Digital Sanskrit Buddhist Canon

चतुर्थं योगस्थानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Caturthaṁ yogasthānam

चतुर्थं योगस्थानम्

तत्र लब्धमनस्कारस्य योगिनः। एवं परीत्तप्रहाणरतिप्रविष्टस्य तदूर्ध्वं द्वे गती भवतः। अनन्ये। कतमे द्वे तद्यथा। लौकिकी च लोकोत्तरा च।

तत्रायमादिकर्मिको योगाचारः। समनस्कारः। लौकिकया वा गत्या गमिष्यामि। लोकोत्तरया वेति। तमेव मनस्कारं बहुलीकरोति। यथा यथा बहुलीकरोति। तथा तथा सा प्रश्रब्धिश्चित्तैकाग्रता च। तेषां तेषां रात्रिदिवसानामत्ययात्पृथुवृद्धिवैपुल्यतां गच्छति। यदा चास्य दृष्टिस्थिरः खरश्च मनस्कारः संवृत्तो भवति। परिश्रब्धश्चालम्बनाधिमोक्षः। प्रवर्तते। शमथविपश्यनापक्ष्याच्च निमित्तान्युद्गृहीतानि भवन्ति। तदा स लौकिकेन मार्गेण गन्तुकामस्तत्र च प्रयोगमारभते लोकोत्तरेण वा मार्गेण [।]

तत्र कति पुद्गलाः। ये दृष्टे धर्मे लौकिकेनैव मार्गेण पृ(ग)च्छन्ति। न लोकोत्तरेण। आह। चत्वारस्तद्यथा सर्व्व इतो बाह्यकः। इह धार्मिको[ऽ]पि मन्दः। पूर्व्वशमथचरितस्तथा भूयो[ऽ]प्यपरिपक्वकुशलमूलः। बोधिसत्त्वस्यायत्यां बोधिमनुप्राप्तुकामः। नो तु दृष्ट एव धर्मे (।) अमी चत्वारः पुद्गला दृष्ट एव धर्मे लौकिकमार्गयानि (यि) नो भवन्ति।

तच्च लौकिकमार्गगमनं द्विविधं। सक[ल] बन्धनानाञ्च पृथग्जनानां, विकलबन्धनानां च। शैक्षाणां।

तत्पुनः कतमत्। कामानामौदारिकतां पश्यतः, प्रथमे च ध्याने समापत्त्युपपत्तिक्लेशान्ततां पश्यतस्तत्कामवैराग्यगमनमेवं यावत्। आकिञ्चन्यायतनवैराग्यं वेदितव्यम्। तथा असंज्ञिसमापत्तिः। ध्यानसमापत्तिसन्निश्रयेन ष[ड्वि]ज्ञानानां पञ्चानामभिनिर्हारः।

तत्र कामवैराग्याय प्रयुक्तो योगी सप्तभिर्मनस्कारैः। कामवैराग्यमनुप्राप्नोति। कतमे पुनस्ते सप्त मनस्काराः। आह। लक्षणप्रतिसंवेदी, आधिमोक्षिकः, प्राविवेक्यो, रतिसंग्राहकः। मीमान्सा(मांसा)मनस्कारः। प्रयोगनिष्ठः, प्रयोगनिष्ठाफलश्च।

तत्र लक्षणप्रतिसंवेदी मनस्कारः कतमः। आह। येन मनस्कारेण कामानामौदारिकलक्षणं प्रतिसंवेदयते। प्रथमे च ध्याने शान्तलक्षणं। कथं च पुनरौदारिकलक्षणं प्रतिसंवेदयति। आह। कामानां षड्‍वस्तूनि पर्येषमाणः अर्थन्य स्वूलक्षणं (अर्थं, स्वलक्षणं, सामान्यलक्षणं)। पक्षं कालं युक्तिञ्च।

तत्रौदारिकार्थं तावत्पर्येषते। इतीमे कामाः सादीनवा, बहूपद्रवा, बह्वीतिका, बहूपसर्गा इति। या एषु कामेषु बह्वादीनवता। यावद्बहूपसर्गता। अयमौदारिकार्थः। तत्र वस्तु पर्येषते। अस्त्यध्यात्मं कामेषु काम(च्)छन्द इति।

तत्र स्वलक्षणं पर्येषते। अमी क्लेशकामाः। अमी वस्तुकामाः। ते पुनः सुखस्थानीया, दुःख स्थानीया, अदुःखसुखस्थानीयाश्च। सुखस्थानीयाः कामरागाधिष्ठानाः। संज्ञाचित्तविपर्यासाधिष्ठानाः। दुःखस्थानीया[ः] पुनर्द्वेषाधिष्ठानाः क्रोधोपनाहाधिष्ठानाः। अदुःखासुखस्थानीयाः म्रक्षप्रदाशमायाशाठ्याह्रीक्यम(क्या)नपत्राप्याधिष्ठाना दृष्टिविपर्यासाधिष्ठानाश्च। एवममी कामाः प्रदुष्टवेदनानुगताश्च, प्रत्यस्तक्लेशानुगताश्चैवं कामानां स्वलक्षणं पर्येषते।

तत्र कथं सामान्य लक्षणं (।) पर्येषते। सर्व्व एते कामा जातिदुःखतया, जरादुःखतया (या) वदिच्छाविघातदुःखतया समसममनुबद्धाश्चानुशक्ताश्च। ये [ऽ]पिकामोपभोगिनो महत्यां कामसम्पदिवर्त[न्]ते। ते[ऽ]पि जात्यादिधर्मतया अविनिर्मुक्तास्तावत्कालिकी सा तेषां सम्पत्। एवं सामान्यलक्षणं पर्येषते।

कथं पक्षं पर्येषते। कृष्णपक्षपतिता एते कामाः। अस्थिकंकालोपमा, मान्सपेश्युपमास्तृणोल्कोपमाः। अंगारकर्षूपमाः। आशीविषोपमाः। स्वप्नोपमाः। याचिकालंकारोपमाः। तृणफलोपमाश्च। पर्येषमाणा अपि सत्वाः (त्त्वाः) कामान् पर्येषणाकृतं (।) दुःखं प्रतिसंवेदयन्ति। आरक्षाकृतं, स्नेहपरिभ्रंशकृतमातृप्तिकृत (।)मस्वातन्त्र्यकृतं, दुश्चरितकृतं, च दुःखं प्रतिसंवेदयन्ति। पूर्व्ववदेव तावत्सर्व्वं वेदितव्यं।

तथा कामान्प्रतिषेवतः। पंचादीनवा उक्ताः। भगवता अल्पास्वादाः कामाः बहुसु(दुः)खा, बह्वादीनवाः [।] कामान्खलु प्रतिषेवमाणस्य नास्त्यलं ताव(त्) तृप्तिता च पर्याप्तिता वा, अनेन पर्यायेण कामा विगर्हिता बुद्धैः बुद्धश्रावकैश्च सद्भिः सम्यग्गतैः, सत्पुरुषैः [।]

कामान्खलु प्रतिषेवमाणस्य संयोजनान्युपचयं गच्छन्ति। नास्ति चास्य किंचित् पापकमकुशलं कर्माकरणीयं वदामि। इतीमे कामा अतृप्तिकारका[ः]साधारणा, अधर्मविषमचर्याहेतवः। कामतृष्णाविवर्धकाः, सतां विवर्जनीयाः, क्षिप्रम्विषयगामिनः, प्रत्ययाधिपा, प्रमादभूमयो, रिक्ता, अनित्यास्तुच्छा, मृषामोषधर्माणो, मायोपमाः, बाललापनाः। ये च दृष्टधार्मिकाः (।) कामाः, ये च सांपरायिकाः, ये च दिव्याः, ये च मानुष्यकाः। मा[र]मारभ्यैष गोचरो, मारस्यैष निवापो यत्रेमे[ऽने]कविधाः पापका अकुशला धर्मा मानसाः संभवन्ति। यदुताभिध्या, व्यापादा [ः], संरम्भो वा, ये वा पुनरान्तरायिका भवन्त्यार्यश्रावकस्याशिक्षमाणस्यानेकपर्यायेण कृष्णपक्षपतिता एते कामा यद्भूयसा [।]एवम्पक्षं पर्येषते।

अतीतानागतप्रत्युत्पन्नेष्वध्वसु अनित्यं नित्यकालं (म) ध्रुवं ध्रुवकालमे ते कामाः। एवं बहूपद्रवाः, बहूपसर्गा, बह्वादीनवा इत्येवं कालम्पर्येषते।

कथं युक्तिं पर्येषते। महता संरम्भेण, महत्या पर्येष्ट्या, महता परिश्रमेण विविधैर्विचित्रैः शिल्पकर्मस्थानैः कामाः संह्रियन्ते। निर्व्वर्त्यन्ते, उपचीयन्ते [।] ते पुनः सूपचिता अपि, सुनिर्वर्तिता अपि। यावदेष बहिर्धा परिग्रहवस्तुनः माता (तृ)पितृपुत्रदारदासीदासकर्मकरपौरुषेयमित्रामात्यज्ञातिसालोहितानां। अस्य वा पुनः कायस्याध्यात्मिकस्य रूपिण औदारिकस्य चातुर्महाभूतिकस्यौदनकल्माषोपचितस्य नित्योत्सदनस्नपनपारिमर्दनभेदन(च्)छेदन विकिरणविध्वंन्स(ध्वंस)न धर्मेण उत्पन्नोत्पन्नदुःखमात्रप्रतीकाराय सम्वर्तन्ते। क्षुद्‍दुःखप्रतीकाराय भोजनं। शीतोष्णदुःखप्रतीघाताय। ह्रीकोपनप्रतिच्छादनाय (।) च वस्त्रं[।] निद्राक्लमदुःखप्रतीघाताय च शयनासनं। चंक्रमस्थानदुःखप्रतिघाताय च। व्याधिदुःखप्रतिघाताय च (।) ग्लानभैषज्यमिति दुःखप्रतीकारभूता एते कामा इति। नैते रक्तेन परिभोक्तव्याः। न सक्तेन नान्यत्र व्याधिग्रस्तेनैवातुरेण व्याधिमात्रोपशमाय भैषज्यमाप्तागमो[ऽ]प्येषः। तथैते कामाः एवं चैवं चौदारिकाः। प्रत्यात्ममपि मे ज्ञानदर्शनं प्रवर्तेत। आनुमानिको[ऽ]प्येष विधिः। प्रकृतिश्चैषा कामानां अनादिकालिका प्रसिद्धधर्मता अचित्त (-चिन्त्य?)धर्मता। सा न चिन्तयितव्या(ः)। न विकल्पयते (यितव्ये)त्येवं युक्तिम्पर्येषते।

स एवं कामानामौदारिकलक्षणं प्रतिसंवेज्य यदुत षड्‍भिर्वस्तुभिः प्रथमे ध्याने शान्तलक्षणं प्रतिसंवेदयति नास्त्येतत्सर्वश औदारिकत्वं (।) प्रथमे ध्याने यदेतत्कामधातावित्यनेनौदारिकलक्षणं प्रतिसंवेदयते। प्रथमे च ध्याने शान्तलक्षणमयमुच्यते लक्षणप्रतिसंवेदी मनस्कारः। स खल्वेष मनस्कारः। श्रुत चिन्ताव्यवकीर्ण्णोवेदितव्यः।

स एवं कामान्परिज्ञाय प्रथमं ध्यानं प्रथमं ध्यानं यथावत्पर्येष्टौ(ष्यौ)दारिकशान्तलक्षणेन श्रुतं च चिन्तां च व्यतिक्राम्यैकान्तेन भावनाकारेणैवाधिमुच्यते। तन्निमित्तालम्बनामेव शमथविपश्यनां भावयति। भावयंश्च यथा यथा तामौदारिकशान्ततां पुनः पुनरधिमुच्यतः। इत्युपपद्यते। [आ]धिमोक्षिको मनस्कारः।

त(य)स्यासेवनान्वयाद् भावनान्वयाद्बहुलीकारान्वयात्तत्प्रथमतः क्लेश(ः)प्रहाणाय मार्ग उत्पद्यते। क्लेशप्रहाणाय च मार्गे समुत्पन्ने यस्तद्भगवतो मनस्कारः। अयमुच्यते प्राविवेक्यः।

स तत्प्रथमतः कामावचरक्लेशादिप्रहेयप्रहाणात्तत्पक्ष्ये दौष्ठुल्यापगमाच्च। तदूर्ध्वं प्रहाणारामो भवति। विवेकारामः। तस्मिंश्च प्रहाणानुशंसदर्शीपरीत्तप्रविवेकप्रीतिसुखसंस्पृष्टः कालेन कालं प्रसदनीयेन मनस्कारेण। संप्रहर्षयति। संवेजनीयेन मनस्कारेण संवेजयति। यावदेव स्त्यानमिद्धौद्धत्यापगमाय (।)अयमुच्यते। रतिसंग्राहको मनस्कारः।

तस्य तथा प्रहाणारामस्य भावनारामस्य सम्यक्प्रयुक्तस्य सतः कुशलपक्षप्रयोगोपस्तम्भकामप्रतिसंयुक्तं क्लेशकर्मपर्यवस्थानं चरतो वा विहरतो वा न समुदाचरति। तस्यैवं भवति। किं सन्तमेवाहं कामेषु काम (च्) छन्दं प्रतिसम्वेदयाम्याहोस्विदसन्तम्परिमीमान्सयितुकामः। अन्यतमान्यतमं प्रसदनीयं शुभनिमित्तं मनसि करोति। तस्याप्रहीणत्वात् सर्व्वेण सर्व्वमनुशयस्य तन्निमित्तं मनसि कुर्व्वतः सेवनानिम्नं चित्तं भवति। सेवनाप्रवणं। सेवनाप्राभो(भा)रं नापेक्षापत्तियुतेन निर्विजुगुप्सा(प्रति) वा निःप्रतिकूलता। तस्यैवं भवति। न मे सम्यग्विरक्तं विमुक्तं चित्तं यदुत कामेभ्यः, संस्काराभिनिगृहीतं मे चित्तं वारिवद् धृतं [।] धर्मताभिनिगृहीतं (।) य[न्]न्वहं भूयस्या मात्रया तस्यानुशयस्याशेषप्रहाणाय भूयस्या मात्रया प्रहाणारामो विहरेयं। भावनारामः। अयमुच्ते मीमान्सामनस्कारः।

स भूयस्या मात्रया प्रहाणारामो विहरति। भावनारामः। शमथविपश्यनायुक्तः। पौनःपुन्येन च मीमान्सते। तस्य प्रतिपक्षं च भावयतः कालेन कालं प्रहीणा[ऽ]प्रहीणतां मीमान्समानस्य सर्व्वेभ्यः कामावचरेभ्यः क्लेशेभ्यश्चित्तं विसंयुज्यते। तावत्कालिकयोगेन (।) न त्वत्यन्ताद्बीजसमुद्‍धातो भवति। तस्मिंश्च समये प्रयोगध्यानप्रयोगमार्गपर्यवसानगतः। सर्वक्लेशप्रातिपक्षिको मनस्कारः। समुत्पन्नो भवत्ययमुच्यते प्रयोगनिष्ठो मनस्कारः (।)

तस्य च समनस्कारप्रत्ययं तद्धेतुकं प्रथमं ध्यानं समापद्यते। मौलप्रथमध्यानसहगतो यो मनस्कारः। अयमुच्यते प्रयोगनिष्ठाफलो मनस्कारः।

