Digital Sanskrit Buddhist Canon

द्वितीयं योगस्थानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Dvitīyaṁ yogasthānam
द्वितीयं योगस्थानम्

लौकिकं चैव वैराग्यं तथा लोकोत्तरेण च।
तयोश्चैव हि सम्भारो भूमिर्नैष्क्रम्यसंज्ञिता॥

तत्र कति पुद्गला येस्यां नैष्क्रम्यभूमौ यथादेशितायां यथापरिकीर्त्तितायां निष्क्रामन्ति। कथं च पुद्गलानां व्यवस्थानं भवति। कतमदालम्बनं। कतमोववादः। कतमा शिक्षा। कतमे शिक्षानुलोमिका धर्माः। कतमो योगभ्रंशः। कतमे योगाः [।] कतमो मनस्कारः। कति योगाचाराः। कतमद्योगकरणीयं। कतमा योगभावना[।] कतमद्भावनाफलं। कति पुद्गलपर्यायाः। कति माराः। कति मारकर्माणि। कथमारम्भो विफलो भवति।

तत्र पुद्गलाः अष्टाविंशतिः। कतमे अष्टाविंशतिः। तद्यथा मृद्विन्द्रियः। तीक्ष्णेन्द्रिययः। उन्मदरागः। उन्मेदद्वेषः। उन्मदमोहः। उन्मदमानः। उन्मदवितर्कः। समप्राप्तो, मन्दरजस्कजातीयः। प्रतिपन्नकः[।]फलस्थः। श्रद्धानुसारी। धर्मानुसारी। बुद्धाधिमुक्तो, दृष्टिप्राप्तः। कायसाक्षी। सकृद्भवपरमः। कुलंकुलः[।] एकवीचिकः। अन्तरा(य) परिनिर्व्वायी। उपपद्यपरिनिर्व्वायी। साभिसंस्कारपरिनिर्व्वायी। ऊर्ध्वं(र्ध्व)स्रोता[ः।] समयविमुक्तः। अकोप्यधर्मा (ः) प्रज्ञाधिमुक्तः। उभयतोभागविमुक्तश्चेति।

तत्र मृद्विन्द्रियः पुद्गलः कतमः। यस्य पुद्गलस्य मृदूनीन्द्रियाणि। धन्धवाहीनि। मन्दवाहीनि। ज्ञेये वस्तुनीति पूर्व्ववत्। स पुनर्द्विविधो वेदितव्यः। आदित एव मृद्विन्द्रियगोत्रः। अपरिभाषि(वि)तेन्द्रियश्च।

तीक्ष्णेन्द्रियः पुद्गलः कतमः। यस्य पुद्गलस्येन्द्रियाणि अधन्धवाहीनि भवन्ति। अमन्दवाहीनि। ज्ञेये वस्तुनीति पूर्व्ववत्। स पुनर्द्विविधो वेदितव्यः। आदित एव तीक्ष्णेन्द्रियगोत्रः। परिभावितेन्द्रियश्च॥

रागोन्मदः पुद्गलः कतमः। येन पुद्गलेन पूर्व्वमन्यासु जातिषु राग आसेवितो, भावितो, बहुलीकृतः स तेन हेतुना तेन प्रत्ययैनैतर्हि रंजनीये वस्तुनि तीव्ररागश्च, भवत्यायत(न) रागश्च। अयमुच्यते रागोन्मदः पुद्गलः।

द्वेषोन्मदः पुद्गलः कतमः। येन पुद्गलेन द्वेषः पूर्व्वमन्यासु जातिषु आसेवितो, भावितो, बहुलीकृतः। तेन हेतुना तेन प्रत्ययेनैतर्हि द्वेषणीये वस्तुनि तीव्रद्वेषश्च भवत्यायतद्वेषश्च। अयमुच्यते। द्वेषोन्मदः पुद्गलः।

मोहोन्मदः पुद्गलः कतमः। येन पुद्गलेन पूर्व्वमन्यासु जातिषु मोह आसेवितो, भावितो, बहुलीकृतः। तेन च हेतुना तेन प्रत्ययेन [।]एतर्हि मोहनीये वस्तुनि तीव्रमोहश्च भवत्यायत मोहश्चायमुच्यते मोहोन्मदः पुद्गलः।

मानोन्मदः पुद्गलः कतमः। येन पुद्गलेन पूर्व्वमन्यासु जातिषु मान आसेवितो, भावितो, बहुलीकृतस्तेन हेतुना तेन प्रत्ययेन[।]एतर्हि मन्यनीये(माननीये)वस्तुनि तीव्रमानश्च भवत्यायतमानश्च॥ अयमुच्यते मानोन्मदः पुद्गलः।

वितर्कोन्मदः पुद्गलः कतमः। येन पुद्गलेन पूर्व्वमन्यासु जातिषु वितर्क आसेवितो, भावितो, बहुलीकृतस्तेन च हेतुना तेन च प्रत्ययेन एतर्हि वितर्क स्थानीये वस्तुनि तीव्रवितर्कश्च भवत्यायतवितर्कश्च[।] अयमुच्यते वितर्कोन्मदः। पुद्गलः॥

समप्राप्तः पुद्गलः कतमः। येन पुद्गलेन पूर्व्वमन्यासु जातिषु रागो, द्वेषो, मोहो, मानो, वितर्को नासेवितो, भावितो, बहुलीकृतो, न चैते धर्मा आदीनवतो दृष्टाः। विदूषिताः, सन्तीरिताः [।] स तेन हेतुना, तेन च प्रत्ययेन रंजनीये वा वस्तुनि, द्वेषणीये वा वस्तुनि, मन्यनीये (माननीये), वितर्कणीये [वा वस्तुनि] न तीव्ररागो भवति। नाप्यायतरागः। न चास्य समुदाचरति रागो, यदुत तेन वस्तुना[।] यथा राग एवं द्वेषो, मोहो, मानो, वितर्कः। अयमुच्यते समप्राप्तः पुद्गलः।

मन्दरजस्कः पुद्गलः कतमः। येन पुद्गलेन पूर्व्वमन्यासु जातिषु न राग आसेवितो भवति, बहुलीकृतः। आदीनवतश्च बहुलं दृष्टो भवति। विदूषितः सन्तीरितः। स तेन हेतुना तेन प्रत्ययेनैतर्हि रंजनीये वस्तुनि समवहिते, संमुखीभूते, अधिमात्रे, प्रचुरे, उद्व(उल्व)णे रज्यं रागमुत्पादयति। मध्ये परीत्ते नैवोत्पादयति। यथा राग एवं द्वेषो, मोहो, मानो, वितर्का(र्को), वेदितव्याः(व्यः)। अयमुच्यते मन्दरजस्कः पुद्गलः॥

प्रतिपन्नकः पुद्गलः कतमः [।] आह। प्रतिपन्नकाः पुद्गलाश्चत्वारः। तद्यथा स्रोत आपत्तिफलप्रतिपन्नकः। सकृदागामिफलप्रतिपन्नकः। अनागामिफलप्रतिपन्नकः। अर्हत्त्वफलप्रतिपन्नकः। अयमुच्यते प्रतिपन्नकः पुद्गलः॥

