Digital Sanskrit Buddhist Canon

तृतीयं योगस्थानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Tṛtīyaṁ yogasthānam

तृतीयं योगस्थानम्

एवं कृते पुद्गलव्यवस्थाने, आलम्बनव्यवस्थाने, यावद्भावनाफलव्यवस्थाने आत्मकामेन पुद्गलेन स्वार्थमनुप्राप्तुकामेन आदिकर्मिकेन (ण)। तत्प्रथमकर्मिकेन(ण) योगज्ञ, आचार्यो वा, उपाध्यायो वा, पुरुषो, गुरुस्थानीयो वा, चतुर्षु स्थानेषु स्मृतिमुपस्थाप्य उपसंक्रमितव्यः। अभिज्ञाभिप्रायेण, नोपालम्भचित्ततया, सगौरवेण, न समानस्तम्भतया। किंकुशलगवेषिणा। नात्मोद्भावनार्थं। आत्मानं परांश्च कुशलमूलेन योजयिष्यामीति। न लाभसत्कारार्थमेवं च पुनरुपसंक्रम्य कालेनावकाशं कृत्वा, एकांसमुत्तरासंगं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, नीचतरमेवासने निषद्य, सप्रतीशेन योग आयाचितव्यः। अहमस्मिं (स्मि) योगेनार्थी, योगं आदिक्ष्वानुकम्पामुपादाय।

इत्येवञ्च पुनरायाचितेन योगिना योगज्ञेन स आदिकर्मिकः, तत्प्रथमकर्मिकः योगमनसिकारे प्रयोक्तु कामः। श्लक्ष्णश्लक्ष्णैर्व्वचनपथै रुद्वेजयितव्यः। संप्रहर्षयितव्यः। प्रहाणे चानुशंसो वर्ण्णयितव्यः। साधु, साधु, दुर्मुख, यस्त्वां (स्त्वं)प्रमादापगतायां प्रजायां, विषयनिम्नायां, विषयाध्यवसितायां अप्रमादाय प्रयोक्तुकामः। अपायधारकप्रविष्टायामपायधारकान्निर्गन्तुकामः। रागद्वेषमोहविगतबन्धनायां बन्धनानि क्षेप्तुकामः। संसारमहादावीदुगमार्गप्रविष्टानां(यां) निस्तर्त्तुकामः। क्लेशकुशलमूलमहादुर्भिक्षप्राप्तायां कुशलमूलसुभिक्षमनुप्राप्तुकामः। क्लेशतस्करमहाभयानुगतायां। निर्व्वाणं क्षेममनुप्राप्तुकामः। क्लेशमहाव्याधिग्रस्तायां परममानो निर्व्वाणमनुप्राप्तुकामः। चतुरोत्मा(घा)नुस्रोतोपहतायामोघानुतर्त्तुकामः। महाविद्यानुकारप्रविष्टायां महाज्ञानालोकमनुप्राप्तुकामः। अन्य(त्र)त्वमायुष्मन्नेवं प्रयुज्यमानः। समोहं च राष्ट्रपिंडं परिभोक्ष्यते। शास्तुर्वचनकरो भविष्यसि। अनिराकृतध्यायी, विपश्यनया समन्वागतः। बृंहयिता शून्यागाराणां स्वकाययोगमनुयुक्तः। अविगर्हितो विज्ञैः। सब्रह्मचारिभिस्तुल्यहिताय प्रतिपन्नः। परहिताय, बहुजनहिताय, लोकानुकम्पायै, अर्थाय, हिताय, सुखाय देवमनुष्याणामित्येवंभागीयैः श्लक्ष्णैर्वचनपथैः। संहर्षयित्वा (संहर्ष्य) प्रहाणे चानुशंसं दर्शयित्वा, चतुर्षु परिपृच्छास्थानीयेषु धर्मेषु परिप्रष्टव्यः। कश्चि(च्चि)दायुष्मानेकान्तेन बुद्‍धशरणं गतो, धर्मं, संघं, नो चेतोबहिर्धान्यं शास्तारं वा, दक्षिणीयम्वा संजानाति, कच्चित्ते आदिपरिशोधिताद्ब्रह्मचर्यस्य भावनायै शीलं च ते सविशुद्धं, दृष्टिश्च ऋज्वी कच्चित्ते आर्यसत्यानामुद्‍देशविभंगमारम्य धर्मः श्रुतश्चोद्गृहीतश्च। अल्पो वा, प्रभूतो वा, कच्चित्ते निर्वाणा धिमुक्तं चित्तं। निर्वाणाभिप्रायश्च प्रव्रजितः।

सचेत्पृष्ट ओमिति प्रजानाति। तत उत्तरि चतुर्षु स्थानेषु चतुर्भिः कारणैः समन्वेषितव्यः। प्रणिधानतः समन्वेषितव्यः। गोत्रत, इन्द्रियतः। चरिततश्च समन्वेषितव्यः कथया, चेष्टया, चेतः पर्यायस्थानेन पर्येषितव्यः।

तत्र कथं पृच्छया प्रणिधानतः समन्वेषितव्यः। एवं परिप्रष्टव्यः। कुत्रायुष्मान् कृतप्रणिधान इति। श्रावकयाने, प्रत्येकबुद्धयाने महायाने[।] स यत्र यत्र कृतप्रणिधानो भविष्यति। त चै(त्रै)वात्मानं व्याकरिष्यति। एवं पृच्छया प्रणिधानतः समन्वेषितव्यः।

कथं पृच्छया गोत्रमिन्द्रियं चरितं च [।] समन्वेषितव्यं। स एवं परिप्रष्टव्यः। आयुष्मानात्मनो गोत्रम्वा, इन्द्रियम्वा, चरितं वा [।] किं गोत्रोहं। कीदृशानि मे इन्द्रियाणि मृदूनि, मध्यानि, तीक्ष्णानि, किं रागचरितः। अथ द्वेषचरितः। एवं तावद् वितर्कविचारित (विचारचरित) इति। स चेत्स प्राज्ञो भवति। पू(पौ)र्व्वापर्येण चामुनो गोत्रमिन्द्रियं, चरितञ्चोपलक्षितं भवति। निमित्तीकृतं[।] तञ्चै(च्चैव)व व्याकरोति। स चेत्पुनर्युक्तो भवति। न चानेन पौर्वापर्येण यावन्निमित्तीकृतं भवति। ततश्चरितं चोपलक्षितं भवति। स पृष्टो न व्याकरोति। तस्य तत उत्तरकालं कथया तावत्त्रीणि समन्वेषितव्यानि। तस्य पुरस्ताच्छ्रावकयानप्रतिसंयुक्ता कथा करणीया। चित्रैर्गमकैधुरैर्वचनपथैःस तस्यां कथायां कथ्यमानायां स चेच्छ्रावकगोत्रो भवत्यत्यर्थं तया कथया प्रीयते। हृष्यते, आनन्दीजातः, सौमनस्यजातो भवति। (न)प्रसीदति नाधि (अधि)मुच्यते। महायानप्रतिसंयुक्तायाम्वा पुनः कथायां कथ्यमानायां यो महायानगोत्रः सोत्यर्थं प्रीयते। हृष्यते। यावत्प्रसीदत्यधिमुच्यते। श्रावकप्रत्येकबुद्‍धस्तु न तथा। स चेत्पुनः मृद्विन्द्रियो भवति। सोत्यर्थञ्च प्रीयते। धर्मस्य चार्थस्य चोपलक्षणाय। उद्ग्रह्णाय, प्रतिवेधाय च। मध्येन्द्रियो न, तीक्ष्णेन्द्रियस्तु। आशु धर्म चोपलक्षयत्युद्गृह्णाति। प्रतिविध्यति गम्भीरायामपि कथायां कथ्यमानायां। स चेत्पुनारागचरितो भवति। स प्रसदनीयायां कथायां कथ्यमानाया मत्यर्थं प्रसीदति रमते। का (या)व त(द्)ध्यानं प्रविशति। चाप्ता च मग्रु (अश्रु?) प्रपातं च स्निग्धसन्तानतां, मृदुचित्ततां, द्रवचित्ततां चोपदर्शयति। सचेद् द्वेषचरितो भवति। निर्व्वेधिकायां कथायां कथ्यमानायां निर्व्वाणप्रतिसंयुक्तायां निरामिषमु[त्]त्रस्य संत्रासमापद्यते। यथा मृद्विन्द्रियस्योक्तं तथात्रापि वेदितव्यम्। स चेत्स धर्मानुचरितो भवति। जानात्यर्थं शुश्रूषते। न श्रोत्रमवदधाति। न तथा प्रज्ञाचित्तमुपस्थापयति। आवर्जितोऽपि न तथा सानुकारमनुप्रयच्छति। स चेत्पुनर्विचरितो (र्विचारानुचरितो) भवति। तस्य स्ववहितस्यापि चित्तं विक्षिप्यते। दुर्गृहीतग्राही भवति। न दृढं गृह्णाति। न स्थिरं, उद्गृहीतञ्च नाशयति। न पुन[ः] कय (थ)या परिपृच्छन कश्च भवति। एवं कथया। गोत्रमिन्द्रियं चरितं च समन्वेषितव्यं। कथं चेष्टया [।] यानि पूर्वोक्तानि लिंगानि। श्रावकगोत्रस्य, रागचरितानां च पुद्गलानां तानि चेष्टेत्युच्यते। तया च चेष्टया यथायोगं गोत्रमिन्द्रियं चरितं च समन्वेषितव्यं।

तत्र कथं चेतःपर्यायज्ञानेन गोत्रेन्द्रियचरितानि समन्वेषितव्यानि। यथापि स योगी योगज्ञो लाभी भवति चेतः पर्यायज्ञानस्य[।] स तेन परचित्तज्ञानेन गोत्रमिन्द्रियं, चरितं च यथाभूतं प्रजानाति। एतानि चत्वारि स्थानान्येभिश्चतुर्भिः कारणैस्समन्वेष्य पञ्चसु स्थानेषु विनयते। तद्यथा समाधिसंभाररक्षोपचये, प्राविवेक्ये, चित्तैकाग्रतायाः(यां), आवरणविशुद्धौ, मनस्कारभावनायां च। तत्र समाधिसंभाररक्षोपचयः यावता शीलसम्वरेण समन्वागतो भवति। तत्र चाप्रमादविहारी भवत्यपपरिणाय बुद्‍धानुशिष्टस्य च बुद्‍धानुज्ञातस्य पुद्गलस्य, शीलस्कन्धस्य शिक्शापदप्रतिपत्त्या वीर्यं न स्रन्स (स्रंस) यति। एवमयमविगताच्छीलप्रतिसम्वराच्छि क्षामार्गान्न परिहीयते। अनधिगतं च शिक्षामार्गमधिगच्छति। यथा शीलसम्वर एवमिन्द्रियसम्वरः, भोजने मात्रज्ञता, पूर्वरात्रापररात्रं जागरिकानुयोगः, संप्रजानद्विहारिता, एवं यावच्छ्रमणालंकार इति। यस्य यस्य संभारपरिगृहीतस्य धर्मप्रविभागस्य लाभी भवति। स तं वा रक्षत्युत्तरि (रं) च प्रविभागस्य पारिपूरये। यथोक्ताद्भूराधिककसमुदाचाराय [च्]छन्दजातो विहेरयु (रेत्) मु(मू)कजात आरुब्धवीर्यश्चायमुच्यते समाधिसंभाररक्षोपचयः। स एवं हानभागीयांश्च धर्मान् विरज्यति, शेषभागीयांश्च धर्मान् प्रतिषेवमाणः प्रविविक्तविहारी भवति।

प्राविवेक्यं कतमत्। या स्थानसम्पदीर्यापथसम्पत्। तत्र स्थानसम्पत्तद्यथा। अरण्यम्वा, वृक्षमूलम्वा, शून्यागारम्वा-तत्र पर्व्वतकन्दरं वा, गिरिगुहा वा, पलालपुंजानि वा शून्यागारमित्युच्यते। तत्र वनप्रस्थं वृक्षमूलमित्युच्यते। तत्राभ्यवकाशं, श्मशानं, प्रान्तश्च शयनासनमरण्यमित्युच्यते। तदिदमभिसमस्य स्थानं वेदितव्यं। यदुतारण्यवृक्षमूलशून्यागारपर्वतगिरिगुहापलालपुंजाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनानि। स्थानसम्पत्पुनः पञ्चविधा। इह स्थानमादित एवाभिरूपं भवति। दर्शनीयं प्रासादिकमारामसम्पन्नं, वनसम्पन्नं, पुष्करिणीसम्पन्नं, शुभं, रमणीयं, नोत्कूलनिकूलं, न स्थाणुकण्टकधानं। न बहुपाषाणशर्करकपालं। यत्रास्य दृष्टवा चित्तमभिप्रसीदति। वासाय, प्रहाणाय, प्रयोगाय। हृष्टचित्तः। प्रमुदितचित्तः। प्रहाणं प्रदधाति इयं प्रथमा स्थानसम्पत्। पुनरयं (रिदं) न दिवा अल्पविलोकं भवति। रात्रावल्पशब्दवन्यनिर्घोषमल्पदंशमशकवातातपसरीसृपसंस्पर्शमियंद्वितीया स्थानसम्पत्। यत्पुनरपरं सिंहव्याघ्र-द्वीपि-तस्करपरचक्रमनुष्यामनुष्यभयभैरवापगतंभवति। यत्र विश्वस्तो निःशंकितमानसः। सुखं स्पर्शं विहरति। इतीयं तृतीया स्थानसम्पत्। पुनरपरं ये ते आनुलोमिका जीवितपरिष्काराश्ची वरादयः। ते [अ] त्राल्पकृच्छ्रेण सम्पद्यन्ते। येनायं पिण्डकेन न क्लाम्यति। यत्रासम्विधान इयं चतुर्थी स्थानसम्पत्। पुनरपत्रं(रं) कल्याणमित्रपरिगृहीतं भवति। तद्रूपा अत्र विज्ञाः सब्रह्मचारिणः प्रतिवसन्ति। येस्याकृतानि नोत्तानीकुर्व्वन्ति। गंभीरं चार्थपदं प्रज्ञया प्रतिविध्य सुष्ठु च प्रकाशयन्ति। ज्ञानदर्शनस्य विशुद्धये। इयं पञ्चमी स्थानसम्पत्।

तत्र कतमा ईर्यापथसम्पत्। दिवा चंक्रमेण वातिनामयति। निषद्य यावता एवं रात्र्याः प्रथमं यामं, मध्यमे न (च)यामे दक्षिणेन पार्श्वेन (ण) शय्यां कल्पयति। पश्चिमे च यामे लघुलघ्वेवोत्तिष्ठते। चंक्रमनिषद्यया वातिनामयति। तस्मिन्निदं सम्पन्ने शयनासने, तथा बुद्धानुज्ञाते मञ्चे वा, पीठे वा, तृणे वा, संस्तरणे वा निषीदति। पर्यङ्कमाभुज्य तु। केन कारणेन पञ्च कारणानि समनुपश्यन् संपिण्डितेन कायेन प्रश्रब्धिरुत्पद्यते। प्रश्रब्ध्युत्पत्तये अनुकूलोयमीर्या पथ इति। तथा चारिका [का]लं निषद्ययाशक्तो व्यतिनामयितुं। ना चास्यानेनेर्यापथेन कायक्लेशो भवति। तथा असाधारणोयमीर्यापथोन्यतीर्थिकैः। परप्रवादिभिः। तथा परे अनेनेर्यापथेन निषण्णं दृष्ट्वा अत्यर्थमभिप्रसीदन्ति बुद्धैश्च बुद्धश्रावकैश्चायं ईर्यापथो निषेवितश्चानुज्ञातश्च [।] इमानि पंचकारणानि। संपश्यति निषीदति। पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय।

तत्र कतमा कायसंज्ञता। कायस्य स्पष्टोच्छ्रितप्रणिहितता। चित्तेन न निःशोच्येन कुहनापगतेनार्जवेन। तत्र ऋजुना कायेन प्रगृहीतेन स्त्यानमिद्धं चित्तं न पर्यादाय तिष्ठति। निष्कुहकेन चित्ते बहिर्धा विक्षेपो न पर्यादाय तिष्ठति। प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य।

तत्र कतमा प्रतिमुखा(खी) स्मृतिः। यामुपस्थापयति योनिशो मनसिकारसंप्रयुक्ता स्मृतिः प्र[ति]मुखे (खी)त्युच्यते। सर्वकृष्णपक्षप्रमुखतया, प्रतिविलोमतया। अपि च समाधिनिमित्तालम्बना प्रतिभालम्बना स्मृतिः प्रतिमुखे (खी) त्युच्यते। सर्व्वसमाहितभूमिकालम्बनप्रमुखतया इयमुच्यते ईर्यापथसम्पत्।

व्यपकर्षः कतमः। आह। द्विविधः कायव्यपकर्षः। चित्तव्यपकर्षश्च। तत्र कायव्यपकर्षो यो गृहस्थप्रव्रजितैः सार्धमविहारिता॥ तत्र चित्तव्यपकर्षः यः क्लिष्टमव्याकृतं च मनस्कारं च वर्जयित्वा। समाहितभूमिकं वा समाधिसंभारप्रायोगिकं वा मनस्कारं भावयति। कुशलमर्थोपसंहितमयमुच्यते चित्तव्यपकर्षः। तत्र स्थानसम्पत् या चेयमीर्यापथसम्पत्। यश्चायं कायव्यकर्षः। यश्च चित्तव्यपकर्षः (यश्चित्तव्यपकर्षस्)तदेकत्यमभिसंक्षिप्य प्राविवेक्यमित्युच्यते।