तत्र प्राविवेक्ये मनस्कारे वर्तमानो, रतिसंग्राहके च विवेकजेन प्रीतिसुखेन कायं प्रतिप्रीणयति। कदाचित् केनचित् प्रतनुकसंमुखीभावयोगेन प्रायोगनिष्ठामनस्कारकालस्यारति[ः]। कदाचित् कदाचित् ध्यानविपुलतरसंमुखीभावेन प्रयोगनिष्ठाफले पुनर्मनस्कारे वर्तमानस्य नास्ति किञ्चिदस्या(स्य) भवति। स्मारणीयं सर्वतः कायाद्युत(द्यदुत) विवेकजेन प्रीतिसुखेन स तस्मिं(स्मिन्) समये विविक्तैः कामैः विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानं पंचा[ङ्]गमुपसम्पद्य विहरति। कामावचरप्रतिपक्षभावनाफले स्थितः कामवैराग्य [ता] मनुप्राप्त इत्युच्ते।

तत्र लक्षणप्रतिसंवेदिना मनस्कारेण [।] यत् प्रहातव्यं तत् सम्यक् प्रजानाति। प्रहातव्यस्य च प्रहाणाय प्राप्तव्यस्य च प्राप्तये चित्तं प्रणिधत्ते। आधिमोक्षिकेण च मनस्कारेण प्रहाणाय प्राप्तये च सम्यक् प्रयोगमारभते। प्राविवेक्यमनस्कारेणाधिमात्रज्ञ शां(तां)जहाति। रतिसंग्राहकेण स क्लेशप्रकारं जहाति। मीमान्सामनस्कारेण प्राप्तिनिरभिमानतायां चित्तमवस्थापयति। प्रयोगनिष्ठेन मृदुं क्लेशप्रकारं जहाति। प्रयोगनिष्ठाफलेनैषां क्लेशप्रकाराणां भावितानां सुभावितानां भावनाफलं प्रत्यनुभवति।

अपिच यश्च लक्षणप्रतिसंवेदी मनस्कारः। यश्चाधिमोक्षिकः। अयमुच्यते आनुलोमिको मनस्कारो[ऽ]पि दूषणाप्रतिपक्षसहगतः। यश्च प्राविवेक्यो मनस्कारः, यश्च प्रयोगनिष्ठो[ऽ]यं प्रातिपक्षिको मनस्कारः। प्रहाण-प्रतिपक्षगवतः (-क्षगतः) [।] तत्र यो रतिसंग्राहको मनस्कारः (।) अयं प्रातिपक्षिकश्च प्रसदनीयश्च [।]

तत्र यो मीमान्सामनस्कारः अयं प्रत्यवेक्षणामनस्कारः। इत्युच्यते। एवं सति षट्षु मनस्कारेषु चत्वारो मनस्काराः प्रविघ्ना वेदितव्याः। तद्यथा आनुलोमिकः। प्रातिपक्षिकः। प्रसदनीयः। प्रत्यवेक्षणीयश्चेति।

यथा प्रथमध्यानसमापत्तिः सप्तभिर्मनस्कारैरेवं द्वितीयतृतीयचतुर्थध्यानसमापत्तिः। आकाशविज्ञानाकिंचन्यायतननैवसंज्ञानासंज्ञायतनसमापत्तिः सप्तभिरेव मनस्कारैः। तत्र येन वितर्केष्वौदारिकलक्षणं प्रतिसम्वेदयते। अवितर्कश्च द्वितीयध्याने शान्तलक्षणं स लक्षणप्रतिसंवेदी मनस्कारः। द्वितीयध्यानसमापत्तये [।] तत्र ध्यानसमापन्नः। प्रथमध्यानलाभी वितर्केष्वौदारिकताम्पश्यति। यः समाहितभूमिको[ऽ]प्युग्रालम्बनभारी तत्प्रथमोपनिपातितया चालम्बने औदारिको मनोजल्पः। अयम्बितर्कस्तदनुबन्धानुचारी व्यग्रचार्येवालम्बने सूक्ष्मतरो मनोजल्पः विहारः। एते पुनर्वितर्कविहा(चा)राश्चै तसिकाश्चेतस्युत्पद्यमाना उत्पद्यन्ते। सहभुवः संप्रयुक्ता[ः]। एकालम्बनवृत्तयः। एवमेते अध्यात्ममुत्पद्यन्ते।

बाह्यायतनसंगृहीताश्च। सर्व एव चातीता, अनागतप्रत्युत्पन्ना, हेतुसमुत्पन्नाः, प्रतीत्यसमुत्पन्नाः, आकायिकास्तावत्कलिकाः। इत्वरप्रत्युपस्थायिनश्चित्तसंक्षोभकरा, इंजका अप्रशान्ताकारेण वर्तन्ते। उपरिमां भूमिमारभ्य दुःखविहारानुगतत्वात्कुष्णपक्ष्या कामविवेकप्रीतिसुखमेवानुशंसानुगता भूमिश्चैषा तादृशी प्रकृत्या यत्र स्थितस्य नित्यं नित्यकालं, ध्रुवं ध्रुवकालं, सवितर्कः, सविचारः, चित्तप्रचारः प्रवर्तते। न शान्तप्रशान्त इत्येवमादिभिराकारैर्वितर्केष्वौदारिकलक्षणं प्रतिसंवेदयते।

सर्वशो नास्त्येतदौदारिकलक्षणमवितर्केद्वितीये ध्याने इत्यतः शान्तं द्वितीयं ध्यानमस्यौदारिकत्वस्यापगमात्। शेषो(षे) मनस्कारा द्वितीयध्यानसमापत्तये यथा(पि)योगं पूर्व्ववद्वेदितव्यं। एवं भूमौ भूमौ यावन्नैवसंज्ञानासंज्ञायतनसमापत्तये यथायोगं सप्त मनस्कारा वेदितव्याः।

औदारिकलक्षणं पुनः सर्व्वास्वधरिमासु भूमिषु यावदाकिंचन्यायतनात् समासेन द्विविधं वेदितव्यं। दुःखतरं विहावितो(रिता) चाधर्मू(धोभू) मीनामप्रशान्तविहारिता च। अल्पायुष्कतरा च। इत्येतद् द्विविधमौदारिकलक्षणं। षड्भिर्वस्तुभिर्यथायोगं पर्येषते। यस्या यस्या भूमेर्वैराग्यं कर्त्तुकामो भवत्युपरिष्टाच्च यथायोगं शान्तलक्षणं। यावत्प्रयोगनिष्ठाफलान्मनस्कारात्तत्र विविक्तं कामैरिति।

द्विविधाः कामाः क्लेशकामा वस्तुकामाश्च[।] कामवितर्को[ऽ]पि द्विविधः। संप्रयोगविवेक आलम्बनविवेकश्च [।] विविक्तं पापकैरकुशलैर्धर्मैरिति। उपक्लेशाः कामहेतुका अकुशला धर्मास्तद्यथा कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितं। दण्डादानं शस्त्रादानं। कलहभण्डनविग्रहविवादशाठ्यवञ्चननिकृतिमृषावादाः सम्भवन्ति। तेषाम्प्रहाणाद्विविक्तं पापकैरकुशलैर्धर्मैरवितर्कविचारेष्वदोषदर्शनात्स्वभूमिकैर्वितर्कविचारैः कामप्रातिपक्षिकैः कुशलैः [।] सवितर्कं सविचारं प्रयोगनिष्ठो मनस्कारः कामविवेकं (कः) तस्यानन्तरमुत्पन्नं(न्नः)। तद्धेतुकं (कस्) तत्प्रत्ययं (यस्) तेनाह विवेकजमीप्सिताभिलषितार्थसंप्राप्तः, प्रीतौ वा दोषदर्शनात्। सर्वदौष्ठुल्यापगमाच्च विपुलप्रश्रब्धि चित्तकायकर्मण्यतया प्रीतिसुखमनुपूर्व्वेण गणयतः। तत्प्रथमतश्च कामधातूच्चलितात् प्रथमं सम्यगालम्बनोपनिध्यानादेकाग्रस्मृत्युपनिबन्धाद्‍ध्यानं प्रयोगनिष्ठाफलत्वादुपसम्पद्य। उत्तरत्र च भावनाबहुलीकारनिष्पादनात् [।] निकामलाभी, अकृच्छ्रलाभी, अकिसर(अकृत्स्न?) लाभी, तथा ध्यानसमापत्त्या रात्रिमतिनामयति। दिवसमपि यावदाकांक्षमाणः सप्तरा त्रिंदिवसानि तेनाह विहरतीति। सवितर्कसविचारविविक्तेभ्यश्चित्तम्व्यावर्तयित्वा (त्तं व्यावर्त्य) अवितर्का[ऽ]विचारसमाधिनिमित्तेषूपनिबध्नाति। व्यग्रचारिण आलम्बनाद्विवेच्य अव्यग्रचारिण्यालम्बने एकधर्मतया शान्तं प्रसन्नं चित्तं प्रवर्त्तते। व्यवस्थापयति। तेनाह वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादनात्सभावनाभ्यासात्तस्यैवा[ऽ]वितर्का[ऽ]विचारस्य समाधेः, वितर्कविचारस्य समाधेः, स[च्]छिद्रसान्तरामवस्थामतिक्रम्य निश्छिद्रनिरन्तरामवस्थां प्राप्नोति। तेनाह चेतस एकोतीभावात् सर्व्वेण सर्व्वं वितर्कविचारप्रहाणादवितर्कमविचारं प्रयोगनिष्ठो मनस्कारः समाधिस्तस्यानन्तरं तद्धेतुकं तंत्प्र(कस्तत्प्र)त्ययमुत्प(य‍उत्प)द्यत इति। तेनाह समाधिजं ईप्सिता[ऽ]निन्दितार्थप्राप्तेः प्रीतौ वा दोषदर्शनात्। स संप्रहर्षगतं दौर्मनस्यगतं वितर्कविचारप्रथमध्यानक्लेशपक्षसर्वदौष्ठुल्यापगमात्तत्प्रातिपक्षिकप्रश्रब्धिचित्तकायकर्मण्यतासुरवानुगत्वात्। प्रीतिसुखमनुपूर्व्वेण गणयतो द्वितीयं भवत्येवं सर्व्वं पूर्व्ववद् वेदितव्यम्।

प्रीतिनिमित्तेषु दोषं पश्यति। तेनाह प्रीतेर्विरागात्[।] तस्मिंश्च समये द्विविधो[ऽ]स्य चित्तक्षोभकरः अपक्षालो[ऽ]धिगतो भवति। निःप्रीतिके तृतीयध्याने चित्तं प्रदधतः। द्वितीये च ध्याने वितर्कविचाराः, एतर्हि च प्रीतिः, तेनाह उपेक्षको विहरति। एतौ हि द्वौ धर्मौ चित्तसंक्षोभकरौ। निरन्तराया उपेक्षाया विघ्नकारकौ। तत्र प्रथमे ध्याने वितर्कविचारा भवन्ति। येन निरन्तरोपेक्षा न प्रवर्त्तते। द्वितीये ध्याने प्रीतिर्भवति। येनात्रापि निरन्तरोपेक्षा न प्रवर्त्तते। तेनायं ध्यायी प्रथमद्वितीयेषु(ययोः) ध्यानेषु(नयोः) नास्ति, तेन तृतीये ध्याने उपेक्षको विहरतीत्युच्यते। स उपेक्षकस्सन्स्तथा(स्संस्तथा) तथोपस्थितस्मृतिर्विहरति। यथा यथा ते प्रीतिसहगताः संज्ञामनसिकाराः समुदाचरन्ति। स चेत्पुनरभावितत्वात् तृतीयस्य ध्यानस्य स्मृतिसंप्रमोषात्कदाचित्कर्हिचित् चित्ते प्रीतिसहगताः संज्ञामनसिकाराः समुदाचरन्ति। तां(तान्) लघु लघ्वेव प्रज्ञया प्रतिविध्यति। सम्यगेव प्रजानाति। उत्पन्नोत्पन्नांश्च नाधिवासयति। प्रजहाति विनोदयति। व्यन्तीकरोति, चित्तमध्युपेक्षते। तेनाह स्मृतः संप्रजाना[न]इति। तस्य तस्मिन्समये एवमुपेक्षकस्य विहरता स्मृतस्य संप्रजन्य स्यासेवनान्वयाद्बहुलीकारान्वयात्प्रीतिसहगतं प्रहीयते। तच्चित्तौद्धत्यकरं, निःप्रीतिकं, शान्तं, प्रशान्तं चेतसि वेदितमुत्पद्यते। प्रीतिप्रातिद्वन्द्व्‍येन तस्मिन् समये रूपकायेन, मनःकायेन वेदित सुखं च प्रश्रब्धिसुखं प्रतिसम्वेदयते। तृतीयाच्च ध्यानात्। अधस्तद्रूपं सुखं नास्ति नापि निरन्तरा उपेक्षा तृतीया[द्]ध्यानादूर्ध्वं यदप्युपेक्षोपलभ्यते। न तु सुखं। तत्राधः सुखोपेक्षाभावादूर्ध्वं च सुखाभावात्। इदं तदायतनं यदुत तृतीयं ध्यानं यत्तदार्या आचक्षते। यत्प्रतिलम्भविहारिणं पुद्गलमधिकृत्य स्मृतिमां(मान्) सुखविहारी तृतीयं ध्यानमुपसंपद्य विहरतीति आर्याः पुनः वृद्धाश्च वृद्धश्रावकाश्च।

तत्रातुल्यजातीयत्वात्। प्रतिपक्षस्य सुखस्य प्रहाणप्रतिपक्षानाख्यातः (क्षोऽनाख्यातः)। यदेव तत्प्रतिपक्षकृतं सुखप्रहाणं तदेवाख्यातं। कः पुनरसौ प्रतिपक्षः। यदुतोपेक्षा स्मृतिसम्प्रजन्यञ्च। तस्य च निषेवणाभ्यासात्तृतीयध्यानाच्चलितो यत्र तृतीयध्यानभूमिसुखं तत्प्रजहाति। तेनाह। सुखस्य च प्रहाणात्पूर्व्वमेव च सौमनस्यदौर्मनस्ययोरस्त (ङ्)गमात्। तत्र चतुर्थध्यानसमापत्तिकाले तस्मिन् समये स ध्यायी सुखदुःखव्यतिक्रममनुप्राप्नोति। तेन यश्(च्)च पूर्वप्रहीणं, यश्चै(च्चै)तर्हि प्रहीयते। तस्य संकलनं कुर्व्वन्नेवमाह। सुखस्य च प्रहाणात्(द्), दुःखस्य च प्रहाणात्, पूर्व्वमेव च सौमनस्यदौर्मनस्ययोरस्त[ङ्]गमात्। तन्न चतुर्थध्यानसमापत्तिकाले सुखस्य च प्रहाणाद्‍द्वितीयध्यानसमापत्तिकाले दुःखस्य, तृतीयध्यानसमापत्तिकाले सौमनस्यस्या[ऽ]स्तङ्गमात्, प्रथमध्यानसमापत्तिकाले दौर्मनस्यस्य, अस्ति तावत्सुखदुःखस्य(योः) प्रहाणाददुःखासुखैवास्य वेदना, न विशिष्टा भवति। तेनाह। अदुःखासुखा तस्मिन् समये प्रथमं ध्यानमुपादाय सर्व्वे अधोभूमिकाः अपक्षालाः प्रहीणा भवन्ति। तद्यथा वितर्कविचाराः, प्रीतिराश्वासप्रश्वासाः। तेषां च प्रहाणाद्या तत्रोपेक्षा। स्मृतिश्च सा परिशुद्धा भवति। पर्यवदाता, येनास्य एतच्चित्तं चतुर्थध्यानसमापन्नस्यानिंज्यं सन्तिष्ठते। सर्व्वेञ्जितायतनं। तेनाह। उपेक्षास्मृतिपरिशुद्धमिति [।] तत्र चतुर्थमिति पूर्ववद् वेदितव्यम्॥ यथाप्रमाणादिषु स्थानेषु॥