फलस्थ पुद्गलः कतमः। आह। स्त्रोत आपन्नः, सकृदागामी, अनागामी अर्हन्। अयमुच्यते फलस्थः पुद्गलः॥

श्रद्धानुसारी पुद्गलः कतमः। यः पुद्गलः परत अव(तोऽव)वादानुशासनीं पर्येषते। तद्वलेन च प्रतिपद्यते। यदुत फलस्याधिगमाय। नो तूद्गृहीतेषु धर्मेषु। पर्यवाप्तेषु, चिन्तितेषु, तुलितेषूपपरीक्षितेषु स्वयमेवशक्तो भवति। प्रतिबलः। तान् धर्मान् भावनाकारेणानुसर्त्तुं। नान्यत्र पुद्गलानुसारिण्या प्रज्ञया प्रतिपद्यते। तस्माच्छ्रद्धानुसारीत्युच्यते॥

धर्मानुसारी पुद्गलः कतमः। यत्पु(यः पु)द्गलो यथाश्रुतेषु धर्मेषु, पर्यवाप्तेषु, चिन्तितेषु। तुलितेषूपपरीक्षितेषु, स्वयमेव शक्तो भवति। प्रतिबलस्तान्धर्मान्भावनाकारेणानुसर्त्तम्॥ नो तु परतो[ऽ]ववादानुशासनीम्पर्येषते। यदुत फलस्याधिगमायायमुच्यते धर्मानुसारी पुद्गलः।

श्रद्धाधिमुक्तः पुद्गलः कतमः। स श्रद्धानुसारी पुद्गलः। यस्मिन्समये श्रामण्य [भाव]मधिगच्छति। स्पर्शयति(स्पृशति)। साक्षीकरोति। परतोववादानुशासनीमार्गस्य तस्मिन्समये श्रद्धाधिमुक्त इत्युच्यते॥

दृष्टिप्राप्तः पुद्गलः कतमः। आह[।]स एव धर्मानुसारी पुद्गलो यस्मिन् समये श्रामण्यफलमधिगच्छति। स्पर्शयति(स्पृशति)। साक्षीकरोति। परतोववादानुशासनीमार्गस्य तस्मिन्समये दृष्टिप्राप्त इत्युच्यते॥

कायसाक्षी पुद्गलः कतमः[।] योयं पुद्गलः। अनुलोमप्रतिलोममष्टौ विमोक्षान्समापद्यते। व्युत्तिष्ठते च, कायेन च साक्षात्कृत्य [बहुलं] विहरति, न च सर्व्वेण सर्व्वमास्रवक्षयमनुप्राप्नोत्ययमुच्यते कायसाक्षी पुद्गलः॥

सप्तकृद्भवपरमः पुद्गलः कतमः। योयं पुद्गलस्त्रयाणां संयोजनानां प्रहाणात्सत्कायदृष्टेः, शीलव्रतपरामर्शस्य, विचिकित्सायाः स्त्रोत आपन्नो भवति। अविनिपातधर्मा, नियतः संबोधिपरायणः। सप्तकृद्भवपरमः। सप्तकृत्वा देवांश्च, मनुष्यांश्च, संबाध्य, संसृत्य दुःखस्यान्तं करोति। उभावपि स्त्रोत आपन्नौ पुद्गलौ वेदितव्यौ।

तत्रैकवीचिकः पुद्गलः कतमः। यस्य सकृदागामिनः पुद्गलस्य अनागामिफलप्रतिपन्नकस्य कामावचराणां क्लेशानामधिमात्रमध्यदेशाः प्रहीणा भवन्ति। मृदुकाश्चैकावशिष्टा (चैका अवशिष्टा) भवन्ति। सकृच्च कामावचरमेव भवमभिनिर्वृत्य तत्रैव परिनिर्व्वाति। स पुनः सकृदागच्छतीमं लोकमयमुच्यते एकवीचिकः॥

अन्तरापरिनिर्व्वायी पुद्गलः कतमः। आह। अन्तरापरिनिर्व्वायिणः पुद्गलास्त्रयः। एकोन्तरापरिनिर्व्वायी पुद्गलः। च्युतमात्र एवान्तराभवाभिनिर्वृत्तिकाले अन्तराभवमभिनिर्व्वतयत्यभिनिर्वृत्ते[ः]समकालमेव परिनिर्व्वाति। तद्यथा परीत्तः शकलिकाग्निरुत्पन्नैव(न्न एव)परिनिर्व्वाति। द्वितीयोन्तरापरिनिर्व्वायी पुद्गलः। अन्तराभवमभिनिर्व्वर्त्तयत्यभिनिर्वृत्तेः समकाला(कालम)न्तरा भवेत्तत्रस्थ एव कालान्तरेण परिनिर्व्वाति। नो तु येनोपपत्तिभवस्तेनास्याप्युपरतो भवति। तद्यथा अशुभानाम्वा अयःस्थालानाम्वा, दीप्ताग्निसंप्रतप्तानामयोघनैर्हन्यमानानामयःप्रपाटिका उत्पतत्येव(वं)परिनिर्व्वाति। तृतीयोन्तरापरिनिर्व्वायि (यी) पुद्गलः अन्तराभवमभिनिर्व्वर्त्त्य येनोपपत्ति भवस्तेनोपनमति। उपनतश्च पुनरनुपपन्न एव परिनिर्व्वाति। तद्यथा। अयस्प्रपाटिका उत्पत्य पृथिव्याम्। अपतितैवमभिनिर्व्वाति। त इमे त्रयोऽन्तराभवपरिनिर्व्वायिणः पुद्गलाः एकत्यमभि संक्षिप्य अन्तरापरिनिर्व्वायी पुद्गल इत्युच्यते।

उपपद्यपरिनिर्व्वायी पुद्गलः कतमः। य उपपन्नमात्र एव परिनिर्व्वाति॥

अनभिसंस्कारपरिनिर्व्वायी पुद्गलः कतमः। योनभिसंस्कारेणाप्रयत्नेनाखेदेन मार्गं संमुखीकृत्य तत्रोपपन्नः परिनिर्व्वात्ययमुच्यते अनभिसंस्कारपरिनिर्व्वायी पुद्गलः।

साभिसंस्कारपरिनिर्व्वायी पुद्गलः कतमः। योभिसंस्कारेण प्रयत्नेन खेदमार्गं संमुखीकृत्य तत्रोपपन्नः परिनिर्व्वात्ययमुच्यते साभिसंस्कारपरिनिर्व्वायी पुद्गलः॥