तत्रैकाग्रता कतमा। आह। पुनः पुनः स्मृतिसभागालम्बना प्रवाहानवद्यरतियुक्ता। चित्तसन्ततिर्या सा समाधिरित्युच्यते। कुशलचित्तैकाग्रतापि [।] किं पुनः पुनरनुस्मरति। आह। ये धर्मा उद्गृहीता [ः]श्रुता, या चाववादानुशासनी प्रतिलब्धा भवति। गुरुभ्यस्तामधिपतिं कृत्वा समाहितभूमिकनिमित्तं संमुखीकृत्य तदालम्बनां प्रवाहयुक्तां स्मृति मनुवर्त्तयति। उपनिबध्नाति। तत्र कतमत्सभागालम्बनं। यत्किंचित्समाहितभूमिकमालम्बनमनेकविधं। बहुनानाप्रकारं। येनालम्बने चित्तं परं समाहितमिदमुच्यते। सभागमालम्बनं [।] कस्यैतत्। सभागं [।] आह। क्षयस्य वस्तुनः प्रतिरूपकमेतत्तस्मात्सभागमित्युच्यते। या पुनरभिक्षयाकारानिछिद्रा (निश्छिद्रा) निरन्तरा स्मृतिः प्रवर्तते। तेनालम्बनेन सततं च सत्कृत्य चेयं प्रवाहयुक्तता। यत्पुनस्तस्मिन्नेवालम्बने अभिरतस्यासंक्लिष्टविहारिता। वाहिमार्गता स्मृतिरियमवद्यरतियुक्तता। तेनाह पुनः पुनरपरानुस्मृतिसभागालम्बनप्रवाहानवद्यरतियुक्ता चित्त सन्ततिः। समाधिरिति सा खल्वेषा एकाग्रता शमथपक्ष्या विपश्यनापक्ष्या च। तत्र या नवाकारायां चित्तसंतथौ (स्थितौ) वा [सा] शमथपक्ष्या, या पुनश्चतुर्विधे प्रज्ञाधारे सा विपश्यनापक्ष्या।

तत्र नवाकारा चित्तस्थितिः कतमा। इह भिक्षुरध्यात्ममेव चित्तं स्थापयति। संस्थापयति। अवस्थापयत्युपस्थापयति। दमयति। शमयति। व्युपशमयति। एकोतीकरोति। समाधत्ते [।]

कथं स्थापयति। सर्वबाह्येभ्य आलम्बनेभ्यः प्रतिसंक्षिप्याध्यात्ममविक्षेपायोपनिबघ्नाति। यत्तत्प्रथमोपनिबद्धो विक्षेपाय इयं स्थापना।

कथं संस्थापयति। तत्प्रथमोपनिबद्धं यदेव चित्तं तद्व[ल]मौदारिकमसंस्थितमपरिसंस्थितं तस्मिन्नेवालम्बने प्रवर्द्धनयोगेन प्रसादयोगेन साभिनिग्रहं सूक्ष्मीकुर्व्वन् अभिसंक्षिपन् संस्थापयति।

कथमवस्थापयति। स चेच्चित्तमेव स्थापयतः। स्मृतिसंप्रमोषाद्बहिर्धा विक्षिप्यते। स पुनरपि तथैव प्रतिसंहरन्ति (ति)। एवमे(म)व स्थापयति।

कथं दमयति। यैर्निमित्तैरस्य तच्चित्तं विक्षिप्यते। तद्यथा गत्वरसंस्प्रष्टव्यनिमित्तै रागद्वेषमोहस्त्रीपुरुषनिमितैश्च[।]तत्रानेन पूर्व्वमेवादीनवसंज्ञोद्गृहीता भवति। तामधिपतिं कृत्वा तेषु निमित्तेषु तस्य चित्तस्य प्रसरं न ददाति। एवं दमयति॥

कथं शमयति। यैर्वितर्कैः कामवितर्कादिभिः। यैश्चोपक्लेशैः। काम[च्]छन्दनिवरणादिभिः। तस्य चेतसः संक्षोभो भवति। तत्रानेन पूर्वमेवादीनवसंज्ञोद्गृहीता भवति। तामधिपतिं कृत्वा तस्य चेतसः। तेषु वितर्कोपक्लेशेषु। प्रसरं न ददात्येवं शमयति।

कथं व्युपशमयति। स्मृतिसम्प्रमोषात्तदुभयसमुदाचार[रे] सत्युत्पन्नोत्पन्नान् वितर्कोपक्लेशान् नाधिवासयति। प्रजहाति। एवं व्युपशमयति।

कथमेकोतीकरोति। साभिसंस्कारं निच्छि(श्छि)द्रं निरन्तरं समाधिप्रवाहमा (म)वस्थापयत्येव मेकोतीकरोति।

कथं समाधत्ते। आसेवनान्वयाद्भावनान्वयाद्बहुलीकारान्वयादनाभोगवाहनं। स्वरसवाहनं। मार्गं लभते। येनान भिसंस्कार (रे)वा(णा)नाभोगेनास्य चित्तसमाधिप्रवाहः। अविक्षेपे प्रवर्त्तते। एवं समाधत्ते।

तत्र षड्विधबलैर्नवाकारा चित्तस्थितिः सम्पद्यते। तद्यथा श्रुतचिन्ताबलेन। स्मृतिबलेन। वीर्यबलेन। परिचयबलेन च।

तत्र श्रुतचिन्ताबलेन तावत्। यच्छ्रुतं, या चिन्ता[ता]मधिपतिं कृत्वा चित्तमादित आलम्बने स्थापयति। तत्रैव च। प्रबन्धयोगेन संस्थापयति। तत्रोपनिबद्धं चित्तं स्मृतिबलेन प्रतिसरन्नवस्थापयति। उपस्थापयति। ततः संप्रजन्यबलेन निमित्तवितर्कोपक्लेशेषु प्रसरमननुप्रयच्छन् दमयति। शमयति। वीर्यबलेन। तदुभयसमुदाचारं च नाधिवासयति। एकोतीकरोति। परिचय बलेन समाधत्ते [।]

तत्र नवाकारायां चित्तस्थितौ चत्वारो मनस्कारा वेदितव्याः। बलवाहनः स[च्]छिद्रवाहनो निछि(श्छि)द्रवाहनः। अनाभोगवाहनश्च। तत्र स्थापयतः, संस्थापयतो बलवाहनो मनस्कारः। अवस्थापयत, उपस्थापयतो, दमयतः, शमयतः, व्युपशमयतः, सच्छिद्रवाहनो मनस्कारः। एकोतीकुर्व्वतो निछि(श्छि)द्रवाहनो मनस्कारः। समादधतः। अनाभोगवाहनो मनस्कारो भवति। एवमेते मनस्कारायां चित्तस्थितौ शमथपक्ष्या भवन्ति। यः पुनरेवमध्यात्मं चेतःशमथस्य लाभी विपश्यनायां प्रयुज्यते। तस्यैत एव चत्वारो मनस्कारा विपश्यनापक्ष्या भवन्ति॥

चतुर्विधा विपश्यना। कतमा। भिक्षुर्धर्मान् विचिनोति। प्रविचिनोति। परिवितर्कयति। परिमीमान्सा(मांसा)मापद्यते। यदुताध्यात्मं चेतःशमथं निश्रित्य [।]

कथं च विचिनोति। चरितविशोधनं वा आलम्बनं। कौशल्यालम्बनं वा, क्लेशविशोधनं वा। यावद्भाविकतया विचिनोति। यथावद्भाविकतया। प्रविचिनोति। सविकल्पेन मनस्कारेण प्रज्ञासहगतेन। निमित्तीकुर्व्वन्नेव परिवितर्कयति। सन्तीरयत्यधिमीमांसामापद्यते।

सा खल्वेषा विपश्यना त्रिमुखी षड्वस्तुप्रभेदालम्बना वेदितव्या (ः)। कतमानि त्रीणि (।) मुखानि [।] विपश्यना यन्निमित्तमात्रानुचरिता। विपश्यना पर्येषणानुचरिता, पर्येषि ता च। प्रत्यवेक्षणानुचरिता।

तत्र निमित्तमात्रानुचरिता[।] येन (यया)श्रुतमुद्गृहीतं। धर्मं अववादस्यासमाहितभूमिकेन मनस्कारेण मनसि करोति। न चिन्तयति। न तुलयति। नोपपरीक्षते। इयन्निमित्तमात्रानुचरिता भवति।

यदा पुनश्चिन्तयति। तीरयति तुलयत्युपपरीक्षते। तदा पर्येषणानुचरिता भवति।

यदा पुनस्तीरयित्वा उपपरीक्ष्य यथा व्यवस्थापितमेव प्रत्यवेक्षते। तदा प्रत्यवेक्षणानुचरिता भवतीयं त्रिमुखा (खी) विपश्यना।

कतमानि षड्वस्तुप्रभेदालम्बनानि। स पर्येषमाणः। षड्वस्तूनि पर्येषते। अर्थं, वस्तु, लक्षणं, पक्षं, कालं, युक्तिञ्च पर्येष्यन्नेतान्येव (पर्येषमाण एतान्येव) प्रत्यवेक्षते।

कथमर्थं पर्येषते। अस्य भाषितस्यायमर्थो[अ]स्य भाषितस्यायमर्थ (त) इत्येवमर्थं पर्येषते।

कथं वस्तु पर्येषते। द्विविधं वस्तु[।] आध्यात्मिकं बाह्यञ्च[।] एवं वस्तु पर्येषते।

कथं लक्षणं पर्येषते। द्विविधं। स्वलक्षणं सामान्यलक्षणं च। एवं लक्षणं पर्येषते।
कथं पक्षं पर्येषते। द्विविधः पक्षः कृष्णपक्षः शुक्लपक्षः [।] कृष्णपक्षं दोषतः। आदीनवतः। शुक्लपक्षं पुनर्गुणतोऽनुशंसतश्चैवं [पक्षं] पर्येषते।

कथं कालं पर्येषते। त्रयः कालाः [।] अतीतो [ऽ] नागतो वर्तमानश्च। एवमेतदभूदतीतेध्वनि एवमेतद्भविष्यति। अनागतेध्वनि। एवमेतदेतर्हि। प्रत्युत्पन्नेध्वनीत्येवं कालं पर्येषते।

कथं युक्तिम्पर्येषते। चतस्रो युक्तयः। [।] अपेक्षायुक्तिः, कार्यकारणयुक्तिः, उपपत्तिसाधनयुक्तिर्धर्मतायुक्तिश्च॥ तत्रो (त्रा) पेक्षायुक्त्या संवृतिं च संवृतितः। परमार्थं च परमार्थतः। निदानं च निदानतः। पर्येषते। काय (र्य) कारणयुक्त्या कारित्रं धर्माणां पर्येषते। अयन्धर्मः, इदं कारित्रं, अयमिदं कारित्र इति [।] उपपत्तिसाधनयुक्त्या त्रीणि प्रमाणानि पर्येषते। आप्तागममनुमानं प्रत्यक्षं च [।] किमस्ति (।) अत्रात्मा, नास्तीति किं प्रत्यक्षमुपलभ्यते न वेति, किमनुमानेन प्रयुज्यते न वेति। तत्र धर्मतायुक्तया तथाभूततां धर्माणां प्रसिद्धधर्मतामचिन्त्यधर्मतामवस्थितधर्मतामधिमुच्यते, न चिन्तयति। न विकल्पयत्येवं युक्तिम्पर्येषते।

इयं षड्वस्तुप्रभेदालम्बना (नि) त्रिमुखा (खी)विपश्यना समासतः। अनया सर्वविपश्यनासंग्रहः।

केन पुनः कारणेन षट्प्रभेदा व्यवस्थापिता [ः।] आह। त्रिविधमवबोधमधिकृत्य भाषितार्था (न)वबोधम्वस्तुपर्येषन्ततावबोधं। यथाभूतावबोधं च। तत्रार्थपर्येषणया भाषितार्थावबोधः। वस्तुपर्येषणया, स्वलक्षणपर्येषणया च वस्तुपर्येषन्ततावबोधः। तत्र सामान्यलक्षणपर्येषणया, पक्षपर्येषणया, कालयुक्तिपर्येषणया यथाभूतावबोधः। एतावच्च योगिना ज्ञेयं। यदुत भाषितस्यार्थः, ज्ञेयस्य वस्तुनः यावद्भाविकता। यथावद्भाविकता च। तत्राशुभो (भे)प्रयुक्तो योगी षड्वस्तूनि पर्येषते। आह [।] अशुभाधिपतेयं धर्मं श्रुतमुदगृहीतमधिपतिं कृत्वा समाहितभूमिकेन मनस्कारेणैवमर्थप्रतिसंवेदी भवति। अशुभया अशुभ्येतत्प्रतिरूपमेत्प्रतिक(घ)मेतद् दुर्गन्धमामगन्धमिति। एभिराकारैरेवंभागीयैस्तस्यैवाशुभाधिकृतस्य धर्मस्य पूर्व्वश्रु तस्यार्थप्रतिसंवेदना[।] एवमशुमतयार्थं पर्येषते।

कथं वस्तु पर्येषते[।] स एवमर्थप्रतिसंवेदी तामशुभतां द्वयोर्भावयोर्व्यवस्थापितां पश्यत्यध्यात्मम्बहिर्धा च।

कथं स्वलक्षणं पर्येषते। अध्यात्मं तावदन्तः कायगतामशुभतां प्रत्यशुभतामधिमुच्यते॥ सन्त्यस्मिन्काये केशरोमाणि विस्तरेण यावन्मस्तकं मस्तकलुंगं प्रश्राव(प्रस्राव)इति। तां पुनरनेकविधामन्तः कायगतामशुभतां द्वाभ्यां धातुभ्यां संगृहीतामधिमुच्यते। पृथिवीधातुना, अब्धातुना च [।] तत्र केशरोमाण्युपादाय। यावद्यकृत्पुरीषा पृथिवीधातुरधिमुच्यते। अश्रुद्वेदनामुपादाय यावत्प्रस्रावादब्धातुमधिमुच्यते। बहिर्धा वा पुनर्बाह्यगतामशुभतां विनीलकादिभिराकारैरधिमुच्यते। तत्र विनीलकमधिमुच्यते। यदनेन मृतकुणपं स्वयं वा दृष्टं भवति। पुरतो वा श्रुतं परिकल्पितं वा, पुन[ः]स्त्रिया वा, पुरुषस्य वा, मित्रस्य वा, अमित्रस्य वा, उदासीनस्य वा। हीनम्वा, मध्यम्वा, प्रणीतम्वा, दह्रस्य वा, मध्यस्य वा, वृद्धस्य वा [।]

तत्र निमित्तमुद्गृह्य एकाहमृतं प्रगडितशोणितमयं प्राप्तपूयभावं विनीलकमित्यधिमुच्यते। द्व्‍यहमृतं प्राप्तपूयभावं। असंजातकृमिविपूयकमित्यधिमुच्यते। सप्ताहमृतं संजातकृमि आध्मातं च विमद्रामकं व्याध्मातकमित्यधिमुच्यते काकैः कुरलै(रै)ः खाद्यमानं गृद्धैः श्वभिः श्रृगालैर्विखादिकमित्यधिमुच्यते। विरवादितम्वा पुनरपगतत्वङ्मान्सशोणितं स्नायुमात्रोपनिबद्धं विलोहितकमित्यधिमुच्यते। दिशोदिशमंगप्रत्यंगेषु विक्षिप्तेषु विश्लेषितेषु समान्से(मांसे)षु निर्मान्से (मांसे)षु किंचिच्छिष्टमान्से(मांसे)षु विक्षिप्तकमित्यधिमुच्यते॥ अन्यतो वा हस्तास्थीन्यन्यतः पादास्थीन्यन्यतो जान्वस्थीन्यूर्व्वस्थीनि, बाह्वस्थीनि, प्रबाह्वस्थीनि। पृष्ठा(ष्ठी) वंशः। हनुनक्रं दन्तमाला मध्यतः। शिरस्कपालं दृष्ट्वान्यास्थीन्यधिमुच्यते। यदा पुनः सम्बद्धमरिक्षकरंकमविशीर्ण्णं मनसि करोति। केवलं निमित्तग्राही भवति। न तु तस्यांग प्रत्यंगेषु व्यंजनग्राही। एवं शंकलिकामधिमुच्यते। यदा [त्वनु] व्यंजनग्राही भवति। तदास्थिशंकलिकामधिमुच्यते। अपि च द्वे शंकलिके देहशंकलिका, प्रत्यंगशंकलिका च। तत्र देह शंकलिका श्रोणीकटाहमुपादाय। पृष्ठीवंशो यावत्, यत्र शिरस्कपालं प्रतिष्ठितं। प्रत्यंगशंकलिका सम्बद्धानि बाह्वस्थीनि च सम्बद्धानि। तत्र या देहशंकलिका च। तत्र देहशंकलिका श्रोणीकटाहमुपादाय। पृष्ठीवंशो यावत् यत्र शिरस्कपालं प्रतिष्ठितं। प्रत्यंगशंकलिकासम्बद्धानि बाह्वस्थीनि। ऊरुजंघास्थीनि च। तत्र या देहशंकलिका। सा शंकलिकैवोच्यते। या पुनः प्रत्यंगशंकलिका सा अस्थिशंकलिकेत्युच्यते।

अपि च द्वौ शंकलिकायानिमित्तग्राहौ चित्रकृतायाः पाषाण काष्ठशादकृताया वा। भूतशंकलिकाया वा। अभूतशंकलिकाया वा। निमित्तं मनसिकरोति। तदाशंकलिकामेवाधिमुच्यते नास्थिशंकलिकां। यदा पूनर्भूतशंकलिकाया निमित्तं मनसि करोति। तदास्थिशंकलिकामेवाधिमुच्यते। नास्थिशंकलिकां। (यदा पुनर्भूतशंकलिकाया निमित्तं मनसि करोति। तदास्थिशंकलिकामधिमुच्यते)। स खल्वेष बाह्याया वर्ण्णनिभाया उपादायरूपगतायास्त्रिविधो (।) विपरिणामः। स्वरसविपरिणामः। परकृतस्तदुभयपक्ष्यश्च।

तत्र विनीलकमुपादाय। यावद् व्याध्मातकाः (कात्) स्वरसविपरिणामः। तत्र विखादितकमुपादाय यावद्विक्षिप्तकात्परकृतो विपर(रि)णामः। तत्रास्थिका (वा), शंकलिका वा इत्ययमुभयपक्ष्यो विपरिणाम इति। य एवं यथाभूतं प्रजानाति। बहिर्धा अशुभतामाकारत एवं बहिर्धा अशुभतायाः स्वलक्षणं पर्येषते।

