Digital Sanskrit Buddhist Canon

उपोद्घातः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Pundarika Shakya
  • Input Date:
    2015
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Upodghātaḥ

उपोद्घातः

१ सहजवंदना

परं भावाद् दूरं न निकटभावादपि पुनः
परोक्षं नातीतं सदपि जगतां नापि विषयः।
अनास्तिक्यं शून्यं सकलयमिनाम् एकशरणं
जयत्येकं तत्त्वं सुगतवरवपुरत्र सहजं॥ १॥

२ संध्याभाषावंदना

संध्या हि भाषा जयतीह यस्यां
वदन्ति सिद्धाः परमार्थतत्त्वं।
प्राधान्यमर्थस्य निवेदयन्तो
निघ्नन्ति शब्दे सुकृताभिमानं॥ २॥

आगतिः प्रक्षणं प्रोक्तं, कृपीटं डमरुकं मतं।
अभव्यं दुर्दुरं ज्ञेयं, भव्यं कालिञ्जरं मतं॥ ३॥

अस्पर्शः डिंडिमं प्रोक्तं, कपालं पद्मभाजनं।
भक्तं तृप्तिकरं ज्ञेयं, व्यंजनं मालतीन्धनं॥ ४॥

गूथं चतुःसमं प्रोक्तं, मूत्रं कस्तूरिका स्मृता।
स्वयंभूः सिह्लकं ज्ञेयं, शुक्रं कर्पूरकं मतं।
महामांसम् आलिजं प्रोक्तं, द्वीन्द्रिययोगं कुन्दुरुः।
वज्रं बोलम् इति ख्यातं, पद्मं कक्कोलकं मतं॥ ६॥

कुलं पंविधं ख्यातं वर्णभेदेन भेदितं।
संध्याभाषा एताः स्युर् बुद्धाश्च पंचकौलिकाः॥ ७॥

डोम्बी वज्रकुली ख्याता नटी पद्मकुली तथा।
श्वपची रत्नकुली चैव द्विजा ताथागती मता॥ ८॥

रजकी कर्मकुली चैव एता मुद्राः सुसिद्धिदाः।
आसां शुक्रं भवेद् वज्रं पूजयित्वा पिबेद् व्रती॥ ९॥

वज्रगर्भ महासत्त्व यन्मया कथितं त्वयि।
तत् सर्वं सादरं ग्राह्यं सन्ध्याभाषं महाद्भतं॥ १०॥

योऽभिषिक्तोऽत्र न वदेत् संध्याभाषया।
समविद्रोहणं तस्य जायते नात्र संशयः॥ ११॥

इत्युपद्रवचौरैश्च ग्रहज्वल [=ग्रहज्वरैः] विबुद्धोऽपि।
म्रियतेऽसौ यदि बुद्धोऽपि संध्याभाषं न भाषयेत्॥ १२॥

स्वसमयविदान् प्राप्य यदि न भाषयेदिदं वचः।
तदा क्षोभं प्रकुर्वन्ति योगिन्यश्चतुष्पीठजाः॥ १३॥

इति सर्वतंत्रनिदान संध्याभाषानाम्नि पटले तृतीये देशयित्वा पुनः पिंडार्थनाम्ना पटलेन चतुर्थेनाह भगवान् -

कोल्ल इरे ठिअ बोला मुम्मुणिरे कक्कोला।
घण किविड् हो वाज्जइ करुणेकि अइन-रोला॥ १॥

वार्धक्ये स्थितं बोलं मौनमौने कक्कोलं।
धनं कृपोटो भो वाद्यते कारुणिकम् अजिनरवः॥
तहि वल खज्जह गाढे मअणा पिजिअइ।

३ सिद्धवन्दना

अविच्युतं तां करुणामुपाश्रिताः
धिया नयन्तो हो जनं कृतार्थतां।
जगत्यलिप्ताः खलु शून्यताबलाद्
जयन्ति सिद्धाः परमार्थकोविदाः॥ ३॥

४ चतुरशीतिसिद्धवंदना

योगविद्यामयान् वन्दे सिद्धांश्चतुरशीतिकान्।
सर्वजातिकुलोद्भूतानप्यजातिपरायाणान्॥ ४॥

५ नाथाभिधबाह्यसिद्धवंदना

नित्यमेव नाथानां हि निर्गुणे सनाथधियां
नित्यमेव सगुणे ह्यनाथमतिकारिणां।
नित्यमेव बाह्यकर्मकाण्डे तुच्छधारणानां
नित्यमेव योगे योगसिद्धिषु विहारिणां॥
नित्यमेव जातिवादखण्डनपरायणानां
नित्यमेव नाथे मनस्कारव्रतधारिणां।
नित्यमेव सेशं संविधाय बौद्धसिद्धपथं
नित्यमेव नौमि चरणेष्वजातिचारिणां॥ ५॥