ऊर्ध्वस्रोताः पुद्गलः कतमः। यः पुद्गलोनागामी। प्रथमे ध्याने उपपन्नः स न तत्रस्थ एव परिनिर्व्वाति। अपितु तस्माच्च्यवित्वा उत्तरोत्तरमभिनिर्व्वर्त्तयभ्य(न्या) वदकनिष्ठान्वा देवान्गच्छति। नैव संज्ञा। (।) नासंज्ञायतनाद्वा। अयमुच्यते उर्ध्वस्रोताः पुद्गलः।

समयविमुक्तः पुद्गलः कतमः। यो मृद्विन्द्वियगात्रः (गोत्रः) पुद्गलः लौकिकेभ्यो दृष्टधर्मसुखविहारेभ्यः परिहीयते। चेतयति वा मरणाय। अनुरक्षते वा विमुक्तिमत्यर्थप्रमादभयापन्नयुक्तो भवति। यदुत एतामेव परिहाणिमधिपतिं कृत्वा तन्मात्रो वास्य कुशलपक्षो भवति। नो तु तेषां तेषां रात्रिंदिवसानां क्षणलवमुहूर्त्ताना (णा)मत्ययादत्यर्थं विशेषाय परैति। यावन्न तीव्रमभियोगं करोति। अयमुच्यते समयविमुक्तः पुद्गलः॥

अकोप्यधर्मा पुद्गलः कतमः। एतद्विपर्ययेणा[को]प्यधर्मा पुद्गलो वेदितव्यः॥

प्रज्ञाविमुक्तः पुद्गल कतमः। यः पुद्गलः सर्व्वेण सर्व्वमास्रवक्षयमनुप्राप्नोति। नो त्वष्टौ विमोक्षान् कायेन साक्षात्कृत्योपसम्पद्य विहरति। अयमुच्यते प्रज्ञाविमुक्ति (क्तः) पुद्गलः[।]

[उभयतोभागविमुक्तः पुद्गलः] कतमः। यः पुद्गल सर्व्वेण सर्व्वमास्रवक्षयमनु प्राप्नोति। अष्टौ विमोक्षान्कायेनोपसम्पद्य विहरति। तस्य क्लेशावरणाच्च चित्तं मुक्तं भवति। विमोक्षावरणाच्चा[यमुच्य]ते उभयतोभागविमुक्तः पुद्गलः॥

पुद्गलव्यवस्थानं कतमत्। एकादशभिः प्रभेदैः पुद्गलव्यवस्थानं वेदितव्यम्। कतमैरेकादशभिस्तद्यथा इन्द्रियप्रभेदेन, निकायप्रभेदेन, चरितप्रभेदेन [प्रणिधानप्रभेदेन प्रप्रिपत्प्रभेदेन मार्गफल प्रभेदेन] प्रयोगप्रभेदेन। समापत्तिप्रभेदेन उपपत्तिप्रभेदेन परिहाणि प्रभेदेना वरणप्रभेदेन च॥

इन्द्रियप्रभेदेन तावत्। मृद्विन्द्रियस्ती (यती)क्ष्णेन्द्रियपुद्गलयोर्व्यवस्थानं॥

निकायप्रभेदेन सप्तविधपुद्गलव्यवस्थानं। भिक्षु[र्]भिक्षुणी, शिक्षमाणा[श्रामणेरः]श्रामणेरी उपासक उपासिका च॥

तत्र चरितप्रभेदेन सप्तानां पुद्गलानां व्यवस्थानं। योयं रागोन्मदः पुद्गलः स रागचरितः [।] यो द्वेषोन्मदः स द्वेषचरितः। यो मोहोन्मदः स मोहचरितः। यो मानोन्मदः स मानचरितः। यो वितर्कोन्मदः स वितर्कचरितः। यः समप्राप्तः समभागचरितः। यो मन्दरजस्कः सो[मन्दचरितो] वेदितव्यः॥

तत्र रागचरितस्य पुद्गलस्य कतमानि लिंगानि। इह रागचरितः पुद्गलः परीत्ते सर्व्वनिहीने रंजनीये वस्तुनि घनमधिमात्रं रागपर्यवस्थानमुत्पादयति। कः पुनर्वादो मध्यप्रणीते[।] तच्च पुनारागपर्यवस्थानं संतत्या चिरकालमवस्थापयति। दीर्घकालमनुबद्धो भवति (।) तेन पर्यवस्थानेन, रंजनीयैर्धर्मैरभिभूयते। नो तु शक्तो [अ]तिरंजनीयान्धर्मानभिभवितुं[।] स्निग्धेन्द्रियश्च भवत्यखरेन्द्रियः। कर्कशेन्द्रियः, अपरुद्धेन्द्रियः। नात्यर्थं परेषां विहेठनजातीयो यदुत कायेन, वाचा दुर्विवेज्यश्च भवति, दुःसंवेज्यश्च। हीनाधिमुक्तिकश्च भवति। दृढकर्मान्तः। स्थिरकर्मान्तः। दृढव्रतः। स्थिरव्रतः। महिष्ठश्च भवत्युपकरणेषु परिष्कारेषु लोलुपजातीयस्तद्गुरुकश्च, सौमनस्यबहुलश्च भवत्यानन्दीबहुलो विगतभृकुटिरुत्तानमुखवर्ण्णः, स्मितपूर्व्वंगम इत्येवंभागीयानि रागचारितस्य पुद्गलस्य लिंगानि वेदितव्यानि।

द्वेषचरितस्य पुद्गलस्य लिंगानि कतमानि। इह द्वेषचरितः पुद्गलः। द्वेषणीये वस्तुनि परीत्तेन प्रतिघवस्तुनिमित्तेन घनं,प्रभूतं प्रतिघपर्यवस्थानमुत्पादयति। कः पुनर्व्वादो मध्याधिमात्रे(ण) [।]तस्य च प्रतिघपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति। चिरकालमनुबद्धो भवति। प्रतिघपर्यवस्थानेन। स द्वेषणीयैर्धर्मैरभिभूयते। नो तु द्वेषणीयान्धर्मान्छक्नो (ञ्छक्नो)ति अभिभवितुं। रुक्षेन्द्रियश्च भवति। खरेन्द्रियः, कर्कशेन्द्रियः परुषेन्द्रियश्च भवत्यत्यर्थं परेषां विहेठनजातीयो भवति। यदुत कायेन, वाचा। सुविवेन्य(ज्य)श्च भवति। सुसंवेज्यः। ध्वाङ्क्षो भवति मुखरः। प्रगल्भः अनधिमुक्तिबहुलः। न दृढकर्मान्तो, नस्थिरकर्मान्तः। न दृढव्रतो, न स्थिरव्रतः। दौर्मनस्यबहुलश्च भवत्युपायासबहुलः। अक्षमो भवत्यमहिष्ठः। विलोमनजातीयः। अप्रदक्षिणग्राही दुःप्रत्यानेय जातीय उपनाहबहुलः। क्रूराशंसश्चण्डश्च भवत्यादा[यी] प्रत्यक्षरवादी सोऽल्पमात्रमप्युक्तः सन्नभिषज्यते। कुप्यति। व्यापद्यते। मद्गु[ः]प्रतितिष्ठति। कोपं संज[न]यति। [वि]कृतभृकुटिश्च भवति। अनुत्तानमुखवर्ण्ण[ः]परसम्पत्तिद्वेष्टा, ईर्ष्याबहुल इत्येवंभागीयानि [द्वेष] चरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि॥