तत्राकाशाधिमोक्षस्य वर्ण्णसंज्ञा नीलपीतलोहितावदातादिप्रतिसंयुक्ततामसातामसातया निर्विरागतया च समतिक्रान्तो भवति। तेनाह। रूप संज्ञानां समतिक्रमादनाभासगमनहेतोर्या अनेकविधा बहुनानाप्रकारा वर्ण्णप्रचयहेतुका आवरणसंज्ञा सा (या) सा विगता भवति। तेनाह। प्रतिघसंज्ञानामस्त[ङ्]गमात्, तासाम्वा पुनर्विगमहेतोर्या औपचयिकीसंज्ञास्तेष्ववशिष्टेषु विशिष्टेषु संघातेषु प्रवृत्तास्तद्यथा भोजनपानवस्त्रालंकारगृहोद्यानवनसेनापर्व्वतादिसंज्ञा[ः]। तेषु सर्व्वेण सर्व्वमाभोगो [ऽ]प्यस्य न प्रवर्तते। तेनाह। नानात्वसंज्ञानाममनसिकारात्। स एवं रूपप्रतिघनानात्वसंज्ञा भावयित्वा अनन्ताकारेणा[ऽऽ]काशाधिमुक्तो भवति। तेनाह। अनन्तमाकाशम(शंस) सामन्तकमतिक्रम्य प्रयोगनिष्ठान्मनसिकारादुच्चप्रयोगनिष्ठाफलं मौलं समापद्यते। तेनाह। आकाशानन्त्यायतनमुपसम्पद्य विहरति। तस्य यावन्मौलं न समापद्यते। तस्याकाशमालम्बनं समापन्नस्य पुनस्तच्च तदन्ये च स्कन्धाः स्वभूमिकाः सामन्तके पुनरधोभूमिका अपि स्कन्धाः।

समयेन विज्ञानेनानन्तमाकाशमधिमुच्यते। तदेव विज्ञानमनन्ताकारा[ऽऽ]काशाधिमोक्षिकं। विज्ञानानन्त्यायतनं समापत्तुकामः। आकाशानन्त्यायतनसंज्ञां व्यावर्त्य। तदेव विज्ञानमनन्ताकारेणाधिमुच्यते। ससामन्तके मौलमाकाशानन्त्यायतनं समतिक्रम्यते। तेनाह। सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्तं विज्ञानमिति। स विज्ञानानन्त्यायतनमिति सामन्तकं समतिक्रम्य यावत्प्रयोगनिष्ठान्मनसिकरान्मौलप्रयोगनिष्ठाफलं समापद्यते। तेनाह। विज्ञानानन्त्यायतनमुपसम्पद्य विहरतीति।

स विज्ञानानन्त्यायतनादुच्चलितो विज्ञानात् परेणा[ऽऽ]लम्बनं समन्वेषमाणो न पुनर्लभते (।) किञ्चन प्रतिसंयुक्तं रूपि वा, अरूपि वा [।] स तदालम्बनमलभमानः ससामान्तकमौलं विज्ञानानन्त्यायतनं [स]मतिक्रम्य नास्ति किञ्चिदन्यदा लम्बनमधिमुच्यते। सो[अ]किञ्चनसंज्ञाधिमुक्त एव भवति। स तस्य संज्ञाधिमोक्षस्य बहुलीकारान्वयादाकिंचन्यायतनसामन्तकं समतिक्रम्य यावत्प्रयोगनिष्ठा(न्)मनसिकारान्मौलं प्रयोगनिष्ठाफले समापद्यते। तेनाह। सर्वशो विज्ञानानन्त्यायतनं समतिक्रम्य नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसंस्पृश्य (-सम्पद्य) विहरतीति।

तेनाह। संज्ञी यदुता [ऽऽ]किञ्चन्यायतनादुच्चलितः। आकिञ्चन्यसंज्ञायामौदारिकसंज्ञी आदीनवसंज्ञी आकिञ्चन्यायतनसंज्ञां व्यावर्त्तयति। तेन पूर्वमाकिञ्चन्यायतनसमापत्तिकाले [अ] किञ्चनसंज्ञासमतिक्रान्ता, एतर्ह्यकिंचनसंज्ञा समतिक्रान्ता भवति। तेनाह संज्ञी यदुत किञ्चनसंज्ञाया वा, अकिञ्चन संज्ञाया वा, अकिञ्चनसंज्ञा वा, न च पुनः सर्व्वेण सर्व्वं सास्य संज्ञा निरुद्धा भवति। तद्यथा आसंज्ञि [के]वा, निरोधसमापत्तौ वा, नान्यत्र सूक्ष्मा सा संज्ञा निमित्तालम्बने प्रवर्तते। नैव संज्ञा नासंज्ञा [।] एवं तदायतनाधिमुक्तः ससामन्तकमौलमाकिञ्चन्यायतनं समतिक्रम्य नैव संज्ञानासंज्ञायतनसामन्तकस्य या वत्प्रयोगनिष्ठान्मनसिकारात् प्रयोगनिष्ठाफलं मौलं समापद्यते। तेनाह। सर्वश आकिञ्चन्यायतन[ं] समतिक्रम्य नैव संज्ञानासंज्ञायतनमुपसम्पद्य विहरतीति॥

तत्र ध्यानसमापत्तिकाले अधो रसातलप्रवेशवत्। कायसंप्रख्यानलिंगं। आरूप्यसमापत्तिकाले आकाशात्पतनवत्। तत्र शमथाकालेनाध्युपेक्षणात्सम्यक्प्रयोगः। तत्र द्वे अचित्तिके समापत्ती असंज्ञा(ज्ञि) समापत्तिर्निरोधसमापत्तिश्च। तत्रासंज्ञासमापत्ति [ं] संज्ञाविमुखेन मनस्कारेण पृथग्जन एव समापद्यते, निरोधसमापत्तिं पुनरार्य एव।

तत्र द्वाभ्यां मनस्काराभ्यामनयोः समापत्त्योः समापत्तिप्रवेशो भवति। तद्यथा संज्ञाविमुखेन मनस्कारेणासंज्ञा (ज्ञि)समापत्तेः, नैवसंज्ञानासंज्ञोच्चलितेनालम्बनसन्निरुद्धेन च मनस्कारेण निरोधसमापत्तेः [।] तत्र संज्ञारोगः, संज्ञागण्डः, संज्ञाशल्यः (मं), एतच्छान्तमेतत्प्रणीतं यदुतासंज्ञिकमिति। संज्ञाविमुखं मनस्कारं परिगृह्योत्पन्नोत्पन्नामसंज्ञास्मृत्यमनसिकारानु (रमनु) चरेति (रति) [।] तस्य भावनान्वयात्प्रयोगमार्गे सचित्तिकावस्था भवति। समनस्कारसमापन्नस्य च पुनश्चित्तं न प्रवर्तत इति। स एवं निःसरणसंज्ञा पूर्व्वकेण मनस्कारेण शुभकृत्यवीतरागस्य, बृहत्फलेभ्यो वीतरागस्य, चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते [अ]संज्ञ (ज्ञि)समापत्तिः। एवं च पुनरस्याः प्राप्तिर्भवति॥

तत्र नैव संज्ञानासंज्ञायतनलाभी आर्यः परेण शान्तेन विहारेण विहर्त्तुकामः नैव संज्ञानासंज्ञायतनाच्चित्तमुच्चा लयति। तच्चित्तमुच्चलितमालम्बनं न लभते। अलभमानं निरुध्यते। न प्रवर्त्तत इति। य एवमाकिञ्चन्यायतनवीतरागस्य शैक्षस्यार्हतो वा विहारसंज्ञापूर्वकेण मनस्कारेण चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते निरोधसमापत्तिरेवं च पुनरस्याः प्राप्तिर्भवति॥

तत्र ध्यानसन्निश्रयेण पंचानामभिज्ञानामभिनिर्हारो भवति। कथं च पुनर्भवति। यथापि तद्‍ध्यायी लाभी भवति। परिशुद्धस्य ध्यानस्य [।] स तत्परिशुद्धं ध्यानं निश्रित्य यो[अ]नेनाभिज्ञाधिपतये(पतेयो) धर्म[ः] श्रुतो भवत्युद्गृहीतः, पर्यवाप्तः, यदुत ऋद्धिविषयम्वारभ्य, पूर्व्वेनिवासदिव्यश्रोत्रच्युत्युपपादचेतः पर्यायम्वा तमेव मनसि कुर्वन् समाहितभूमिकेन मनस्कारेणार्थप्रतिसंवेदी च भवति। धर्मप्रतिसंवेदी च। तस्यार्थप्रतिसंवेदिनो धर्म(ः)प्रतिसंवेदिनस्तथास्तथा (स्तथा तथा) चित्तान्यभिसंस्कुर्वतो बहुलीकारान्वयाद् भवति। स कालो भवति समयो यदस्य भाज(व) नाफलाः (ः) पंचाभिज्ञा उत्पद्यन्ते॥

अपि च तस्या(स तथा)र्थ प्रतिसंवेदी, धर्मप्रतिसंवेदी सर्वाभिज्ञानिर्हाराय द्वादशसंज्ञा भावयति। तद्यथा लघु संज्ञा [ं]। मृदुसंज्ञा[ं]। आकाशधातुसंज्ञां। कायचित्तसम[व]धानसंज्ञामधिमुक्तिसंज्ञां, पूर्वानुभूतचर्यानुक्रमानुस्मृतिसंज्ञां नानाप्रकारशब्दसन्निपातनिर्घोषसंज्ञामवदातरूपनिमित्तसंज्ञां, क्लेशकृतरूपविकारसंज्ञा[म]धिमोक्षसंज्ञाममिभ्वायतनसंज्ञां कृत्स्नायतनसंज्ञाञ्च।

तत्र लघुसंज्ञायां लघुकमात्मानमधिमुच्यते। तद्यथा तूलपिन्धुर्व्वा, कर्पासपिन्धुर्व्वा [।] वायुमण्डलके वा स तथा [अ]धिमुच्यमानः तत्र प्रेरयत्याधिमोक्षिकेणैव मनस्कारेण [।] तद्यथा मञ्चात्पीठान्मञ्चे। एवं मञ्चात् तृणसंस्तरकान्मञ्चे। तत्र मृदुसंज्ञा। मृदुकं कायमधिमुच्यते। तद्यथा कौशयम्वा, कच्चम्वा, पद्गम्वा, [।] इतीयं मृदुसंज्ञाया लघुसंज्ञाया [ः]पोषिका, अनुग्राहिका [य]या अनुगृह्यमाणा लघुसंज्ञा पृथुवृद्धिवैकल्यतां (विपुलतां) गच्छति। तत्राकाशधातुसंज्ञा यया संज्ञया लघुतां च मृदुतां चात्मनो[ऽ]धिमुच्यते। स चेत् क्वचिद् गन्तुकामो भवति। तत्र यदन्तरालं विवन्धचरं रूपिगतं गमनाय तदाकाशमधिमुच्यते [।] आधिमोक्षिकं (केन) च मनस्कारेण। तत्र चित्तकायसमवधानसंज्ञा यया चित्तम्वा काये समवदधाति। कायम्वा चित्ते, येनास्य कायो लघुतरश्च भवति, मृदुतरश्च, कर्मण्यतरश्च, प्रभास्वरतरश्च [।] चित्तान्वयश्चित्त प्रतिबन्धश्चित्तं निश्रित्य वर्त्तते। तत्राधिमोक्षिकसंज्ञा यया संज्ञया भू(दू)रगमासन्ने[अ]धिमुच्यते, आसन्नं दूरे, अणु स्थूलं, स्थूलमणु, पृथिवी आपः, आपः पृथिवी एवमेकैकेन महाभूतेना[ऽ]न्यो[ऽ]न्यं करणीयं। विस्तरेण तथानिर्मितं चाधिमुच्यते, रूपनिर्मितं वा, शब्दनिर्मितं वा[।]

इत्याभिः पञ्चसंज्ञाभिः भावनाया परिनिष्पन्नाभिरनेकविधमृद्धिषयं प्रत्यनुभवत्येको भूत्वा बहुधात्मानमुपदर्शयति। यदुताधिमोक्षिकया नैर्माणिकया(क्या)संज्ञया तत्र बहुधा पुनरात्मानमुपदर्शयन्चै(यंश्चै)की भवति। यदुत निर्माणान्तर्धायिकया [अ]धिमुक्तिसंज्ञया तिरःकुड्यं, तिरःप्राकारमसज्जमानेन कायेन गच्छति। येन गच्छति। (येन गच्छति)। पृथिव्यामुन्मज्जनिमज्जनं करोति। तद्यथोदके, उदके भिद्यमानेन स्रातसा गच्छति। तद्यथा पृथिव्यामाकाशे पर्यङ्केनाक्रामति। तद्यथा पक्षी शकुनि[ः], इमौ वा सूर्याचन्द्रमसावेवं महर्धिकौ महानुभावौ पाणिना आमार्ष्टि। परामार्ष्टि। यावद्ब्रह्मलोकात्कायेन वशे वर्त्तयति। लघुमृद्वाकाशधातुचित्तकायसमवधानसंज्ञया परिगृहीतया अधिमुक्तिसंज्ञया सर्वमेतत्करोति। यथायोगम्वेदितव्यं। तत्र द्विविधाब्रह्मलोकस्य कायेन वशे वर्तना, गमनेन च (।) वशे वर्त्तयति। यथैवाधिमुक्त्या वा, ब्रह्मलोकादधश्चर्तुकामता भूतानां तदेकत्यस्य चोपादायरूपस्य [।]