कथमशुभताया[ः] (।) सामान्यलक्षणं पर्येषते। यथा चाध्यात्मं बहिः कायस्याशुभावर्ण्णनिभया अपरिणता यावद्बहिर्धा बहिः कायस्याशुभा वर्ण्णनिभा विपरिणता अध्यात्मिकया अशुभया वर्ण्णनिभा समानधर्मतां तुल्यधर्मतामधिमुच्यते। इयमपि मे शुभा वर्ण्णनिभा एवं धर्मिणीति। येऽपि केचित्सत्त्वा अनया शुभया वर्ण्णनिभया समन्वागतास्तेषामपि साशुभायां एवं धर्मिणी तद्यथेयम्बाह्या॥ एवं सामान्यलक्षणं पर्येषते।

कथं पक्षं पर्येषते। तस्यैवं भवति। यदाह मस्या (अनया) [ऽशुभया] वर्ण्णनिभया एतामशुभमता (तां) यथाभूतमप्रजानन्नध्यात्मं वा बहिर्धा वा शुभायां वर्ण्णनिभायां संरागमुत्पादयामि विपर्यास एव कृष्णपक्षसंगृहीतः। निःसरणधर्मः सदुःखः सविघातः सोपद्रवः सपरिदाहः। अतोनिदाना उत्पद्यन्ते। आयत्यां जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासाः। या पुनरस्यां शुभायाम्वर्ण्णनिभायां। अशुभधर्मतानुगता यथाभूतानुपश्यना शुक्लपक्ष्या[।]एष धर्मः अदुःखः। अविघातः। यावदतो निदाना उपायासा निरुध्यन्ते। तत्र योयं कृष्णपक्षसमयो नाधिवासयितव्यः। प्रहातव्यो विशोधयितव्यः। शुक्लपक्ष्यः पुनरनुत्पन्न उत्पादयितव्यः। उत्पन्नस्य च स्थितिर्वृद्धिर्वैपुल्यता (विपुलता) करणीया। एवं पक्षं पर्येषते।

कथं कालं पर्येषते। तस्यैवं भवति। येयमध्यात्मं [अ]शुभा वर्ण्णनिभा सेयम्वर्त्तमानमध्वानमुपादाय या पुनरियं बहिर्धा अशुभा वर्ण्णनिभा इयमपि वर्तमान (ता)मेवाध्वानमुपादाय। अतीतं पुनरध्वानमुपादाय। शुभा बभूव। सैषा तावदतीतमध्वानमुपादाय शुभा सती तद्यथा मे एतर्हि। वर्तमानमध्वानमुपादाय। एवमानुपूर्व्या एतर्हि वर्तमानमुपादाय अशुभा संवृत्ता, सा मे इयं [अ]शुभा वर्ण्णनिभा वर्त्तमानमध्वानमुपादायाशुभा सती। अनागते [अ]ध्वन्यशुभा न भविष्यतीति। नेदं स्थानं विद्यते। तद्यथैषा बाह्या एव[ं] वर्तमानमध्वानमुपादाय। इति ह्यतीतानागतप्रत्युत्पन्नेष्वध्वसु अयमपि मे काय एवंभावी, एवंभूत, एतां च धर्मतामनतीत इत्येवं कालं समन्वेषते।

कथं युक्तिं समन्वेषते। तस्यैवं भवति। नास्तीति स कश्चिदात्मा वा, सत्त्वो वाध्यात्मं वा, बहिर्धावोपलभ्य[मानः] यः शुभो वा स्यादशुभो वा[।] अपि च रूपमात्रमेतत्कण्डवरमात्रमेतद्यत्रेयं संज्ञा समाज्ञा प्रज्ञप्तिर्व्यवहारः। शुभमिति वा अशुभमिति वा। अपि च-

आयुरूष्माथ विज्ञानं (।) यदा कायं जहत्यमी [।]
अपविद्धस्तदा शेते यथा काष्ठमचेतनं॥

तस्यास्य मृतस्य कालगतस्यानुपूर्व्वेण विपरिणता इमा अवस्थाः प्रज्ञायन्ते। यदुत विनीलकमितिवा यावदस्थिशंकलिकाया वा अयमपि मे कायः। पूर्व्वकर्मक्लेशविद्धः। मातापित्र्यशुचिसंभूत ओदनक(कु)ल्माषोपचितः। येन हेतुना, येन निदानेन इयं तावत्कालिकी शुभा वर्ण्णनिभा। प्रज्ञायते। अन्तःकायः पुनर्नित्यं नित्यकालमध्यात्मं च बहिर्धा चाशुभा एवं संवृतिपरमार्थनिदानतः। अपेक्षायुक्तिं पर्येषते। तस्यैवं भवतीयमशुभता। एवमासेविता भाविता बहुलीकृता कामरागप्रहाणाय सम्वर्तते। कामरागश्च प्रहातव्यः। एवं कार्यकारणयुक्त्या समन्वेषते। तस्यैवं भवत्युक्तं हि भगवता। अशुभा आसेविता भाविता बहुलीकृता कामरागप्रहाणाय सम्वर्त्तत इत्ययं तावन्मे आप्तागमः। प्रत्यात्ममपि मे ज्ञानदर्शनं प्रवर्त्तते। अहमस्मि यथा यथा अशुभतां भावयामि, मनसि करोमि। तथा कामरागपर्यवस्थानं अनुत्पन्नं च नोत्पद्यते। उत्पन्नं च प्रतिविगच्छति। आनुलोमिकोप्येष विधिरस्ति। कथमिदानीम्विपक्षं धर्मं मनसिकुर्व्वतः। तद्विपक्षालम्बनेन क्लेश उत्पद्यते। एवमुपपत्तिसाधनयुक्त्या पर्येषते। तस्यैवं भवति। प्रसिद्धा धर्मता खल्वेषा अचिन्त्यधर्मता। यदशुभा भावना कामरागस्य प्रहाणप्रतिपक्ष इति। सा च चिन्तयितव्या। न विकल्पयितव्या। अधिमोक्तव्या। एवं धर्मतायुक्त्या अशुभताम्पर्येषते। इयं तावदशुभाप्रयुक्तस्य त्रिमुखी षड्वस्तुप्रभेदालम्बना विपश्यना।

कथं मैत्रीप्रयुक्तो विपश्यन्षड्वस्तूनि पर्येषते। मैत्र्यधिपतेयं धर्ममधिपतिं कृत्वा हितसुखाध्याशयगतस्य सर्व्वेषु सुखोपसंहाराधिमोक्षलक्षणा मैत्रीत्येतमर्थप्रतिसम्वेद्यर्थं पर्येषते। स एवमर्थप्रतिसंवेदी पुनर्विचिनोतीत्ययं मित्रपक्षोयममित्रपक्षोयमुदासीनपक्षः। सर्व्व एते पक्षाः परसन्तानपतितत्वाद्वाह्यं वस्त्वित्यधिमुच्यते। मित्रपक्षं वा अध्यात्मममित्रोदासीनपक्षं बहिर्धा एवं च वस्तुनि मैत्रीं समन्वेषते।

स पुनर्विचिनोति। य एते त्रयः पक्षाः अदुःखा सुख(ता)ः। सुखकामास्ते सुखिता भवन्त्विति। तत्रोपकारलक्षणं मित्रं। अपकारलक्षणममित्रं। तदुभयपरीतलक्षणमुदासीनपक्षं (ण उदासीनपक्षः)। ये पुनरेते अदुःखासुखिताः पक्षाः सुखकामास्तेषां त्रिविधा सुखकामता प्रज्ञायते। एके कामसुखमिच्छन्त्येके रूपावचरं सप्रीतिकमेके निष्प्रीतिकं। तत्र ये कामसुखेन विहन्यन्ते। अमित्रं तदुभयविपरीतलक्षणा(णं)तेन कामसुखिनो भवन्त्वनवद्येन [।]एवं सप्रीतिकेन निष्प्रीतिकेन च सुखेन वेदितव्यम्। एवं स्वलक्षणतो मैत्रीं समन्वेषते।

स पुनः प्रविचिनोति। यश्च मित्रपक्षो, यश्चामित्रपक्षो, यश्चोदासीनपक्षः। तुल्यचित्तता तु मया करणीयेति। समचित्तता। तत्कस्य हेतोः। यस्तावन्मित्र [पक्ष]स्तत्र मे न दुष्करः। सुखोपसंहारः। योप्ययमुदासीनपक्षः। तत्रापि ये (मे) नातिदुष्करः। यस्त्वयममित्रपक्षः। (तत्रायममित्रपक्षः।) तत्रातिदुष्करः। तत्र तावन्मया सुखोपसंहारः करणीयः। कः पुनर्व्वादः। मित्रपक्षे वोदासीनपक्षे वा। तत्कस्य हेतोः। नात्र कश्चिद्यः आक्रोशते वा, आक्रुश्यते वा। रोषयति वा, रोष्यते वा। भण्डयति वा, भण्ड्यते वा। ताडयति वा, ताड्यते वा। अन्यत्राक्षराण्येतानि रवन्ति। शब्दमात्र [ं] माषमात्रमेतदपि च तथा संभूतोयं कायो रूपी औदारिकश्चातुर्महाभूतिको यत्र मे स्थितस्येमे एवं रूपाः स्पर्शाः क्रामन्ति। यदुत शब्दसंस्पर्शा वा। पाणिलोष्ठदण्डशस्त्रसंस्पर्शा वा अय[ं]मे कायः। अनित्य, एतेपि स्पर्शा ये ते अपकारकास्तेप्यनित्याः। अपि च। सर्व्व एव सत्त्वा जातिजराव्याधिमरणधर्माणस्ते प्रकृत्यैव दुःखिता स्तन् मे प्रतिरूपं स्यात्। यद्यहं प्रकृतिदुःखितेषु सत्त्वेषु भूयो दुःखोपसंहारमेव कुर्यां, न सुखोपसंहारं तदमित्रो (त्रं) मित्रस्य कुर्याद्यदेते सत्त्वा आत्मनैवात्मनः कुर्व्वन्ति।

अपि चोक्तं भगवता। नाहं तं सुलभरूपं समनुपश्यामि। योनेन दीर्घस्याध्वनोत्ययान्माता वा भू[त्] पिता वा, भ्राता वा, भगिनी वा, आचार्यो वा, उपाध्यायो वा, गुरुर्व्वा, गुरुस्थानीयो वेति। तदनेनापि पर्यायेणामित्रपक्ष एव[ं] मे [अ]मित्रपक्षः। न चात्र कस्यचित् परिनिष्पत्तिः, मित्राभित्रभावो, मित्रोपि (त्रमपि) च कालान्तरेणामित्रो (त्रं) भवति। अमित्रो (त्रम)पि मित्रीभवति। तस्मान्न सर्व्वसत्त्वेषु समचित्तता। समतादृष्टिः करणीया। तुल्यश्च हिताशयः, सुखाध्याशयः, सुखोपसंहारः। सुखोपसंहाराधिमोक्ष इति। एवं सामान्यलक्षणेन मैत्रीं समन्वेषते।

स पुनः प्रविचिनोति। यो मे पापकारिषु सत्त्वेषु व्यापादः मरण एष धर्म इति विस्तरेण पूर्व्ववत्। यो वा पुनरयमेतर्ह्यव्यापादः अ (म)रण एष धर्म इति विस्तरेण पूर्व्ववत्। यो वा पुनरयमेतर्ह्यव्यापादः एवं मैत्र्या (ः)कृष्णशुक्लशुक्लपक्षं पर्येषते।

स पुनः प्रविचिनोति। ये तावदतीतमध्वानमुपादाय सुखकामाः सत्त्वाः ते अतीताः, तेषां किं पुनः सुखोपसंहारं करिष्यामः। ये पुनर्वर्त्तमानाः सत्त्वास्ते वर्त्तमानमध्वानमुपादाय। यावदनागतादध्वनो नित्यकालं सुखिनो भवन्ति (न्ती) त्येवं मैत्र्या(ः)कालं पर्येषते।

स पुनः प्रविचिनोति। नास्ति कश्चिदात्मा वा, सत्त्वो वा य एष सुखकामो वा स्यात्। यस्य वा सुखमुपसंह्रियते। अपि तु स्कन्धमात्रमेतत् संस्कारमात्रकमेतद्यत्रैषा संज्ञा संज्ञप्तिर्व्यवहारः। ते पुनः संस्काराः कर्मक्लेशहेतुका इत्येवमपेक्षायुक्त्या मैत्रीम्पर्येषते। प्रसिद्धधर्मता खल्वेषा[अ]चिन्त्यधर्मता यन्मैत्रीव्यापादभावना प्रहाणाय सम्वर्त्तत इत्येवं धर्मतायुक्त्या मैत्रीम्पर्येषते।

तत्र कथमिदं प्रत्ययता प्रतीत्यसमुत्पादालम्बना विपश्यनाप्रयुक्तार्थं पर्येषते। तदधिपतेयं धर्ममधिमतिं कृत्वा तेषां तेषां धर्माणामुत्पादात्ते ते धर्मा उत्पद्यन्ते, तेषां तेषां धर्माणां निरोधात्ते ते धर्मा निरुध्यन्ते [।] नास्त्यत्र धर्मी कश्चिदीश्वर, कर्ता स्रष्टा, निर्माता धर्माणां, न प्रकृतिर्न पुरुषान्तरं, प्रवर्त्तको धर्माणामित्येवमर्थप्रतिसंवेदी अर्थं पर्येषते। पुनः पुनः प्रविचिनोति। द्वादशभवांगानि। अध्यात्मबहिर्धा अधिमुच्यते। एवं वस्तु पर्येषते। पुनः प्रविचिनोति। अविद्या यत्त (त्)पूर्व्वान्ते अज्ञानमिति विस्तरेण यथा प्रतीत्यसमुत्पादविभंगे एवं स्वलक्षणं पर्येषते [।] पुनः (॥) प्रविचिनोति। एवं प्रतीत्यसमुत्पन्नाः संस्काराः सर्व्व एते अभूत्वा भावाद्, भूत्वा च प्रतिविगमात्पूर्व्वापर्येणानित्या जातिजराव्याधिमरणधर्मकत्वात्। दुःखा अस्वतन्त्रत्वादन्तः पुरुषानुपलम्भाच्च शून्या अनात्मानश्च॥ एषां च सामान्यलक्षणं पर्येषते। स पुनः प्रविचिनोति। यो (य)एष्वनित्येषु दुःखशून्यानात्मकेषु संस्कारेषु यथाभूतं प्रतिसम्मोहः। मरण एष धर्मः कृष्णपक्ष्य [ः।] असम्मोहः। पुनः शुक्लपक्ष इति विस्तरेण [।]एम्पक्षं समन्वेषते।

स पुनः प्रविचिनोति। अस्ति कर्मास्ति विपाकः। कारकस्तु नोपलभ्यते। यः कर्त्ता वा प्रतिसंवेदको वा स्यान्नान्यत्र धर्मसंकेतात्। तेष्वेवाविद्याप्रत्ययेषु संस्कारेषु यावज्जातिप्रत्यये जरामरणे संज्ञा प्रज्ञप्तिर्व्यवहारः कारको वेदक इत्येवं नामा, एवं जात्य, एवं गोत्र, एवमाहार, एवं सुखदुःख प्रतिसंवेदी, एवं दीर्घायुरेवंचिरस्थितिक, एवमायुः पर्यन्त इति।

अपि च द्विविधमेतत्फलं। द्विविधो हेतुरात्मभावफलं च, विषयोपभोगफलं च। आक्षेपकश्च हेतुरभिनिर्व्वर्त्तकश्च [।]तत्रात्मभावफलं यदेतद्विपाकजं षडायतनं विषयोपभोगफलं यो (या) इष्टानिष्टकर्माधिपतेया षट्स्पर्शसंभवा वेदना [।]

तत्राक्षेपको हेतुर्द्विविधे फले सम्मोहासम्मोहपूर्व्वकाश्च पुण्यापुण्यानिंज्याः, संस्कारपरिगृहीतं च (।) पुनर्भवविज्ञानांकुरप्रादुर्भावाय तद्बीजं, विज्ञानपरिगृहीतं पौनर्भविकनामरूपबीजं षडायतनबीजं स्पर्शवेदनाबीजमिति। य एवमायत्यां जातिसंज्ञकानां विज्ञा[न]नामरूपषडायतनस्पर्शवेदनानामुत्पत्तये। आनुपूर्व्या पूर्व्वंमेव बीजपरिग्रहः। अयमाक्षेप[को]हेतुः।

यत्पुनरविद्यासंस्पर्शजांवेदना वेदयमानस्तदालम्बनया तृष्णया पौनर्भविकीं तॄष्णामुत्पादयति। तृष्णापक्ष्यं मोहपक्ष्यं चोपादानं। परिगृह्णाति। यद्बलेन यत्सांमुख्येन तत्कर्म विपाकदानदान समर्थं भवत्ययमभिनिर्वृत्तिहेतुः। इमं च द्विविधं हेतुमधिपतिं कृत्वा एवं अस्य त्रिविधः दुःखतानुपक्षस्य केवलस्यास्य दुःखस्कन्धस्य समुदयो भवतीति। एवमपेक्षायुक्तिं पर्येषते।

इदं प्रत्ययता प्रतीत्यसमुत्पादः। आसेवितो भावितो मोहप्रहाणाय सम्वर्तते। आप्तागमोप्येष प्रत्यात्मिक आनुमानिकोप्येष विधिः। प्रसिद्धधर्मताप्येष ते (षेति) एवं कार्यकारणयुक्तिमुपपत्तिसाधनयुक्तिं धर्मतायुक्तिञ्च पर्येषते॥