तत्र कतमानि मोहचरितस्य पुद्गलस्य लिङ्गानि। इह [मोह] चरितः पुद्गलः मोहस्थानीये वस्तुनि परीत्तं, घनं, प्रभूतं मोहपर्यवस्थानमुत्पादयति। प्रागेव मध्याधिमात्रे, दृढं च कालं तस्य मोहपर्यवस्थानस्य सन्ततिमवस्थापयति। तेन चानुबद्धो भवति। स मोहनीयैर्धर्मैरभिभूयते। नो तु मोहनीयान् धर्मांच्छक्नोत्यभिभवितुं (धर्माञ्छक्नोत्यभिभवितुं)। बद्धे(धन्धे?) न्द्रियश्च भवति। जडेन्द्रियश्च भवति। मत्तेन्द्रियश्च, शिथिलकायकर्यान्त(न्तो)दुश्चिन्तितचिन्ती, दुर्भाषितभाषी, दुष्कृतकर्मकारी, अलसो[ऽ]नुत्थानसम्पन्नः। मन्दभागी, दुर्मेधो(धः)। मुषितस्मृतिः। असंप्रजानद्विहारी। वामग्राही, दुर्विवेज्यो, दुःसंवेज्यो, हीनाधिमुक्तिकः। जात एडमूको हस्तसंबाधिकः। अप्रतिबलः। सुभाषितदुर्भाषितानामर्थमाज्ञातुं प्रत्यय(प?)हायश्च भवति। परहायः परप्रणेय इत्येवं भागीयानि मोहचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि॥

तत्र कतमानि मानचरितस्य पुद्गलस्य लिंगानि। इह मानचरितः पुद्गलो मानस्थानीये वस्तुनि परीत्तेपि घनं मानपर्यवस्थानमुत्पादयति। कः पुनर्व्वादो मध्याधिमात्रे[।] तस्य च मानपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति। तेन चानुबद्धो भवति। [कतमानि मानचरितस्य पुद्गलस्य लिंगानि[।] इह मानचरितः पुद्गलः मानस्थानीये वस्तुनि परीत्तेपिघनं मानपर्यवस्थानमुत्पादयति कः पुनर्व्वादो मध्याधिमात्रे। तस्य मानपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति। तेन चानुबद्धो भवति] स मानस्थानीयैर्धर्मैरभिभूयते। नो तु मानस्थानीयान्धर्माञ्छक्नोत्यभिभवितुं। उद्धतेन्द्रियश्च भवत्युन्नतेन्द्रियश्चो [न्नतेन्द्रियश्च] कायमण्डनानुयुक्तश्च भवत्यधिमात्रमुन्नताञ्च वाचं भाषते, नावनतां, सातापिकगुरुस्थानीयानां च न कालेन कालं यथारूपामपचितिं कर्ता भवति। स्तब्धो भवति। अप्रणतकायो नाभि वादनवन्दनप्रत्युत्थानानां जालिसामीचीकर्मशील, आत्मप्रग्राहको भवत्यात्मोत्कर्षो परपंसकः। लाभकामः सत्कारकामः कीर्तिशब्दश्लोककामः।उत्प्लावनाभाण्डोनुविवेध्यश्च(ज्यश्च) भवति। दुःसंवेज्य उदाराधिमुक्तिश्च भवति। मन्दकारुण्यः [।]अधिमात्रं चात्मसत्त्वजीवपो[षपु]रुषपुद्गलदृष्टिमन्युबहलो भवति। उपनाही चेत्येवंभागीयानि मानचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि॥

तत्र कतमानि वितर्कचरितस्य पुद्गलस्य लिंगानि। इह वितर्कचरितः पुद्गलः वितर्क स्थानीये वस्तुनि परीत्तेपि घनपर्यवस्थानमुत्पादयति। तच्च पर्यवस्थानं दीर्घकालमवस्थापयति। तेन चानुबद्धो भवति। स वितर्कस्थानीयैर्धर्मैरभिभूयते। नो तु वितर्कस्थानीयान् धर्मां (र्माञ्) छक्नोत्यभिभवितुं। अस्थिरेन्द्रियश्च भवति। चपलेन्द्रियः। त्रं (चं)चलेन्द्रियः। व्याकुलेन्द्रियः। [अस्थिर] कायकर्मान्तः [।] छ(दु) रितवाक्कर्मान्ती, दुर्विवेज्यो दुःसंवेज्यः, प्रपंचारामः प्रपंचरतः। कांक्षाबहुलो, विचिकित्साबहुलः। छन्दिकश्च भवत्यस्थिरव्रतः। अनिश्चितव्रतः। अस्थिरकर्मान्तः [।] अनिश्चितकर्मान्तः [।] शंकाबहुलः, प्रमुषितस्मृतिः। विवेकानभिरतो, विक्षेपबहुलः। लोकचित्रेषु छन्दरागानुसृतः [।] दक्षोनलस इत्येवं भागीयानि वितर्कचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि॥ इदं चरितप्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम्॥

तत्र प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं। अस्ति पुद्गलः श्रावकयाने कृतप्रणिधानः [।] अस्ति प्रत्येकबुद्धयाने [।] अस्ति महायाने [।] तत्र योयं पुद्गलः। श्रावकयाने कृतप्रणिधानः सम्यक्छ्रावकगोत्रः स्यात्प्रत्येकबुद्धगोत्रः। स्यान्महायानगोत्रः। तत्रयोयं पुद्गलः प्रत्येकायां बोधौ कृतप्रणिधानः सोपि स्यात्प्रत्येकबुद्धगोत्रः, स्याच्छावकगोत्रः, स्यान्महायानगोत्रः [।] तत्र योयं पुद्गलो महायाने कृतप्रणिधानः सोपि स्याछ्रावकगोत्रः, स्यात्प्रत्येकबुद्धगोत्रः, स्यान्महायानगोत्रः। तत्र योयं श्रावकगोत्रः पुद्गलः प्रत्येकयाम्बोधौ, अनुत्तरायाम्वा सम्यक्संबोधौ कृतप्रणिधानः। स श्रावकगोत्रत्वादवश्यमन्ते काले तत्प्रणिधानं व्यावर्त्यं श्रावकयानप्रणिधान एवावतिष्ठते। एवं प्रत्येकबुद्धयानगोत्रो महायानगोत्रो वेदितव्यः।

तत्र भवत्येषां पुद्गलानां प्रणिधानसंभारः प्रणिधानव्यतिकरः। नो तु गोत्रसंभारो, गोत्रव्यतिकरः। अस्मिंस्त्‍वर्थे श्रावकयानप्रणिधाना [ः]श्रावकगोत्राश्चैते पुद्गला वेदितव्याः॥ एवं प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं भवति॥