तत्र पूर्वानुभूतचरितानुक्रमानुस्मृतिसंज्ञा यया कुमारकभावमुपादाय यत्रास्य स्मृतिः प्रवर्त्तते। न व्याहन्यते। यत्रार्य गतो भवति, स्थितो, निषण्णुः(ण्णः), शयितो विस्तरेण सर्व्वां पूर्वानुभूतां चर्यामौदारौदारिकौदारिकतया अनुपरिवाटिकया अव्युत्क्रमन्ति(न्ते)। कया समनुस्मरन्संजानाति। तस्या भावनान्वयाद् भावनाफलमनेकविधं पूर्व्वेनिवासं समनुस्मरति यावत्सन्सा(संसा) रं सोद्देशं विस्तरेण [।] तत्र नानाप्रकारशब्दसन्निपातनिर्घोषसंज्ञा [।] यस्मिन् ग्रामे वा, निगमे वा श्रेण्याम्वा, पूगे वा, पर्षदि वा, आयतविशाले वा गृहे, अववरके वा, नानाप्रकारस्य जनकायस्य सन्निषण्णस्य सन्निपतितस्य यो व्यतिमिश्रो, विचित्रो, निर्घोषो निश्चरित। यः कलकलशब्द इत्युच्यते। महत्या वा नद्या वह[न्] त्या निर्घोषः, तत्र निमित्तमुद्गृह्य या संज्ञाभावना यया समाहितभूमिकेन मनसिकारेणार्या[ऽ]नार्येषु शब्देषु, दिव्यमानुष्यकेषु, दूरान्तिकेष्वाभोगं वारयति। तस्यास्य बहुलीकारान्वयाद् भावनाफलं दिव्यं श्रोत्रं प्रतिलभते। येन दिव्यमानुष्यकां [कान्]शब्दां (ब्दान्)शृणोति। ये[ऽ]पि दूरे, ये[ऽ] प्यन्तिके [।] तत्रावभासरूपनिमित्तसंज्ञा [।] पूर्व्ववदालोकनिमित्तमुद्गृह्य तदेव निमित्तं मनसि करोति। इयमवभासरूप निमित्तसंज्ञा [।] तस्या भावनान्वयाद् भावनाफलं च्युत्युपपादज्ञानं प्रतिलभते। येन दिव्येन चक्षुषा विशुद्धेन विस्तरेण यावत्कायस्य भेदात्स्वर्गतौ स्वर्गलोके देवेषूपपद्यन्ते(ते)। तत्र क्लेशकृतरूपविकारसंज्ञा। यया रक्तद्विष्टमूढानां क्रोधोपनाहप्र [यु] क्तपरिदाहाह्रीक्यानपत्राप्यक्लेशोपक्लेशपर्यवनद्धचित्तानां सत्त्वानां रूपावस्थामुपलक्षयति। परि[च्]छिनत्ति [।] एवं रूपारक्तस्य रूपावस्था भवति। रूपविकृतिः। तद्यथा उद्धतेन्द्रियता, स्मितमुखता [।] एवं रूपा द्विष्टस्य रूपावस्था भवति। रूपविकृतिः। तद्यथा मुखविवर्णता सगद्गदस्वरता। कृतभृकुटिता। एवंरूपा मूढस्य पर्यवस्था भवति। रूपविकृतिः। तद्यथा मूकता अर्थनिध्यप्तावप्रतिपद्यनता (दनता) प्राकृता[ऽ]प्राकृता वा वाग्व्याहारता [।] इत्येभिराकारैरेवं भागीयैर्यावदाह्रीक्यानपत्राप्यपर्यवस्थितस्य या रूपावस्था भवति। रूपविकृतिः। ततो निमित्तमुद्गृह्य मनसि करोति। तद्यथा बहुलीकारान्वयाद् भावनाफलं चेतःपर्यायज्ञानमुत्पद्यते। येन परसत्त्वानां परपुद्गलानां वितर्कितं विचारितं मनो मनसा यथाभूतं प्रजानाति।

तत्र विमोक्षाभिभ्वायतन-कृत्स्नायतनसंज्ञाभावना पूर्व्ववद्वेदितव्या। तद्यथा समाहितायां भूमौ। यया भावनया आर्यामृद्धिमभिनिर्हरति। वस्तुपरिणामिनी[ं]नैर्माणिकीमाधिमोक्षिकीं। तद्यथा अरणा प्रणिधिज्ञानं। चतस्रः प्रतिसम्विदः तद्यथा धर्मप्रतिसंविदर्थ प्रतिसंविन्निरुक्तिप्रतिसम्वित्प्रतिभानप्रतिसम्वित् [।]

तत्रार्यायाश्चानार्याया ऋद्धेरयं विशेषः। आर्यया ऋद्‍ध्या यद्‍यदेव वस्तु परिणामयति। यद्‍यदेव निमित्तं निर्मिणोति। तत्तथैव भवति। नान्यथा। सर्व्वेण तेन कार्यं शक्यते कर्तुम्। अनार्यया न पुनर्न तथैव भवत्यपि तु। मायाकारकस्यैव संदर्शन मात्रकं ख्याति। एवमाभिर्द्वादशभिः संज्ञाभिर्बहुलीकारान्वयाद्यथायोगं स पञ्चानामभिज्ञानामार्याणां च गुणानामपृथग्जनसन्धारणानां यथायोगमभिनिर्हारो वेदितव्यः।

तत्र प्रथमे ध्याने मृदुमध्याधिमात्रपरिभावितेन यथायोगं ब्रह्मकायिकानां, ब्रह्मपुरोहितानां, महाब्रह्मणां देवानां सभागतायामुपसम्पद्यते [।] द्वितीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तानामाभास्वराणां च देवानां सभागतायामुपसंपद्यते। तृतीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तशुभानां, सप्रमाणशुभानां, शुभकृत्यानां च देवानां सभागतायामुपसंपद्यते। चतुर्थे ध्याने मृदुमध्याधिमात्रभाविते यथायोगमनभ्रकानां, पुण्यप्रसवानां, बृहत्फलानां च देवानां सभागतायामुपसम्पद्यते। स चेत्पुनरनागामी अनास्रवेण ध्यानेन चतुर्थेन सास्रवं, व्यवकीर्ण्णं भावयति। तस्मिं(स्मिन्)मृदुमध्याधिमात्राधिमात्रतराधिमात्रतमभाविते यथायोगं पञ्चानां शुद्धावासानां देवानां स(ह)भागतायामुपसम्पद्यते। तद्यथा अदहे (ह्रे)ष्वतापेषु, सुदर्शनेषु, अकनिष्ठेषु[।] आकाशविज्ञानाकिञ्चन्य-नैवसंज्ञानासंज्ञायतने मृदुमध्याधिमात्रभाविते आकाशविज्ञानाकिञ्चन्यनवसंज्ञानासंज्ञायतनोपगानां देवानां सभागतायामुपसम्पद्यते [।] अरूपिणश्च देवास्तस्मात्तेषां स्थानान्तरकृतो भेदो नास्ति, विहारकृतस्तु विशेषो भवति। असंज्ञिसमापत्त्यां भावितायामसंज्ञिसत्त्वानां देवानां सभागतायामुपसम्पद्यते।

तत्र कतमानि वीतरागस्य लिंगानि। आह। स्थिरकायकर्मान्तो भवत्यचलेन्द्रियः [।] न चास्येर्यापथ आशु पर्यादीयते। एकेनापीर्यापथेन चिरं कालमतिनामयत्यपरितस्यमानः। न ताशु(सु)ईर्यान्तरं स्पृहयति। मन्दभाणी च भवति, प्रशान्तभाणी च[।]न संगणिकारामो, न संसर्गारामो, धीरा चास्य वाग्(क्)प्रवर्तते। चक्षुषा रूपाणि दृष्ट्वा रूपप्रतिसम्वेदी भवति। न रूपरागप्रतिसम्वेदी। एवं शब्दगन्धरसस्प्रष्टव्यप्रतिसंवेदी भवति। नो तु यावत्स्प्रष्टव्यरागप्रतिसंवेदी। विशारदश्च भवति। गम्भीरबुद्धिर्विपुलप्रश्रब्धिचित्तकायोपगूढः॥ अनभिध्यालुरविक्षोभ्यः। क्षमावान्न चास्य कामवितर्कादयः पापकाश्चित्तं क्षोभयन्ति। इत्येवं भागीयानि वीतरागलिंगानि वेदितव्यानीत्ययं तावत् लौकिकमार्गगमनस्य विभागः॥

अथ लोकोत्तरेण मार्गेण गन्तुकामो भवति तस्य चत्वार्यार्यसत्यान्यारभ्य सप्त मनस्कारा अनुपूर्व्वेणोत्पद्यन्ते। लक्षणप्रतिसंवेदी[दि]मनस्कारादयः प्रयोगनिष्ठाफलपर्यवसाना यावदर्हत्त्वप्राप्तेः। तत्र चतुर्ण्णामार्यसत्यानां सोद्देशविभंगानां श्रमणेनोद्गृहीतयोगाचारः। सुभावितमनस्कारो वा, मौलध्यानारूप्यलाभी वा, चतुर्भिराकारैर्दुःखसत्यस्य लक्षणं प्रतिसंवेदयते। तद्यथाऽनित्याकारेण, दुःखाकारेण, अनात्माकारेण च। चतुर्भिराकारैः समुदयसत्यस्य तद्यथा हेतुतः, समुदयतः, प्रभवतः, प्रत्ययतश्च [।] चतुर्भिराकारैर्निरोधसत्यस्य लक्षणं प्रतिसम्वेदयते। तद्यथा निरोधतः, शान्ततः, प्रणीततो, निःसरणतश्च[।]चतुर्भिराकारैर्मार्गसत्यस्य लक्षणं प्रतिसम्वेदयते। तद्यथा मार्गतो, न्यायतः प्रतिपत्तितो, नैर्याणिकतश्च। सो[ऽ]स्य भवति लक्षणप्रतिसंवेदी मनस्कारः॥

तत्र दशभिराकारैर्दुःखसत्यं परीक्षमाणश्चतुर आकाराननुप्रविशति। कतमैर्दशभिस्तद्यथा। विपरिणामाकारेण, अविनाशाकारेण, वियोगाकारेण, सन्निहिता [।] कारेण, धर्मताकारेण। संयोजनबन्धनाकारेण, अनिष्टाकारेण, अयोगक्षेमाकारेण, अनुप(कारेण)लम्भाकारेण, अस्वातन्त्राकारेण च। एतान्पुनर्दशाकारान् उपपत्तिसाधनयुक्त्या उपपरीक्षते।

तत्रागमस्तावद्यथोक्तं भगवता सर्वसंस्कारा अनित्याः [।] ते पुनः संस्काराः समासतः सत्त्वलोकश्च भाजनलोकश्च॥ उक्तञ्च भगवता सत्त्वलोकमधिकृत्य, पश्याम्यहं, भिक्षवो, दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्वांश्च्यवमानांश्चोत्पद्यमानांश्च विस्तरेण यावत् कासस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्ते। इत्यनेन तावत्पर्यायेण इत्यनेन तावत्पर्यायेण भगवता चक्षुष्मता प्रत्यक्षदर्शिना सत्त्वलोकस्यानित्यता व्याख्याता। उक्तंचभगवता, भवति, भिक्षवः, स समयो यद्दीर्घस्याध्वनो[ऽ]त्ययादनुपूर्व्वेण यावत्सप्तानां सूर्याणां लोके प्रादुर्भावो भवति। तद्यथा सप्तसूर्योपमे सूग्रे(त्रे)यावदस्याः खलु महापृथिव्याः सुमेरोश्च पर्व्वत राजस्य। यावच्च ब्रह्मलोकाद् भाजनलोकस्य दग्धस्य ध्मातस्य मषिरपि न प्रज्ञायते। छायिकावशिष्टमपि न प्रज्ञायते[।] अनेन पर्यायेण भगवता भाजनलौकिक (लोक)स्थानित्यता आख्याताऽयं(तेमं) तावदाप्तागमं निश्रित्यायं योगी श्रद्धाधिपतेयं सर्वसंस्कारानित्यतायां निश्चयं प्रतिलभते॥

स एवं निश्चयं प्रतिलभ्य, श्रद्धाधिपत्येन पुनः पुनः प्रत्यक्षतामपि, परोक्षतामपरप्रत्ययां (यतां) चानित्यता(यां) समन्वेषते। कथञ्च पुनः समन्वेषते। आह। द्विविधं वस्तु व्यवस्थापयति। आह। आध्यात्मिकम्बाह्यं च। तत्राध्यात्मिकम्वस्तु यत्षडायतनं, बाह्यम्वस्तु (स एवं निश्चयं प्रतिलभ्य श्रद्धाधिपत्येन पुनः पुनः प्रत्यवेक्षतामविपरोक्षतामपरप्रत्ययता (ं)चानित्यतां(यां) समन्वेषते। आह। द्विविधं वस्तु व्यवस्थापयति। आध्यात्मिकम्बाह्यञ्च। तत्राध्यात्मिकम्वस्तु यत्षडायतनं बाह्यम्वस्तु) षोडशविधं। तद्यथा पृथिवीवस्तु [तद्यथा] ग्रामनिगमगृहापणादयः। आरामवस्तु तद्यथा तृणौषधिवनस्पतयः। पर्व्वतवस्तु तद्यथा चित्राः पर्व्वतसन्निवेशाः। उत्ससर(स)स्तडागनदीप्रस्रवणवस्तु[।] क्षेत्रवस्तु कोशसन्निधिवस्त्रालंकारनृत्तगीतवादितगन्धमाल्यविलेपनमाण्डोपस्कारलोकास्त्रीपुरुषपारिचर्यावस्तूनि च तान्येतानि भवन्ति। षोडशवस्तूनि [।]

स एवमाध्यात्मिक[ं] बाह्यं वस्तु व्यवस्थापयित्वा (व्यावस्थाप्य) [आ]ध्यात्मिकस्य तावद्‍वस्तुनः प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिमाणा(णामा)कारेण विपरिणामानित्यतां समन्वेषते। तत्र[पञ्चद]शविध आध्यात्मिकस्य वस्तुनो विपरिणामः। अष्टौ विपरिणामकरणानि।

तत्र कतमः [पञ्चद]शविधो विपरिणामः। आध्यात्मिकस्य वस्तुनस्तद्यथा-अवस्थाकृतो, वर्ण्णकृतः, संस्थानकृतः, सम्पत्तिविपत्तिकृतः। अंगसाकल्यवैकल्यकृतः, [परिश्रमकृतः], परोपक्रमकृतः, [शीतोष्णकृतः]। ईर्यापथकृतः, [स्वयंकृतः], संक्लेशकृतो(तः), [कृषिकृतः], मरणकृतो, विनीलकादि कृतः, सर्व्वेण सर्व्वमसंप्रख्यानपरिक्षयकृतो विपरिणामः।

तत्राष्टौ विपरिणामकारणानि। कतमानि [।] आह। तद्यथा कालपरिवासः, परोपक्रम उपभोगः, ऋतुविपरिणामः, अग्निदाहः, उदकक्लेदः, वायुशोषः, प्रत्ययान्तरसंगतिश्चेति॥

तत्र कालपरिवासो नाम येषां भावानां रूपिणां स्वस्थाने[ऽ]प्युपन्यस्तकानां कालान्तरेण जर्जरतो पलभ्यते। जीर्ण्णता रूपविकृतिः॥

तत्र परोपक्रमो नाम यथापि तत् परो विविधानि रूपाणि विविधैः प्रहरणैः विविधैरुपक्रमविशेषैः विचित्रां विकृतिमापादयति।

तत्रोपभोगो नाम यथापि तत्प्रतिस्वामिनो विविधं रूपमुपभुंजाना उपभोगविधिपतित्वा (गमधिपतिं कृत्वा वि) कृतिमापादयन्ति।

तत्र ऋतुविपरिणामो नाम तद्यथा हेमन्ते तृणौषधिवनस्पतीनां पाण्डुत्वं, शीर्ण्णत्वं प्रजायते। ग्रीष्मवर्षासु पुनः संपूर्ण्णत्वं, हरितता च। तथा फलसमृद्धिः, पुष्पसमृद्धिः, पत्रसमृद्धिः, विपत्तिश्च तेषामेव [।]