तत्र कथं धातुप्रभेदालम्बनविपश्यनाप्रयुक्तमर्थं पश्यन पर्येषते। गोत्रार्थो, धात्वर्थः, संज्ञार्थो, हेत्वर्थः। प्रकृत्यर्थ इत्येवमर्थप्रतिसम्वेदी अर्थं पर्येषते। पृथिव्यादीन्षड्धातून्न (न)ध्यात्मबहिर्धाधिमुच्यमानो वस्तु पर्येषते। खरलक्षणा पृथिवी। यावत्समुदीरणलक्षणो वायुः विजाननलक्षणं विज्ञानं। सौषिर्यलक्षणा[ऽ]रूपगतास्फुटालक्षणश्चाकाशधातुरित्येवं स्वलक्षणं पर्येषते। सर्व्व एते धातवः। अनित्यतया समसमाः। यावन्निरात्मतयेत्येवं सामान्यलक्षणं पर्येषते। इति यः पिण्डसंज्ञिनो धातुनानात्वं अजानानस्या[ने]न कायेन नानाधातुकेन उन्नतिर्मन्य (न्वा) ना मरण एष धर्मः कृष्णपक्ष्यः विपर्ययाच्छुक्लपक्ष्य इत्येव [ं] पक्षं पर्येषते।

अतीतानागतप्रत्युत्पन्नेष्वध्वसु षड्धातून्प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति। एवं कालं पर्येषते।

तद्यथा तृणं वाप्रतीत्य, काष्ठम्वा चाकाशं परिवारितमगारो[अ]गार इति संख्यां गच्छत्येवमेव षड्धातूनुपादाय। अस्थि च प्रतीत्य स्नायु[श्] च। त्वङ्मान्स(मांस) शोणितं चाकाशे परिवारिते संज्ञा प्रज्ञप्तिर्व्यवहारो भवति। कायः काय इति। पौराणाश्च कर्मक्लेशाः स्वबीजं चैषां निदानमित्येवमपेक्षायुक्तिम्पर्येषते। धातुप्रभेद आसेवितो भावितो (तः)स्त्या नप्रहाणाय सम्वर्तते। आप्तागमोप्येष प्रत्यात्मज्ञानमनुमानिकोप्येष विधिः प्रसिद्धधर्मताऽचिन्त्यधर्मतेत्येवं कार्यकारणयुक्तिमुपपत्तिसानयुक्तिं धर्मतायुक्तिं च पर्येषते॥

कथमानापानस्मृत्यालम्बननिचयप्रयुक्तार्थं पर्येषते। आश्वासप्रश्वासालम्बनोपनिबद्धा चित्तस्यासंप्रमोषोभिलपनता। आनापानस्मृतिरित्येवं पर्येषते। अध्यात्ममुपलभ्यते। आश्वासप्रश्वसाः कायप्रतिबद्धत्वाद्बाह्यायंतनसंगृहीताश्चेत्येवं वस्तु पर्येषते। द्वावाश्वासौ यश्च वायुः प्रविशति। य (स) आश्वासो[यश्च]निष्क्रामति। स नि[ः]श्वासः [।] अमी दीर्घा आश्वासप्रश्वासा, अमी ह्रस्वा इमान्सर्व्वकायेन प्रतिसंवेदयामि। इमान्नि(नि)त्येवं स्वलक्षणं पर्येषते। निरुद्धे आश्वासेप्रश्वास उत्पद्यते। निरुद्धे आश्वासे (प्रश्वासे) आश्वासः। आश्वासप्रश्वासप्रवृद्धिप्रतिसम्बद्धं च (॥) जीवितेन्द्रियमयं च कायः सविज्ञानक इत्यनित्या आश्वासप्रश्वासा महाश्रवणेत्येवं (णा इत्येवं) सामान्यलक्षणं पर्येषते। एवमाश्वासप्रश्वासेष्वनुपस्थितस्मृतेः यो वितर्ककृतः संक्षोभश्चेतसः मरण (धर्म) एषधर्मः कृष्णपक्ष्यः। विपर्ययाच्छुक्लपक्ष्य इति। विस्तरेणत्येवं पक्षं पर्येषते।

अतीतानागत प्रत्युत्पन्नेष्वध्वस्वा[श्वासप्र]श्वासप्रतिबद्धः कायः कायचित्त (ः) प्रतिबद्धाश्चाश्वासप्रश्वासा इत्येवं कालं पर्येषते। नान्यत्र कश्चिद्य आश्वसिति प्रश्वसिति वा अस्य चैते आश्वासप्रश्वासाः। अपि तु हेतुसमुत्पन्नेषु, प्रतीत्यसमुत्पन्नेषु संस्कारेष्वियं संज्ञा। प्रज्ञप्तिर्व्यवहारः इत्येवमपेक्षायुक्तिं पर्येषते। आनापानस्मृतिरासेविता भाविता वितर्कोपच्छेदाय संवर्त्तते। आप्तागमो[ऽ]प्येष, प्रत्यात्मज्ञानानुसारिको[ऽ]प्येष विधिः। प्रसिद्धधर्मता[ऽ]चिन्त्य धर्मतेत्येवं कार्यकारणयुक्तिमुपपत्तिसाधनयुक्तिं धर्मतायुक्तिम्पर्येषते।

एवं चरितविशोधनेनालम्बनेन षड्वस्तूनि पर्येष्य, अध्यात्मं चित्तं पुनः पुनः शमयतः (यन्), पुनः पुनरेतदेव यथापर्येषितं। विपश्यनाकारैः पर्येषते।तस्य शमथं निश्रित्य विपश्यना विशुध्यते। विपश्यनां निश्रित्य शमथो वैपुल्यतां(विपुलतां) गच्छति। कौशल्यालम्बने च। क्लेशाविशोधने च या विपश्यना[।]

षड्वस्तुकर्मितां पश्चाद्वक्ष्मामि स्वस्थाने।

तत्र नवविधः शुक्लसंगृहीतः (।) प्रयोगस्तद्विपर्ययेण च नव विधः कृष्णपक्षसंगृहीतो योगिना वेदितव्यः। तद्यथा [अ]नुरूपप्रयोगता, अभ्यस्तप्रयोगता, अविपरीतप्रयोगता। अशिथिलप्रयोगता। कालप्रयोगता। उपलक्षणप्रयोगता। असंतुष्टप्रयोगता। अविधुरप्रयोगता। सम्यक्प्रयोगता च। अनया नवविधया शुक्लपक्षसंगृहीतया त्वरितत्वरितं चित्तं समाधीयते। विशेषाय च समाधेः परैति। यावती चानेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या तां लघु लघ्वेवागन्ता भवत्यधन्धायमानः। कृष्णपक्षसंगृहीताभिर्नवविधाभिः प्रयोगताभिर्न त्वरितत्वरित[ं] चित्तं समाधीयते। नापि समाधिविशेषाय परैति। यावती चानेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या। तत्र धन्धायते गमनाय।

कतमानुरूपप्रयोगता (च)। स चेद्रागचरितोऽशुभायां चित्तमुपनिबघ्नाति। द्वेषचरितो मैत्र्यां, यावद्वितर्कचरित आनापानस्मृतौ, समभागचरितः मन्दरजस्कः पुनः यत्रालम्बने प्रियारोहता भवति। तेन प्रयुज्यते। इयमनुरूपप्रयोगता [।]

कतमा अभ्यस्तप्रयोग (प्रयोग)ता। अभ्यासो [ऽ]नेन कृतो भवति यो अन्ततः परीत्तो[ऽ]पि न सर्व्वेण सर्व्वमादिकर्मिक एव भवति। तथा ह्यादिकर्मिकस्यानुरूपे[ऽ]प्यालम्बने न प्रयुक्तस्य निवारणानि नाभीक्ष्णं समुदाचरित(रन्ति)। कायचित्तदौष्ठुल्यं च। येनास्य तत् (च) चित्तं समाधीयते। इयमभ्यस्तप्रयोगता। तत्र कतमा अशिथिलप्रयोगता। सातत्यप्रयोगी भवति। सत्कृत्यप्रयोगी च। स चेत्पुनर्व्युत्तिष्ठते।

समाधेः पिण्डपातहेतोश्च [गु]रुगौरवोपस्थानहेतोर्वा। ग्लानोपस्थानार्थम्वा, सामीचीकर्मणो वा अन्यस्यैवंभागीयस्येतिकरणं यस्यार्थाय स तन्निम्नेन चेतसा तत्प्रवणेन तत्प्रास्तारेण (भारेण) च सर्व्वं करोति। लघुलघ्वेव च कृत्वा, परिप्राप्य, पुनरेव प्रयुज्यते। नियम्य प्रतिसंलयनाय स चेद्भिक्षुभिक्षुण्युपासक क्षत्रियब्राह्मणपर्षद्भिः सार्धं समागच्छति। न चिरं संसर्गेणातिनामयति। मितं च संलपति। न च भाष्यप्रबन्धमुत्थापयति। नान्यत्र व्यपकर्षति। एवं च पुनरारब्धवीर्यो भवति। यन्न्वहमद्यैव प्राप्तव्यमधिगच्छेयं। तत्कस्य हेतोः। बहवो मे प्रत्यया मरणस्य-वातो वा मे कुप्येत, पित्तम्वा, श्लेष्मम्वा(श्लेष्म वा), भुक्तं वा विषम्येत, येन मे विषूचिका काये सन्तिष्ठेत। अहिर्वा मे (मां) दशेत(त्)। वृश्चिको वा शतपदी वा[।] मनुष्यादपि मे भयमित्येतानि स्थानानि नित्यकालस्य न-करोत्यप्रमत्तश्च विहरत्येवं च पुनरप्रमत्तो विहर[ति।]अपि बत जीवेयं सप्ताहं षट् पञ्चचतुस्त्रिद्विरे (द्वये)काहयाममर्धयाममपि मुहूर्तमपि अर्धमुहूर्तमपि [।] अहो बत जीवेयं यावत्पिण्डपातं परिमुञ्जेयं। यावदाश्वसित्वा (स्य)प्रश्वसेयं। यावच्च जीवेयं तावद्योगमनसिकारेण शास्तुः शासने योगमापद्येयं। य इ(दि)यता मया बहुकृत्यं स्याद्यदुत शास्तुः शासने इतीयमशिथिलप्रयोगता।

तत्र कतमा। अविपरीतप्रयोगता। कालेन कालं शमथनिमित्तं प्रग्रहनिमित्तमुपेक्षानिमित्तं भावयति। शमथं च जानाति। शमथनिमित्तं च। शमथकालञ्च [।] विपश्यनां विपश्यनानिमित्तं विपश्यनाकालं, प्रग्रहं प्रग्रहनिमित्तं, प्रग्रहकालं। उपेक्षामुपेक्षानिमित्तमुपेक्षाकालञ्च।

तत्र शमथः नवाकारा चित्तस्थितिः। निर्निमित्तञ्च तच्चित्तं तत्र भवति, निर्विकल्पं, शान्त प्रशान्तं, शमथस्थितं, निष्केवलं, तेनोच्यते शमथ इति। तत्र शमथनिमित्तं द्विविधमालम्बननिमित्तं, निदाननिमित्तञ्च। ज्ञेयवस्तुसभागं प्रतिबिम्बमालम्बननिमित्तं। येनालम्बनेन तच्चित्तं शमयति, शमथपरिभाविते चेतसि उत्तरत्र शमथस्य पारिशुद्धये। यो विपश्यना प्रयोग इदं निदानं (न)निमित्तं [।] शमथकालः कतमः। आह। उद्धते चित्ते ऊर्ध्वम्वाभिशंकिनि शमथस्य कालो भावनायै। तथा विपश्यनापरिभाविते चित्ते इति करणीयव्याक्षेपोपहते शमथकालो भावनायै। तत्र विपश्यना चतुराकारात्रिमुखी षड्वस्तुप्रभेदालम्बनव्यवचारा॥

तत्र विपश्यनानिमित्तं द्विविधमालम्बननिमित्त[ं]निदाननिमित्तञ्च। तत्रालम्बननिमित्तं विपश्यनानिमित्तं [शमथ]पक्ष्यं ज्ञेयवस्तुसभागं प्रतिबिम्बमालम्बननिमित्तं येनालम्बनेन प्रज्ञां व्यवचारयति। तत्र निदाननिमित्तं विपश्यनापरिभाविते चेतसि उत्तरत्र विपश्यनापरिशुद्धये चेतः शमथबिम्बयोगः [।]

तत्र विपश्यनाकालः शमथपरिभाविते चेतसि आदित एव चाज्ञेयवस्तुयथाभूतावबोधाय विपश्यनायाः कालो भावनायै।

तत्र प्रग्रहः कतमः। यान्यतमान्यतमेन प्रसदनीयेनालम्बनेनोद्गृहीतेन चित्तसंहर्षणा संदर्शना समादापना[।] तत्र प्रग्रहनिमित्तं येन च प्रसदनीयेनालम्बनेन निमित्तेन चित्तं प्रगृह्णाति। यस्य वीर्यारम्भः तदानुलोमिकस्तत्र प्रग्रहकालः लीनं चित्तं लीनत्वाभिशंकिनि प्रग्रहस्य कालो भावनायै।

तत्रोपेक्षाकतमा। या आलम्बने असंक्लिष्टचेतसः चित्तसमता शमथविपश्यनापक्षे। प्रस(श)ठस्वरसंवाहिता। कर्मण्यचित्तस्य च कर्मण्यता, चित्तस्यानुप्रदानमनाभोगक्रिया। तत्रोपेक्षानिमित्तं। येन चालम्बनेन चित्तमध्युपेक्षते। या च तस्मिन्नेवालम्बने वीर्योद्रेकाप्रतिकायता। तत्रोपेक्षाकालः शमथविपश्यना पक्षालयौ (लौ)द्धत्यविनिर्मुक्ते चेतसि उपेक्षायाः कालो भावनायै। इयं कालप्रयोगता।

तत्र कतमा उपेक्षा लक्षणा (उपलक्षण) प्रयोगता [।] तान्येव निमित्तानि सुगृहीतानि भवन्ति। सुसंलक्षितानि येषां सूद्गृहीतत्वात्। यदा आकांक्षते। तदा व्युत्तिष्ठते समाधिगोचरं (।)प्रतिबिम्बमुत्सृज्य समाहितभूमिकाप्राकृतालम्बनमनसिकारेण [।] इयमुपलक्षणाप्रयोगता।

तत्र कतमा असंतुष्टप्रयोगता। असंतुष्टो भवति कुशलै-कुशलैर्धमैः। अप्रतिवा (भा)णि(णी) च। प्रहासैरुत्तरं प्रणीततरं स्थानमभिप्रार्थयमानोरुपी बहुलं विहरतीति। नाल्पमात्रकेना (णा)वरमात्रकेना(णा)न्तरा विषादमापद्यते। अत्युत्तरे करणीये। इयमसंतुष्टप्रयोगता।

तत्र कतमा अविधुरप्रयोगता। शिक्षापदसमादानम्वा न खण्डीकरोति, न छि(च्छि)द्रीकरोति। न च शिशुमुदारवर्ण्णं रंजनीयं मातृग्रामं दृष्ट्वा निमित्तग्राही भवत्यनुव्यंजनग्राही, भोजने च समकारी भवति। जागरिकानुयुक्तश्चाल्पार्थोल्पकृत्योल्पव्यासकः। चिरकृतचिरभाषितमनुस्मर्त्ता भवत्यनुस्मारयिता। इत्येवंभागीया धर्मा अविधुरप्रयोगतेत्युच्यते। अनुकूला एते धर्माश्चित्तैकाग्रतायाः। अविदूरा, न च चित्तक्षेपाय सम्वर्त्तन्ते। तेन बहिर्धा व्यासंगाय, नाध्यात्मचित्ता कर्मण्यतायै। इयमुच्यते अविधुरप्रयोगता।

तत्र सम्यक्प्रयोगता कतमा। अधिमुच्याधिमुच्यालम्बनस्य विभावनया सम्यक्प्रयोग इत्युच्यते। स चेदशुभाप्रयुक्तो भवत्यशुभां चाशुभाकारैर्मनसिकरोति। निमित्तमात्रानुसारिण्या विपश्यनया [।] तेन मनसिकारस्तदालम्बनो मुहुर्मुहुर्विभावयितव्यो, मुहुर्मुहुः संमुखीकर्तव्यः।

विभावना पुनः पञ्चविधा अध्यात्मचित्ताभिसंक्षेपतः। अस्मृत्यमनसिकारतः। तदन्यमनसिकारतः। प्रतिपक्षमनसिकारतः। आनिमित्तधातुमनसिकारतश्च। तत्र नवाकारचित्तस्थित्या विपश्यना पूर्व्वंगमया अध्यात्मं चित्ताभिसंक्षेपतः। सर्व्वनिमित्तवैपुल्येन आदितः। अविक्षेपायोप निबध्नतो[ऽ]स्मृत्यमनसिकारतः। समाहितभूमिकादालम्बनालम्बनान्तरं समाहितभूमिकमेव मनसिकुर्व्वतस्तदन्यमनसिकारतः। शुभताप्रतिपक्षेणाशुभांता (भतां) यावद्वितर्कप्रतिपक्षेण आनापानस्मृतिं। रूपप्रतिपक्षेणाकाशधातु[ं] मनसि कुर्व्वतः प्रतिपक्षमनसिकारतः। सर्व्वनिमित्तानाममनसिकारादानिमित्तस्य च धातोर्मनसिकारादानिनिमित्तधातुमनसिकारतः। अपि च। व्याप्य तदालम्बनं विभावनालक्षणं व्यवस्थापितमस्मिंस्त्वर्थे अध्यात्मं निमित्ताभिसंक्षेपतः। अस्मृत्यमनसिकारतश्चाभिप्रेता। तत्रादिकर्मिके(ण) तत्प्रथमकल्पिको (कर्मिकेण) आदित एव चित्तं न कञ्चि(क्वचि) दालम्बने उपनिबन्धितव्यं। अशुभायाम्वा, तदस्मिन्वा, नान्यत्र विक्षेपायैव। कच्चिन्मे चित्तं निर्निमित्तं, निर्व्विकल्पं शान्तं, प्रशान्तमविचलमविकम्प्यमनुत्सुकं, निर्व्यापापारमध्यात्ममभिरमत इति। तथा प्रयुक्त उत्पन्नोत्पन्नेषु सर्व्वबाह्यनिमित्तेषु अस्मृत्यमनसिकारं करोति। इयमस्यास्मृत्यमनसिकारेणालम्बनविभावना[।]