कथं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं भवति। एषां यथोद्दिष्टानां यथापरिकीर्त्तितानां पुद्गलानां चतसृभिः प्रतिपद्भिर्निर्याणं भवति। कतमाभिश्चतसृभिः [।] अस्ति प्रतिपद् दुःखा धन्धाभिज्ञा। [अस्ति प्रतिपद् दुःखा क्षिप्राभिज्ञा]। अस्ति प्रतिपत्सुखा धन्धाभिज्ञा अस्ति प्रतिपत्सुखा क्षिप्राभिज्ञा॥ तस्य मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते दुःखा धन्धाभिज्ञा। तत्र तीक्ष्णेन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते दुःखा क्षिप्राभिज्ञा। तत्र मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते सुखा धन्धाभिज्ञा। तत्र तीक्ष्णेन्द्रिस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते सुखा क्षिप्राभिज्ञा। एवं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं वेदितव्यं॥

तत्र कथं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं वेदितव्यं। तद्यथा। चतुर्ण्णां प्रतिपन्नकानां स्त्रोत आपत्तिफलप्रतिपन्नकस्य सकृदागामिफलप्रतिपन्नकस्य अनागामिफलप्रतिपन्नकस्य, अर्हत्त(अर्हत्त्व) फलप्रतिपन्नकस्य, चतुर्ण्णां फलस्थानां स्रोत आपन्नस्य, सकृदागामिनः। अनागामिनोर्हतश्च ये प्रतिपन्नकमार्गा वर्तन्ते। ते प्रतिपन्नकास्तेषां प्रतिपन्नकमार्गेण व्यवस्थानं। येर्हत्फलश्रामण्यफलव्यवस्थितास्तेषां [मार्गफ] लव्यवस्थानमेवं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं भवति॥

कथं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति। तद्यथा श्रद्धानुसारिधर्मानुसारिणा [।] यः पुद्गलः श्रद्धानुसारेण प्रयुक्तः। स श्रद्धानुसारी, यो धर्मेषु परप्रत्ययविनयानुसारेण प्रयुक्तः स धर्मानुसारी। एवं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति।

तत्र कथं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति। तद्यथा कायसाक्षिणः (साक्षी) अष्टौ विमोक्षान् कायेन साक्षात्कृत्योपसम्पद्य विहरति। न च सर्व्वेण सर्व्वमास्रवक्षयमनुप्राप्तो भवति। रूपी रूपाणि पश्यति। अध्यात्ममरूपसंज्ञां बहिर्धा रूपाणि पश्यति। शुभविमोक्षं कायेन साक्षात्कृत्योपसम्पद्य विहरति। आकाशानन्त्यायतनं, विज्ञानानन्त्यायतनं, आकिञ्चन्यायतनं, नैव संज्ञा नासंज्ञायतनं, संज्ञावेदयितनि रोधमनुलोमप्रतिलोमं समापद्यते च, व्युत्तिष्ठते च। एवं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति।

कथमुपपत्तिप्रभेदेन। पुद्गलव्यवस्थानं भवति। तद्यथा सप्तकृद्भवपरमस्य, कुलंकुलस्य, एकवीचिकस्यान्तरापरिनिर्व्वायिणः उपपद्यपरिनिर्व्वायिणः, ऊर्ध्वंस्रोतसश्च। एवमुपपत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति।

कथमपरिहाणिप्रभेदेन। पुद्गलव्यवस्थानं भवति। तद्यथा समयविमुक्तस्यार्हतः यो भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय, अपरिहाणिप्रभेदेन पुनर्व्यवस्थानं॥ अकोप्यधर्मकस्यार्हतः यो न भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय[।]एव मपरिहाणिप्रभेदेन पुद्गलव्यवस्थानं भवति।



तत्र कथमावरणप्रभेदेन पुद्गलव्यवस्थानं भवति। तद्यथा प्रज्ञाविमुक्तस्योभयतोभागविमुक्तस्यार्हतः। तत्र प्रज्ञाविमुक्तोर्हन् क्लेशावरणविमुक्तो, न समापत्त्यावरणात्। उभयतोभागविमुक्तस्तु। अर्हन्। क्लेशावरणाच्च विमुक्तः, समापत्त्यावरणाच्च तस्मादुभयतोभागविमुक्त इत्युच्यते। एवमावरणप्रभेदेन पुद्गलव्यवस्थानं भवत्येभिस्त्रिभिर्भेदैर्ययोद्दिष्टैर्यथोद्दिष्टानां पुद्गलानां यथाक्रमं व्यवस्थानं वेदितव्यम्॥

तत्रालम्बनं कतमत्। आह[।]चत्वार्यार्यालम्बनवस्तूनि। कतमानि चत्वारि। व्याप्यालम्बनं, चरितविशोधमालम्बनं कौशल्यालम्बनं, क्लेशविशोधनं चालम्बनं।

तत्र व्याप्यालम्बनं कतमत्। आह। तदपि चतुर्विधं। तद्यथा सविकल्पं प्रतिबिम्बं, निर्विकल्पं प्रतिबिम्बं, वस्तुपरीत्तता। कार्यपरिनिष्पत्तिश्च।

तत्र सविकल्पं प्रतिबिम्बं कतमत्। यथापीहैकत्यः सद्धर्मश्रवणं वा अववादानुशासनीम्वा निश्रित्य, दृष्टम्वा, श्रुतम्वा, परिकल्पितं वोपादाय ज्ञेयवस्तुसभागं स विकल्पं प्रतिबिम्बं समाहितभूमिकै र्विपश्यनाकारैर्विपश्यति। विचिनोति। प्रविचिनोति। परिवितर्कयति। परिमीमान्सा (मांसा) मापद्यते।

तत्र ज्ञेयम्वस्तु [।] तद्यथा अशुभा वा, मैत्री वा, इदंप्रत्ययताप्रतीत्यसमुत्पादो वा, धातुप्रभेदो वा, आनापानस्मृतिर्व्वा। स्कन्धकौशल्यम्वा, धातुकौशल्यमायतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यं। अधोभूमीनामौदारिकत्वं। उपरिभूमीनां सातत्यं, समुदयसत्यं, निरोधसत्यं, मार्गसत्यमिदमुच्यते। ज्ञेयम्वस्तु।