६ 'सन्त'वन्दना

रामभक्तिप्रमुखं विधाय सेशं नाथपथं
स्वल्पयोगचर्यं योगमार्गगुणीभावतः।
रामं निर्गुणं व्यवस्य रामं सगुणं निरस्य
रामं सहजं मनसिकृत्य बुद्धकायतः॥
जातिजावलेपं रामभक्तिधारया विनीय
कारुण्यं मनःसु संप्रसार्य सर्वसारतः।
संतो विजयन्ते ये कबीराग्राभिधाना भुवि
तेषां चरणेष्वहः नतोऽस्मि बहुमानतः॥ ६॥

७ 'सन्त' वचनवंदना

वीतसर्वदोषां नौमि वाचमिहसर्वसत्तां
नित्यं देशयन्तीं सत्त्वकायेषु महाक्षमां।
धर्मं महाकरुणापरायणां वदन्तीं सदा
सर्वविधां हिंसां दूरयन्तीं दुरतिक्रमां॥
प्रज्ञया सदर्थोपाययुतया समन्वागताम्
अर्थक्रियां कारयन्तीं नियतमनुत्तमां।
शान्तेरनुशंसं संदिशन्तीमपर्यन्तां गुणे
परमं प्रमाणमप्रमाणगमनोपमां॥ ७॥

८ सहजतत्त्वनिरूपणप्रसंगे पुनः सहजवन्दना

अनक्षरं यत् सुगतोऽन्वभूत्वान्
यदेव संदेशितवाननक्षरः।
समस्तशास्त्रेषु बहु प्रपंचितं
तदेव मे भातु सदर्पिताक्षरं॥ ८॥

९ सहजस्य रहस्यमयता गुरुप्रमाणता च

यथा कुमारी सुरतं सखीमुखात्
शृणोति वर्णाक्षरतो ह्यगोचरं।
तथैव कल्याणजनो गुरोर्मुखात्
करोति कर्णे सहजं विजानतः॥ ९॥

१० सहजस्य स्वकायेऽनुभवः

गृहेऽपि तिष्ठन् विजनेऽपि संवसन्
प्रयत्नतो योगमुपाश्रितो गुरौ।
अधिस्वकायं कुरुते महासुखं
सुखेन साक्षाद् विविधोदितं सतां॥ १०॥

११ कायपरिज्ञानं

सरोनदीपंकजषंडशोमनो
यथा सुमेरुर्बहुदिव्यसंश्रयः।
तथैव नाडीगणचक्रविभ्रमो
जिनाश्रयस्तिष्ठति मेरुदंडकः॥ ११॥

अधस्ताद् मेरुदण्डस्य प्रदेशे गुदसंश्रये।
वर्तते प्रथमं चक्रं सुखपालाभिधानकं॥ १२॥

नाभौ हृत्कंठयोः शीर्षे मेरौ चक्रचतुष्टयं।
निर्माणं धर्मसंभोगौ महासुखमिति क्रमात्॥ १३॥

चतुर्ष्वेतुषु चक्रेषु जिनः सहजसंज्ञकः।
सिद्धानां साधानाक्षेत्रं चतुष्कायात्मकः स्थितः॥ १४॥

प्रवेशो जिनकायेषु यथा नाड्यो भवेत्सतां।
सावधूतीति विख्याता कायमेरौ कृतालया॥ १५॥

उभयोः पार्श्वयोरस्या द्वे नाड्यो तिष्ठतोऽपरे।
तस्मात् प्रतिपदा सेयं मध्यमा जिनगामिनी॥ १६॥

नासापुटेन वामेन ललनालिश्चन्द्रनाडिका।
कालिर्दक्षिणतो लक्ष्या रसना सूर्यनाडिका॥ १७॥

भवन्ति बहवो काये नाड्योऽत्रार्थपराङ्मुखा।
सदर्थगामिनौ त्वेका मध्यमा सुगतप्रिया॥१८॥

अस्मिन् कलेवरे पुंसां नाडीचक्रमिदं तथा।
पुष्करिण्यां यथा नालपद्मं विहितसंश्रयं॥ १९॥

पद्मोपमेषु चक्रेषु मृणालदलकल्पना।
तत्त्वं भावयितुं प्रोक्ता सिद्धैस्तत्त्वार्थवेदिभिः॥ २०॥