तत्राग्निदाहो नाम यथापि तदग्निर्मुक्तो ग्रामनिगमराष्ट्रराजधानीर्दहन् परैति।

तत्रोदकक्लेदो नाम तथापि तन्महान् उदकस्कन्धः समुदागतो (ग्रामनिगमराजराष्ट्रधानीं दहन् परैति। तत्रोदकक्लेदो नाम तथापि तन्महानुदकस्कन्धः समुदागतो) ग्रामनिगमराजराष्ट्रधानी[ः] प्लावयन् परैति॥

तत्र वायुशोषो नाम तथापि तन्महता वायुस्कन्धेनार्द्राः पृथिवीप्रदेशा लघु लघ्वेव शुष्यन्ति। तथार्द्राणि वस्तून्यार्द्राः सस्यजातयः।

प्रत्ययान्तरसमुद्गमो नाम तद्यथा सुखवेदनीयं स्पर्शं प्रतीत्य सुखां वेदनां वेदयमानस्य सुखवेदनीय(ः)स्पर्शसमुद्गमः। [एवं दुःखां वेदनां वेदयमानस्य सु(दुः)ख वेदनीय(ः) स्पर्शसमुद्गमः] अदुःखासुखां वेदनां वेदयमानस्या[ऽ]सुखवेदनीयस्य वा[ऽ]दुःखवेदनीयस्य वा स्पर्शस्य समुद्गमः। तथा रक्तस्य प्रतिघनिमित्तसमुद्गमः यस्य समुद्गमाद्रागपर्यवस्थानं च विगच्छति। प्रतिघपर्यवस्थानं चोत्पद्यते (।) एवं द्विष्टस्य मूढस्य विसभागः। क्लेशोत्पत्तिनिमित्तः समुद्गमो वेदितव्यः। तद्यथा चक्षुर्विज्ञाने संमुखी भूते शब्दविषयसमुद्गमः। गन्धरसस्प्रष्टव्याः। धर्मनिमित्त समुद्गमो येन विषयान्तरेण विसभागान्युत्पद्यन्ते। इतीमान्यष्टौ विपरिणामकारणानि [।] या काचिद्विपरिणतिर्भवति। रूपिणाम्वा, अरूपिणाम्वा, धर्माणां सर्व्वो(र्व्वा) सौ एभिरष्टाभिर्नात उत्तरि नातो भूयः।

तत्राध्यात्मिकस्य वस्तुनः कथमवस्थाकृतं विपरिणामम्पर्येषते। इहानेचा(ना)त्मनो [वा] परेषाम्वा दह्रावस्थामुपादाय यावज्जीर्णावस्था दृष्टा भवति। तां पूर्व्वेणापरां विसदृशां (शीं), व्यतिभिन्नां, विपरिणतां, संस्कारसन्ततिं दृष्ट्वा[ऽ]स्यैवं भवति। अनित्या बत(ते) मे संस्कारा[स्] तथाप्येषां प्रत्यक्षत एवेयं पूर्व्वणापरा विकृतिरुपलभ्यते।

तत्र कथं सुवर्ण्णकृता(नां) विपरिणामानित्यतां पर्येषते। इहानेनात्मनो (स तथात्मनो) वा, परेषाम् वा, या पूर्व्वं(ताम) स्व(सु)वर्ण्णता(तां), सुच्छविता(तां), त्वग्वर्ण्णता (ताम्)। पश्चाच्च दुर्व्वर्ण्णतां दुश्छवितां रुक्षतां रुक्षवर्ण्णतां च। पश्यति[।] दृष्ट्वा च पुनरेव प्रत्युदावर्त्त्यापरेण समयेन तामेव सुवर्ण्णतां पर्यवदातत्वग्वर्ण्णतां च पश्यति। तस्यैवं भवत्यनित्या बत(ते)मे संस्काराणा (रास्तेषा) मियमेवं रूपा प्रत्यक्षतो वर्ण्णविकृतिरुपलभ्यते।

तत्र कथं [सं] स्थानकृतां विपरिणामानित्यतां पर्येषते। यथा वर्ण्ण उक्त एवं कृशस्थूलतया संस्थानं वेदितव्यं सम्पत्तिर्विपत्तिश्च। तद्यथा ज्ञातिसम्पत्तिर्व्वा, भोगसम्पत्तिर्व्वा, शीलदृष्टिसम्पत्तिर्व्वा [।] एतद्विपर्ययेण विपत्तिस्त (त्तिः[।]त) त्कथमंगप्रत्यंग विपरिणामानित्यतां पर्येषते। इहानेनात्मनो वा, परेषाम्वा या पूर्व्वं सुवर्ण्णता, सुच्छविता, पर्यवदातत्वग्वर्ण्णता दृष्टा भवति। प(प्र)तिसम्पत्तिर्व्वा भोगसम्पत्तिर्व्वा शीलदृष्टिसम्पत्तिर्वा (।) एतद्विपर्ययेण विपत्ति स्(ः) [।]

तत्कथमंगप्रत्यंगविपरिणामानित्यतां पर्येषति(ते)। इहानेनात्मनो वा, परस्य वा, पूर्व्वमपि (वि)कलांगता दृष्टा भवति। सोपरेण समयेन विकलताम्पश्यति राजतो वा, चोरतो वा, मनुष्यतो वा, अमनुष्यतो वा[।] दृष्ट्वा च पुनरस्यैवं भवति। अनित्या बत(ते)मे संस्कारा इति पूर्व्ववदे (त्[।])।

(एव) मात्मनः परेषां च श्रान्तकायतां, क्लान्तकायतां धावतो वा, प्लवतो वा, लंघयतो वा, अभिरु(रो)हतोवा, विविधं वाक्कर्म द्रुतं कुर्व्वतः। सोपरेण समयेन विगतक्लमश्रमतां पश्यति। तस्यैवं भवत्यनित्या बतेमे संस्कारा इति पूर्व्ववत्। एवम्परिश्रमकृतां विपरिणामानित्यताम्पर्येषते॥

एवमात्मनो वा परेषाम्वा परोपक्रमेण कायविकृतिं पश्यति। तद्यथा लताभिर्व्वा ताडितस्य, कशाभिर्व्वा, वैत्रैर्व्वा वर(त)त्राभिर्व्वा [।] तथा विविधैर्दशमशकसरीसृपसंस्पर्शैः [।] अपरेण वा पुनः समयेन तां विकृतिं न पश्यति। दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति पूर्ववदित्येवं परोपक्रमकृताम्विपरिणामानित्यताम्पर्येषते॥

तथात्मानं वा, परम्वा, शील(त)काले प्रत्युपस्थिते अविशदकायं, संकुचितकायं, शीतपर्यवस्थानपर्यवस्थितमुष्णाभिलाषपरिगतं पश्यति। उष्णकाले वा पुनः प्रत्युपस्थिते अविशदकायं, संकुचितकायं शीतपर्यवस्थानपर्यवस्थितविशदगात्रप्रस्विन्नगात्रं सन्तप्तगात्रमुच्छ्रष्य वचनं तृषापरिगतं। शीतसंस्पर्शाभिलाषिणं पश्यति। दृष्ट्वा च पुनः प्रत्युदावर्त्त्य पुनः शीतकाले पूर्व्वोक्तैरेवाकारैः पश्यति। दृष्ट्वा च पुनरस्यैवं भवति। अनित्या बत(ते)मे संस्कारा इति पूर्व्ववदेव [ं] शीतकृतां विपरिणामानित्यतां पर्येषते।

स पुनरध्यात्मम्वा (रात्मनो वा) [परे]षाम्वा चंक्रमस्थाननिषद्यशयानैरीर्यापथैरन्यतमान्यतमेनेर्यापथेन आत्मानम्वा परम्वा पश्यति। पुनस्तेनैवमेकदा अनुगृह्यमाणं पश्यति। दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बतेमे संस्कारा इति पूर्व्ववत्। एवमीर्या पथकृतां विपरिणामानित्यतांपर्येषते॥

कथं स्पर्शकृताम्विपरिणामानित्यताम्पर्येषते। सुखवेदनीयेन स्पर्शेन स्पृष्टः, सुखवेदनीयं स्पर्शं प्रतीत्योत्पन्नां सुखां वेदनां वेदयमानः। सुखा[ं]वेदनावस्थामात्मनः परि[च्]छिनत्ति। यथा सुखदेवनावस्था[ं] एवं दुःखा[ऽ] सुखा [ऽ]सु(दुः) खवेदनावस्थां [।] तस्य पूर्व्वां पर्येषणा आसां वेदनानां नवनवतानिःपुराण पुराणतामापायिकतां तावत्कालिकतामित्वरप्रत्युपास्थायितमन्यथीभावं दृष्ट्वा, दृष्ट्वैवं भवति। अनित्या बतेमे संस्कारा इति पूर्व्वत्॥

तत्र कथं क्लेशकृतां विपरिणामानित्यतां व्यवचारयति। सरागं चित्तमुत्पन्नं परिजानाति। विगतरागं सद्वेषम्विगतद्वेषं। समोहं विगतमोहमन्यतमान्यतमेन वा उपक्लेशेनोपक्लिष्टं चित्तमुपक्लिष्टमिति परिजानाति। अनुपक्लिष्टम्वा पुनरनुपक्लिष्टमिति परिजानाति। तस्य पू(पौ)र्व्वापर्येणैभिः क्लेशोपक्लेशैरवतीपर्णविपरिणता[ऽ]विपरिणतांचित्तसन्ततिं दृष्ट्वैवं भवत्यनित्या बतेमे संस्कारा इति। तथा ह्येषां प्रत्यक्षतः संक्लेशकृतो विपरिणाम‍उपलभ्यते॥

तत्र कथं व्याधिकृतां विपरिणामानित्यतां व्यवचारयति। इहानेनैकदा[ऽऽ]त्मा च परे च दृष्ट्वा(ष्टा) भवन्त्यरोगिणः, सुखिनो, बलवन्तः। सो[ऽ] परेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः दुःखाभिस्तीव्राभिरिति विस्तरेण पूर्व्ववत्।

तत्र कथं क्लेशकृतां विपरिणा[मा]नित्यतां व्यवचारयति। इहानेनैकदा[ऽऽ]त्मा च परे च दृष्ट्वा (दृष्टा) भवन्त्यरोगिणः, सुखिनो, बलवन्तः। सोपरेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः। स पुनरपरेण समयेन पश्यत्यरोगिणं, सुखितं, बलवन्तं, दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते) मे संस्कारा इति पूर्व्ववत्॥

तत्र कथं मरणकृतां विपरिणामानित्यतां व्यवचारयति। इहायं जीवितं पश्यति ध्रियन्तं, तिष्ठन्तं, यापयन्तं, सोपरेण समयेन मृतं कालगतं पश्यति। विज्ञानशून्यं कलेवरं दृष्ट्वा च पुनरस्यैवं भवतीति विस्तरेण पूर्व्ववत्॥

तत्र कथं [वि]नीलकादिकृतां विपरिणामानित्यतां व्यवचारयति। सोपरेण समयेन ताम(तद)स्थिशंकलिकावस्थानं पश्यति। स तदेव मृतकलेवरं विनीलकावस्थमेकदा पश्यति। एकदा विपूयकावस्थमेनं विस्तरेण यावस्थिशंकलिकावस्थं दृष्ट्वास्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति विस्तरेण पूर्व्ववत्॥

तत्र कथमसंख्या(य) न परिक्षयकृताम्विपरिणामानित्यतां व्यवचारयति [।] सोपरेण [समयेन] ताम(तद)प्य[स्थि]शंकलिकावस्थानं पश्यति। सर्व्वेण सर्व्वं नष्टा(ष्टो) भवति, विध्वस्ता(स्तो), विशीर्ण्णः। सर्व्वेण सर्व्वं चक्षुषो [अ]नाभासगता, दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारास्तथा ह्येषां पौर्व्वापर्येण प्रत्यक्षत एवायमेवं रूपो विकार उपलभ्यते। विपरिणामः।

एवं तावत्प्रत्यक्षाधिपतेयेन मनस्कारेणाध्यात्मिकस्य वस्तुनः [पंच] दशभिराकारैर्विपरिणामानित्यतां व्यवचारयति। व्यवचारयित्वा(व्यवचार्य) षोडशविधस्य बाह्यस्य वस्तुनो विपरिणामानित्यतां व्यवचारयति। येऽनेन पृथिवीप्रदेशा नाभिसंस्कृताः पूर्व्वं दृष्टा भवन्ति। गृहवस्त्वापणवस्तु-पुण्यशाला-देवकुलविहारवस्तुप्रकारैः पश्चाच्चाभिसंस्कृतान्पश्यत्यनभिसंस्कृतान्पश्यत्यनन्दिनवान्सुकृतान्सूपलिप्तान् (।) सोपरेण समयेन जीर्ण्णान् पश्यति। जर्जरानलूनविलूनां (नान्) च्छीर्णान् छ(क्ष) तितपतितान् खलु छिद्रानग्निना वा दग्धानुदकेन वापह्रतां(हृतान्)। दृष्ट्वा च पुनरस्यैवं भवति। अनित्या बत(ते)मे संस्काराः [।] तथाप्ये (ह्ये)षां पौर्व्वापर्येणायमेवंरूपः प्रत्यक्षो विकारो विपरिणाम उपलभ्यते। एवं पृथिव्यां विपरिणामानित्यतां व्यवचारयति। एवं तृणौषधिवनस्पतय आरामोद्यानानि च समृद्धपत्रपुष्पफलानि पश्यति। हरति तानि(हरितानि) प्रासादिकान्यभिरम्याणि [।] अपरेण स समयेनोच्छुष्काणि पश्यति। विगतपत्रपुष्फलानि (।) अग्निदाहेन वा दग्धानि (वा,) तथा पर्वतान्येकदा समृद्धपाषाणानि पश्यत्येकदा निर्लुठितपाषाणानि पतित श्रृंगाणि, पतितकूटानि, उत्कूलनिकूलान्यग्निना दग्धानि, उदकाभिष्यन्दितानि, तथा उत्ससरस्तडाक(ग)नदीप्रस्रवणकूपादीन्येकदा, समृद्धोदकानि पश्यत्येकदा परिक्षीणोदकानि, सर्वेण वा सर्व्वं विशुष्काणि खिलीभूतानि कोटराणि। तथा कर्मान्तानेकदा सम्पद्यमानान्पश्यत्येकदा विपद्यमानां (नान्) [पश्यति।] तद्यथाकृषिकर्मान्तान्नौकर्मान्तान्सम्यग्व्यवहारकर्मान्तान् विविधांछिल्प (विधाञ्छिल्प)स्थानकर्मान्तान्, तथा कोशसन्निधीनां विचित्राणां नानाप्रकाराणामेकदा आचयं पश्यत्येकदा अपचयं। तथा भोजनपानं च एकदा[न]भिसंस्कृता (न्ना)वस्थं पश्यत्येकदाभिसंस्कृतावस्थमेकदा लालाविसरविक्लिन्नमेकदा यावदुच्चारप्रस्रावावस्थं [पश्यति]। तथा विविधानि यानान्येकदा सुमण्डितानि स्वलंकृतान्यभिनवानि पश्यत्येकदा विगतालंकाराणि। विगतमण्डनानि, जर्जराणि। तथा वस्त्राणामेकदा अभिनवतां पश्यत्येकदा पुराणतां। प्रक्षीणतामेकदा शुद्धतामेकदा मलिनतां। तथालंकाराणामेकदानभिसंस्कृततामेकदा[ऽ]भिसंस्कृततामेकदा सारतामेकदाभिन्न-प्रभिन्नताम्विक्षीणतां पश्यति। तथा नृत्तगीतवादितानां प्रत्युत्पन्नप्रयोगविचित्रभूय[स्]समुद्गता[ं]भवभंगताम्पश्यति। तथा गन्धमाल्यविलेपनानां प्रत्यग्रसुगन्धा[ऽ]म्लानतां पश्यति। अपरेण समयेन नातिसुगन्धदुर्गन्धम्लानविशुष्कतां पश्यति। तथा भाण्डोपस्काराणामनभिसंस्काराभिसंस्कारसारभग्नतां पश्यति। तथा आलोकानुकारयोः संभवविभवताम्पश्यति। तथा स्त्रीपुरुषचर्यासम्भवविभवतां पश्यति। अस्थिरतां [।] दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारास्तथा ह्येषां बाह्यानां संस्काराणां, षण्णां च परिग्रहवस्तूनां, दशानाञ्च कायपरिवाराणां प्रत्यक्षता, विकारो, विपरिमाणो[ऽ]यमीदृश उपलभ्यते। सर्व्वत्रचैतत् पेयालं वेदितव्यं॥

