Digital Sanskrit Buddhist Canon

गुह्यवज्रविलासिनीसाधनम्

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
सिध्दाचार्यश्रीशबरपादानाम्

गुह्यवज्रविलासिनीसाधनम् योगिनीसर्वस्वम्

गुह्यवज्रविलासिनीसाधनम्

योगिनीसर्वस्वम्

ॐ नमः श्रीवज्रविलासिन्यै।

यस्मिन् सुरासुरसुरेन्द्रनरेन्द्रवृन्दा
स्तत्पादपद्मपतिता भ्रमराः शिरोभिः।
तं सिध्दिसाधनपयोधिमहानिधानं
श्रीलोकनाथचरणं शरणं व्रजामि॥१॥

या श्रीर्वज्रविलासिनी भगवती सम्भोगभक्त्याद्भुतं
नित्यानन्दमहोत्सवं वितनुते निर्वाकपीतंशुका।
सत्त्वानां तथतैव विग्रहवती चतीव रागोज्ज्वला
तस्याः पादयुगं जगज्जायकरं वन्देऽभिवन्द्योत्तमम्॥२॥

न श्रुतं न पठितं किञ्चिच्चबरेणाद्रिचारिणा।
लोकनाथाधिपत्येन वदेयं कियदक्षरम्॥३॥

सर्वरन्तमये रम्ये गन्धमृगसुगन्धिनि।
मनोभङ्गपदं दत्त्वा चित्तविश्रामपर्वते॥४॥

तत्प्रदेशे महारम्ये सुगन्धिकुसुमाश्रये।
लसत्कन्दरमाकन्दमन्दकूजितकोकिले॥५॥

रक्ताशोकघनोद्याने ममाशोकाष्टमीतिथौ।
गुरुणा करुणाङ्केन देशितेयं विलासिनी॥६॥

यथाविधि समाचारैरेकचित्तसमाधिना।
शबर्यां सहचर्यायां मया साऽभिमुखीकृता॥७॥

वश्याकर्षणस्तम्भनमारणोच्चाटानानि च।
अञ्जनं गुटिकासिध्दिस्तथान्यानि बहूनि च॥८॥

महामुद्रापदं लब्ध्वा वाचा संयाचितं मया।
विधिना भावयेद् यस्त्वां तस्मै दास्यसि तत्फलम्॥९॥

भगवता यथोद्दिष्टं साधनं भोधिसाधनम्।
तस्याः संक्षेपतः सारं लिखेल्लब्धनिमित्तकः॥१०॥

लोभकाया मा दियुक्तानां तीर्थिकानां विशेषतं।
हिंसाभिः क्रूरचित्तानां न देयं साधनोत्तमम्॥११॥

बुध्दतीर्थिकसत्त्वानामपरिपाचितचेतसाम्।
विगमदिव्योन्मत्तानां न देयं साधनोत्तमम्॥१२॥

खञ्जकुब्जादिघण्टा षण्ढा नां व्याधिदुःखितचेतसाम्।
एतेषां नरनारीणां न देयं साधनोत्तमम्॥१३॥

लब्धाभिषेकशुध्दाय बहुज्ञाय कृपालवे।
शान्तकान्तकृतज्ञाय प्रदेयं दिव्यसाधनम्॥१४॥

गुर्वाराधनतुष्टाय गुह्यविश्वासरक्षिणे।
हीनोध्दरणचित्ताय। प्रदेयं दिव्यसाधनम्॥१५॥

सत्त्वार्थहितयुक्ताय कारुण्यबोधिकाङ्क्षिणे।
नरनारीजनायेदं प्रदेयं दिव्यसाधनम्॥१६॥

आदौ सिध्दिविधिं ज्ञात्वा गुर्वाराधनपूर्वकम्।
गुरुवाक्यामृतैस्तृप्तस्ततः साधनमारभेत्॥१७॥

पर्वतादिगुह्य मध्ये सुगन्धिकुसुमाश्रये।
भावनीया सका न्तेन गुह्यवज्रविलासिनी॥१८॥

शून्यवेश्मनि स्वच्चन्दमुद्याने विजने वने।
पूजनीया सदा देवी साधनीया यथाविधि॥१९॥

आदावुद्वर्तनं कुर्यात् सुगन्धकुसुमादिना।
क्षालयेद् गुह्यवज्रं च मन्त्रविद्याविशेषतः॥२०॥