स तत्र योगं कुर्व्वन् प्रतिगृह्णाति, स निर्मिमित्ते चालम्बने सविकल्पमशुभादिके चरति। कथं च पुनश्चरति। निमित्तमात्रानुसारिण्या विपश्यनया पर्येषणाप्रत्यवेक्षणानुचारिण्या [।] न चैकांशेन विपश्यनाप्रयुक्तो भवति। पुनरेव विपश्यनानिमित्तं (।) प्रत्युदावर्त्य तदेवालम्बनं शमथाकारेण मनसि करोति। तेन तदालम्बनं तस्मिन्समये मुक्तं भवति, नोद्गृहीतं। यस्मात्तदालम्बनः शमथो वर्तते। तस्मान्न मुक्तः। यस्मान्न निमित्तीकरोति। न विकल्पयति। तस्मान्नोद्गृहीतमेवमध्यात्ममभिसंक्षेपतः। आलम्बनं विभावयति। तत्र विपश्यनानिमित्तमुद्गृहीतवतः। पुनर्ज्ञेयवस्तुनिमित्तालम्बनं स चेदयमेकांशेनालम्बनमधिमुच्यते। न पुनः पुनर्विभावयेत्। नास्याधिमोक्ष उत्तरोत्तरः। परिशुद्धः, पर्यवदातः। प्रवर्तते। यावज् ज्ञेयवस्तुप्रत्यक्षोपगमाय। यतश्च पुनः पुनरधिमुच्यते। पुनः पुनर्विभावयति। ततोस्योत्तरोत्तरोधिमोक्षः। परिशुद्धतरः, परिशुद्धतमः प्रवर्तते। यावज्ज्ञेयवस्तुप्रत्यक्षोपगमाय। तद्यथा चित्रकरश्चित्रकरान्तेवासी वा तत्प्रथमश्चित्रकर्मणि प्रयुक्तः स्यात्। स आचार्यस्यान्तिकाच्छिक्षापूर्वगमं रूपकमादाय दृष्ट्वा दृष्टवा प्रतिरूपकं करोति। कृत्वा कृत्वा विभावयति, विनाशयति। पुनरेव च करोति। य यथा यथा भङ्क्त्या भङ्क्त्या करोति। तथा तथास्योत्तरं रूपकं परिशुद्धतरं पर्यवदाततरं ख्याति। एवं हि सम्यक्प्रयुक्तः कालान्तरेणाचार्यसमतां गच्छति। तत्प्रतिविशिष्टताम्वा[।]सचेत्पुनरभं(नर्भं?) क्त्या तद्रूपकं तस्यैवोपरिष्टात्पौनःपुन्येन कुर्यात्। न जन्वन्धस्य तद्रूपकपरिशुद्धिं निगच्छेदेवमिहापि नयो वेदितव्यः। तत्र यावदालम्बनमधिमुच्यते। तावद्विभावयति। न त्ववश्यं यावद्विभावयति। तावदधिमुच्यते। परीत्तमधिमुच्यते, परीत्तमेव विभावयति। एवं यावन्महद्गतप्रमाणं। परीत्तं पुनर्विभावयित्वा (भाव्य) कदाचित्परीत्तमेवाधिमुच्यते। कदाचिन्महद्गतमेव। प्रमाणमेवं महद्गते। प्रमाणे वेदितव्यं। तत्र रूपिणां धर्माणां यन्निमित्तं प्रतिबिम्बं, प्रतिभासं(सः) तदौदारिकं निर्माणसदृशमरूपिणाम्वा पुनर्धर्माणां नामसंकेतपूर्व्वकं यथानुभावाधिपतेयं। प्रतिभासमियमुच्यते। सम्यक्प्रयोगता। सैषा नवविधा शुक्लपक्ष्या शमथविपश्यनानुलोमा प्रयोगता वेदितव्या। एवं पर्यायेण नवाकारैव विलोमता। स एष कृष्णशुक्लपक्षव्यवस्थानेनाष्टादशविधप्रयोगो भवतीयमुच्यते एकाग्रता॥

तत्रावरणविशुद्धिः कतमा। आह। चतुर्भिः कारणैरेवं सम्यक्प्रयुक्तो योगी आवरणे स्वञ्चित्तं परिशोधयति। स्वभावपरिज्ञानेन, निदानेनादीनवपरिज्ञानेन, प्रतिपक्षभावनया च।

तत्र कतम आवरणस्वभावः। आह। चत्वार्यावरणानि। परितमना, निवरणं, वितर्कः। आत्मसंप्रग्रहश्चेति। तत्र परितमना या नैष्क्रम्यप्राविवेक्यप्रयुक्तस्य क्लिष्टा उत्कण्ठा, अरतिः। स्पृहणा, दौर्मनस्यमुपायासः। तत्र निवरणं कामच्छन्दादीनि पञ्चनिवरणानि। तत्र वितर्कः कामवितर्कादयः। क्लिष्टा वितर्काः। तत्रात्मसंप्रग्रहो यदणुमात्रेका (णा)वरमात्रेकेन (ण) ज्ञानदर्शनस्पर्शमात्रकेना(णा)त्मानं संप्रगृह्णाति। अहमस्मि लाभी, अन्ये च न तथेति। पूर्ववद्विस्तरेण वेदितव्यमयमावरणस्वभावः।

तत्र परितमना यावत्षण्निदानानि। तद्यथा पूर्वकर्माधिपत्या, व्याधिपरिक्लेशाद्वा आश्रयदौर्बल्यं। अतिप्रयोगः। अर्धप्रयोगः। आदिप्रयोगः। क्लेशप्रचुरता। विवेकानभ्यासश्च निवरणस्य, वितर्काणामात्मसंप्रग्रहस्य निवरणस्थानीये, अवितर्कस्थानीये, स्वात्मसंप्रग्रहस्थानीयेषु धर्मेष्वयोनिशोमनसिकारो बहुलीकारनिवरणवितर्कसंप्रग्रहाणां निदानं यदशुभताममनसि कृत्य शुभतां मनसिकरोत्ययमत्रायोनिशः। एवं मैत्रीं[ं] मनसिकृत्य, प्रहाय नैमित्त (त्ति) [की]मालोकसंज्ञा [ं] मनसिकृत्यान्धकारनिमित्तं शमथममनसिकृत्य, ज्ञातिजानपदामरवितर्कं पौराणक्रीडितहसितरसितपरिचारितं। इयं (दं) प्रत्ययता प्रतीत्यसमुत्पादममनसिकृत्य, त्रैयघ्विकेष्वहमिति वा, ममेति वा, अयोगविहितां संज्ञां मनसि करोत्ययमत्रायोनिशस्त(शः)।

तत्रादीनवः कतमः। अस्मिन्नावरणे सति संविद्यमाने चतुर्विधेप्यनधिगतं नाधिगतात् परिहीयते। योगप्रयोगाद्भ्रश्यते। संक्लिष्टविहारी च भवति, दुःखविहारी च भवत्यात्मा चैतमववदति। परतश्चाववादंलभते। कायस्य च भेदात् परं मरणादपायेषूपपद्यते। अयमत्रादीनवः।

तत्र प्रतिपक्षः कतमः। तत्र परितमना या समासतो[ऽ]नुस्मृतयः। प्रतिपक्षः अनुस्मृतिमनसिकारेणायं चित्तं संहषयित्वा(संहर्ष्य)उत्पन्नां परितमनां प्रतिविनोदयत्यु(त्यनु)त्पन्नां च नोत्पादयति। तत्र यच्च कायदौर्बल्यं, यश्चाप्रतियोगो, यश्चादिप्रयोगः। तत्र वीर्यसमता प्रतिषे(वे)धः। प्रतिपन्नः योर्धप्रयोगः [।] तत्र शुश्रूषा, परिपृच्छा प्रतिपक्षः। या क्लेशप्रचुरता तस्या यथायोगमशुभाद्यालम्बनप्रयोगः। प्रतिपक्षः। यो[ऽ]नभ्यासस्तस्यैवंविधं प्रतिसंख्यानं प्रतिपक्षः। पूर्व्वं मे (मया)विवेकाभ्यासो न कृतो, येन मे एतर्हि विवेकप्रयुक्तस्य परितमना उत्पद्यते [।] स चेदेतर्हि न करिष्याम्यभ्यासः (सं) एवमायति[ः]पुनर्भव एवंरूपो भविष्यति। प्रतिसंख्याय मया अरतिस्त्यक्तव्या। रतिः करणीयेत्येवमिष्टानां निवरणादीनामयोनिशोमनसिकारविपर्यर्येण योनिशोमनसिकारभावना प्रतिपक्षो वेदितव्यः।

तत्र स्वभावं परिज्ञाय आवरणतः, संक्लेशतः, तावच्छमथबाहुल्यं [।] सा खल्वेषा विपश्यना ज्ञेया कृष्णपक्षतः। परिवर्जनीयमेतदिति। निदानपरिवर्जनाच्च पुनरस्य परिवर्जनेति। निदानं पर्येषते। अपरिवर्जनाच्च पुनरस्य परिवर्जनीयस्य को दोष इत्यत आदीनवं पर्येषते। परिवर्जितस्य चायत्यां कथमनुत्पादो भवतीत्यतः प्रतिपक्षं भावयत्येवमनेनावरणेभ्यश्चित्तं परिशोधितं भवति।

स तत्र यावद्देशनाबाहुल्यं विपश्यनानुलोमिकं तावद्विपश्यनाबाहुल्यं, यावद्विवपश्यना बाहुल्यं नान्याद(ऽ)नन्ता वेदितव्या। यदुत एभिरेव त्रिभिर्मुखैः षण्णां वस्तूनामेकैकश्या (स्या अ)नन्ताकारप्रवेशनयेन, यथा च यथा विपश्यना सम्यक्प्रयुक्तस्य पृथुवृद्धिवैपुल्यतां (विपुलतां) गच्छत्यभ्यासपारिशुद्धिबलमधिपतिं कृत्वा, तथा, तथा, शमथपक्षस्यापि कायचित्तप्रश्रब्धिजनकस्य पृथुवृद्धिवैपुल्यता (विपुलता) वेदितव्या। तस्य यथा यथा कायः प्रश्रभ्यते, चित्तं च, तथा तथालम्बनचित्तैकाग्रतायाश्च यदुताश्रय[ं]विवर्द्धयते। यथा चित्तैकाग्रता विवर्धते तथा तथा कायः प्रश्रभ्यते, चित्तं च, इत्येतौ द्वौ धर्मावन्योन्यं निर्वृतावन्योन्यं प्रतिबद्धोयदुत चित्तैकाग्रता, प्रत्यक्षज्ञानोत्पत्तिः।

तत्र कियता अशुभा प्रतिलब्धो(धा) भवति। कियता यावदानापानस्मृतिः प्रतिलब्धा भवतीति। पेयालं अतश्चास्य योगिनः अशुभाप्रयोगस्यासेवनान्वयात् भावनान्वयाद्बहुलीकारान्वयाच्चरतो वा, विहरतो वा, विषयसंमुखीभावे [अ]पि निमित्तप्रत्यवेक्षणयापि प्रकृत्यैवानभिसंस्कारेण बहुतराशुभतासंप्रख्यानं। यथापि तत्सुभावितत्वादशुभायाः कामरागस्थानीयेषु धर्मेषु चित्तं[न] प्रस्कन्दति। न प्रसीदति। नाधिमुच्यते। उपेक्षा संतिष्ठते। निर्व्वित्प्रतिकूलता वेदितव्यं(या)। योगिनानुप्राप्तो (प्तं)मे, अशुभाप्राप्तं मे, भावनाफलमियता अशुभा प्रतिलब्धा भवति। विपर्ययेण [अ]प्रतिलब्धा वेदितव्या। यथा अशुभा एवं मैत्री, इदंप्रत्ययताप्रतीत्यसमुत्पादः। धातुप्रभेदः। आनापानस्मृतिश्च वेदितव्या। तत्रायं विशेषः बहुतरं मैत्रचित्तता ख्याति। न प्रतिघनिमित्तं। व्यापादस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः। बहुतरमनित्यता, दुःखता, नैरात्म्यं ख्याति, न नित्यसुखसत्त्वाय दृष्टिसहगतं सम्मोहनिमित्तं मोहपर्यवस्थानीयेषु धर्मेषु। चित्तं (न)प्रस्कन्दतीति विस्तरः। बहुतरं नानाधातुकता[त] देकधातुकता कायपि(चि)त्तप्रभेदसंज्ञा ख्याति। न त्वेव पि(चि)त्तसंज्ञा, मानपर्यवस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः। बहुतरा अध्यात्ममुपशमसंज्ञा। शमथसंज्ञा। ख्याति। न त्वेव प्रपञ्चसंज्ञा वितर्कपर्यवस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः।

तत्र नियता(तं)शमथश्च विपश्यना चोभे मित्रीभूते समयुगम्वर्त्तेते। येन युगनद्धवाहीमार्ग इत्युच्यते। आह। यो लाभी भवति नवाकारायां चित्तस्थितौ नवमस्याकारस्य यदुत समाहिततायाः [।] स च तं परिनिष्पन्नं। समाधिं निश्रित्य अधिप्रज्ञं धर्मविपश्यनायां प्रयुज्यते। तस्य तस्मिन्समये धर्मान्विपश्यतः [।] स्वरसवाहन एव मार्गो भवत्यनाभोगवाहनः। अनभिसंस्कारेण विपश्यना परिशुद्धा, पर्यवदाता, शमथानुयोग(ता) कल्प(ल्पि)ता परिगृहीता प्रवर्त्तते। यथैव शमथमासते [ते] नोच्यते शमथश्चास्यविपश्यना चोभे मित्रीभूते समयुगम्वर्त्तेते। शमथविपश्यनायुगनद्धवाही च मार्गो भवतीति॥ अनन्तरोद्दानं॥

निमित्तग्राहपर्येष्टिः प्रत्यवेक्षामुखानुगा।
अर्थतस्तु लक्षणौः पच्छैः (पक्षैः) कालैश्च सह युक्तिभिः॥
अनुरूपं तथाभ्यासमाशैथिल्यं विपर्ययः।
(अनुरूपस्तथाभ्यास आ शैथिल्याद् विपर्ययः)
कालोपलक्षणा तुष्टिरवैधुर्यं प्रयोगता॥
सम्यक् प्रयोगता चैव नवाधारा द्विधा मता।
स्वभावतो निदानाच्च तथादीनवदर्शनात्॥
प्रतिभाविता चैव शुद्धिरावरणस्य हि॥

तत्र मनस्कारभावना कतमा[।] आहादिकर्मिकस्तत्प्रथमकर्मिक एवं व्यापिनि लक्षणे व्यवस्थापिते एकाग्रतायामा (आ) वरणविशुद्धेश्च मिथ्याप्रयोगं च वर्जयति। सम्यक्प्रयोगे च शिक्षते। स तत्प्रथमत एकाग्रतां प्रहाणाभिरतिं चाधिगमिष्यामीति चतुर्भिर्मनस्कारैः प्रयुज्यते। कतमैश्चचतुर्भिश्चित्तसन्ता पनीयेन मनस्कारेण, चित्ताभिष्यन्दनीयेन, प्रश्रब्धिजनकेन, ज्ञानदर्शनविशोधकेन च मनस्कारेण [।]

तत्र चित्तसन्तापनो मनस्कारः कतमः [ः] [।] आह। येनायं मनस्कारेण। संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्ययं चित्तसन्तापनो मनस्कारः।

तत्र कतमश्चित्ताभिष्यन्दनो मनस्कारः। येनायं प्रसदनीयेन मनस्कारेण चित्तमभिप्रमोदयत्ययं (।) चित्ताभिष्यन्दनो मनस्कारः।

तत्र कतमः प्रश्रब्धिजनको मनस्कारः। आह। येनायं मनस्कारेण कालेन कालं चित्तं सम्वेजनीयेषु धर्मेषु संवेजयित्वा (संवेज्य) कालेन कालमभिप्रमोदनीयेषु धर्मेषु चित्तमभिप्रमोदयित्वा (मोद्याऽ)ध्यात्मं शमथयति। निर्निमित्तायां। निर्विकल्पकतायामेवं स्थापयत्येकाग्रां स्मृतिं प्रवर्त्तयति येनास्य हेतुना, येन प्रत्ययेन कायचित्तदौष्ठुल्यप्रतिपक्षेण कायचित्तह्लादनकरी कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चोत्पद्यते। अयमुच्यते प्रश्रब्धिजनको मनस्कारः।

तत्र ज्ञानदर्शन विशोधनो मनस्कारः कतमः। येन मनस्कारेण कालेन कालं चित्तेन तथाध्यात्मं संशयमिति (संशमयति) तेन पुनः पुनरभीक्ष्णं अधिप्रज्ञं धर्मविपश्यनायां योगं करोति। यदुत तमेवाध्यात्मं चेतःशमथं निश्रित्य[।]अयमुच्यते ज्ञानदर्शनविशोधनो मनस्कारः।

कतमः कालेन कालं संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्येवमस्य तच्चित्तं तप्तं भवति। सन्तप्तमुद्विग्नं संविग्नं यदुतास्रवस्थानीयेषु च धर्मेषु। सर्वसंवेजनीयानि स्थानानि। कतमानि। आह[।] चत्वारि। तद्यथा आत्मविपत्तिः, परविपत्तिश्च, वर्तमाने समवहिते संमुखीभूते योनिशो मनसिकारान्वयात्सम्वेजनीयं स्थानं भवति। तत्रात्मसम्पत्तिः। परसम्पत्तिश्च। अभ्यतीते क्षणे निरुद्धे विगते विपरिणते योनिशो मनसिकारान्वयात्सम्वेजनीयं स्थानं भवति। स कालेन कालमभिप्रमोदनीयेषु धर्मेषु चित्तमभिप्रमोदयति। तस्याभिप्रमोदयतः। एवमस्य तच्चित्तं स्निग्धं भवत्यार्द्रं च, द्रवञ्चाच्छं च, प्रसन्नं च।