एभिरष्टाभिर्विपरिणामकारणैः पूर्व्वनिर्दिष्टैरस्याध्यात्मिकबाह्यस्य वस्तुनो यथायोगं प्रत्यक्षाधिपतेयेन मनस्कारेणैवं विपरिणामाकारेणानित्यतां व्यवचारयति। यथानेन सा विपरिणामानित्यता प्रत्यक्षं दृष्टा भवत्यनुभूता, अपरप्रत्ययश्च तस्यां भवत्यनन्यनेयः। तथैवानुस्मरन् व्यवचारयति। निश्चितश्च भवति। तेनोच्यते प्रत्यक्षाधिपतेयो मनस्कार इति।

स एवं प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिणामानित्यतां व्यवहा(चा)रयित्वा(व्यवचार्य) येषां रूपिणां संस्काराणां सती सम्विद्यमाना क्षणोत्पन्नभग्ना विनीलता(विलीनता) नोपलभ्यते। तत्र प्रत्यक्षाधिपतेयं मनस्कारं निश्रित्यानुमानं करोत्येवञ्च पुनरनुमानं करोति। क्षणोत्पन्नभग्नविलीनानामेषां संस्काराणामियं पूर्व्वेणापरा विकृतिर्युज्यते। न तु तथैवावस्थितानां, इति हि क्षणिकाः संस्कारास्तेषु तेषु प्रत्ययेषु सत्सु तथा तथोत्पद्यन्ते। उत्पन्नाश्चानपेक्ष्य विनाशकारणं स्वरसेन विप(न)श्यन्ति।

यानि पुनरेतानि विपरिणामकारणानि तान्यन्यथोत्पत्तये सत्य(म्व) र्त्तन्ते विकृताया उत्पत्तेः कारणीभवन्ति। न तु विनाशस्य [।] तत्कस्य हेतोः[।] सहैव तेन विनाशकारणेन विनष्टानां संस्काराणां यस्माद्विसदृशा (शी) प्रवृत्तिरुपलभ्यते। न तु सर्व्वेण सर्व्वमप्रवृत्तिरेव [।] येषाम्वा पुनः संस्काराणां सर्व्वेण सर्व्वमप्रवृत्तिरुपलभ्यते। तद्यथा क्वाथ्यमानामसामन्ते सर्व्वेण सर्व्वम्परिक्षयो भवति‍अग्निनिर्दग्धानां च लोकभाजनानां मसिरपि न[प्र]ज्ञायते। छायिका च। शिष्टमपि न प्रज्ञायते तेषामप्युत्तरोत्तरकरणपर्यादानादन्ते सर्व्वेण सर्व्वमभावो भवति। न त्वग्निनैव क्रियते [।] तस्माद्विपरिणामकारणान्येतान्यष्टौ यथोक्तानि स्वरसेनैव तु विनाशो भवति। स एवमानुमानिकमनस्कारेण संस्कारेणाक्षणोत्पन्नभग्नविलीनतायां निश्चयं प्रतिलभ्य पुनरप्यप्रत्यक्षपरलोकासंस्कारप्रवृत्तावनुमानं करोति॥

एवं च पुनरनुमानं करोति। सन्ति सत्वा (त्त्वा) ये अवर्ण्णा अपि, दुर्व्वर्णा अप्युपलभ्यन्ते, उच्चकुलीना अपि, आद्यकुलीना अपि, दरिद्रकुलीना अपि, अल्पेशाख्या अपि, दीर्घायुषो (ष)आदे यवाक्या अपि, अनादेयवाक्या अपि, तीक्ष्णेन्द्रिया अपि [।] तदेतत् सत्व(त्त्व) वैचित्र्यं सति कर्मवैचित्र्ये युज्यते [।] नासति। यद्रूपैः सत्त्वैर्यद्रूपं पूर्व्वमेव भूतं (कृतं?) कुशलाकुशलं चित्रकर्म कृतमुपचितं, तेन हेतुना, तेन प्रत्ययेन तेषामिदमात्मभाववैचित्र्यमभिनिर्वृत्तं॥

न चैतदीश्वरनिर्माणहेतुकं युज्यते। स चेदीश्वरनिर्माणहेतुकं स्यात्तदीश्वरप्रत्ययमेव वा स्यादन्येन वोपादानेनेश्वरो निर्मिमीत। स चेदीश्वर प्रत्ययमेव स्यात् तेनेश्वरस्यैषाञ्च संस्काराणां यौगपद्यं स्यात्। अथ पूर्वमीश्वरः पश्चात् संस्कारा, नेश्वरप्रत्ययाः संस्कारा भवन्ति। अथेश्वरस्य प्रणिधानं निर्माणकारणं, नेश्वर एव। तेन समीच्छा सहेतुका (की) वा स्यान्निर्हेतु का (कीं) वा [।] यदि सहेतुका ईश्वरहेतुकैव च तेन पूर्व्वकेण दोषेण तुल्यतया न युज्यते। अथान्यहेतुका (की) तेनेच्छा प्रयत्नः। प्रणिधानमीश्वरविनिर्मुक्तान्यधर्महेतुका तथा सर्व्वे[ऽ]पि संस्कारा धर्महेतुका एव भविष्यन्ति। किमीश्वरेण वृथा कल्पितेनेत्येवमादिना आनुमानिकेन मनस्कारेणैवंभागीयेन, परलोकेन संस्कारप्रवृत्तौ निश्चयं प्रतिलभते।

स एवं त्रिःप्रकारमनस्काराधिपत्येन श्रद्धाधिपतेयेन प्रत्यक्षाधिपतेयेनानुमानाधिपतेयानां(याम्) नित्यतां व्यवचारयति। तत्र या पूर्व्व पञ्च [विधाऽ] नित्यता पञ्चाकारभावनानुगता उद्दिष्टा, तत्र विपरिणामाकारनिर्दिष्टा, विनाशाकारा च।

विसंयोगाकारा अनित्याकारा (अनित्यता) कतमा। आह। अध्यात्ममुपादाय बहिर्धा च वेदितव्या॥ तत्राध्यात्ममुपादाय यथापि तदेकत्यः पूर्व्वम्परेषां स्ता(स्वा)मी भवत्यदासः अप्रेष्यः। अपरकर्मकरः। सोपरेण समयेन स्वामिभावमदासभावं विहाय परेषां दासभावमुपगच्छति। स्वामिभावाद्विसंयुज्यते। तथा सन्तः सम्विद्यमाना भोगा अविपरिणता, अविनष्टा राज्ञा (ः) अपह्रियन्ते। चोरैर्व्वा, अप्रियैर्व्वा, दायादै[रित्य] नित्यता वेदितव्या। तत्र धर्मताकारा [ऽ] नित्यता यथापि तस्या एव विपरिणामानित्यतायाः विनाशानित्यतायाः। वर्तमाने [ऽ]प्यध्वन्यसमवहितायाः अनाभोगे (गते) [ऽ]ध्वनि भाविन्या धर्मतां प्रतिविध्यत्येवं धर्माण एते संस्कारा अनागते[ऽ]ध्वनि एवंभागीया इति। एषु सन्निहिताकाराय (रया?) इत एव विपरिणामानित्यतां, विनाशानित्यतां, विसंयोगानित्यतां समवहितां संभुरवीभूतामाकारयति।

स एवमाध्यात्मिकबाह्यानां संस्काराणां पञ्चविधायामनित्यतायामेभिः पञ्चभिराकारैर्यथायोगं मनसिकारबाहुल्यादुपपत्तिसाधनभावनाधिपत्याच्च निये(र्मे)यं प्रतिलभ्य तद[न]न्तरं दुःखाकारमवतरति। तस्यैवं भवति। य एते संस्कारा अनित्यास्तेषामनित्यतां (ता) जातिधर्मतो युज्यते। इति ह्येत एव संस्कारा जातिधर्माणः जातिश्च दुःखा, यदा(या) जातिरेव[ं]जरा व्याधिर्मरण[ं], विप्रियसंप्रयोगः, प्रियविनाभाव, इच्छाविघातश्च वेदितव्यः। एवं तावदनिष्टा(त्या)कारेण दुःखाकारमवतरति।

स ये सुखवेदनीयाः स्कन्धाः, सास्रवाः, सोपादानास्तेषु संयोजनबन्धनाकारेण दुःखाकारमवतरति। तथा हि ते (तस्य) तृष्णासंयोजनस्याकारे[ऽ]धिष्ठानं, तृष्णासंयोजनं च जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासबन्धनस्य, रागद्वेषमोहबन्धनस्य चाधिष्ठानं।

तत्रायोगक्षेमामारेण अदुःखासुखस्थानीयेषु स्कन्धेषु दुःखाकारमवतरति। तथा ह्यदुःखासुखास्थानीयाः स्कन्धाः सोपादाना दौष्ठुल्यसहगता अबीजानुगता अविनिर्मुक्ता दुःखदुःखतया, विपरिणामदुःखतया च। अनित्या, निरोधधर्माणः।

एवमयं योगी सुखस्थानीयेषु संस्कारेषु, सुखायाञ्च वेदनायां विपरिणामदुःखतामवतीर्णो भवति। यदुत संयोजनबन्धनाकारेण दुःखवेदनास्थानीयेषु संस्कारेषुदुःखायां वेदनायां दुःखदुःखतामवतीर्ण्णो भवति। यदुतानिष्टाकारेण अदुःखासुखस्थानीयेषु संस्कारेषु(ष्व) दुःखासुखायाञ्च वेदनायां संस्कारदुःखतामवतीर्ण्णो भवति। यदुतायोगक्षेमाकारेण [।]

तस्यैवं भवति। संयोजनबन्धनाकारमनिष्टाकारं योगक्षेमाकारं चाधिपतिं कृत्वा तिसृषु वेदनासु यत्किञ्चिद्वेदयितमिदमत्र दुःखस्येत्येवमयमनित्याकारपूर्व्वकेण मनस्कारेण दुःखाकारमवतीर्ण्णो भवति। तस्यैवं भवतीन्द्रियमात्र(त्रं)सह(सः) उपलभते, विषयमात्रं। तज्जमनुभवमात्रं। चित्तमात्र हता आत्मेति(हतात्मेति)। नाममात्रं। दर्शनमात्रमुपचारमात्रं। नात उत्तरि नातो भूयः।

तदेवं सति स्कन्धमात्रमेतन्नास्त्येषु स्कन्धेषु नित्यो, ध्रुवः, शाश्वतः स्वाभूतः। कश्चिदात्मा वा, सत्वो(त्त्वो) वा, यो [ऽ]सौ जायेत वा, हीयेत वा, म्रियते(येत)वा, तत्र वा (तत्र वा) तत्र कृतकृतानां कर्मणां फलविपाकं प्रतिसम्वेदयेत। इति हि शून्या एते संस्काराः, आत्मविरहिता इत्येवमनुपलम्भाकारेण शून्याकारमवतरति। तस्यैवं भवति। ये पुनरेते संस्काराः स्वलक्षणेनानित्यलक्षणेन, दुःखलक्षणेन युक्तास्ते[ऽ]पि प्रतीत्यसमुत्पन्नतया अस्वतन्त्रा, ये[ऽ]स्वतन्त्रास्ते[ऽ]नात्मान इत्येवमस्वतन्त्राकारेणानात्माकारमवतरति। एवं पुनर्योगिना दशाकारं गृहीतैश्चतुर्भिराकारैर्दुःखसत्यलक्षणं प्रतिसंवेदितं भवति॥

तत्रानित्याकारः पञ्चभिराकारैः संगृहीतः। तद्यथा विपरिणामाकारेण, विसंयोजनाकारेण, सन्निहिताकारेण, धर्मताकारेण [।]

दुःखाकारस्त्रिभिराकारैः संगृहीतः। संयोजनबन्धनाकारेण अनिष्टाकारेण अयोगक्षेमाकारेण च[।]

शून्याकार एकेनाकारेण संगृहीतो यदुतानुपलंभाकारेण [।]

अनात्माकार एकेनाकारेण संगृहीतो यदुतास्वतन्त्राकारेण।

स एवं दशभिराकारैश्चतुराकारानुप्रविष्टो दुःखलक्षणां प्रतिसंवेद्य, अस्य दुःखस्य को हेतुः, कः समुदयः, प्रभवः, प्रत्ययः इति। यस्य प्रहाणादस्य दुःखस्य प्रहाणं स्यादित्येभिश्चतुर्भिराकारैस्समुदयसत्यस्य लक्षणं प्रतिसंवेदयति। तृष्णाया दुःखक्षेमकत्वाद्धेतुतः, आक्षिप्याभिनिर्व्वर्तकत्वात्समुदयानयनात्समुदा[न]यतः। अभिनिर्वृत्तिर्दुःखितत्वात् प्रभवत्वात् प्रभवतः। पुनरायत्यां दुःखबीजपरिग्रहत्वादनुक्रमेण च। दुःखसमुदयानयनात्प्रत्ययतः। अपरः पर्यायः। उपादानहेतुकस्य च भवस्य समुदागमाद्भवपूर्विकाया जातेः प्रभवत्वात्, जातिप्रत्ययतां, जाति च (तेश्च)जराव्याधिमरणशोकादीनामभिनिर्वृत्तेः। हेतुतः समुदयतः, प्रभवतः, प्रत्ययतः। यथायोगं वेदितव्यं। अपरः पर्यायः [।] यः क्लेशानुशय आश्रय[ः] पुनर्भवामभिनिर्वृत्तये हेतुस्तज्जस्य च पर्यवस्थानस्य यथायोगं वेदितव्यं [।] अपरः पर्यायः [।] यः क्लेशानुशय आश्रयस्तृष्णानुशयादिकः। स आयत्यां पुनर्भवाभिनिर्वृत्तये हेतुस्तज्जस्य च पर्यवस्थानस्य यथायोगं समुदयः, प्रभवः, प्रत्ययश्च [।]