नेत्रयोरञ्जनं कार्यं केशवेशं च शोभनं।
विद्यया तच्च कर्तव्यं निजलावण्यहेतवे॥२१॥

पद्मपाणितलं कुर्याद् बहुमूलयुगं तथ।
सुखस्पर्शं सदामोदि सुखसौभाग्यहेतवे॥२२॥

प्रवालकान्तमधरं भालं सिन्दूरराजितम्।
ललाटे लाक्षकारेखं कर्णं वाऽशोकभूषितम्॥२३॥

त्यक्त्वाऽन्याभरणान्येषा मुक्ताहारप्रलम्बिनी।
साधकोऽपि वरं रूपं पद्मनर्तेश्वरस्य च॥२४॥

कृष्टं मदनमासद्य सुखाद्यं विद्यया सह।
तावन्मात्रं तु कर्तव्यं न मनो विकलं यथा॥२५॥

द्वयोर्द्वयोश्चतुर्दश्यां तथाष्टम्यां विधानतः।
रात्रावेवार्चयेद् देवीं मसे वारचतुष्टयम्॥२६॥

प्रदीपं ज्वालयेत् तत्र प्रभाकरसमप्रभम्।
यथा प्रकाशते विश्वं विम्वं प्रत्यङ्गं च विशेषतः॥२७॥

सिध्दयर्थमुपविश्याथ सत्त्वार्थाकृतचेतशा।
महामुद्रापदं गन्तुं सर्वबुध्दसमाहितः॥२८॥

लज्जादिकं परित्यज्य कोपलोभादिकं तथा।
अणुमात्रां घृणां शङ्कां दूरतः परिवर्जयेत्॥२९॥

सुखासन समा सीनो विवासा मुक्तकुन्तलः।
स्वजङ्घां कि ञ्चिदाकुञ्च्य दक्षिणाङ्गुलं प्रसारयेत्॥३०॥

तयोर्मध्यगतां विद्यां निवसनां मुक्तकुन्तलाम्।
तथा लावण्यसम्पन्नां कुर्यात् तु सुपरिचिताम्॥३१॥

मधो ध्ये मचुलकं दत्त्वा त्यक्तपद्मोत्कटासनाम्।
देवीबाहुद्वय मिव तस्या बाहुद्वयं चरेत्॥३२॥

तस्या धर्मोदयापन्ने कृत्वा वर्तुलमण्डलम्।
वामकरामृताङ्गुल्या कुङ्कुमै रक्तचन्दनैः॥३३॥

तदनु धर्मोदयाकारं तत्रैव मण्डलं चरेत्।
एतन्मण्डलमन्त्रं तु मन्त्रोध्दारेऽस्ति भाषितम्॥३४॥

एतन्मन्त्रं समुच्चार्य सीत्कारं च समुच्चरेत्।
आद्यक्षरेण मन्त्रेण दद्यत् पुष्पं सुमध्यके॥३५॥

शून्यतां भावयेद् योगी चतुर्ब्रम्हविहारिणः।
ॐ शून्यतादिकं मन्त्रं मनसोच्चारयेत् ततः॥३६॥

देव्याः पञ्चाक्षरं मन्त्रं पञ्चस्थानेषु विन्यसेत्।
शिरोवदनचित्तेषु नाभौ वज्रे त्रिधा क्रमम्॥३७॥

पञ्चस्थानेषु विद्याया यथारोपितमात्मनः।
तथा मन्त्रार्चनं कुर्याद्धित्वा शून्यतादिमन्त्रकम्॥३८॥

अथोदयमहारागं भावयेत् सूर्यमण्डलम्।
विततं सुमनोरम्यं रक्ताकरं समुज्ज्वलम्॥३९॥

तत्र धर्मोदयां ध्यात्वा रक्ताद्यक्षरसम्भवाम्।
मनोह्लादकरीं पीतां क्षरल्लाक्षाद्रवोज्ज्वलाम्॥४०॥

सर्वकामसुखधारां स्फुरदंश्वब्जविभ्रमाम्।
धर्मसम्भोगनिर्माणसर्वाकारविलक्षणम्॥४१॥

अभिणयादयो रक्तं जगच्चद्रार्कमिश्रितम्।
भगगर्भस्थितं पश्येद् भ्रमन्तं चक्रसन्निभम्॥४२॥