तत्राभिप्रमोदनीयाः धर्माः कतमे॥ आह। त्रिविधा[ः] अ (चत्वारोऽ)भिप्रमोनाधिष्ठानं, रत्नानि, शिक्षापदपारिशुद्धिः। आत्मनि च। विशेषाधिगमसंभावनाजातस्य चेतसो [अ]संकोचः। स एवं रत्नान्यनुसरंश्चित्तमभिप्रमोदयति लाभा मे सुलब्धाः। यस्य मे शास्ता तथागतोर्हन् सम्यक्संबुद्धः। लाभा मे सुलब्धा यो (अ)हं स्वाख्याते धर्मविनये प्रव्रजितः। लाभा मे सुलब्धाः। यस्य मे सब्रह्मचारिणः शीलवन्तो गुणवन्तः पेशलाः। कल्याणधर्माणः। भद्रकं मे मरणं भविष्यति। भद्रिका कालक्रिया, भद्रको[अ]भिसंपरायः। एवं चत्वार्यनुस्मरंश्चित्तमभिप्रमोदयति।

कथं शिक्षापदपारिशुद्धिं शीलपारिशुद्धिं अनुस्मरत(रं)श्चित्तमभिप्रमोदयति। लाभा मे सुलब्धा[ः] सो[अ]हं शास्तरि तथागते [अ]र्हति सम्यक्संबुद्धे, तस्य च स्वाख्याते धर्मविनये, तत्र च सुप्रतिपन्ने श्रावकसंघे, अहमेभिः सब्रह्मचारिभिः शीलसामान्यगतः। शिक्षासामान्यगतो, मैत्रकायवाङ्मनस्कर्मान्तः, दृष्टिसामान्यगतः। साधारणपरिभोगी [।] एवं शिक्षापदपारिशुद्धिं, शीलपारिशुद्धिमनुस्मरन्(रं)श्चित्तमभिप्रमोदयति। यदुत विप्रतिसारपूर्व्वकेण प्रामोद्येन।

तत्र कथमात्मनः अधिगमसंभावनामधिष्ठाय भव्यो [अ]हमस्म्येव [ं]परिशुद्धशीलः। प्रतिबलश्च भाजनभूतश्च। एभिः सब्रह्मचारिभिः शीलसामान्यगतो, दृष्टिसामान्यगतः, सद्भिः सामान्यगतैः (सम्यग्गतैः) सत्पुरुषैः, भव्यो[अ]हमस्म्येवंभूत, एवं प्रतिपन्नो, दृष्ट एव धर्मे अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, आसाक्षात्कृतस्य साक्षात्क्रियायै। इति प्रामोद्यमुत्पादयत्येवमात्मनो[अ]धिगमसंभावनाधिष्ठानेन चित्तमभिप्रमोदयति।

अपि च। यदनेन पूर्व्वेणापरमारब्धवीर्येण विहरता विशेषाधिगमः कृतो भवति। तदनुस्मरन्नुत्तरि च विशेषाधिगममभिश्रद्ध्या[ऽऽद]धं श्चित्तमभिप्रमोदयत्ययमपरः। संवेजनीयेषु धर्मेषु चित्तमभिसंतापयन्नास्रवमास्रवस्थानीयेभ्यो धर्मेभ्यश्चित्तं विमुखी करोति। विगुणी करोति। प्रातिमुख्येनावस्थापयति। विश्लेषयत्यभिप्रमोदनीयेषु धर्मेष्वभिप्रमोदयन्नमिष्यन्दयन्नैष्क्रम्यप्रविवेकजेषु धर्मेषु सस्नेहं चित्तमभिमुखीकरोत्युपश्लेषयति। रमयति। संयोजयत्येवमस्य तच्चित्ते(त्तं) याभ्यां द्वाभ्यां धर्माभ्यां। सर्व्वकृष्णपक्षविमुखं सर्व्वकृष्ण(शुक्ल)पक्षाभिमुखं च प्रवर्त्तते। यदुत संवेगप्रहर्षाभ्यां यतश्चित्तमेवं कृष्णपक्ष विमुखं च। कृत्वा चित्तसन्तापनीयेन मनस्कारेण शुक्लपक्षाभिमुखं कृत्वा, अभिष्यन्दनीयेन मनस्कारेण कालेन कालमध्यात्मं च प्रदधाति। यदुत चेतःशमथेन प्रश्रब्धिजनकेन मनस्कारेण कालेन कालं धर्मान्विचिनोति। प्रविचिनोति। परिवितर्कयति। परिमीमान्स(मांसा)मापद्यते। ज्ञानदर्शनविशोधके(ने)न मनस्कारेण [।] एवमस्य तच्चित्तं कालेन कालं शमथविपश्यनापरिगृहीतं। सर्व्वाकारसर्व्वगुणहेतूपकृतः (तं)तेषां तेषां रात्रिदिवसानामत्ययात्। क्षणलवमुहूर्त्तानां (णां) [।] विशेषाय परैति।

तद्यथा जातरूपरजतं दक्षेण कर्मारेण वा, कर्मा [रा]न्तेवासिना वा कालेन कालं यदा संतापितं च भवति। विगतमलकषाये भावे नाभिष्यन्दितं च भवति। तत्र तत्रालंकारकर्मणा मृदुकर्मण्यतायोगेनाभिमुखीकृतं भवति। तमेनं दक्षः कर्मारो वा, कर्मा[रा]न्तेवासी वा तदुपमेन शिल्पज्ञानेन कर्मान्तवस्तुना यत्रेष्टा[ऽ](म) लंकारविकृतिस्तत्र परिणमयत्येन (व)मेव योगिना यदा तच्चित्तमभिध्यादिमलकषाये विमुखीभावेनोद्वेजितं च भवति। क्लिष्टदौर्मनस्यविमुखीभावेन चाभिप्रमोदितं भवति। तमेनं योगी यत्र यत्र नियोजयति। शमथपक्षे वा विपश्यनापक्षे वा तत्र तत्र सूपश्लिष्टं च भवति। सुलग्नं चाविकलं चाविकम्प्यं च। यथाभिप्रेतार्थसम्पत्तये च परैति।

तत्र कथमादिकर्मिकः तत्प्रथमकर्मिको मनस्कारभावनायां विनियुज्यते। यथायं विनियुज्यमानः प्रतिपद्यमानश्च स्पृशति। तत्प्रथमतः प्रहाणाभिरतिं चित्तस्यैकाग्रतां। इह योगज्ञो योगप्रयुक्ते नादिकर्मि(तमादिकर्मि) कः (कं)। तत्प्रथमत एवमववदते। एहि, त्वं, भद्रमुख, त्रीणि निमित्तोद्ग्राहकानि (णि)कारणानि निश्रित्य यदुत दृष्टम्वा श्रुतम्वा, चिन्तानुमानाधिपतेयं वा। परिकल्पं पञ्च निमित्तान्युद्गृह्णीष्व[।] सम्वेजनीयं, प्रसदनीयमादीनवनिमित्तमालोकनिमित्तं वस्तुरूपणानिमित्तञ्च[।] स चेत्स योगप्रयुक्त आदिकर्मिको रागचरितो भवत्यशुभाविनेयः कथं स पञ्चानां निमित्तानामुद्ग्रहणाया [व]बोध्यते। एवम[व]बोध्यते। एहि, त्वं, भद्रमुख। यं यमेव ग्रामम्वा निगमम्वोपनिश्रित्य विहरसि। स चेदन्यत्र ग्रामे, निगमे वान्यतमं पुरुषम्वा, स्त्रियम्वा आबाधिकं श्रृणोषि। दुःखितम्बाढग्लानं, मृतम्वा कालगतं, पुरुषम्वा स्त्रियम्वा [।] अपि तु तस्य पुरुषस्य वा, स्त्रिया वान्यतमान्यतमं मित्रामात्यज्ञातिसालोहितं, परचक्रकृतम्वा तद्ग्रामपर्यापन्नस्य जनकायस्य भोजनव्यसनमग्निदाहकृतम्वा, उदकापहरणकृतम्वा, कुविहितप्रविणाशकृतम्वा, कुप्रयुक्तकर्मान्तप्रलुज्यनाकृतम्वा, अप्रियदायादाधिगमकृतम्वा, कुलांगार विप्रणाशकृतम्वा [।]नो चेच्छृणोषि। अपितु प्रत्यक्षं पश्यसि। नो वान्यस्मिं (स्मिन्) ग्रामनिगमे, नो च तस्मिन्नेव ग्रामनिगमे, न परेषाम (रैर)पि त्वात्मनैव स्पृष्टो भवसि। शारीरिकाभिर्वेदनाभिर्दुःखाभिस्तीव्राभिरिति विस्तरेण पूर्व्ववत्।

सर्व्वं दृष्ट्वा श्रुत्वा चैवं चित्तं संवेजय। दुःखो बतायं संसारः, कृच्छ्र आत्मभावप्रतिलब्धो यत्रेमा एवं रूपात्ममश्च (रूपा आत्मनश्च)परेषाञ्च विपत्तय उपलभ्यन्ते। यदुतारोग्यविपत्तिरपि, जातिविपत्ति रपि, भोगविपत्तिरपि, व्याधिर्व्याधिधर्मता च। मरणं, मरणधर्मता च। अपि चैकेषां शीलविपत्तिरपि, दृष्टिविपत्तिरपि यतो निदानं सत्त्वा दृष्टे च धर्मे दुःखविहारिणो भवन्ति। सम्पराये च दुर्गतिगामिनः। याश्च सम्पत्तयो दृष्टधर्मसुखविहाराय, अभिसम्पराये च, सुगतिगमनाय ता अप्यनित्या[ः], तासामपि अनित्यता प्रज्ञायते। विपत्तिश्चेत् संमुखीभूता, विमुखीभूता तस्मिन्समये सम्पत्तिः। असंमुखीभूतायामपि विपत्तौ दुर्लभा सम्पत्तिर्विनाशधर्मिणी च, एवं च पुनश्चित्तमुद्वेजयित्वा(ज्य) साधु च, सुष्ठु च, योनिशः प्रदधत्स्व। अनाश्वास्यमेतत्स्थानमविश्वास्यं। यत्संसारे मे संसरतः, अपरिनिर्वृतस्याविमुक्तचेतसः एता विपत्तिसम्पत्तयो, न मे संमुखीभावं, विमुखीभावं च गच्छेयुः। न वा अतोनिदानं मे दुःखमुत्पद्यते (द्‍येत)। तीव्रं, खरं, कटुकमनालापमलभ्यमेतत्स्थानं तस्मादेतत्सर्वार्थमधिपतिं कृत्वा प्रहाणरतिरतेन मे भवितव्यमप्रमत्तेन, एवं बहुलविहारिणो मे अप्येवास्यानर्थस्याक्रिया स्यादित्येवं योनिशः प्रदधत्स्व, एवं त्वं संवेजनीयं निमित्तमुद्गृह्य, पुनः प्रसदनीयं निमित्तमुद्गृह्णीष्व[।] एवं च पुनरुद्गृह्णीष्व[।] आत्मनः शीलानि प्रत्यवेक्षस्व। किं परिशुद्धानि मे शीलान्यपरिशुद्धानि[वा], या (यो) मे स्मृतिसंप्रमोषाद्वा, अनादराद्वा क्लेशप्रचुरतया वा, अव्युत्पन्नतो वास्ति कश्चिच्छिक्षाव्यतिक्रमः। व्यतिक्रान्ते वा, मे (मया)शिक्षा[ं]यथाधर्मं प्रतिकृत्याध्याशयेन च पुनरकरणाय चित्तमुत्पादितं। कश्चि(कच्चि)न्मे कर्तव्यं कृतमकर्त्तव्यञ्च (व्यं वा)। न कृतं समासतः। कच्चिदध्याशयसम्पन्नो[अ]स्मि प्रयोगसम्पन्नश्च। यदुत। शिक्षापदेषु। एवं न ते प्रत्यवेक्षमाणेन। स चेत्परिशुद्धः शीलस्कन्धः, न पुनस्ते चेतना करणीया। कच्चिन्मेविप्रतिसाः र उत्पद्येतापि तु धर्मंतैवेयं। यदेवं विशुद्धशीलस्याविप्रतिसार उत्पद्यते। एवं चाविप्रतिसारिणा न चेतना करणीया, कच्चिन्मे प्रामोद्यं उत्पद्येत। अपि तु धर्मतैवेयं यदविप्रतिसारिणः प्रामोद्यमुत्पद्यते। अनेन तावदेकेन प्रामोद्याधिष्ठानेन द्वयाविप्रतिसारपूर्वकं प्रामोद्यमुत्पादयितव्यः(म्)। उत्पाद्य परेण संप्रहर्षाधिष्ठानेन मानसं संप्रहर्षय। स चेत् पुनर्भवसि पूर्व्वेणापरं परीत्तस्यापि विशेषाधिगमे प्रीतिर्जनयितव्या, भव्योहमस्मि, प्रतिबलः। एवं परिशुद्धशीलो भगवतः शिक्षासु सुप्रतिष्ठितः। दृष्टे धर्मे प्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय। असाक्षात्कृतस्य साक्षात्क्रियायै। अनेनाप्यधिष्ठानेन मानसं संप्रहर्षय॥ स चेत्पुनर्लाभी भवति पूर्व्वेणापरं परचित्तस्यापि विशेषाधिगमस्य[।] स त्वं तमधिपतिं कृत्वा परेषां च परिपूर्ण्णे विशेषाधिगमे यदुत तथागते, तथागतश्रावकेषु वा, आत्मनश्चोत्तरिविशेषाधिगमसंप्रत्ययजातो मानसं संप्रहर्षय इति (।) य एभिराकारैर्मनसस्ते स प्रहर्ष इति। य एभिराकारैः स पूर्व्वप्रमुदितस्यैतर्हि प्रीतिमनस्कतेत्युच्यते।

एवं प्रसदनीयं निमित्तमुद्ग्राहयत्युद्ग्राहयित्वा (ह्य) पुनस्समनुशास्ति। एहि, त्वं, भद्रमुख, संवेजनीयेन निमित्तेन संतापितचित्तः, प्रसदनीयेन चित्तेनाभिष्यन्दितचित्तः प्रहायाभिध्यादौर्मनस्यं (स्ये) लोके बहुलं विहरिष्यसि। यत्र च यत्रालम्बने प्रयोक्ष्यसे॥ शमथपक्षे, विपश्यनापक्षे वा, तत्र तत्रालम्बने चित्तं स्थितं भविष्यति। अध्यात्मं सुसंस्थितं, कायचित्तप्रश्रब्धिचित्तैकाग्रताश्च प्रतिलप्स्यसे [।] एवं कृष्णपक्षविमुखीभूतः शुक्लपक्षाभिमुखीभूतस्य यदुत संवेगाभिष्यन्दनतया सर्व्वं पुनरस्यादीनवनिमित्तमुद्गृह्णीष्व यदुत निमित्तेभ्यो विपक्षेभ्यभ्यश्चोपक्लेशेभ्यश्च [।]

तत्र निमित्तानि रूपनिमित्तादीनि दश, वितर्काः कामवितर्कादयो[ऽ]ष्टौ, उपक्लेशाः कामच्छन्दादयः(।) पञ्च। एवञ्च पुनस्तेष्वादीनवमुद्गृह्णीष्व। इतीमानि निमित्तानि व्यापारकारकानि(णि) चित्तस्य। इतीमे वितर्का औन्मुक्तसंक्षोभकारकाश्चित्तस्य[।] इतीमे उपक्लेशा अनुपशमकारकाश्चित्तस्य। यश्च चित्तस्य व्यापारो निमित्तकृतः। यश्चोन्मुक्तसंक्षोभो वितर्ककृतः। यश्चानु(नू)पक्लेश[उपक्लेश] कृतः दुःखाविहार एष चित्तस्य, तस्मादिमे निमित्तवितर्कोपक्लेशाः दुःखा अनार्या अनर्थोपसंहिताश्चित्तविक्षेपसंक्षोभकरा [ः।] एवमादीनवनिमित्तमुद्गृह्य चित्तैकाग्रतायां चित्तस्थितौ, चित्ताविक्षेपः (पे) षड्भिराकारैर्निमित्तमुद्गृहाण, यदुत निमित्तसंज्ञया निर्निमित्ते वाव्यापारसंज्ञया, निर्विकल्पसंज्ञया, निर्विकल्पे चानौत्सुक्यासंक्षोभसंज्ञया, उपशमसंज्ञया, उपशमे(न) निष्परिदाह नैर्वृत्याशुभसंज्ञया [।] एवं निमित्तमुद्गृह्य पुनरपरं चालोकनिमित्तमुद्गृहाण[।] यदुत प्रदीपाद्वा, अग्निस्कन्धप्रभासाद्वा, सूर्यमण्डलाद्वा, चन्द्रमण्डलाद्वा निमित्तमुद्गृह्य, श्मशानाद्युपसंक्रम्य, विनीलकाद्वा निमित्तमुद्गृहाण। यावदस्थी (स्थि)नाम्वा, अस्थिशंकलिकानाम्वा, नो चेच्छ्मशानादपि तु चित्रकृताद्वा, काष्ठश्मशानकृताद्वा निमित्तमुद्गृहाण, उद्गृह्य शयनासनासनमुपसंक्रम, उपसंक्रम्यारण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, मंचे वा, पीठे वा, तृणसंस्तरके वा निषीद[।] पर्यङ्कमाभुज्य, पादौ प्रक्षाल्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य, निषद्य तत्प्रथमत एकाग्रतायां चित्ताविक्षेपे स्मृत्युपनिबद्धं कुरु, तत्र च षट्संज्ञां (ः) निर्व्विकल्पसंज्ञामुपसंशमसंज्ञां निर्व्यापारसंज्ञामनौत्सुक्यासंक्षोभसंज्ञान्निष्परिदाहनैर्वृत्याशुभसंज्ञां। तत्र च ते विक्षेपाविक्षेपपरिज्ञावधानं प्रत्युपस्थितं भवतु। येन विक्षेपाविक्षेपपरिज्ञावधानेन तथा तथा निमित्तवितर्कोपक्लेशेषु विक्षेपञ्च परिजानीष्व, चित्तैकाग्रता[या]ञ्च षट्संज्ञाभावनानुगतायामविक्षेपं [।] तत्र च विक्षेपाविक्षेपे (पयोः) तथा तथावहितो भव यथा ते एकाग्रतोपनिबद्धा, अध्यात्मं चेतःशमथोपनिबद्धा सर्व्वा चित्तसन्ततिश्चित्तधारा पौर्व्वापर्येण निर्निमित्ता प्रवर्तेत। निर्विकल्पा उपशान्ता[।] स चेत्पुनः संप्रमोषा [त्]स्मृतिसंप्रमोषात्तथा शमथप्राप्ते चेतसि निमित्तवितर्कोपक्लेशानभ्यासदोषादाभासमागच्छन्ति। सुखमादर्शयन्ति। आलम्बनीकुर्व्वन्ति। तेषूत्पन्नोत्पन्नेषु स्मृत्यमनसिकारः कर्तव्यः। यदुत पूर्व्वदृष्टमेवमधिपतिं कृत्वा एवं तदालम्बनम[नु]स्मृत्यमनसिकारेण विभावितं। विश्वस्तमनाभासगतायामवस्थापितं भविष्यति। तच्चैतद्, भद्रमुख, सूक्ष्ममालम्बनं। दुःप्र(दुष्प्र)तिविध्यमस्य ते प्रतिवि(वे)धाय तीव्र[च्]छन्दश्च व्यायामश्च करणीय[ः।]

