्यदर्पणं धृत्वा तत्र प्रणवमेकं सुवर्णशलाकया विलिख्य तस्मिन्नेव जलधारां पातयेदनया गाथया -

ॐ यन्मङ्गलं सकलसत्त्वहृदि स्थितस्य
सर्वात्मकस्य वरधर्मकुलाधिपस्य।

निःशेषदोषरहितस्य महासुखस्य
तन्मङ्गलं भवतु ते परमाभिषेकः॥

पुनः पञ्चामृतैः स्नापयेत्। ॐ सर्वतथागत ब्रुँ आँ जिँ हुँ। ततः प्रतिबिम्बं दर्शयेदनेन।

प्रतिबिम्बसमा धर्मा अच्छा शुद्धा ह्यनाविलाः।
अग्राह्या अनुलिप्याश्च हेतुकर्मसमुद्भवाः॥

स्नानोदकमात्मनः शिरप्रदेशेऽभिषेचयेत्। ॐ सर्वतथागताभिषेकं समाश्रिये हुँ। इति स्नानकर्मान्ते जलधारया मण्डं कारयेद्देवतासमीपे। ॐ वज्रभूमौ सुरेखे सर्वतथागताधिष्ठानाधीत्ष्ठन्तु स्वाहा। ॐ वज्रसुवर्णजलधारे स्वाहा। सिन्दूरेणाभूषयेत्।

इदं ते परमं गन्धं पवित्रं घ्राणतत्परम्।
ददामि परमं भक्त्या प्रतिगृह्ण यथासुखम्।

ॐ वज्रगन्धे स्वाहा। ॐ वज्रतिलकभूषणे स्वाहा। यज्ञोपवीतम्। ॐ वज्रवस्त्रालंकारपूजामेघसमुद्रस्फ़ुरणयज्ञोपवीत वज्रबोध्यङ्ग दृढकवच वज्रवस्त्रं स्वाहा। ततो देवतामूलमन्त्रेणाष्टोत्तरशतवारं पुष्पमभिमंत्र्य ( देवताया शिरसि ) तत्पुष्पं देवताभ्यः समर्पयेत्।

स्वस्ति वः कुरुतां बुद्धाः स्वस्ति देवाः सशत्रुकाः।
स्वस्ति सर्वाणि भूतानि सर्वकालं दिशन्तु वः॥

बुद्धपुण्यानुभावेन देवतानां मतेन च।
यो योऽर्थः समभिप्रेतः सर्वोर्थोऽद्य समृद्धयताम्॥

स्वस्ति वो द्विपदे भोन्तु स्वस्ति वोऽस्तु चतुष्पदे।
स्वस्ति वो व्रजतां मार्गे स्वस्ति प्रत्यागतेषु च॥

स्वस्ति रात्रौ स्वस्ति दिवा स्वस्ति मध्ये दिने स्थिते।
सर्वत्र स्वस्ति वो भोन्तु मा चैषां पापमागमत्॥

सर्वे सत्त्वाः सर्वे प्राणाः सर्वेभूताश्च केवलाः।
सर्वे वै सिखिनः सन्तु सर्वे सन्तु निरामयाः॥
सर्वे भद्राणि पश्यन्तु मा कश्चित्पापमागमत्।

यानीह भूतानि समागतानि, स्थितानि भूमावथवान्तरिक्षे।
कुर्वन्तु मैत्रीं सततं प्रजासु, दिवा च रात्रौ च चरन्तु धर्मम्॥

ॐ वज्रपुष्पे स्वाहा। नैवेद्यसमर्पणम्। ॐ वज्रनैवेद्य स्वाहा।
ॐ वज्रसमयाचारं खाद्यभोज्यादिकं प्रभो।
वर्णगन्धरसोपेतं प्रतिगृह्ण यथासुखम्॥

अथ तर्पणम् -

ॐ नमो भगवते वीरवीरेशाय हुँ फ़ट्।
ॐ नमो महाकल्पाग्निसन्निभाय हुँ फ़ट्।
ॐ नमो जटामकुटोत्कटाय हुँ हुँ फ़ट्।
ॐ नमो द्रंष्टाकरालोग्रभीषणमुखाय हुँ हुँ फ़ट्।
ॐ नमो सहस्रभुजप्रभास्वराय हुँ हुँ फ़ट्।
ॐ नमो परशुपाशत्रिशूलखट्वाङ्गधारिणे हुँ हुँ फ़ट्।
ॐ नमो व्याघ्रचर्माम्बरधराय हुँ हुँ फ़ट्।
ॐ नमो महाभूम्रान्धकारवपुषे हुँ हुँ फ़ट् स्वाहा।