तस्योपरि महाबीजं तप्ताकाञ्चनविग्रहम्।
पञ्चाक्षरमहामन्त्रं ज्वलन्तं कल्पवह्निवत्॥४३॥

रक्तं चानलमालाभिव्र्यापयन्तं जगत्त्रयम्।
व्यप्ताकनिष्ठलोकाभिश्चिन्तयेद् बिम्बं विलक्षणम्॥४४॥

द्रवीभूतं जगत्सर्वं विशन्तं तत्र मण्डले।
द्रष्टव्यं वशगं विश्वं सत्वानां कृतचेतसाम्॥४५॥

एतत्परिणतां देवीं बन्धूककुसुमप्रभाम्।
रक्त तप्त हेमोज्ज्वलां गौरीं निजलावण्यभूषिताम्॥४६॥

नवयौवनसम्पन्नां कर्णे चाशोकशोभिताम्।
ललाटे लाक्षकारेखां मुक्ताहारविलम्बिनीम्॥४७॥

सर्वलक्षणसम्पूर्णामन्यालङ्कारवर्जिताम्।
अभिवाञ्छितसौभाग्यां नग्नां विमुक्तकुण्डलाम्॥४८॥

पद्मनर्ते ध्वजोच्छ्रायसमारोपितपङ्कजाम्।
उत्कटासननृत्यस्थां कटाक्षस्मितभङ्गुराम्॥४९॥

वक्रीकृतोद्धृतभुजां वज्रकर्तिकरोद्यताम्।
वामे पाशधरासारां लीलान्दोलितमेखलाम्॥५०॥

परिरम्भकराह्लादैः पद्मनर्तेश्वरात्मिकाम्।
उल्लसद्भिदुरस्पर्शैः क्षरत्कमलविभ्रमाम्॥५१॥

नितम्बजघनास्फालरणज्जृम्भितराजिताम्।
स्फुरदाकुञ्चयोगेन वडवावच्चमत्कृताम्॥५२॥

रक्तरश्मिघटाजालै रञ्जयन्तीं जगत्त्रयम्।
तामेवाग्रस्थितां विद्यां ध्यायाद् वज्रविलासिनीम्॥५३॥

एकदैव समुद्भूतं समबीजसुखाङ्कुरम्।
पद्मनर्तेश्वरं बीजं पद्मरागरजोबलम्॥५४॥

अभिव्यञ्जितरोमाग्रं सहजासक्तचेतसम्।
सर्वलक्षणसम्पूर्णं द्विरष्टवर्षविग्रहम्॥५५॥

नवयौवनसम्पन्नं कर्णे चाशोकशोभितम्।
सुवर्णतिलकारेखं मुक्ताहारावलम्बितम्॥५६॥

निजलावण्यसम्पन्नमन्यालङ्कारवर्जितम्।
महारागरसाधारं मुक्तकेशं दिगम्बरम्॥५७॥

वामकुञ्चितया किञ्चिद्विततं दक्षिणाङ्गया।
जङ्घया सुरताचार्य किञ्चिदुत्तानशायिनम्॥५८॥

स्वकुर्या कुचा पिर्तबाहुभ्यां भक्त्यालिङ्गनमुद्रकम्।
सुव्यक्तं गुह्यवज्रेण नर्तयन्तं विलासिनीम्॥५९॥

पीतपद्मधरं वामे दक्षिणे वज्रधारिणम्।
आलिङ्गयन्तमाचुम्बं मुहुराबद्धलीलया॥६०॥

कुर्वन्तमतिरागेण सुरतं वाजिकूजितम्।
सहजानन्दसुखास्वादैरर्धोन्मीलितलोचनम्॥६१॥

इत्येवंभूतमात्मानं भावयेत् सुरतेश्वरम्।
महासुखमिवाव्यक्तं पद्मनर्तेश्वरं विभुम्॥६२॥

अतोऽस्या महादेव्यास्तप्तकाञ्चनरश्मिभिः।
मिथः समरसीभूय त्रैलोक्यं सुधिराम्बुधिम्॥६३॥

तन्मध्ये स्थितमात्मानं देव्या सह विनोदिनम्।
महारागसुखायातं त्रैलोक्योदरवर्तिनम्॥६४॥

तदनु चिन्तयेत् तूर्णमभिषिञ्चन्ति मां पुरः।
तथागता लोकपालाः किन्नरासुरमानवाः॥६५॥

रम्भा तिलोत्तमा चैव नाना चाप्सरसोगणाः।
पुष्पधूपादिभिर्वाद्यैर्नानानृत्यमहोत्सवैः॥६६॥