तस्यास्य ज्ञेयवस्तुनः अववादानुशासनीम्वा आगम्य, सद्धर्मप्र (श्र)वणं वा, तन्निश्रयेण समाहितभूमिकं मनस्कारं संमुखीकृत्य, तानेव धर्मानधिमुच्यते। तदेवं ज्ञेयम्वस्तुनि (स्त्वधि)मुच्यते। स तस्मिन् समये प्रत्यक्षानुभाविक इतिवा [धि]मोक्षः प्रवर्त्तते। ज्ञेयंवस्तुनि (स्त्विति) च। तज्ज्ञेयम्वस्तु प्रत्यक्षीभूतं भवति। समवहितं, संमुखीभूतं, न पुनरन्यत्तज्जातीयं द्रव्यमपि त्वधिमोक्षानुभवः। स तादृशा(शो) मनस्कारानुभवः समाहितभूमिको, येन तस्य ज्ञेयस्य वस्तुनः अनुसदृशं तद् भवति (।) प्रतिभासं, येन तदुच्यते। ज्ञेयवस्तुभावं (-सभागं) प्रतिबिम्बिमिति। यदयं (दिमं) योग[ं] सन्तीरयंस्तस्मिन् प्रकृते, ज्ञेये वस्तुनि परीक्ष्य गुणदोषावधारणं करोति। इदमुच्यते सविकल्पं प्रतिबिम्बं [।]

निर्विकल्पं (।) प्रतिबिम्बं कतमत्। इहायं योगी प्रतिबिम्बान्निमित्तमुद्गृह्य न पुनः विचिनोति। प्रतिविचिनोति। परिवितर्कयति। परिमीमान्सा (मांसा)मापद्यते। अपि तु तदेवालम्बनमसक्तञ्चार्थाकारेण तन्निमित्तं शमयति। अपि तु नवाकारया चित्तस्थित्या अध्यात्ममेव चित्तं स्थापयति। संस्थापयति। अवस्थापयत्युपस्थापयति। दमयति। शमयति। [व्युपशमयति]। एकोतीकरोति। समाधत्ते [।] तस्य तस्मिन्समये निर्विकल्पं तत्प्रतिबिम्बं आलम्बनं भवति। यत्रासावेकांशेनैकाग्रां स्मृतिमवस्थापयति (।) तदालम्बनं, नो तु विचिनोति। परिवितर्कयति। परिसीमान्सा (मांसा) मापद्यते। तच्च प्रतिबिम्बं प्रतिबिम्ब मित्युच्यते। इतीमानि तस्य ज्ञेयवस्तुसभागस्य प्रतिबिम्बस्य पर्यायनामानि वेदितव्यानि।

वस्तुपपन्नता (वस्तुपर्यन्तता) कतमा। यदालम्बनस्य यद्भाविकता यथावद्भाविकता। यथावद्भाविकता च।

तत्र यावद्भाविकता कतमा। यस्मात्परेण रूपस्कन्धो वा, वेदनास्कन्धो वा, संज्ञास्कन्धो [वा], संस्का[र]स्कन्धो वा, विज्ञानस्कन्धो वा, विज्ञानस्कन्धो वेति। सर्वसंस्कृतवस्तुसंग्रहः पंचभिर्धर्मैः सर्वधर्मसंग्रहो धातुभिरायतनैश्च सर्वज्ञेयवस्तुसंग्रहश्च। आर्यसत्यैरियमुच्यते यावद्भाविकता॥

तत्र यथावद्भाविकता कतमा। या आलम्बनस्य भूतता। तथता च तसृभिर्युक्तिभिः। युक्त्युपेतता। यदुतापेक्षा (।) युक्त्या, कार्यकारणयुक्त्या।उपपत्तिसाधनयुक्त्या। धर्मतायुक्त्या च। इति या चालम्बनस्य यावद्भाविकता, या च यथावद्भावि[क]ता तदेकत्यमभिसंक्षिप्य वस्तुपर्यन्ततेत्युच्यते।

तत्र कार्यपरिनिष्पत्तिः कतमा। यदस्य [योगिन]आसेवनान्वया [द्]भावनान्वयाद् बहुलीकारान्वयाच्छमथविपश्यनाया [ः] प्रतिबिम्बालम्बनो मनस्कारः। स परिपूर्यते, तत्परिपूर्या प्रतिबिम्बालम्बनो मनस्कारः। स परिपूर्यते। तत्परिपूर्या(श्)चाश्रयः परिवर्त्तते। सर्वदौष्ठुल्यानि च प्रतिप्रश्रभ्यन्ते। आश्रयपरिवृत्तेश्च प्रतिबिम्बमतिक्रम्य तस्मिन्नेव ज्ञेये वस्तुनि निर्विकल्पं प्रत्यक्षं ज्ञानदर्शनमुत्पद्यते। प्रथमध्यानसमापत्तुः, प्रथमध्यानलाभिनः प्रथमध्यानगोचरे, द्वितीयतृतीयचतुर्थध्यानसमापत्तुः। चतुर्थध्यानलाभिनः। चतुर्थध्यानगोचरे, आकाशानन्त्यायतनविज्ञानानन्त्यायतनाकिंचन्यायतन-नैवसंज्ञानासंज्ञायतनसमापत्तुस्तल्लाभिनस्तद्गोचरे[।]इयमुच्यते कार्य परिनिष्पत्तिः॥

तान्येतानि भवति। चत्वार्यालम्ब नवस्तूनि। सर्वत्रगानि सर्वेष्वालम्बनेष्वनुगतानि अतीतानागप्रत्युत्पन्नैस्सम्यक्संबुद्धैर्देशितानि। तेनैतद्बाह्यालम्बनमित्युच्यते। अपि चैतदालम्बनं शमथपक्ष्यं, विपश्यनापक्ष्यं, सर्ववस्तुकं, भूतवस्तुकं, हेतुफलवस्तुकं च। तेन तद्‍व्यापीत्युच्यते।

यत्तावदाह। सविकल्पं प्रतिबिम्बमिति। इदमत्र विपश्यनापक्ष्यस्य[।]यत्पुनराह। वस्तुपर्यन्ततेति। इदमत्र सर्ववस्तुकताया भूतवस्तुकतायाश्च। यदाह। कार्यपरिनिष्पत्तिरिति। इदमत्र हेतुफलसम्बन्धस्य।

यथोक्तम्भगवता। आयुष्मन्तं रेवतमारभ्य[।] एवमनुश्रूयते। आयुष्मान् रेवतो भगवन्तं प्रश्नमप्राक्षीत्। कियता, भदन्त, भिक्षुर्योगा, [(गी) योगा]चार आलम्बने चित्तमुपनिबद्धः, कतमस्मिन्नालम्बने चित्तमुपनिबघ्नातीति। कथं पुनरालम्बनै(ने)चित्तमुपनिबद्धं सूपनिबद्धं भवति। साधु, साधु, रेवत, साधु खलु त्वं रेवत। एतमर्थं पृच्छति (सि)। तेन हि श्रृणु च, साधु च, मनसि कुरु, भाषिष्ये [।] इह, रेवत भिक्षुर्योगी योगाचारः चरितम्वा विशोधयितुकामः, कौशल्यम्वा कर्तुकामः। आस्रवेभ्यो वा चित्तं विमोचयितुकामः। अनुरूपे चालम्बने चित्तमुपनिबध्नाति। प्रतिरूपे च सम्यगेव चोपनिबघ्नाति। तत्र चानिराकृतध्यायी भवति।