१२ साधनासंकेतः

मणिपद्मसमायोगेऽप्यच्युताद् बोधिचित्ततः।
आलिकालिसमायोगात् प्राणानां च निरोधतः॥ २१॥

अवधूतीपथेनैव जिनक्षेत्रविहारिणः।
शून्ये महासुखे पूर्णे चित्तस्यात्र ध्रुवा स्थितिः॥ २२॥

एष चित्तस्य विश्रामः सिद्धानामर्थदेशना।
अप्राणचित्तसंचाराऽहिमानलकरा स्थितिः॥ २३॥

सहजस्य स्फुटीकारे एष बुद्धेन संगमः।
एहिपश्यकधर्मोऽयं प्रत्यात्मं गोचरः सतां॥ २४॥

हासुखे यन्मनसोऽचला स्थितिर्
विवृत्य यत्नादवधूतिकापथं।
स्फुटीकृतिः सा सहजस्य, तत्त्वतः
स एव चंडालिकया समागमः॥ २५॥

द्वयंद्वयप्राप्तिमतामविच्युतौ
सुधाम्बुनः संवृतिबोधिचेतसः।
दत्र मुद्राप्तिरतीव तत्तनौ
रहस्यमेवंप्रतिमे करण्डके॥ २६॥

क्षणं विचित्रं च विपाकवत् क्षणं
क्षणं विमर्दं च ततो विलक्षणं।
इति क्षणानं हि चतुष्टये रता
द्वयंद्वयं प्राप्य भवन्ति साधवः॥ २७॥

क्षणे विचित्रे सुरतं वहिर्बहु
क्षणे विपाके तु सुखस्य वेदना।
क्षणे विर्भेद परिनिष्ठितं सुखे
विलक्षणं तद् यदकल्पितं क्षणं॥ २८॥

इदं हि सर्वं सहजं परापरं
व्यतीतरूपं यदिदं च रूपवत्।
तदेव सिद्धेः पथिकाः कथं चन
प्रमान्ति वै कुंदुरुयोगजक्षणे॥ २९॥

तनोति तृप्तिं सुखसीकरः पृथक्
महासुखादत्र महार्णवोपमात्।
परंतु तत्त्वं न तदेव विद्यते
तदंशुमात्रं परमार्थमामृति॥ ३०॥

महासुखं तन्मनसाविकल्पितं
सदागतिर्गन्तुमलं न वर्तते।
रवेः प्रवृत्तिर्न च शर्वरीपतेर्
न रागिणां तत्र गतिर्विरागिणां॥ ३१॥

निरंजनं तत् सहजं गतद्वयं
महासुखं तत् खसमं ह्यचित्तकं।
रसे समं तत्त्वफलामनस्क्रियं
तथागतस्तत् परमार्थनिवृतिः॥ ३२॥

भवेद् हिरण्यस्य भवेदुतायसः
करोति बन्धं निगडो न मोचर्न।
भवेत्सदर्थो ह्यसदर्थ एव वा
न कल्पितार्थः परमार्थ उच्यते॥ ३२॥

अकल्पितार्थे न मनः प्रवर्तते
वचो वराकं तु कथं प्रवर्ततां।
ततो हि मौनाः परमार्थदेशने
तथागता यान्ति मुनित्वभाजनं॥ ३४॥

न तत् तत्त्वं शून्यं न च पुनरशून्यं विलसति
प्रवृत्तं भावेन प्रसरति न चाभावमनुगं।
विकल्पानां जालैः सततमवधूतं समरसं
परोक्षे प्रत्यक्षे नयनमनसोर्नापि विषयः॥ ३५॥

अनामाख्यं तत्त्वं बहुतरविकल्पैरिह जनाः
सदा नाम्नां जालैर्विविधविधरूपैर्दिविषदां।
पठन्तो ध्यायन्तो वचनबहुलैरागमगणैर्
अजानन्तो ह्येव प्रकटमुपतिष्ठन्ति कुधियः॥ ३६॥

स एवैको देवः सकलबहुशाखागमगणैः
सदा संद्रष्टव्यः श्रवणमननध्यानविधिभिः।
तमेवात्मारामां सुगततनुजाः सिद्धनिवहाः
शरीरे पश्यन्तो जगति विचरंतीह सुकृतः॥ ३७॥

दुरधिगम्यमिदं सहजं पदं
विरल एव जनः शृणुते ततः।
प्रविरलो यतते खलु चर्यया
समधिगच्छति यः स तु दुर्लभः॥ ३८॥