गोदुग्धसमर्पणम्।
ॐ सर्वतथागत चिन्तामृतधारे स्वाहा। दीपार्पणम्।

नेत्राभिरामा बहुरत्नकोषा नराधिपैरर्चितपादपद्मा।
ज्ञानप्रदीपाहतमोहजाला ये दीपमालार्च्चयन्ति तत्र॥

ॐ वज्रदीपे ह्रीं स्वाहा। ततो मूलमन्त्रेणाष्टोत्तरशतवारमन्त्रितलाजाभिर्ये धर्मेति गाथां पठित्वा देवतां प्रकिरेत्। अकारमुखेत्यादिना बलिं दत्त्वा। मञ्जुश्रियेत्यादिना दक्षिणां च समर्प्य साक्षताञ्जलिना शताक्षरधारणीं पठेत्।ततोऽक्षतार्पणार्थे जलेन मण्डलं कृत्वा तत्र दशपुष्पाणि पातयेदेभिर्मन्त्रैः। ॐ पीठाय स्वाहा। ॐ उपपीठाय स्वाहा। ॐ क्षेत्राय स्वाहा। ॐ उपक्षेत्राय स्वाहा। ॐ छन्दाय स्वाहा। ॐ उपछन्दाय स्वाहा। ॐ मेलापकाय स्वाहा। ॐ उपमेलापकाय स्वाहा। ॐ श्मशानाय स्वाहा। ॐ उपश्मशानाय स्वाहा। तत्र पञ्चोपचारपूजां कृत्वा बलिं दद्यात्॥ ॐ पीठोपपीठक्षेत्रोपक्षेत्रछन्दोपछन्द-मेलापकोपमेलापकश्मशानोपश्मशानाधिवासिनो वीरवीरेश्वरीः सर्वान् भक्तितः प्रणमाम्यहम्। ततोऽक्षतार्पणसमये वक्ष्यमाणस्तोत्राणि पठेत्। ॐ आः हुँ (हूँ) श्रीमद्वज्रसत्त्वेत्यादिना।

सर्वज्ञज्ञानसंदोहं जगदर्थप्रसाधकम्।
चिन्तामणिरिवोद्भूतं श्रीसंवर नमोस्तु ते॥

व्याप्तं विश्वमहाज्ञानं सर्वात्मनि सदा स्थितम्।
कृपाक्रोधं महारौद्रं श्रीसंवर नमोस्तु ते॥

इत्यादि पठित्वा क्षमार्पणं कुर्यादिति। तत्र क्षमापनम्। शताक्षरमन्त्रोच्चारणानन्तरं दानपतीत्यादिना मनोभीप्सितसंकल्पवाक्यानन्तरमेवं क्षमार्पणं कुर्यात्।

अप्राप्तेन च प्रज्ञानमशक्तं च मया विभो।
यन्न्यूनमधिकं नाथ तत्सर्वं क्षन्तुमर्हसि॥

क्षन्तुमर्हन्तु संबुद्धा देवता तद् व्रताश्च ये।
ब्रह्माद्या लोकपालाश्च याश्च भूतविधिक्रियाः॥

शान्तिं स्वस्तिं च पुष्टिं च भक्तस्यानुग्रहाय च।
यत्कृतं दुष्कृतं किञ्चित् मया मूढधिया पुनः॥

क्षन्तव्यं च त्वया नाथ यदि त्रातासि देहिनाम्।
कुरु दानपतेः शान्तिं स्वस्तिं पुष्टिं च सर्वदा॥

यत्कृतं कायजं पापं वाग्जं पापं च यत्कृतम्।
यत्कृतं चित्तजं पापं तत्सर्व देशयाम्यहम्॥

नमोस्तु ते बुद्ध अनन्तगोचरे नमोस्तु ते सत्यप्रकाशक मुने।
सत्यप्रतिष्ठाय प्रजाय मे च सर्वे च कार्याः सफ़ला भवन्तु॥

मन्त्रहीनं क्रियाहीनं भावनावाक्यहीनकम्। प्रसीद परमेश्वर परमेश्वरि रक्ष २ मां कोटि अपराधं क्षमस्व। इति क्षमाप्य आवाहितदेवान् विसर्जयेत्।

कृतो वः सर्वसत्त्वार्थसिद्धिं दत्त्वा यथानुगाः।
गच्छध्वं बुद्धविषये पुनरागमनाय च॥

स्वस्वस्थाने गच्छध्वम्। ॐ आः हुँ (हूँ) वज्रमण्डलं मूरिति विसर्जना।

इति नित्यकर्मपूजाविधिः समाप्तः।

सर्वसत्त्वार्थसिद्धिर्भवन्तु॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project