तत्र पौनर्भविक्यास्तृष्णायाः समुदाननात्समुदयतः। सापुन[ः]पौनर्भविकी तृष्णा नन्दीरागसहगतायास्तृष्णायाः प्रभवो भवति सा पुनर्नन्दीरागसहगता तृष्णा प्रभूता, तत्र तत्राभिनन्दिन्यास्तृष्णायाः प्रत्ययो भवत्येवमस्यानुशयगतां त्रिविधपर्यवस्थागतां च तृष्णामागम्यायति[ः]। पुनर्भवस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः। तेनाह हेतु[तः], समुदयतः, प्रभवतः, प्रत्ययतश्च। एवमयं योगी एभिश्चतुर्भिराकारैस्समुदयसत्यलक्षणं प्रतिसम्वेदयते।

समुदयसत्यलक्षणं प्रतिसंवेद्य अस्य समुदयसत्यस्याशेषोपरमन्निरोधं निरोधत आकारयति। दुःखसत्यस्याशेषोपरमेच्छातः, अग्रत्वाच्छ्रेष्ठत्वात्तदन्तरत्वात् प्रणीततः, नित्यत्वान्निस्सरणतः। एवमयं चतुर्भिराकारैः निरोधसत्यस्य लक्षणं प्रतिसंवेदयति। प्रतिसम्वेद्य ज्ञेयपरिमार्गणार्थेन, भूतपरिमार्गणार्थेन चतुर्भिर्दुःखैरनुप्रवर्तनार्थेन। निर्व्वाणगमनायैकायनार्थेन मार्गं मार्ग[तो], न्यायतः, प्रतिपत्तितो, नैर्याणिकतश्च आकारयति। स एवं चतुर्भिराकारैर्मार्गत्यस्य लक्षणं प्रतिसम्वेदयते। अयमस्योच्यते चतुर्ष्वार्यसत्येष्वध्यात्मं प्रत्यात्मं लक्षणप्रतिसंवेदी (यते। अयमस्योच्यते। चतुर्ष्वार्यसत्ये[षु]) मनस्कारः॥

स एवं प्रत्यात्मिकान् स्कन्धान् प्रत्ययेनोपपरीक्ष्य व्यवचारयित्वा (व्यवचार्य) विपरोक्षकान् विसभागधातुकान्। स्कन्धाननुमानतः पराहन्ति। तेप्येवं धर्माणः ते[ऽ]प्येवंनयपतिता इति। यत्किञ्चित्संस्कृतं सर्वत्र सर्वशः [एवं तदेवं प्रतिसंवेदी मनस्कारः। प्रत्ययेनोपपरीक्ष्यव्यवचारयित्वा(चार्य) विपरोक्षान् विसभागधातुकान् स्कन्धाननुमानतः पराहन्ति। ते[ऽ]प्येवं धर्माणस्ते[ऽ]प्येवं नयपतिता इति यत्किञ्चित्संस्कृतं सर्व्वत्र सर्वश] एवं तदेवंप्रकृतिकं, तस्य च निरोधः। शान्तः, मार्गो, नैर्याणिको यस्तत्प्रहाणाय तस्य यदा विपक्षोक्तेषु प्रत्यात्मिकेषु स्कन्धेषु सत्यज्ञानं। यच्च विपरोक्षेषु विसभागधातुकेष्वनुमानज्ञानं। तद्धर्मज्ञानान्वयज्ञानयोरुत्पत्तये बीजस्थानीयं भवति। स चायं लक्षणप्रतिसंवेदी मनस्कारः श्रुतचिन्ताव्यवकीर्ण्णो वेदितव्यः।

यदा तेषु सत्येष्वयं योगी एवं सम्यक्(ग्)व्यवचारणान्वयादिभिः षोडशभिराकारैश्चतुर्ष्वार्यसत्येषु निश्चयः [-यं] प्रतिलब्धो भवति। यदुतोपपत्तिसाधनयुक्त्या, यदुत यावद्भाविकतां वा, तदा श्रुतचिन्तामयं मनस्कारं समतिक्रम्य व्यवतीर्ण्णवर्त्तिनमेकान्तेन भावनाकारेणाधिमुच्यते। सो[अ]स्य भवत्याधिमोक्षिको मनस्कारः। सत्यालम्बनश्चैकान्तसमाहितश्च [।] स तस्यान्वया[द्]द्वे सत्ये अधिकृत्य दुःखसत्यञ्च समुदयसत्यञ्च अपर्यन्तं ज्ञानं प्रतिलभते। येनानित्यमनित्यमित्यनित्यापर्यन्तमधिमुच्यते॥

एवं दुःखा[ऽ]पर्यन्ततां शून्याकाया[रा]पर्यन्ततां, संक्लेशापर्यन्तामपायगमनापर्यन्ततां सम्पत्ति(त्त्य) [पर्यन्त]नां(तां), विपति[त्त्य]पर्यन्ततां, स व्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासा पर्यन्ततां[।] तत्रा[ऽ]पर्यन्तेति नास्ति संसारं(रः) सन्स(संस)रत, एषां धर्माणामन्तो नास्ति पर्यन्तः। यावत्सन्सा(संसा) रभाविन एते धर्माः, सन्सा(संसा)रस्य वा[ऽ]शेषोपरमादेषामुपरमो, नास्ति अन्यथोपरम इत्येवं सर्वभवगतिच्युत्युपपादेभ्यः अप्रणिहा(हिता)कारेणासन्निश्रयाकारेण, प्रातिकूल्याथि(धि)कारेणासन्निश्रयाकारेण [।] प्रातिकूल्याधिकारेणाधिमुच्यमान आधिमोक्षिकमनस्कारं भावयति। स एवं सर्व्वभावोपपत्तिभ्यः। चित्तमुद्वेजयित्वा (-मुद्वेज्य)। उत्त्रास्य। उ(त्)त्रासयित्वा (स्य) [अ]ध्याशयेन निर्व्वाणे[ऽ]प्यन्यतमान्यतमेनाकारेण प्रणिदधाति। तस्य दीर्घरात्रं तच्चित्रं(त्तं)रूपरतं शब्दगन्धरसस्प्रष्टव्यरतं आ(तमा) चितमुपचितं (रूपशब्दगन्धरसस्प्रष्टव्यरतंआ(तमा) चितमुपचितं।) रूपशब्दगन्धरसस्प्रष्टव्यैः। येनाध्याशयेनापि निर्व्वाणं प्रदधते। न प्रस्कन्दति, न प्रसीदति। न संतिष्ठते। न विमुच्यते, न प्रत्युदावर्त्तते (।) मानसं, शान्तधात्वनभिलक्षिततया। परितमनामुपादाय, स पुनः पुनस्तच्चित्तमुद्वेजयत्यु[त्]त्रासयति। दुःखसत्यात्समुदयसत्यादुद्वेज्यो[ज्]त्रास्य पुनः पुनरध्याशयतो निर्व्वाणे प्रणिदधाति। तथाप्यस्य न प्रस्कन्दति। तत्कस्य हेतोस्तथा ह्यसौ[औ]दारिको[अ]स्मि मानो[ऽ]भिसमयाय विबन्धकरः। स मनस्कारानुप्रविष्टः सान्तरव्यन्तरो वर्तते। अहमस्मि संस्कृ(सृ)तवानहमस्मि संसरिष्यामि। अहमस्मि परिनिर्व्वास्यामि, अहमस्मि(न्) परिनिर्व्वाणाय कुशलान्धर्मान् भावयामि। अहमस्मिदुःखं दुःखतः (।) पश्यामि, समुदयं समुदयतो, निरोधं निरोधतः। अहमस्मि मार्गं मार्गतः पश्यामि। अहमस्मि शून्यं शून्यतोऽप्रणिहितमप्रणिहिततः। आनिमित्तमानिमित्ततः पश्यामि ममैते धर्मास्तद्धेतोस्तत्प्रत्ययस्य तच्चित्तं न प्रस्कन्दत्या(त्य)ध्याशयम्वा [ऽ] ध्याशयतो [अ]पि निर्व्वाणम (त) स्मिमानं निर्ब(विब)न्धका(क)रं विबन्धकार इति लघु लघ्वेव प्रज्ञया प्रतिविध्य, स्वरसानुप्रवृत्तौ मनस्कारमुत्सृज्य, बहिर्धा ज्ञेयालम्बनाद् व्यावर्त्य, मा (म)नस्कारप्रविष्टां, मनस्कारानुगतां, सत्यव्यवचारा(र)णामारभते। स उत्पन्नोत्पन्नं चित्तं निरुध्यमानमनन्तरोत्पन्नेन चित्तेन भज्यमानं पश्यति। प्रवाहानुप्रबन्धयोगेन। स तथाचित्तेन चित्तमालम्बनीकरोत्यवष्टभते। यथास्य यो[ऽ]सौ मनस्कारानुप्रविष्टो[ऽ]स्मिमानो विपक्ष(बन्ध)करः स तस्यावकाशः। पुनर्भवव्युत्पत्तये॥

तथा प्रयुक्तो[ऽ]यं योगी यत्तस्याश्चित्तसन्ततेः अन्यो[ऽ]न्यतां नवनवतामापायिकतां तावत्कालिकतामित्वरप्रत्युपस्थायिताञ्च पौर्व्वापर्येण पश्यतीदमस्या[अ]नित्यताया यत्तस्याश्चित्तसन्ततेः उपादानस्कन्धानुप्रविष्टतां पश्यतीदमस्य दुःखतायास्तत्र यच्चित्तं धर्मं नोपलभते। इदमत्र शून्यतायास्तत्र यस्या एव चित्तसन्ततेः प्रतीत्यसमुत्पन्नतामस्वतन्त्राम्पश्यतीदमस्यानात्मताया [ः।] एवं तावद् दुःखसत्यमवतीर्णो भवति।

तस्यैवं भवतीयमपि मे चित्तसन्ततिः। तृष्णाहैतुकी, तृष्णासमुदया, तृष्णाप्रभवा, तृष्णाप्रत्यया[।] अस्या अपि चित्तसन्तेतेर्यो निरोधः सो[ऽ]पि शान्तः। अस्या अपि यो निरोधगामी मार्गः। स नैर्याणिक इत्येवमपरीक्षितमनस्कारपरीक्षायोगेन सूक्ष्मया प्रज्ञया न तान्यार्यसत्यान्यवतीर्ण्णो भवति। तस्यैवमासेवनान्वयाद्भावनान्वयात्तस्याः समसमालम्ब्यालम्बकाज्ञानमुत्पद्यते। येनास्यौदारिकत्वास्मिमानो निर्व्वाणाभिरतये विबन्धकरः समुदाचरतः। प्रहीयते। निर्व्वाणे चाध्यायतश्चित्तं प्रदधतः प्रस्कन्दति। नप्रत्युदावर्तते(यति) (।) मानसं। परितमनामुपादाय। अध्याशयतश्चाभिरतिं गृह्णाति। तथाभूत(।)स्यास्य मृदुक्षान्तिसहगतं समसमालम्ब्यालम्बकज्ञानं तदूष्मगतमित्युच्यते। यन्मध्यक्षान्तिपरिगृहीतं तन्मूढे (ढमि) त्युच्यते। यदधिमात्रक्षान्तिसंगृहीतं तन्मध्यानुलोमा क्षान्तिरित्युच्यते॥

स एवम्बिबन्धकरमस्मिमानं प्रहाय निर्व्वाणे चाध्याशयरतिं परिगृह्ययो[ऽ]सावुत्तरोत्तरश्चित्तपरिक्षयाभिसंस्कारः। तमभिसंस्कारं समुत्सृज्य अनभिसंस्कारतायां निर्विकल्पचित्तमुपनिक्षिपति। तस्य तच्चित्तं तस्मिन् समये निरुद्धमिव ख्याति। न च तं(तन्) निरुद्धं भवत्यनालम्बनमिव ख्याति। न च तदालम्बनं भवति। तस्य तच्चित्तं प्रशान्तं विगतमिव ख्याति। न च तद्विगतं भवति। न च पुनस्तस्मिं(स्मिन्) समये मधुकरमिद्धावष्टब्धमपि तच्चित्तं निरुद्धमिव ख्याति। न च तन्निरुद्धं भवति। यत्तदेकत्यानां[मन्दानां] मोमूहानामभिसमया[या]भिमानाय भवतीदं पुनश्चित्तमभिसमयायैव, न चिरस्येदानीं सम्यक्त्वं(त्त्व) (।)न्यामावक्रान्तिर्भविष्यतीति। यदि यमीदृशी चित्तस्यावस्था भवति। तस्य तत्सर्व्वपश्चिमनिर्व्विकल्पंचित्तं यस्यानन्तरं पूर्वविचारितेषु सत्वेष्वध्यात्ममाभोगं करोति। ते लौकिका अग्रधर्माः।

तस्मात्परेणास्य लोकोत्तरमेव चित्तमुत्पद्यते। न लौकिकं[।] सीमा एषा लौकिकानां संस्काराणां, पर्यन्त एषस्तेनोच्यन्ते लौकिका अग्रधर्मा इति। तेषां समनन्तरपूर्व्वाविचारितानि सत्या[न्या]भ्र(व्र)जति। आभोगसमनन्तरं यथापूर्व्वानुक्रमः [।]

विचारितेषु सत्येषु अनुपूर्व्वेणैव निर्व्विकल्पप्रत्यक्षपरोक्षेषु॥ निश्चयज्ञानं प्रत्यक्षज्ञानमुत्पद्यते। तस्योत्पादात् त्रैधातुकावचराणां दर्शनप्रहातव्यानां क्लेशानां पक्ष्यं दौष्ठुल्यसन्निश्रयसन्निविष्टं तत्प्रहीयते। तस्य प्रहाणात् सचेत्पूर्व्वमेव कामेभ्यो वीतरागो भवति। सह स(ग?)त्याभिसमयात्। तस्मिन्समये[ऽ]नागामीत्युच्यते। तस्य तान्येव लिंगानि वेदितव्यानि। यानि पूर्व्वमुक्तानि वीतरागस्यायन्तु विशेषः। अयमौपपादुको भवति। तत्र परिनिर्व्वायी। अनागन्ता पुनरिमं लोकं[।]

स चेत् पुनर्यद्भूयो वीतरागो भवति। सह गत्या अभिसमयात् सकृदागामी भवति।

सचेत्पुनरवीतरागो भवति। स भूयस्स तस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धेः स्रोत आपन्नो भवति। ज्ञेयेन ज्ञानं समागतं भवति। प्रत्यक्षतया। तेनोच्यते[अ]भिसमयतः। तद्यथा क्षत्रियः क्षत्रियेण। सार्धं सम्मुखीभावं तदन्वभिसमयागत इत्युच्यते। एवं ब्राह्मणादयो वेदितव्याः।

