Digital Sanskrit Buddhist Canon

गुह्यावली

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

Guhyāvalī

गुह्यावली

ॐ नमः वज्रयोगिन्यै

ताम्रं काञ्चनतां न गच्चति महाक्लेशैरपि प्राणिनां
प्रज्ञापङ्कजसेवयापि सहजानन्दे (न्दो) न संभाव्यते।
तस्माद् ये कृतपुण्यराशिवपुषः प्रादेशिकास्ते क्वचि-
न्मुद्राकुन्दुरुनिस्तरङ्गमनसः सिद्धास्तु तेभ्यो नमः॥१॥

या संवित् परिवर्णिता भगवता वज्रांब्जयोगात् क्व सा
सत्त्वानामथ सम्प्रदायगमने रागाद् विरागः परम्।
आनन्दद्वयमध्यवर्तिनि परिज्ञानोपदेशात्पुन-
स्तेषां सुरतसुखेन विहिता मुद्रादिमुक्तिस्थितिः॥२॥

तत्रादौ विरमस्य शेषपदवीरागस्य मध्यक्षणे
त्यक्त्वा स्त्रीसुखमन्यदक्षरसुखं गृह्णाति यस्तन्मयः।
स श्रिमान् घनसारमुद्रणविधौ विज्ञो गुरोराज्ञया
स्वानन्दासवपानघूर्णितमना नाभ्येति मोहं सुधीः॥३॥

गवां यूथन्यायक्रमगमनसंभावितधियां
कथा केयं तेषामशनिपदमेरौ विदधति।
अधिष्ठानादस्माद् गुरुचरणसंजातरभसा
स्वयं प्रज्ञासङ्गो भवति कृतिनोऽनुत्तरपदम्॥४॥

गुरुः स्वाधिष्ठानादपहरति चित्तं मतिमतां
स्वसंवेद्यं ज्ञानं झटिति कुरुते दुर्लभमपि।
मिलत्तूलोपधिर्ज्वलति सहसा भास्करमणिः
स्वभावो वस्तूनां कथमपि न यो[गे व्य]तिक्रमेत्॥५॥

यदस्माभिः किञ्चिद्भिदुरधरमार्गेष्वधिगतं
तदुक्तं स्वज्ञानान्न किमपि बुधा दूषणमिह।
अतः प्रज्ञायोगाद् यदि भवति समाधानमधिकं
गुरोः स्वाधिष्ठानादपि च न तृतीयोऽस्ति विषयः॥६॥

रागान्ते विरमप्रवेशसमये चन्द्रे स्वभावस्थिते
यो वित्तिं मनसः प्रवृत्तिरपरो वायोर्निरुद्धा सृतिः।
तत्काले यदनन्यसंभवसुखं साक्षात्परं तत्पदं
तत्र स्वानुभवो हि यस्य स पुनः सिद्धो महामुद्रया॥७॥

विना प्रज्ञायोगं झटिति कुरुते वज्रपदवीं
सतां तद्योगाद्वा शिशिरकरसंबोधकरणात्।
अधिष्ठानज्ञो यः स गुरुरिह नैवापर इति
प्रभावो यस्य द्राक् प्रभवति मनो दुर्जन इति॥८॥

आनन्दद्वयमध्यजं क्षणमतिक्षुद्रं न संलक्ष्यते
तत्काले कथमाकरोति मनसा वज्राब्जयोगात्परम्।
तस्मादक्षरसौख्यमेव सुजनैराश्रीयते यत्नतः
स्थित्वा तत्र चिरं समाहितजना गृह्णन्ति तत्त्वं पुनः॥९॥

मृगाम्भः किं ग्राह्यं कमठनयनस्पन्दन इव
क्षणे साक्षात्कर्तुं पविजलजयोगश्रुतवताम्।
चिरं चावस्थानादनुभवदशा संभवति सा
गते चन्द्रे वज्रात्पुनरिह हि सौख्यं न किमपि॥१०॥

प्रियासङ्गात्पूर्वं यदधिगतमात्यन्तिकसुखं
तदेवेदानीं चेत् किमधिवरमुद्राधिगमनम्।
इहास्ते संविद्बाह्यसुखविषयादन्यदपरं
ततः कोऽप्येकोऽन्यः सहजसुखशम्भुः प्रभवति॥११॥

गुरोः स्वाधिष्ठानाद् भवति विदुषामिन्द्रियलयो
लयात् संविन्मात्रं स्फुरति निरपेक्षं त्रिजगति।
असामान्यात्किं भूयादचिरमधिकं तत्त्वमपरं
प्रतिज्ञातं यैस्ते भिदुरधरसंवादिवपुषः॥१२॥