रहस्यतोऽप्यत्र रहस्यमुत्तमं
विनिर्विशन्तस्तदिदं स्वचर्यया।
सुखेन गायन्ति जिनात्मसंभवाः
सुगीतिदोहामिरनासवोन्मदाः॥ ३९॥

वचांसि तानीह परां पवित्रतां
भजन्ति मन्त्रप्रतिमाणि गृढतां।
सदैव गम्यानि रहस्यवेदिमिर्
जनोऽत्र को वेद समग्रभावतः॥ ४०॥

१३ कल्याणमित्रानुस्मरणं

यथारुतार्थो वचसां यथा स्फुटो
भवेदभीष्टार्थविगाहने क्षमः।
तथा प्रयत्ने विहितादरोऽभवं
प्रबोधचन्द्रस्य वचोऽनुपालयन्॥ ४१॥

विशोध्यमाने क्रियमाणटिप्पणौ
विमुद्य्रमाणे युगपद् यथाक्षणं।
यदाभवद् ग्रन्थ इहाल्पमुद्रितो
दिवं प्रबोधोऽत्र गतो विहाय नः॥ ४२॥

षष्ठ्यां हि पौषशुक्लस्य बुधवारान्तिमे क्षणे।
गुरुवारप्रवृत्तेस्तु पूर्वं दिनकरोदवात्॥ ४३॥

धंधावारे ( २४९९) हि भुवने निर्वृते लोकनायके।
द्वन्द्वैकव्योमनयने ( ३०१२) विक्रमार्कस्य वत्सरे॥ ४४॥

प्रबोधचन्द्रः श्रीमान् बागचीवंशनन्दनः।
अस्माकं पश्यतामेव स्कन्धशान्तिमवाप्तवान्॥ ४५॥

तस्यात्यन्तवियोगेऽस्मिन् मानसं स्तब्धतां गतं।
संदृष्टाश्च दिशः शून्यास्तमो व्याप्तं हि सर्वतः॥ ४६॥

अपि चास्यामवस्थायां तत्पुण्यस्मरणेन च।
यत्नेन शोधितो ग्रन्थष्टिप्पणीभिर्यथा पुरा॥ ४७॥

तस्यैवादिष्टमार्गेण तत्कृतीः प्रविलोक्य च।
ऊहेन च स्वकेनापि यथाबुद्धिबलं मया॥ ४८॥

तदत्र कुकृतं यद्यत् तन्मैवाल्पमेधसः।
यद्यद्धि सुकृतं सर्वं तत्तस्यैव महाधियः॥ ४९॥

नमामि तं महोदारमानसं पुण्यकीर्तनं।
अमृतेनात्र वर्णन यो ह्यनुस्मर्यतेऽनिशं॥ ५०॥

चर्चा नृणामिह मुखे मुख एव यस्य
यो विद्ययात्र भवतीह जनोऽर्चनीयः।
येनात्र शोधनविधर्दृढबीजमुप्तं
तं स्वर्गतं सुहृदमत्र नमामि भक्त्या॥ ५१॥

वाचामधीश्वरमुदारविचारवन्तं
विद्याधिमुक्तिमनसं मृदुचित्तवन्तं।
सच्छात्रवृन्दसहकर्मिगणानवन्तं
क्रीतो गुणैर्हि भवतोऽत्र नतो भवन्तं॥ ५२॥

चन्द्रं विलोक्य जनतास्तमुपेतवन्तं
धीरा भवत्युदकालमपेक्षमाणा।
अत्यन्तमेव सुहृदीह गतेऽत्र चन्द्रे
धर्यं भवेन्मम कथं नु महान्धकारे॥ ५३॥

नाम त्वदीयममृतं रसनावलेह्यं
स्मर्तुं निधिर्नु भवतोऽत्र वचोविलासः।
लेखस्तवास्ति सकलोऽध्ययनस्य पात्रं
त्वं नासि किन्तु वपुषात्र सदानमस्यः॥ ५४॥

शून्यं जगत् सकलमेव जिनोऽनुशास्ति
प्राप्नोति कालवशतः सकलोऽत्र शून्यं।
निर्मान्ति कायमिह लोकहिताय बुद्धाः
तं किन्तु कालमतिगम्य न धर्तुमीशाः। ५५॥

या शून्यता हरति पांडुदलान्यरण्ये
या नूतानि कुरुते मृदुपत्रकाणि।
यामन्तरेण गतिरस्ति न हि प्रपंचे
सर्वेश्वरी जयति सा विगतप्रपंचा॥ ५६॥

करुणाशून्यते यस्य महत्यौ देशने शुभ।
तं नतः शून्यराजानं शान्तिभिक्षुस्तथागतं॥ ५७॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project