अथ मण्डलपूजां च कारयेत् त्रयतोगतः।
कायवाक्चित्तपूजाभिस्त्रयं कर्म विशोधयेत्॥६७॥

मूलमन्त्रं समुच्चार्य देव्या नाम समुच्चरेत्।
स इत्युच्चारणं कृत्वा पूजयेद् गुह्यमण्डलम्॥६८॥

वामवृद्धामृताभ्यां तु धृत्वा पुष्पफलादिकम्।
दातव्यं समरसं सर्व वारत्रयमनाविलम्॥६९॥

स्वकायं कुलिशं तद्वत् संपूज्य ललितोत्रतम्।
तेनैव मन्त्रजापेन देव्या मन्त्रं प्रपूजयेत्॥७०॥

ललाटं लोचने कण्ठं घ्राणं गलद्वयं तथा।
ओष्ठकण्ठौ हृदयं च स्तनौ कक्षौ विचक्षणः॥७१॥

नाभिपदं च सम्पूज्य वकायं चार्पयेत् तथा।
धूपं च अरयेत् तत्र यथाविधि सुगन्धितम्॥७२॥

भगवत्याश्च कर्तव्या पद्मनर्तेश्वरस्य च।
वज्रपीठादिपूजाऽऽदौ तेनैव क्रमयोगतः॥७३॥

ताम्बूलं च प्रदातव्यं कर्पूरादिसुपूरितम्।
अन्योन्यं भक्षणं कृत्वा गाथापाठं ततश्चरेत्॥७४॥

महासुखप्रसन्नस्त्वमभिन्नोऽसि मया सह।
रन्तुमालिङ्गनं देहि नर्तेश्वर नमोऽस्तु ते॥७५॥

महासुखप्रसन्ना त्वमभिन्नासि मया सह।
रन्तुमालिङ्गनं देहि विलासिनि नमोऽस्तु ते॥७६॥

इति गाथां समुच्चार्य सम्पुटाञ्जलिकर्मणा।
अन्योन्यवन्दनां कुर्यात् मधुराक्षरभाषणैः॥७७॥

एकबीजसमुद्भूतं प्रज्ञोपायमयं जगत्।
सर्वनारीमयी देवी सर्वोपायमयः प्रभुः॥७८॥

अभिन्नोऽसि महाराज सहजार्थं समुद्यतः।
एहि मेलापकं कर्तुं वज्रमुद्रामहर्द्धिकः॥७९॥

गाथाद्वयं समुच्चार्य चित्तस्मरणपूर्वकम्।
मिथ आलिङ्गनं कुर्यान्नवपुष्पिप्रयोगतः॥८०॥

आलिङ्गनं चुम्बनं तु स्तनयोर्मर्दनं शनैः।
दर्शनं स्पर्शनं योनेर्विकाशं लिङ्गघर्षणम्॥८१॥

प्रवेशोल्लासनं पद्मे प्रवेशस्त्रयभागतः।
मणिमध्यसमूलैश्च नवपुषि प्रकीर्तितः॥८२॥

चुम्बनं तु प्रदातव्यं यत्र पुष्पैः सुपूजितम्।
मस्तकादिपादपर्यन्तं विंशत्यङ्गसमं गत॥८३॥

नखक्षतं न दातव्यं पश्चात्तापनिवृत्तये।
करजचुर्चुरास्पर्शैः प्रीणयेद् देवीविग्रहम्॥८४॥

वक्त्रासवं च पातव्यं वाजिकूजितपूर्वकम्।
शुनीदन्तार्पणपातेन तद्वद् दंशनं शनैः॥८५॥

किञ्चिदुत्तानको भूत्वा स्थातव्यं देवमुद्रया।
आत्मीयमुद्रया देवी भिदुराग्रेण नृत्यते॥८६॥

निश्चलात्तु सुखं बुद्धयेदति बा(चा) लनाच्चञ्चलं मनः।
हेलया खेलया देवीसहजासक्तचेतसः॥८७॥

रागाम्भोधिजलं तर्तुं सुना(नौ)केयमुपस्थिता।
गुरुवाक्योदयं प्राप्तं वाहयेद् वाहकस्वरैः॥८८॥