कथमनुरूपे आलम्बने चित्तमुपनिबघ्नाति। [स चे] द्रेवत, भिक्षुर्योगी योगाचारः (रो) रागचरित एव, स न शुभालम्बने चित्तमुपनिबघ्नाति। एवमनुरूपे आलम्बने चित्तमुपनिबघ्नाति। द्वेषचरितो वा पुनर्मैत्र्यां, मोहचरितो वा इदं प्रत्ययताप्रतीत्यसमुत्पादे, मानचरितो धातुप्रभेदे। स चेद्रेवत, स भिक्षुर्योगी योगाचारोवितर्कचरित एव आनापानस्मृतौ चित्तमुपनिबघ्नाति। एवं सोनुरूपे आलम्बने चित्तमुपनिबघ्नाति। स चेत्स, रेवत, भिक्षुः संस्काराणां स्वलक्षणे संमूढः, किन्तु कौशल्ये चित्तमुपनिबघ्नाति। हेतुसंमूढो धातुकौशल्ये, प्रत्ययसंमूढ आयतनकौशल्ये, कामधातोर्व्वावैराग्यं कर्त्तुकामः, कामानामौदारिकत्वे, रूपाणां शान्तत्वे, रूपेभ्यो वा वैराग्यं कर्त्तुकामः। रूपाणामौदारिकत्वे आरूप्यशान्ततायां च चित्तमुपनिबघ्नाति। सर्व्वत्र वा सत्कायान्निर्वेक्षुकामो, विमोक्तुकामः, दुःखसत्ये (षु) समुदयसत्ये, निरोधसत्ये, मार्गसत्ये चित्तमुपनिबघ्नाति। एवं हि, रेवत, भिक्षुर्योगी योगाचारः। अनुरूपे आलम्बने चित्तमुपनिबघ्नाति। इह रेवत, भिक्षुर्यद्यदेव ज्ञेयं वस्तु निचेत्तुकामो भवति, प्रचेत्तुकामः। परिवितर्कयितुकामः। परिमीमान्स (मांस)यितुकामः। तच्च तेन पूर्व्वमेव दृष्टम्वा भवति। श्रुतम्वा। मतम्वा। विज्ञातम्वा[।]स तदेव दृष्टमधिपतिं कृत्वा, श्रुतं, मतं, विज्ञातमधिपतिं कृत्वा, समाहितभूमिकेनमनस्कारेण मनसिकरोति। विकल्पयत्यधिमुच्यते। स न तदेव ज्ञेयम्वस्तु समाहितं सम्मुखीभूतं पश्यत्यपि तु तत्प्रतिरूपकमस्योत्पद्यते। तत्प्रतिभासम्वा, ज्ञानमात्रम्वा, दर्शनमात्रम्वा, प्रतिस्मृतमात्रम्वा यदालम्बनमयं भिक्षुर्योगी योगाचारः सम्यगेवालम्बने चित्तमुपनिबघ्नाति। स चेदयं, रेवत, भिक्षुर्योगी योगाचार आलम्बने चित्तमुपनिबघ्नात्या (ति या) वद्(ज्) ज्ञेयं ज्ञातव्यं भवति। तच्च यथाभूत [मविपरीतचित्तं (त)मेवं हि, रेवत, भिक्षुर्योगी योगाचा]रः। सम्यगेवालम्बने चित्तमुपनिबघ्नाति। कथं च, रेवत, भिक्षुर्योगी योगाचार[ः] अनिराकृतध्यासी (यी) भवति। स चेत्स, रेवत, भिक्षुरेवमालम्बने सम्यक्प्रयुज्यमान [ः]सातत्यप्रयोगी च भवति। सत्कृत्यप्रयोगी च। कालेन च कालं शमथनिमित्तं भावयति। प्रग्रहनिमित्तमुपेक्षानि मित्तमासेवनान्वयाद् भावनान्वयाद्वहुलीकारान्वयात्सर्वदौष्ठुल्यानां प्रतिप्रश्रब्धेराश्रयपरिशुद्धिमनुप्राप्नोति। स्पर्शयति (स्पृशति)। साक्षात्करोति। ज्ञेयवस्तुप्रत्यवेक्षतया च आलम्बनपरिशुद्धिं, रागविरागाच्चित्तपरिशुद्धिमविद्या [वि]रागात् (।) ज्ञानपरिशुद्धिमधिगच्छति। स्पर्शयति (स्पृशति), साक्षात्करोति। एवं हि स, रेवत, भिक्षुर्योगी योगाचारः अनिराकृतध्यायी भवति। यतश्च रेवत, भिक्षुरस्मिन्नालम्बने चित्तमुपनिबध्नात्येवं चालम्बने चित्तमुपनिबध्नात्येवमस्य तच्चित्तमालम्बने सूपनिबद्धं भवति।



॥ तत्र गाथा॥

निमित्तेषु चरन्योगी सर्वभूतार्थवेदकः।
बिम्बध्यायी साततिकः पारिशुद्धि विगच्छति॥

तत्र यत्तावदाह॥ निमित्तेषु चरन्योगी अनेन तावच्छमथनिमित्ते, प्रग्रहनिमित्ते, उपेक्षानिमित्ते सततकारिता चाख्याता॥ यत्पुनराह। सर्वभूतार्थवेदक इति। अनेन वस्तुपर्यन्तता आख्याता॥ यत्पुनराह। बिम्बध्यायी साततिकः। इत्यनेन सविकल्पं निर्विकल्पञ्च प्रतिबिम्बमाख्यातम्। यत्पुनराह। पारिशुद्धिं विगच्छतीत्यनेन कार्य[परि] निष्पत्तिराख्याता॥ पुनरपि चोक्तं भगवता॥

चित्तनिमित्तस्य कोविदः
प्रविवेकस्य (प्राविवेक्यस्य?) च विदन्ते रसं।
ध्यायी निपकः प्रतिस्मृतो
भुंक्ते प्रीतिसुखं निरामिषं [॥]

तत्र यत्तावदाह, चित्तनिमित्तस्य कोविद इत्यनेन सविकल्पं निर्विकल्पं च प्रतिबिम्ब [ं] निमित्तशब्देनाख्यातं। वस्तुपपर्यन्तता कोविदशब्देन। यत्पुनराह। प्राविवेक्यस्य च विदन्ते रसमित्यनेनालम्बने सम्यक्प्रयुक्तस्य प्रहाणारामता भावनारामता चाख्याता। यत्पुनराह। ध्यायी निपक[ः] प्रतिस्मृत इत्यनेन शमथविपश्यनाया भावनासातत्यमाख्यातम्॥ यत्पुनराह। भुंक्ते प्रीतिसुखं निरामिषमित्यनेन कायपरिनिष्पत्तिराख्याता॥ तदेवं सत्येतद्‍व्याप्यालम्बनमाप्तागमविशुद्धं वेदितव्यं॥ युक्तिपतितं च। इदमुच्यते व्याप्यालम्बनं॥