इदं चालम्बनं सन्धायोक्तं भगवता। जनपदकल्याणी जनपदकल्याणीति भिक्षवो महाजनकायः सन्निपतेत। अथ पुरुष आगच्छेदबालजातीयः। तं कश्चिदेव[ं]वदेदिदं ते भोः, पुरुष, तैलपात्रपूर्ण्णं समतित्तिकमनभिषेक्यमन्तरा च जनकायः सन्निपतेत। सा खलु जनपदकल्याणीम(अ)न्तरा च महासमाजं। परिहर्त्तव्यमयं च ते उत्क्षिप्तासिको वधकपुरुषः पृष्ठतः पृष्ठतः समनुबद्धः। स चेत्त्वमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां निपातयिष्यसि ततस्ते उत्क्षिप्तासिको बधकपुरुष उच्छिन्नमूलं शिरः प्रपातयिष्यति। किं मन्यध्वे भिक्षवः अपि नु स पुरुषः अमनसिकृत्वा तैलपात्रममनसिकृत्वा तैलपात्रममनसिकृत्वा उत्क्षिप्तासिकं बधकपुरुषं जनपदकल्याणी[ं] मनसि कुर्यान्महाजनसमाजम्नो, नो, भदन्त, तत्कस्य हेतोस्तथा हि तेन पुरुषेणो[त्क्षि]प्तासिको वधकपुरुषः पृष्ठतः पृष्ठतः समनुबद्धो दृष्टः। तस्यैवं स्यात् [।] स चेदहमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां पातयिष्यामि। अतो मे उत्क्षिप्तासिको बधकपुरुषः उच्छिन्नमूलं शिरः प्रपातयिष्यति। नान्यत्र स पुरुषः अमनसिकृत्य(त्वा) जनपदकल्याणी[ं] महासमाजम्वा। तदेव तैलपात्रं सर्व्वचेतसा समन्वाहृत्य सम्यगेव परिहरेदेवमेव भिक्षवः। ये केचिच्चत्वारि स्मृत्युपस्थानानि सत्कृत्य भावयन्ति। गुरुकृत्य सर्व्वचेतसा समन्वाहृत्यते मे (त इमे) श्रावका इति [।] तत्र जनपदकल्याणीति काय[च्]छन्दाद्युपक्लेशपर्यवस्थानीयानान्धर्माणामेतदधिवचनं। परमप्रधाना नृत्तगीतवादित इति वितर्कप्रपञ्चसंक्षोभस्थानीयानां धर्माणामेतदधिवचनं। महासमाज इति। रूपनिमित्तादीनां दशानां निमित्तानामेतदधिवचनं। अबालभागीयः पुरुष इति। योगाचारस्याधिवचनं। तैलपात्रमिति। शमथोपनिबद्धस्य चित्तस्य एतदधिवचनं। कायचित्तप्रश्रब्धिस्नेहनार्थेन उत्क्षिप्तासिको बधकपुरुष इतिनिमित्तवितर्कोपक्लेशेषु पूर्वोद्गृहीतस्यादीनस्यैतदधिवचनं [।] सत्कृत्य विहरति। न चैकबिन्दुमपि पृथिव्यां पातयतीति विक्षेपाविक्षेपपरिज्ञानावधानपरिगृहीतस्य शमथमार्गस्यैतदधिवचनं। येनायं सर्व्वो (सर्वां)चित्तसन्ततिं चित्तधारां निर्मिमित्तां निर्विकल्पामुपशान्तां वीर्यबलेन निरन्तरां पौर्व्वापयेण प्रवर्त्तयति। न चैकचित्तमुत्पादयति। निमित्तालम्बनम्वा वितर्कोपक्लेशालम्बनम्वा॥

तमेनमेवं शमथप्रयुक्तमादिकर्मिकं योगी समनुशास्ति। यावत्ते, भद्रमुख, एवं शमथमार्गप्रयुक्तस्य एवमुपायपरिगृहीतं स्मृतिसंप्रजन्यसहगतं साभिरामं चित्तं भवति। तावत्ते शमथमार्ग एव भावयितव्यः। स चेत्पुनरनभ्यासमोषान्न रमते सोपायं च तदालम्ब तस्मान्निर्विकल्पादालम्बनाद् व्युत्थाय सविकल्प आलम्बने स्मृत्युपनिबद्धं कुरुते। यदेव ते पूर्व्वोद्गृहीतमशुभनिमित्तं तदेव मनसि कुरु तत्प्रथमतो निमित्तमात्रानुसारिण्या विपश्यनया यदुत विनीलकम्वा, विपूयकम्वा, यावदस्थिशंकलिकाम्वा॥ तथा प्रयुक्तश्च तत्प्रथमव (त) एकं विनीलकमधिमुच्यस्व, यावदेकामस्थिशंकलिकां यतश्चात्र कृतपरिचयो भवसि। प्रभास्वरश्च तेधिमोक्षः प्रवर्तते। तदालम्बनन्द्वौ तदा द्वौ, त्रीणि, चत्वारि, पंच, दश, विंश, त्रिंशच्चत्वारिंशत्। पञ्चाशद्विनीलकशतंविनीलकसहस्रं, यावत्सर्व्वा दिशो विदिशश्च। प्रमाणाकारेण पूर्व्वा[ं] निरन्तरा[म]धिमुच्यस्व। येषां न स्यादवकाशः अन्ततो दण्डविष्टम्भनकोटीमात्रमपि[।] यथाविनीलकानामेवं यावद स्थिशंकलिकानां सर्व्वमेवमधिमुक्तिमनस्कारं निश्रित्य भूतमनस्कारमवतर, एवं च पुनरवतर, यावन्त्येतानि विनीलकानि मयाधिमुक्तानि यावदस्थिशंकलिका अतो[अ] प्रमाणवराणि मे पूर्व्वान्तभारभ्य, तत्र तत्र भवगतिच्युत्युपपादेषु, मृतस्य कालगतस्य यानि विनीलकानि निर्वृत्तानि, यावदस्थिशंकलिकानिर्वृत्यां। येषां पूर्व्वा कोटिर्न प्रज्ञायते, निवर्तमानानां, ताः स चेत्कश्चित् संहरेत् संहृताश्च न विनश्येयुः, न च पूतीभवेयुः। नास्ति स पृथिवीप्रदेशो यत्र तेषामवकाशः स्यात्। एककल्पिका नामपि, तावद्यावदस्थिशंकलिकानां स चेत्कश्चित्संहारको भवेत्। तासां स्यात् संहृतानां विपुलपार्श्वपर्वतसमा राशिः। यथा पूर्व्वस्यान्तर (पूर्वान्त) मारभ्यैवम परान्तमपि यावत् (।) दुःखस्यान्तं न करिष्याम्येवं हि त्वमभियुक्षि(युंक्ष्व)। मनस्कारं निश्रित्य भूतमनस्कारमवतीर्ण्णो भविष्यसि (भव)। न चैतानि विनीलकानि यावदस्थिशंकलिका [या] विपश्यनाप्रयुक्तेन सकृद्विपश्यितव्या [नि], नान्यत्रैकं विनीलकमधिमुच्य पुनश्चित्तं शमयितव्यं तावच्च तद्विनीकमधिमोक्तव्यः (व्यं) यावत्तस्मेना (स्मिन्ना) लम्बने साभिरामप्रभास्वरं नोपायासेन पर्यवनह्यते। न तावात्कालकरणीयं भवति। तस्मिन् समये अध्यात्मं सा(सं?) शमयितव्यं यथा विनीलकमेवं यावदस्थिशंकलिकैका एवं यावदप्रमाणा अनेनैव नयेन वेदितव्या [ः]। चित्तमध्यात्मं संशमयित्वा (संशम्य) विमोक्तव्यास्ततः सर्व्वपश्चादप्रमाणानि विनीलकान्यप्रमाणा यावदस्थिशंकलिका अध्यात्मं चित्ताभिसंक्षेपेण विभावयत्यनाभासगतायां स्थापयति। न च तानि निमित्तान्युत्सृजति॥ सविकल्पानि नापि च कल्पयति। नान्यत्र तदालम्बनमेव निर्निमित्तं निर्विकल्पमुपशान्तं चित्तमवस्थापयति।

स पुनश्चोपदिश्यते, यत्ते भद्रमुख, पूर्व्वमेवालोकनिमित्तमुद्गृहीतं, तत्त्वं शमथपक्षप्रयोगे [अ]पि मनसि कुरु, विपश्यनापक्षप्रयोगे [अ]पि, आलोकसहगतेन चित्तेन, सप्रभाससहगतेन, प्रभास्वरेणानन्धकारेण शमथविपश्यनां भावय। एवं च ते शमथविपश्यनामार्गे आलोकसंज्ञां भावयतः। स चे दादित एव अविस्पष्टोधिविमोक्षो भविष्यत्यालम्बने सम्य[गा]भासः। स तेन हेतुना, तेन प्रत्ययेन, भावनाभासाद्विशिष्टता भविष्यति। प्रचुराभास (ग)ता च। स चेत्पुनरादित एव विस्पष्टो भविष्यति। प्रचुराभासः। स भूयस्या मात्रया विस्पष्टतरतां प्रचुराभासतरताञ्च गमिष्यति। स त्वमेतत्सम्वेगनिमित्तेन सूद्गृहीतेन, प्रसदनीयनिमित्तेन, शमथनिमित्तेन, विपश्यनानिमित्तेन, लोकनिमित्तेन, सूद्गृहीतेन कालमध्यात्मं चित्तं संशयमयन्कालेन कालं धर्मान्विचिन्वन्ति(चिन्वन्), निमित्तमात्रानुसारिण्या विपश्यनया स्मृत्युपस्थानेष्ववतर। यदुताशुभाप्रयोग मेवाधिपतिं कृत्वा, एवं च पुनर्विचिन्वन् बहिर्धा षट्त्रिंशतो (त्)द्रव्याणि कायात् केशादि प्रसावपर्यन्ता (न्तं) निमित्तमुद्गृह्य अध्यात्ममेतानि सर्व्वाणि अशुचिद्रव्याण्यधिमुच्याध्यात्मंचित्तं संशमय (स्व), इदं ते भविष्यत्यध्यात्मं कायेन कायानुपश्यनायाः यदुतात्मनो[ऽ]न्तः कायमारभ्य, स त्वं पुनरपि बहिर्धा अशुभानिमित्तेनोद्गृहीतेन विनीलकं चाधिमुच्यस्व, यावदस्थि वा शंकलिकाम्वा, परीत्तेन वाधिमोक्षेण, महद्गतेन वा[अ]प्रमाणेन वाधिमुच्याधिमुच्याध्यात्मं चित्तं संशमय, इदं ते भविष्यति। बहिर्धा कायेन कायानुपश्यनाया, यदुत परसान्ततिकं बहिःकायमारभ्य, स त्वं पुनरप्यात्मनः अन्तःकायेऽशुभतापरिभावितेन चेतसाश्चाशुभतापरिभावितेन चेतसा परकाये चान्तर्बहिश्चाशुभतापरिभावितेन चेतसा[ऽ]ऽत्मानं घ्रि(म्रि)यमाणमधिमुच्यस्व, मृतम्वा पुनः श्मशाने [अ]भिनिर्ह्रियमाणमभिनिर्हृतम्वा, श्मशाने च्छोरितं। छोरितम्वा विनीलकावस्थं, विपूयकावस्थं, यावदस्थिशंकालिकावस्थमधिमुच्यस्व, इदं ते भविष्यत्यध्यात्मबहिर्धा काये कायानुपश्यनायाः स [त्]त्वं, पुनरपि चत्वारोऽरूपिणः स्कन्धाः श्रुतचिन्ताधिपतेयेन परिकल्पनिमित्तग्राहेण त्रिषु भागेष्वधिमुच्यस्व शमथपक्ष्ये, विक्षेपपक्ष्ये, विपश्यनापक्ष्ये च। यदाध्यात्मं चित्तमभिसंक्षिपसि तत्र निर्मिमित्तनिर्विकल्पोपशमाकारा निर्व्यापारानुत्सुकासंक्षोभनिःपरिदाह नैर्वृत्यसुखसंज्ञाकारा अविक्षेपालम्बना वेदनादयश्चत्वारो[अ]रूपिणः स्कन्धाः। प्रतिक्षणं प्रतिक्षणमन्यो[ऽ]न्यतया नवनवनिष्पुराणतया प्रवर्तन्त इत्यधिमुच्यस्व, इदं ते भविष्यत्यध्यात्मबहिर्धा वेदनासु, चित्ते, धर्मेषु, धर्मानुपश्यनायाः सत्त्वं। ये पूर्व्वं विषयोपादाना, विषयालम्बना असमाहितभूमिपतिता अभ्यपतिताः क्षीणा, ये चैतर्हि स्मृतिसंप्रमोषाच्चित्तक्षेपे सत्युत्पद्यन्ते निमित्तवितर्कोपक्लेशालम्बनाधिपतेया वेदनादयश्चत्वारो[अ]रूपिणः स्कन्धास्तेषामा(या)पायिकतां तावत्कालिकतामित्वरप्रत्युपस्थायितां, सादीनवतां, सध्रुवतामनाश्वासिकतामपरिमुच्यस्व। इदं ते भविष्यति। बहिर्धा वेदनाचित्तधर्मानुपश्यनायाः सत्त्वं, पुनरपि विपश्यनानिमित्तमुद्गृह्य सनिमित्ते संकल्पे मनस्कारे स्थितः। ये सविकल्पसनिमित्तालम्बनाधिपतेया अध्यात्ममुत्पद्यन्ते। वेदनादयचत्वारो [अ]रूपिणः स्कन्धास्तेषां प्रतिक्षणं नवनवतां निष्पुराणतामन्यो[ऽ]न्यतां पूर्ववदधिमुच्यस्व। इदं ते भविष्यति बहिर्धा वेदनायां, चित्ते, धर्मेषु धर्मानुपश्यनायाः [सत्त्वं]। एवं हि त्वमशुभाप्रयोगमधिपतिं कृत्वा चत्वारि स्मृत्युपस्थानान्यवतीर्ण्णो भविष्यसि। स्मृत्युपस्थाने, प्रयोगे [अ]पि च। ते कालेन कालं शमथविपश्यनायां प्रयोक्तव्यं। स त्वमेवमुपस्थितया स्मृत्या चतुर्षु स्मृत्युपस्थानेषु यं यमेव ग्रामं वा, निगमं बोपनिश्रित्य विहरसि, स त्वं तमेव ग्रामं वा, निगमं वा। तन्नित्येन चित्तेन, तत्प्रवणेन, तत्प्राभो(भा)रेण आलम्बनमालम्बननिमित्तमुत्सृजता पिण्डाय प्रविश। चण्डस्य हस्तिनश्चण्डस्याश्वस्य, चण्डस्य गोश्चण्डस्य कुररस्य, अहिश्वभ्रस्थाणुकण्टकपल्वलप्रपातस्यन्दिकगूथकठल्लपापिके या चर्या शयनासनपरिवर्जना [।] अरक्षितस्ते आत्मा भवति। येषु च ते विषयनिमित्तेष्विन्द्रियाणि प्रेरयितव्यानि तेष्वनाभोगतया असंवृतानीन्द्रियाणि भवन्तु। येषु वा पुनर्निमित्तेष्विन्द्रियाणि प्रेरयितव्यानि। तेषु तेषूपस्थिता स्मृतिः। भवतु, यदुत क्लेशासमुदाचाराय। स त्वमेवं सुरक्षितेन कायेन, सुसंवृतैरिन्द्रियैः, सूपस्थितयास्मृत्या, तद्गतेन मानसेन मात्रया पिण्डपातं परिभुंक्ष्व। मितभागी(णी) च भव, सार्धं गृहस्थप्रव्रजितैर्युक्तका (भा)णी, कालभाणी, आर्जवभाणी। प्रशान्तभाणी। अधर्म्या च ते[त्वया] कथा सर्व्वेण सर्व्वं परिवर्जयितव्या। धर्म्यामपि ते [त्वया] कथा [ं]कथयता न विगृह्य कथा करणीया। तत्कस्य हेतोः [।] विगृह्य कथासंरम्भानुयोगमनुयुक्तस्य पुरुषपुद्गलस्य विहरतः कथाबाहुल्ये चित्तं सन्तिष्ठते। तथा बाहुल्ये सत्यौद्धत्यमौद्धत्ये सत्यव्युपशमः। अव्युपशान्तचित्तस्याराच्चित्तं समाधेर्भवति। न त्वमेवंचारी त्वरितत्वरितमनुत्सृष्टेनालम्बनेन मे [अ]द्यशमथविपश्यनायां यथोद्गृहीतेनैव निमित्तेन प्रतनुकारितयावा, अन्तकारितया च। योगं कुरु, ते (स त्वम्) अग्निमथनप्रयोगेण च सातत्यसत्कृत्यप्रयोगतया प्रततकारी भव, एवं तु पुनश्चितं प्रणिधत्स्व। स चेद्यावदायुर्जम्बूद्वीपे सर्व्वेषां जंबूद्वीपकानां मनुष्याणामभूत्तत्सर्व्वमभिसमस्तं ममैकस्यैतर्हि स्यात्। सो[अ]हं तावदप्रमाणेनायुषा प्रमाणयोगप्रयोगेण च सातत्यसत्कृत्यप्रयोगतया प्रततकारी भवा[मि] [।] एवं च पुनश्चित्तं प्रणिधत्स्व। स चेद्यावदायुर्जबूद्वीपे मनसिकारे शमथविपश्यनायां योगं न रिंचयं(यन्) यदुतास्यैव योगप्रयोगस्य महाफलतां महानुशंसतां च विदित्वा प्रागेवास्मिन् परि(प्रणि)धत्ते [।] आयुषीत्वरे जीविते दूरमपिगत्वा वर्षशति(त)के परिगण्यमानमौन्तिके [।]