मत्वा स्थानत्रयं मर्मग्राहोत्सर्गगतागतम्।
स्वस्वरेन्ते इयमायुप्र्पतं गिलेत खममक्षर (?)॥८९॥

मन्थानस्थानं तु बोद्धव्यं विलक्षणक्षणोदितम्।
वज्रेण क्षोभयेद् देवीं बोधिचित्तं न चोत्सृजेत्॥९०॥

उत्सृते बोधिचित्ते तु कुतस्तत्र महासुखम्।
मन्थयेत् कमलाम्भोधिसहजामृतकाङ्क्षया॥९१॥

वैराग्यकालकूटं च नोत्तिष्टति यथा यथा।
यथोक्तभावनापूर्वं देवदेव्या रसाश्मि (त्म) कम्॥९२॥

तां भावनां भावयेद् धीमांस्त्रैलोक्यकारिणीम्।
मन्थमन्थानयोगेन निःसृतं किमपि गा(गो)लकम्॥९३॥

प्रोक्षणं तेन कुर्वीत बीजोच्चारणपूर्वकम्।
ये ये (तत्तम्) मद्यादिद्रव्येषु प्रक्षिपेत् कमलगोलकम्॥९४॥

तत्सन्तर्पणनात्रेण देवदेव्यौ प्रतुष्यतः।
कमलमध्यगतं वज्रं किचिदाकुञ्च्य पाणिना॥९५॥

स्तब्धमुल्लालयेन्मन्त्री देवीतुष्टिः प्रजायते।
करवृद्धाङ्गुलिभ्यां च पद्मपक्षद्वयं शनैः॥९६॥

घटिताद्ध(तोद्घा)टितं कुर्यात् स्फरतश्च यथातथम्।
कुर्यादान्दोलनाह्लादमाकुञ्चयेच्च पङ्कजम्॥९७॥

कुञ्चिन्नृत्यप्रभङ्गैश्च [स]कटाक्षस्मितैः करैः।
युगयोस्तु प्रभाजालैस्त्रैलोक्यव्यापिमण्डले॥९८॥

क्रीडमानं विलासिन्या भावयेदात्मविग्रहम्।
गन्धर्वनगराकारं मृगतृष्णाम्बुचञ्चलम्॥९९॥

तथेति भावमाभ्यासं सदा कुर्याद्विचक्षणः।
भावनाखिन्नयोगस्तु जपे[च्च] वामपाणिना॥१००॥

पञ्चाक्षरं महावीजं सर्वबुद्धैर्नमस्कृतम्।
सप्तजन्मकृतोद्भूतं महाकिल्बिषनाशनम्॥१०१॥

देवीपद्मस्थितं मन्त्रं ज्वलन्तं रक्तषट्पदम्।
स्वनाभिदूरं(भेरुरः)प्रविश्यादौ घ्राणरन्ध्रेण निःसृतम्॥१०२॥

देवीघ्राणपुटं चैव प्रविश्य कमलवत्र्मना।
पुनर्वज्रे समायातं पश्येधायातयातकम्॥१०३॥

दोलाजापोऽयमित्याहुः क्षिप्रसिद्धिकरो यतः।
एतद्योगवरापेतो न सिद्धो भवति मुद्रया॥१०४॥

एकदैवं समुच्चार्य विद्यया सह सुस्वरम्।
नादबिन्दुलयातीतमिदं जापस्य लक्षणम्॥१०५॥

शतमष्टोत्तरं जप्त्वा कुर्यादन्योन्यभूषणम्।
वज्राब्जयोः समं तत्र मुहुर्गरुडमुद्रया॥१०६॥

दशधान्दोलनं देवान् दद्यादाह्लादचेतसा।
पुनस्तेनैव योगेन जापमारभते सुधीः॥१०७॥

इत्यनेन क्रमेणैव सुजप्योऽयं यथाविधि।
जापः पञ्चशतं यावत् समये तत्र मन्त्रिणा॥१०८॥

एतज्जापावसाने तु भावयेदात्ममेलकम्।
बोधाम्भोधिं प्रवेश्यामुत्तरफलहेतवे॥१०९॥

युगनद्धमहारागोद्भूतापन्नं सप्रज्ञकम्।
तप्तस्वर्णद्रवाकारं जगत् समरसोज्ज्वलम्॥११०॥