अधिष्ठाने धन्ये जनितवरकर्मण्यपि सुरे
प्रभावः कोऽप्येष ध्वनयति तदन्तर्विनिहितम्।
प्रभावस्याभावात् पशुसदृशयोगेश्वरनरः
सुरोऽप्यन्तःशून्यो मृदुगुरुशिलाकल्पितवपुः॥१३॥

अनभ्यासादस्मादनधिगतमार्गादवचना-
दकस्मादक्लेशात् सततमपरोक्षात् सपदि च।
गुरोराज्ञानन्दादुपरतपदे यस्तु क्रियते
नसंविन्मात्रं यद्भवति तदधिष्ठानमिति च॥१४॥

इह स्वाधिष्ठानक्रमजनितयोगैश्च यदयं
यदक्षा[णां भोयं न]त्यजति स्वनिर्मोकसदृशम्।
गृहीतो रागाद्यैरविरतमनोवृत्तिरसिकः
स्वसंविद्देवीं न प्रविशति जलेऽन्तस्तलमिव॥१५॥

एतत्पञ्चव्यसनरसिका यान्ति पापान्धकूपं
नो चेन्मोक्षं परिकृतपदाः स्वच्चभूमेर्विभेदत्।
तत्सन्देहं प्रविशति कथं निर्विकल्पावलेपात्
संसाराब्धेर्विहरति परः कः पुनस्तस्य पारम्॥१६॥

एते पञ्च नयन्ति मोहतटिनीपारं परा नौरिव
व्याघातः परमस्ति कोऽपि विपदां हर्तुर्य एको महान्।
अक्षाणामनुरागसुन्दरसुरापानप्रमत्तं मनः
स्फूर्जद्गन्धकरीन्द्र एष भुवने धावन्निमां गां प्रति॥१७॥

सुरा नारीसङ्गेऽप्युपनयति पुंसः पविपदं
गृहीतं न त्यक्तं तदिह भवधीमत्त्वविहितः।
यदेकं पञ्चानामनुभव[दृशा वर्ण-]सुखदं?
द्वितीयं तद्वयापि स्थिरचलमशेषं जगदिति॥१८॥

गुरोः पारम्पर्यक्रमजनितसंभावितधिया
तदेवाधिष्ठानं स्वपरवचनं क्षीयत इति।
यतो दीपाद्दीपः प्रभवति ततोऽप्येवमपरे
प्रदीपा जायन्ते क्रमश इह को विस्मय इव॥१९॥

ज्वलज्ज्वालो नीलज्वलनमनिशं शून्यभवने
जडो यस्तं यद्वद् भजति स सुखी तत्र भवति।
गुरोः पादाम्भोजप्रणतिशतसंभूषितशिरो-
रजोरेखां लब्ध्वा सपदि कुरुते वज्रपदवीम्॥२०॥

अदूरे दूरे वा गुरुरिह कथा केयमसती
शिशोः संवित्सिद्धिर्भवति सहसा योजनशतैः।
नभोभागे भानुर्वि( नौ वि)कसति सरोजं विकसति
प्रभावः शक्तानां भवति किमयं विस्मयकरः॥२१॥

द्विधा तत्त्वज्ञानं सवचनमवाच्यं किमपि च
क्रमत्यङ्गादेकं यदपरमनङ्गात् क्रमति च।
द्वयोरेकत्वे यः सततमवबोधात् प्रभवति
स्वतः सिद्धः सोऽयं भिदुरधरमार्गोत्तरपदम्॥२२॥

प्राणी वज्रधरः कपालिवनितातुल्यो जगत्स्त्रीजनः
सोऽहं हेरुकमूर्तिरेष भगवान् यानप्रभिन्नो मयि।
श्रीपद्मं मदनं च गोकुदहनं कुर्वन् यथा गौरवा-
देतत्सर्वमतीन्द्रियैकमनसा योगीश्वरः सिद्धयति॥२३॥

क्वचित्प्रज्ञायोगात् क्वचिदपि च पञ्चेन्द्रियबलात्
क्वचित्स्वाधिष्ठानाद् गुरुवचनमार्गात् क्वचिदपि।
रुचेर्भेदात् पुंसि प्रकटयति वज्राङ्कितकरो
न सिद्धं स्वासाध्यं किमपि यदवाग्गोचरपदम्॥२४॥

[ सच्चास्त्रसेवनमिहात्र] न मेऽस्तु ताव-
ज्ज्ञानं न मे पदपदार्थकथासु धीराः।
चक्राङ्घ्रिपङ्कजरजःप्रणयादियं चेद्
गुह्यावली स्फुरति तत्किमहं करोमि॥२५॥

इति दौडीपादीया गुह्यावली समाप्ता॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project