तस्येमानि लिंगानि चत्वारि ज्ञानान्यनेन प्रतिलब्धानि भवन्ति। सत्त्वचारविहारमनसिकारेषु तीरयतो धर्ममात्रज्ञानमनुच्छेदज्ञानमशाश्वतज्ञानं। प्रतीत्यसमुत्पन्नसंस्कारमायोपमज्ञानविषयो[ऽ]पि चास्य चरतः, सुतीव्रमपि क्लेशपर्यवस्थानं। यद्यपि स्मृतिसंप्रमोषादुत्पद्यते। तदप्यस्याभोगमात्राल्लघु लघ्वेव विगच्छति। तथा अगन्ता भवत्यपायां (यान्) न संचिध्यणिक्षां (विध्य[ति]शिक्षां) व्यतिक्रामति। च तिर्यग्योनि(कृतं) गतं प्राणिनं जीविताद् व्यपरोपयति। न शिक्षां प्रत्याख्याय हानायार्वत्तते। अभव्यो भवति पञ्चानामानन्तर्याणां कर्म्मणां करणतायै। न स्वयंकृतसुखदुःखं पर्येति, न परकृतं, न स्वयंकृतं च परकृतं च, न स्वयंकारापरकाराहेतुसमुत्पन्नं। न इतो बहिर्धा[ऽ]न्यं शास्तारं पर्येषते। न दक्षिणीयं। न परेषां श्रमणब्राह्मणानां सुखावलोकको भवति। सुखपरीक्षकः। नान्यत्र दृष्टधर्माः, प्राप्तधर्मा, पर्यवगाढधर्मा, तीर्ण्णकांक्षस्तीर्ण्णविचिकित्सः, अपरप्रत्ययो[ऽ]नन्यनेयः, शास्तुः शासने धर्मेषु वैशारद्यप्राप्तः। स न कौतूहलमंगलाभ्यां शुद्धिं प्रत्येति। नाप्यष्टमं भवमभिनिर्व्वर्त्तयति। चतुर्भिरवेत्यप्रसादैः समन्वागतो भवति। तस्य यावल्लौकिकेभ्यो[ऽ]ग्रधर्मेभ्य अधिमोक्षिको मनस्कारः सत्यान्यभिसमितवतः दर्शनप्रहातव्येषु क्लेशेषु प्रहीणेषु प्राविवेक्यो मनस्कारः, प्रहाणाय च।

अत ऊर्ध्वं यथाप्रतिलब्धं मार्गं भावयतो[ऽ]भ्यस्यतः कामावचराणामधिमात्रमध्यानां क्लेशानां प्रहाणात् सकृदागामी भवति। तस्यापि यानि स्रोत आपन्नस्य लिंगानि। सर्व्वाणि वेदितव्यानि। अयञ्च विशेषो यद्विषये[ऽ]धरक्लेशस्थानीयेषु अधिमात्रपर्यवस्थानीये[ऽ]पि बद्धं क्लेशपर्यवस्थानमुत्पादयत्याशु चापनयति। सकृच्चेमं लोकमागम्य दुःखस्यान्तं करोति। अनागामी। अनागामिलिंगानि च पूर्व्वोक्तानीत्येव तत्र सर्व्वो भावनामार्गः प्रत्यवेक्ष्य प्रत्यवेक्ष्य मीमान्सा(मांस) मनस्कारेण प्रहीणाप्रहीणतां यथाप्रतिलब्धमार्गाभ्यामप्रभावितः।

तत्र भावनायाः कतमः स्वभावः [।] कतमत्कर्म। कतमः प्रकारभेदः। यः समाहितभूमिकेन मनस्कारेण लौकिकलोकोत्तरेणैषां कुशलानां संस्कृतानां धर्माणामभ्यासः। परिचयः, सातत्यसत्कृत्य क्रिया। चित्तसन्ततेस्तन्मयता चोपनय[न]मयमुच्यते भावना स्वभावः।

तत्र भावनाया अष्टविधं कर्म। एकत्यान्धर्मान्भावयन् प्रतिलभते। एकत्यान्धर्मान्भावनया निषेवते। एकत्यान्धर्मान्विशोधयत्येकत्यान्धर्मान्प्रतिविनोदयत्येकत्यान्धर्मान् परिजानाति। एकत्यान्धर्मान्प्रजहात्येकत्यान् धर्मान् प्रजहात्येकत्यान् धर्मान् साक्षात्करोत्येकत्यान्धर्मान्दूरीकरोति। तत्र ये तावदप्रतिलब्धा धर्माः कुशला वैशेषिकास्तान् प्रतिलभते। एकत्या(त्ये) धर्माभावनया लब्धाः, संमुखीभूताश्च वर्त्त[न्]ते। तान्निषेवते। तत्र ये प्रतिलब्धा, न च संमुखीभूतास्ते तज्जातीयैर्धर्मैर्निषेव्यमाणौ(णै)रायत्यां संमुखीक्रियमाणा[ः], परिशुद्ध तरा[ः], पर्यवदाततराश्चोत्पद्यन्ते तत्र ये स्मृतिसंप्रमोषा(त्) क्लिष्टा (न्)धर्मान्समुदाचरन्ति। तान्कुशलधर्माभ्यासबलेनाधिवासयति। प्रजहाति। विनोदयति। व्यन्तीकरोत्यनुत्पन्नानेव वा प्रहातव्यान्धर्मान्रोगतः परिजानाति। विदूषयति। शल्यतो, गण्डतः, अघतः, अनित्यतो, दुःखतः, शून्यतो, [अ]नात्मतश्च परिजानाति। विदूषयति। तस्य परिज्ञानाभ्यासादानन्तर्यमार्ग उत्पद्यते। क्लेशानां प्रहाणाय, येन प्रजहाति। प्रहीणे च पुनर्विमुक्तिं साक्षात्करोति। यथा च यथोपरिमां भूमिमाक्रमते। तथा तथा अधोभूमिकाः प्रहाणाधर्मा दूरी भवन्ति। यावन्निष्ठागमनादिदं भावनीयमष्टविधं कर्म वेदितव्यम्॥

तत्र भावनायामे (या ए)कादशविधः प्रकारभेदो वेदितव्यः तद्यथा शमथभावना, विपश्यनाभावना, [पूर्व्ववदेव तत्र] लौकिकमार्गभावना, लोकोत्तरमार्गभावना, मृदुमध्याधिमात्रभावना, प्रयोगमार्गभावना, आनन्तर्यविमुक्तिविशेषमार्गभावना[।]

तत्र शमथभावना नवाकारायाश्चित्तस्थित्या[ं] (ञ्चित्तस्थित्यां) पूर्व्ववत्।

विपश्यनाभावना पूर्व्ववदेव। तत्र लौकिकमार्गभावना [य] दधोभूमिकानामौदारिकदर्शनतया उपरिभूमीनां च शान्तदर्शनतया, यावदाकिञ्चन्यायतनवैराग्यगमनं [।]

तत्र लोकोत्तरमार्गभावना दुःखं वा दुःखतो मनसिकुर्व्वतः, यावन्मार्गम्वा मार्गतो मनसिकुर्व्वतः। यदनास्रवेण मार्गेण सम्यग्दृष्ट्यादिकेन यावन्नैवसंज्ञा नासंज्ञायतनवैराग्यगमनं [।]

तत्र मृदुमार्गभावना ययौदारिकानधिमात्रान् क्लेशान्प्रजहाति। तत्र मध्यमार्गभावना यया मध्यान् क्लेशान् प्रजहाति। तत्राधि[मात्र] मार्गभावना यया मृदुं क्लेशप्रकारं प्रजहाति। सर्व्वम्पश्चात्प्रहेयं।

तत्र प्रयोगमार्गभावना यया प्रयोगमारभते क्लेश प्रहाणाय। तत्रानन्तर्यमार्गभावना यया प्रजहाति। तत्र विमुक्तिमार्गभावना यया समनन्तरप्रहीणे क्लेशविमुक्तिं साक्षात्करोति। तत्र विशेषमार्गभावना ययास्त (यया त) त ऊर्ध्वं यावदन्यभूमिकस्य क्लेशप्रयोगमारब्धव्यं नारभते। निष्ठागतो वा नारभते। इत्ययमेकादशविधो भावनायाः प्रकारभेदो वेदितव्यः।

तस्यैवं भावनाप्रयुक्तस्य कालेन च कालं क्लेशानां प्रहीणाप्रहीणतां मीमान्स(मांस)तः (मानस्य?) कालेन कालं संवेजनीयेषु धर्मेषु चित्तं सम्वेजयतः, कालेनकालमभिप्रमोदनीयेष्वभिप्रमोदयतः सोऽस्य भवति[रति] संग्राह[को] मनस्कारः। तस्यास्य रतिसंग्राहकस्य मनस्कारस्यासेवनान्वयाद् भावनान्वयाद्बहुलीकारान्वयान्निरवशेषभावनाप्रहातव्या [ः] क्लेशप्रहाणाय सर्व्वपश्चिमः शैक्षो वज्रोपमः समाधिरुत्पद्यते। तस्योत्पादात्सर्व्वे भावनाप्रहातव्याः क्लेशाः प्रहीयन्ते।

केन कारणेन वज्रोपम इत्युच्यते। तद्यथा वज्र[ं] सर्व्वेषां तदन्येषां मणिमुक्तावैडूर्यशंखशिलाप्रवाडा(ला)दीनां मणीनां सर्व्वसारं सर्व्वदृढं तदन्यान्विलिखति। न त्वन्यैर्मणिभिर्विलिख्यते। एवमेवायं समाधिः सर्व्वशैक्षसमाधीनामग्र्‍यः, श्रेष्ठः सर्व्वसारः सर्व्वक्लेशानभिभवति। न च पुनरुत्पत्तिक्लेशैरभिभूयते। तस्माद्वज्रोपम इत्युच्यते।

तस्य वज्रोपमस्य समाधेः समनन्तरं सर्व्वक्लेशपक्ष्यं दौष्ठुल्यबीजसमुद्धातादत्यन्ततायै चित्तमधिमुच्यते। गोत्रपरिशुद्धिं चानुप्राप्नोति [।] सर्व्व दौष्ठुल्य क्लेशोन्धक्षयाय ज्ञानमुत्पद्यते। हेतुक्षयाच्चायत्यां दुःखस्य सर्व्वेण सर्व्वमप्रादुर्भावायानुत्पाद ज्ञानमुत्पद्यते। स तस्मिन् समये[ऽ]र्हन् भवति। क्षीणास्रवः, कृतकृत्यः, कृतकरणीयो[ऽ]नुप्राप्तस्वकार्यः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः। दशभिरशैक्षैर्धर्मैः समन्वागतः। अशैक्षया सम्यग्दृष्ट्या सम्यक्संकल्पेन यावदशैक्षया सम्यग्विमुक्त्या सम्यग्ज्ञानेन [।] स्वचित्तवशवर्ती च भवति। विहारे च मनसिकारे च। समयेन येन कांक्षते। विहारेणार्येण वा, दिव्येन वा, ब्राह्मेण वा, तेन तेन विहरति। यं यमेवाकांक्षते धर्मं मनसि कर्त्तुं कुशलमर्थोपसंहितं। लौकिकं वा लोकोत्तरम्वा, तं तमेव मनसि करोति।

तत्रार्यो विहारः शून्य[ता]विहारो (र [आ])निमित्तविहारो[ऽप्रणिहितविहारो] निरोधसमापत्तिविहारश्च। दिव्यो विहारो ध्यानारूप्यविहारः। ब्राह्मो विहारो मैत्रीकरुणामुदितोपेक्षाविहारः। अत्यन्तनिर्मलोभवत्यत्यन्तविमलो[ऽ]त्यन्तब्रह्मचर्यपर्यवसानः। निर्गत इवासि उत्क्षिप्त परि............................................. इत्यपि पंचांगप्रहीणषडंगसमन्वागतः (ए)कारक्त............................................... शे(श्रे)-त्तु(त्र)(क्षेत्र?) धर्माश्रयः। प्रणुन्नः प्रत्ये...............................................प्रवियु(मु)क्त चित्तः, सुविमुक्तप्रज्ञः केवलो उक्षि..........च्च...........लि पुरुष इत्युच्यते। प श्चितु.............समन्वागतो भवति। पा लं दृष्ट्वा चैवं सुमनाः।

भवति सुष्ठुमनाः उपेक्षको भवति स्मृतः सम्प्रजा[ना]नः। एवं श्रोत्रेण शब्दान्, घ्राणेन गन्धान्, जिह्वया रसान्, कायेन स्प्रष्टव्यान्, मनसा धर्मान् विज्ञाय। मे व........तदूर्ध्व। उपेक्षको विहरति स्मृतः संप्रजा[ना]नः। स तस्मिन् समये अपरिशेषरागक्षयं प्रतिसंवेदयति। स क्षयाद्रागद्वेषमोहानां यत्त्यागं (यस्त्यागः), तन्न करोति...........

समचित्तश्च भवति वासी चन्दनकल्पः सेन्द्रो पित्र्याणां देवानां मान्यश्च पूज्यश्च मार्गकाशेषधातुप्रतिष्ठिते च भवति तीर्ण्णः पारगतो[ऽ]न्तिमादेहधारीत्युच्यते। पूर्वकर्मक्लेशाविद्धानां पञ्च स्कन्धानां स्वरसं..........नानु पादानात् वा,निरुपधिशेषनिर्वाणधातौ (प्रविष्टः/प्रविशति)

......परिनिर्वृतो भवति। यथा न संसृतो (तौ) नान्यत्र यद् दुःखं तन्निरुद्धं तव्युपशान्तं तच्छीतीभूतं भव इं गतं। शान्तं शान्तमिदं पदं। यदुत सर्व्वोपधिप्रतिनिःसर्वसंज्ञाक्षयो विरागो निरोधो निर्वाणं तस्येमानि लिंगान्येवं भागीयानि वेदितव्यानि। पञ्च स्थानान्यु..........भिक्षुः क्षीणास्रवः प्रति। वि विने। क्त मन्यमसं तथा

प्रापयितुं मन्ददा त्र म ब्रह्मचर्यं मैथुनं धर्मं प्रतिषेवितुं। संप्रजाना(नो) मृषापभाषितुमभव्यः मन्दविकारेण कामान्परिभोक्तुं। तथा भव्यः स्वयं कृतं सुखं दुःखं प्रत्येतुं। पूर्व्ववद्यावत्स्वयंकायकारो[ऽ]हेतुसमुत्पन्नमुग्रदुःखं प्रणीतममव्याय कृतस्तुभिः(तिः)। सत्रासं मांसं भक्ष्य(व्य).........

ऽ‍अन्यतामान्यतम्वा भयभैरवं........संत्रासमापत्तु रयमसौ वज्रोपमः समाधिरयं प्रयोगनिष्ठो मनस्कारः यः पुनरग्रफलार्हत्त्वसंगृहीतमनस्कारोऽयं प्रयोगनिष्ठाफलो मनस्कारः। एभिः सप्तभिर्मनस्कारैर्लोकोत्तरेण मार्गेणात्यन्तनिष्ठात् आ/प्रा पा तः-त

इत्ययमुच्यते सा/मो ध क सर्व्वेषां सम्यक्संबुद्धानां सश्रावकसंयुक्तानां निर्देशस्थानीयानां साक्षात्का[र] स्थानीयानां तद्यथा सर्वनामकायपदकायव्यंजनकायकाव्यमनु शास्त्राणि॥ मातृका॥

॥ उद्दानम्॥

लक्षणप्रतिसंवेदी स्यात्तथैवाधिमोक्षिकः।
प्राविवेक्यरतिग्राही तद्‍व्यामीमान्स(मांस)कः॥
पुनः प्रयोगनिष्ठा कृत्युत्तरतत्फलः पश्चिमो भवेत्।
मनस्कारश्च, ध्यानानां आरूप्याना(णां) विभागता॥
समापत्ती(त्तिर)अभिज्ञाश्च उपपत्तिश्च लिङ्गता।
सत्यानां व्यवचारश्च प्रतिवेधस्तथैव च॥
भावनाया विभङ्गश्च निष्ठा भवति पश्चिमा॥

॥ श्रावकभूमौ चतुर्थं योगस्थानम्॥
॥ समाप्ता श्रावकभूमिः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project