दक्षिणावर्तरूपेण भ्रमन्तं चक्रसन्निभम्।
चेदयन्तं जगत्क्लेशं त्रैलोक्यस्यापि मण्डलम्॥१११॥

अशेषविषयकक्षाद् वासनामूलबृंहितात्।
अपि भस्माणुदग्धा[च्च] शान्तिमेति द्रवानिलः॥११२॥

शक्रचापक्रमेणैव तल्लीनं गगनाम्बुधौ।
गगनं सहजे लीनं बोधाम्भोधौ महोदये॥११३॥

अविद्यावासनाभ्यासादविद्यैव प्रहीयते।
अतः प्रतीत्यजा भावाः स्वप्रजातमहोपमाः॥११४॥

उत्पादस्थितिनाशस्तु विकल्पात् किल जायते।
तदादौ कल्पना नास्ति तस्मद् बोधः प्रकाशते॥११५॥

भावाभावो(वौ) निज(जे) लीन(नौ) परमार्थादिबोधतः।
यथावत्ता परं नास्ति सत्यासत्यविवर्जिता॥११६॥

इत्येवं हि समाधिस्थः सम्यगभ्यासनिश्चलः।
तदा योगी भवेत् सिद्धो महामुद्रामहर्द्धिकः॥११७॥

विद्योत्पन्नेऽशनौ पीठे कर्तव्यं मण्डलादिकम्।
वज्रपीठोद्भवो देव आत्मना च विलासिनी॥११८॥

तयोश्च पूर्ववत् सर्वं ध्यानजापादिकं तथा।
कर्तव्यं विधिना योगं प्राप्याच्चैव यथोदितम्॥११९॥

अथ यथा विहर्तव्यं समाधित्यक्तचेतसा।
स्वयं नर्तेश्वरं ध्यात्वा विद्यया च विलासिनीम्॥१२०॥

नित्यं च पूजयेन्मन्त्री रात्रेर्यामे चतुर्थके।
पूर्ववद्विधिना मन्त्रं शतमष्टोत्तरं जपेत्॥१२१॥

विद्यायाः सर्वथा भावः स्वस्यैव वज्रपीठके।
पूर्ववन्मण्डलं कृत्वा नित्यपूजाविधिं चरेत्॥१२२॥

मुद्रापि पूर्ववत् सर्वं सूर्यधर्मोदयादिकम्।
मेलकं तादृशा(शं) देव्या ध्यायन् मन्त्री रतोत्सवम्॥१२३॥

वज्रं करेण संगृह्य लालयेन्महामण्डयोगतः।
मन्त्रजापादिकं तद्वद् बोधिचित्तं न चोत्सृजेत्॥१२४॥

उपायमेलकं भावे विद्यापि स्वाब्जमण्डले।
पूर्ववन्मण्डलं कृत्वा नित्यपूजाविधिं चरेत्॥१२५॥

तर्जन्यङ्गुष्ठाङ्गुलिभ्यामेकीकृत्य सुयुग्मकम्।
तद्वज्राब्जनियोगेन जापध्यानादिकं चरेत्॥१२६॥

य(त)दा [च] सुरताचार्यश्चतुर्योनिं चतुर्भुजाम्।
चतुरान्दोलनं दिव्यं चतुर्मुद्राविशेषकम्॥१२७॥

गोपनीयं यथाचलं(चारं) मया तु खलु तस्करात्।
स्फुटाक्षरपदैरेव बीजमन्त्रो न लिखितः॥१२८॥

आवादिदशान्तोऽयं लीकारो अनुमस्तकः।
झान्तो वहति रीकारं रुकारं वश्च लीय(प)रः॥१२९॥

एष पञ्चाक्षरो मन्त्र इन्दुबिन्दुविभूषितः।
ए आ री र ब्री।

इति मन्त्रः सर्वकामफलदो जाप्यो यथाविधि॥१३०॥

मन्त्रराजस्य सामर्थ्यं प्रत्यक्षं वा भविष्यति।
सर्वसिद्धिमहाधेनोर्वत्सलो ह्यतिवत्सलः॥१३१॥

रते सुरते नित्यक्लिन्ने मदद्रवे सुखेन सुखयोने सुबले विह्वले
लिङ्गवज्रं ग्रस ग्रस ह ह ह अ अ अ मम सर्वसत्त्वानां
सर्वसिद्धिं देहि देहि सः॥१३२॥