एवं हि त्वं यथानुशिष्टः प्रततकारी वात्यन्तकारी च। यस्यार्थे प्रहाणमुपगतस्तस्यार्थस्याबाधको भविष्यसि। तत्प्रथमत[स्त]म्प्र[क्ष्य]सि। मृदुकां कायप्रश्रब्धिं चित्तैकाग्रतां ततश्चोत्तरि विपुला[ऽ]लौकिकलोकोत्तरां सम्पदमारागयिष्यति(सि)।

एवमयमादिकर्मिकस्तत्प्रथमकर्मिकः। अशुभाप्रयुक्तो योगज्ञेनाचार्येण चोद्यमानः सम्यग(क्) चोदितो भवत्येवं च प्रतिपद्यमानः। सम्यक्प्रतिपन्नो भवति। यथा[अ] शुभाविनेयो[अ]शुभायां, तथा मैत्र्यविनेयादयो[अ]पि आनापानस्मृतिपर्यवसानाय यथायोगं वेदितव्यास्तत्रायं विशेषः। तदन्येष्ववतरणमुखेषु तं विभावयिष्यामि। तत्र मैत्रीभावनाप्रयुक्तेनादिकर्मिका(ण)बहिर्धा मित्रपक्षादुदासीनपक्षाच्च निमित्तमुद्गृह्य प्रतिरूपशयनासनगतो हि सुखाध्याशयगतेन मनस्कारेण समाहितभूमिकेन पूर्व्वमेकं मित्रमधिमोक्तव्यमेकममित्रमेकमु(क उ) दासी नं (नः), तेषु च त्रि[षु]पक्षेषु तुल्यं हितसुखाध्याशयगतेन मनस्कारेणोपसंहारश्च करणीयः। सुखिता भवन्त्येते सुखकायाः सत्त्वा यदुतानवद्यकामसुखेन, अनवद्यसप्रीतिकसुखेन, अनवद्यनिष्प्रीतिकसुखेन। ततः पश्चाद् द्वे मित्राणि, त्रीणि, चत्वारि, पञ्च, दश, विंश, त्रिंशत्पूर्व्ववद्यावत्सर्व्वा दिशो विदिशश्च मित्रामित्र (त्रैः) पूर्ण्णा अधिमुच्यन्ते। निरन्तरा यत्र नास्त्यन्तरमन्ततो दण्डकोटीविष्कम्भनमात्रमपि यथा मित्रपक्षेणैवममित्रोदासीनपक्षेण वेदितव्यं। स च मैत्रीप्रयोगं च न जहाति। नान्यत्र भावयन्नेव मैत्रीं स्मृत्युपस्थानेष्ववतरति। कथं पुनरवतरत्यधिमुच्यमानो [अ]वतरति। यथाहमप्यन्येषां मित्रसम्मतो [अ]मित्रसम्मतश्चोदासीनसम्मतश्च[।]अहमपि सुखकामो दुःखप्रतिकूलः। इदमस्याध्यात्मं काये कायानुपश्यनायाः [सत्त्वम्]। एते[अ]पि सत्त्वाः परेषां मित्रभूता, अमित्रभूता, उदासीनभूताश्च, यथा मे ते [अ]पि सुखकामाः दुःखप्रतिकूला इदमस्य बहिर्धा कायानुपश्यनायाः [सत्त्वं], यथाहं तथैते सत्त्वा, यथा मे आत्मनः सुखमेषणीयं सत्त्वानामात्मसमतयात्मतुल्यत या एषां सत्त्वानां मयाभिहितसुखोपसंहारकरणाय इतीदमस्याध्यात्मबहिर्धा काये कायानुपश्यनायाः [सत्त्वम्]। चत्वारि चैतानि स्मृत्युपस्थानानि, संभिन्नस्कन्धालम्बनतया संभिन्नालम्बनं स्मृत्युपस्थानं भवति। रूपनिमित्तन्तु योगी उद्गृह्य वर्ण्णसंस्थाननिमित्तं, विज्ञप्तिनिमित्तं च मित्रा[ऽ]मित्रोदासीनपक्षाद्(क्षेभ्यो)[ऽ]धिमुच्यते। तेनेदं कायस्मृत्युपस्थानमेव व्यावस्थाप्यते। सोधिमुक्तिमनस्कारं निश्रित्य, भूतमनस्कारमस्यावतरत्येवं च पुनरधिमुच्यमानो [अ]वतरति। यावदप्रमाणाः सत्त्वा एते मया (अ)धिमुक्ता। हितसुखगतेनाध्याशयेन। अतो [अ]प्रमाणतराः सत्त्वा ये ममपूर्व्वान्तमारभ्य मित्रा[ऽ]मित्रोदासीनपक्षतया [अ]भ्यतीता ये मम मित्रतां गत्वा अमित्रतामुपगता, अमित्रतां गत्वा मित्रतां चोदासीनतां तोप(चोप)गतास्तदनेन पर्यायेण सर्व एव सत्त्वास्समसमा, नास्त्यत्र काचिन्मित्रता वा, अमित्रता वोदासीनता वा, परिनिष्पन्नेत्यनेनैव पर्यायेण तुल्यहितसुखोपसंहारता च करणीया। यथा पूर्व्वान्तमारभ्य एवमपरान्तमप्यारम्य, सत्यां संसृतौ संसारे येपि च मया सत्त्वाः पूर्व्वान्तमारभ्य तन्मैत्रेण चित्तेनानुकम्पिताः। किं चापि ते [अ]भ्यतीता अपितु तानेतर्ह्यनुकम्पे यदुत चित्तनिष्कालुष्य(कलुष)तामव्यापन्नतामुपादाय। सुखिता बत ते सत्त्वा, भूता भविष्यन्(अभूवन्), ये, [अ]पि च न भूता अनागते [अ]ध्वनि सुखिता भवन्तु। एवं भूतमनस्कारानुप्रतिष्ठस्य मैत्रीविहारिणः यः पुण्याभिष्यन्दः कुशलाभिष्यन्दः। तस्याधिमोक्षिकमैत्रीविहारगतः पुण्यस्कन्धः। शतिमामपि कलां नौपेति। सहस्रिमामपि। संख्यामपि, कलामपि। गणनामप्युपनिषदमपि नोपैति [।] शेषं पूर्व्वत्॥

तत्रेदंप्रत्ययताप्रतीत्यसमुत्पाद आदिकर्मिकः श्रुतचिन्ताधिपतेयेन परिकल्पितं न निमित्तमुद्गृह्णात्यन्येषां सत्त्वानामज्ञानं। सम्मोहो येनेमे प्रत्यक्षमनित्यं नित्यतो [अ]वगच्छन्ति प्रत्यक्षमशुचि शुचितः, दुःखं सुखतः, निरात्मकतामात्मतः। विपर्यस्ता एते सत्त्वा विपर्यास हेतोर्दृष्टे धर्मे, वेदनासु सम्पराये चात्मभावाभिर्निवृत्तौ, तृष्यन्ति, तृषिताश्च जातिमूलकानि कर्माणि कृत्वा एवमायत्यां कर्मक्लेशहेतु [............] केवलं संदुःखमभिनिर्व्वर्तयन्त्येवं निमित्तमुद्गृह्याध्यात्ममधिमुच्यते। अयमपि केवलो दुःखस्कन्ध एवमेव संभूत इति। ये चात्मभावा नानन्ता[ः] पर्यन्ताः पूर्व्वान्तमारभ्य येषामादिरेव न प्रज्ञायते। तेऽप्येवंभूता, एषामपि सत्त्वानामतीतानागतप्रत्युत्पन्नाः सर्व्व एवात्मभावा दुःखस्कन्धसंगृहीता एवमेवाभिनिर्वृत्ताः। आयत्यां नोत्पद्यन्ते। स खल्वयमियं(दं)प्रत्ययताप्रतीत्यसमुत्पादमनस्कारः सर्व्वभूतमनस्कार एव नास्त्याधिमोक्षिकः। यदि न पुनरात्मनो वर्तमानान् स्कन्धान् प्रतीत्यसमुत्पन्नान् मनसिकरोति। तदाध्यात्मं काये यावद्धर्मेषु धर्मानुदर्शी विहरति। यदा च पुनः परेषां वर्तमानान्स्कन्धान् प्रतीत्यसमुत्पन्नान्मनसि करोति। तदाध्यात्मबहिर्धा काये यावद्धर्मेषु धर्मानुदर्शी विहरति। यदात्मनश्च परेषां चातीतानागतान् [स्कन्धान्] प्रतीत्यसमुत्पन्नान्मनसि करोति। तदाध्यात्मबहिर्धा काये यावद्धर्मेषु धर्मानुदर्शी विहरति। शेषं पूर्व्वत्।

तत्र धातुप्रभेदप्रयोगप्रयुक्त आदिकर्मिको बहिर्धापृथिवीकाठिन्यनिमित्तमुद्ग्रह्य, तद्यथा भूपर्व्वत तृणवनशर्करकठिल्लमणिमुक्तिवैडूर्यशिलाप्रवालादिकेभ्यश्चाध्यात्मं काठिन्यमधिमुच्यते। बहिर्धा अप्स्वब्धातोर्न्नि(र्नि)मित्तमुद्गृह्य, तद्यथा नदीप्रस्रवणतडागकूपादिभ्य[ः], तथा महतो [अ]ग्निस्क स्क[न्धस्य]ब्धौ वादित्यकिरणसंतापिता भूराविष्टेभ्यो [वा] सर्व्वेभ्यः। उदाराग्निसंप्रतापितेभ्यो वा प्रश्रयेभ्यश्च नो बहिर्धा वायुस्कन्धात्पूर्व्वदक्षिणपश्चिमोत्तरेभ्यो वायुभ्यो यावद्‍वायुमण्डलेभ्यः। ये देशा [अस्त्यादेस्तारणीया] वायुगतेन सच्छिद्राः, सुशिराः, सावकाशाः, तस्मादाकाशधातोर्निमित्तमुद्गृह्णात्यध्यात्ममब्धातुं, तेजो धातुं वायुधातुमाकाशधातुमधिमुच्यति(ते)। श्रुतचिन्ताधिपतेयेन च परिकल्पितेन [।] एवं विज्ञानधातोर्निमित्तमुद्गृह्णाति। चक्षुराध्यात्मिकमायतनमपरिभिन्नं चेद् भवति। रूपमाभासगतं। न च तज्जो मनस्कारः प्रत्युपस्थितो भवति। न तज्जस्य चक्षुर्विज्ञानस्य प्रादुर्भावो भवति। विपर्ययाद्भवति। एवं यावन्मनोधर्मान्मनोविज्ञानं वेदितव्यम्।

एवं निमित्तमुद्गृह्याप्येषां सर्व्वेषां विज्ञानानामस्मिन् काये चातुर्महाभूतिके बीजं धातुर्गोत्रं प्रकृतिरित्यधिमुच्यते। तान्येतानि चत्वारि महाभूतानि तत्प्रथमतो [अ]ङ्गप्रत्यंगो(गतो) [अ]र्थं विनाप्यधिमुच्यते [।] ततः पश्चात्। सूक्ष्मतरावयव प्रभेदानाधिमुच्यते। एवं यावद्गतायनप्रविष्ट[स्]तु[टि]समतया, एवं यावच्छनैः शनैः परमाणुशो[अ]धिमुच्यते। स एकैकमंगावयवप्रमाणपरमाणुसञ्चयसन्निविष्टमधिमुच्यते। कः पुनर्व्वादः सर्व्वकायमयं(यम्। अयं)धातुप्रभेदप्रयुक्तस्य चार्थप्रभेदपर्यन्तः रूपिणां ताबद्धातूनामाकाशधातोः पुनः। यत्पुनरस्य तस्मिन् प्रयोगे शमथविपश्यनाभावनायां विक्षेपाविक्षेपपरिज्ञावधानमिदमस्य संप्रजन्यस्य स्मृतिसमतायाश्च[।] यत्पुनः संवेगनिमित्तं, प्रसदनीयं च निमित्तं सूद्गृहीतं भवतीदमस्याभिध्यादौर्मनस्य विनयस्य, तस्यैवमातापिनो विहरतो यावत् (द्) द्वितीयलोके [अ]भिध्यादौर्मनस्यं पूर्व्वमेव सम्यक्प्रयोग [स]मारम्भकाले। सूक्ष्मचित्तप्रश्रब्धिर्दुरुपलभ्या प्रवर्त्तते। या तत्र शमथम्वा भावयतो, विपश्यनाम्वा प्रस्वस्थचित्तता, प्रस्वस्थकायता। चित्तकाय कर्मण्यता। इयमत्र कायचित्तप्रश्रब्धिः। तस्य सैव सूक्ष्मा चित्तैकाग्रता चित्तकायप्रश्रब्धिश्चाभिवर[ं] नी औदारिकां सूपलक्ष्यां चित्तैकाग्रतां कायप्रश्रब्धिमावहति। यदुत हेतुपारं पर्यादानयोगेन, न तस्य, न चिरस्येदानीमौदारिकीचित्तकायप्रश्रब्धिश्चित्तैकाग्रता च। सूपलक्ष्योत्पत्स्यतीति। यावदस्या पूर्व्वनिमित्तं पूर्व निर्गौरवप्रतिभासमुत्पद्यते। न चैतद्वाधलक्षणं। तस्यानन्तरोत्पादाद्यत्प्रहाणरतिविवन्धकारी (रि)णां क्लेशानां पक्ष्यं चित्तं(त्त)दौष्ठुल्यं तत्प्रहीयते। तत्प्रतिपक्षेण च चित्तकर्मण्यता चित्तप्रश्रब्धिरुत्पद्यते। तस्योत्पादात् कायप्रश्रब्ध्युत्पादानुकूलानि वायूर्ध्व[मु]क्तानि महाभूतानि काये [ऽ]वक्रमन्ति। तेषामवक्रमणहेतोर्यत्कायदौष्ठुल्यं तद्विगच्छति। प्रहाणरतिरिव[द क]रक्लेशापक्ष्यकायप्रश्रब्ध्या च तत्प्रतिपक्षिकया सर्व्वकायः पूर्यते। स्यादा[............] ध्याति।

ततः प्रथमोपनिपाते चित्तौष्ठिल्यं (चित्तदौष्ठुल्यं) चित्तसुमनस्कारप्रामोद्यसहगतालम्बनसाभिरामता च। चित्तस्य तस्मिन् समये ख्याति। तस्योर्ध्वं यो [ऽ]सौ तत्प्रथमोपनिपाती प्रश्रब्धिवेगः। स शनैः शनैः परिश्लथतरो भवति। छायेवानुगता प्रश्रब्धिः काये च प्रवर्त्तते। यच्च तदौद्धिल्यं(द्धत्यं) चेतसस्तदप्यवहीयते। प्रशान्ताकारचित्तसालम्बने शमथो यस्तच्च(यस्स)प्रवर्त्तते। तत ऊर्ध्वमयं योगी आदिकर्मिकः समनस्कारो भवति। [स]मनस्कार इति च संख्यां गच्छति। तत्कस्य हेतोः। रूपार्थानुरोधेन समाहितभूमिको मनस्कारः परीत्तस्तप्रथमतः प्रतिलब्धो भवति। तेनोच्यते समनस्कार इति।

तस्यास्य समनस्कारस्यादिकर्मिकस्येमानि लिंगानि भवन्ति। परीत्तमनेन रूपावचरं चित्तं प्रतिलब्धं भवति। परीत्ता कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चित्तैकाग्रता, भव्यो भवति प्रतिबलः। क्लेशविशोधनालम्बनः प्रयोगे[ऽ]स्य, स्तिग्वा(मा)चास्य चित्तसन्ततिः प्रवर्त्तते। शमथोपगूढाच्चरितं तदानेन विशोधितं भवति। स चेद्रंजनीये विषये चरति, न तीव्रं रागपर्यवस्थानमुत्पादयति। अल्पमात्रेकणावरमात्रकेण च। प्रतिपक्षसन्निश्रयेणाभोग मात्रकेणा[ऽ] शक्तो[अ]तिप्रतिविशोद(ध)यितुं। यथा रंजनीये एवं द्वेषणीये, मोहनीये मानस्थानीये, वितर्कस्थानीये वेदितव्यम्। निषण्णस्य चास्य प्रतिसंलयने चित्तं प्रतिदधतस्त्वरितत्वरितं चित्तं प्रश्रभ्यते॥ कायश्च[।]कायदौष्ठुल्यानि च नात्यर्थं बाधन्ते। न चात्यर्थं निवरणसमुदाचारो भवति। न चात्यर्थमुत्कण्ठा रतिपरितमनासहगता[ः] संज्ञामनसिकाराः समुदाचरन्ति। व्युत्थितस्यापि मनस[श्] (व्युत्थितमनसोऽपि) चरतः। प्रश्रब्ध(ब्धि) मात्रा काचिच्चित्ते, काये, (चित्ते) चानुगता भवतीत्येवं भागीयानि [स]मनस्कारस्य [आदिकर्मिकस्य] लिंगानि निमित्तान्यवदातानि वेदितव्यानि॥

॥पिण्डोद्दानम्॥

उपसंक्रमणं या च हर्षणा पृच्छनैषणा।
विनियोगरक्षोपचयः प्राविवेक्यभवैकता॥
आवरणशुद्धयुत्कृष्टेह मनस्कारस्य भावना॥

॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां तृतीयं योगस्थानं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project