ततः प्रथमाक्षरं दत्त्वा सुरतान्तं समुच्चरेत्।
द्वितीयाक्षरमादाय द्रवान्तं च समुच्चरेत्॥१३३॥

तृतीयाक्षरमुद्गीर्य सुखयोन्यन्तं सुभण्यते।
चतुर्थाक्षरमादाय विह्वलान्तं प्रगीयते।
पञ्चमं च समुच्चार्य लिङ्गवज्रादिकं पठेत्॥१३४॥

रते सुरते ए नित्यक्लिन्ने मदद्रवे वीं सुखेन सुखयो री सुबले
विह्वले र लिङ्गवज्रं ब्री ग्रस ग्रस ह ह ह अ अ अ मम सर्वसत्त्वानां सर्वसिद्धिं देहि देहि सः॥१३५॥

मन्त्रोऽयं वलिदानेऽपि पठयते।
निरंशुमालिका श्रेष्ठा मञ्जिष्ठादिसुरञ्जिता।
प्रवालमलिका पुत्रजीविना ग्रथिता तथा॥१३६॥

रक्तचन्दनवृक्षस्य फलैर्वा रचिता प्रिया।
शतमष्टोत्तरं कृत्वा रचेन्मालिकां विधानतः॥१३७॥

[अयं] योगवरेण्यस्य योगीन्द्रस्य तथा स्त्रियः।
करणीयः सदाचारो ज्ञेयः सिद्धविधौ स्थितः॥१३८॥

स(स्व)कं शङ्केन्न वा भावं कर्तव्यो दिच (कर्तव्यं दिव्य)
लक्षणम्। सर्वसिद्धिविधौ ज्ञेयं सर्वज्ञेन यथोदितम्॥१३९॥

श्वासलाभो भवेन्मासे षण्मासे वाञ्चितं फलम्।
रृद्धिसिद्धिर्भवेदब्दे वश्याकृष्टिपुरःसरा॥१४०॥

किङ्करीभूय सेवन्ते सदेवासुरमनुषाः।
उर्वश्यादिमुखाः सर्वे मत्र्यस्थानां तु का कथा॥१४१॥

सदाऽभ्यासरतैः सम्यक् पूर्णे द्वादशवत्सरे।
महामुद्रापदारूढः सिद्धो भवति साधकः॥१४२॥

स्मृत्वा यथोदितं पूर्वमभ्यसेत् तदनन्तरम्।
अयथाकृत आरम्भो देवीक्षोभः पतिष्यति॥१४३॥

अधिगम्यागमात् सर्वमगमद् रागसंकटम्।
गुरुपादं विना वत्स मा गच्च योगिनीनयम्॥१४४॥

यदि चन्द्रस्तथा सूर्यो भूमौ पतति शीर्यते।
तथापि लोकनाथस्य नेदं वचो मृषा भवेत्॥१४५॥

गुह्योद्भूतनरो धर्मः सर्वसिद्धिनिधानकः।
करुणाकरनाथेन कृपया देशितो मम॥१४६॥

यथैव मत्तमातङ्गो गुरुभिर्जालकादिभिः।
प्रवशीक्रियते विज्ञैर्विज्ञानं च महोदयैः॥१४७॥

यथा महौषधं किञ्चित् सुस्वादं व्याधिघातकम्।
प्रज्ञोपायसुखं तद्वद्धेलया क्लेशनाशनम्॥१४८॥

सर्वस्य रमणी रम्या रागिणां शुद्धरागिणाम्।
एकस्य गलपाशः स्यादपरस्य बन्धकर्तिका॥१४९॥

अहो उपायसामर्थ्यं महायानानुयायिनाम्।
कामिनीं घाढमालिङ्गय भुञ्जन्ति मकरध्वजम्॥१५०॥

रसाश(रस)स्यांशो व्याधिर्विविधघनकामैकफलदः
सदा सत्त्वारामा रमणसहजानन्दमुदिता।
तद्(तो) भूयो भूयो भुवनसुखसन्तुष्टमनसो
विनाक्लेशापाशो(यासं) जगदखिलमाप्रोति तथताम्॥१५१॥

इति गुह्यसमयतन्त्रे महायोगिनीजालतन्त्रे श्रीमल्लोकनाथपादेन देशितं
योगिनीसर्वस्वं नाम गुह्यवज्रविलासिनीसाधनं समाप्तम्॥

कृतिरियं सिद्धाचार्यशबरपादानाम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project