तत्र चरितविशोधनमालम्बनं कतमत्॥ तद्यथा अशुभा[।]मैत्री। इदं प्रत्ययताप्रतीत्यसमुत्पादः। धातुप्रभेदः। आनापानस्मृतिश्च।

तत्राशुभा कतमा। आह[।] षडविधा अशुभा। तद्यथा प्रत्यशुभता। दुःखाशुभता। अवराशुभता। आपेक्षिकी अशुभता। क्लेशाशुभता। प्रभंगुराशुभता च।

तत्र प्रत्यशुभता कतमा। आह। प्रत्यशुभता अध्यात्मं चोपादाय, बहिर्धा चोपादाय वेदितव्या॥

तत्राध्यात्ममुपादाय। तद्यथा-केशा, रोमाणि, नखा, दन्ता, रजो, मलं, त्वङ्मान्स(मांस)मस्थि, स्नायु[ः], सिरा, वृक्का (क्कं), हृदयं, प्लीहकं, क्लोमं, अन्त्रान्यण्त्रगुणा, आमाशयं (यः), पक्वाशयं(यः), मूत्रं, पुरीषमश्रु, स्वेदः, खेटा, शिंघाणकं, वसा, लसीका, मज्जामेदः, पित्तं, श्लेष्मा, पूयः, शोणितमस्तकं, मस्तकलुंगं, प्रस्रावः।

तत्र बहिर्धा चोपादाय अशुभा (अशुभता) कतमा। तद्यथा विनीलकम्बा, विपूयकम्वा, विभद्रात्मकम्वा, व्याध्मात्म(त)कम्वा, विखादित(क)म्वा। विलोहितकम्वा। विक्षिप्तकम्वा। अस्थि वा। शंकलिकां (का)वा। उच्चारकृतम्वा, प्रस्रावकृतम्वा, खेटाकृतम्वा, शिंघाणककृतम्वा, रुधिरम्रक्षितम्वा, पूयम्रक्षितम्वा, गूथकठिल्लम्वा, स्यन्दनिका वा। इत्येवं भागीया बहिर्धोपादाय प्रत्यशुभता वेदितव्या।

या चाध्यात्ममुपादाय। या च बहिर्धोपादायाशुभता। इयमुच्यते। प्रत्यशुभता।

तत्र दुःखाशुभता कतमा। यद्‍दुःखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते। कायिकचैतसिकमसातं वेदयितं वेदनागत मियमुच्यते। दुःखाशुभता।

तत्रावराशुभता कतमा। यत्सर्वनिहीनम्वस्तु, सर्वनिहीनो धातुस्तद्यथा कामधातुः, यस्मात्पुनर्हीनतरश्चावरतरश्च, प्रतिक्रुष्टतरश्चासौ धातुर्नास्ति। इयमुच्यते अवराशुभता।

आपेक्षिकी अशुभता कतमा। तद्यथा तदेकत्यम्वस्तु शुभमपि सदन्यच्छुभतरमपेक्ष्याशुभतः ख्याति। तद्यथा। आरूप्यानपेक्ष्य रूपधातुरशुभतः ख्याति। सत्कायनिरोधनिर्वाणमपेक्ष्य यावद्भवाग्रमशुभश्च (भ इति) संख्यां गच्छति। इयमेवं भागीयापेक्षिकी अशुभता [।]

त्रैधातुकावचराणि(।) सर्वाणि संयोजन(।)बन्धना [न्य] नुशयोपक्लेशाशुभतेत्युच्यते (-शा अशुभतेत्युच्यते)॥

तत्र प्रभंगुराशुभता कतमा। या पंचानामुपादानस्कन्धानामनित्यता, अध्रुवानाश्वासिकता, विपरिणामधर्मता इतीयमशुभता रागचरितस्य विशुद्धये। आलम्बनं तत्र रागस्तद्यथा। अध्यात्मं कामेषु कामछन्दः (च्छन्दः), कामरागः, बहिर्धा कामेषु मैथुनछन्दः (च्छन्दः), मैथुनरागः। विषयछन्दः (च्छन्दः)। विषयरागः। रूपछन्दो (च्छन्दो) रूपरागः सत्कायछ(च्छ)न्दः सत्कायरागश्चेति। अयं पञ्चविधो रागः। तस्य पञ्चविधस्य रागस्य प्रहाणाय, प्रतिविनोदनाय। असमुदाचाराय। षड्विधा अशुभता आलम्बनं। तत्राध्यात्ममुपादाय। प्रत्यशुभतालम्बनेन अध्यात्मं कामेषु काम[च्]छन्दात् कामरागाच्चित्तम्विशोधयति। बहिर्धोपादाय प्रत्यशुभतालम्बनेन बहिर्धा तैः रागाच्चतुर्विधा[द्] रागप्रतिसंयुक्ताद्वर्ण्णरागसंस्थानरागस्पर्शरागोपचाररागप्रतिसंयुक्ताच्चित्तं विशोधयति।

तत्र यदा विनीलकम्वा, विपूयकम्वा, विमद्रामकम्वा, व्याध्मात्मकम्वा, विखादितकं वा मनसि करोति। तदा वर्ण्णरागाच्चित्तं विशोधयति। यदा पुनर्विलोहितकं वा मनसि करोति। तदा संस्थानरागाच्चित्तं विशोधयति। यदा पुनरस्थि वा शंकलिकाम्वा मनसि करोति। तदा स्पर्शरागाच्चित्तं विशोधयति। यदा विक्षिप्तकं मनसिकरोति तदा उपचाररागाच्चित्तं विशोधयति। अत‍एव भगवता बहिर्धोपादाय प्रत्यशुभता सा चतसृषु शिव पथिका [सु व्य] वस्थापिता। या यैवानेन शिवपथिका दृष्टा भवति। एकाहमृता वा, सप्ताहमृता वा, काकैः कुररैः खाद्यमाना, गृध्रैः, श्वभिः, श्रृगालैः। तत्र तत्रेममेच (व) कायमुपसंहरति। अयमपि मे काय एवं भावी, एवं भूत, एवं धर्मतामनतीत इति। अनेन तावद्विनी लकमुपादाय यावद्विखादितकमाख्यातं।

यत्पुनराह। या अनेन शिवपथिका दृष्टा भवति। अपगतत्वङ्मान्स(मांस)शोणितम्वा सूपनिबद्धेत्यनेन विलोहितकमाख्यातं।

यत्पुनराह। यान्येव शिवपथिकास्थानानि पृष्ठीवंशो, हनुनक्रं, दन्तमाला, शिरःकपालं तथा भिन्नप्रतिभिन्नानि एकवार्षिकानि द्विवार्षिकानि (र्षिकाणि)। यावत्सप्तवाषि(र्षि)कानि (णि)श्वेतानि शंखनिभानि। कपोतवर्ण्णानि पान्सु(पांसु) वर्ण्णव्यतिमिश्राणि दृष्टानि भवन्तीत्यनेन विक्षिप्तकमाख्यातं।

एवं प्रत्यशुभतालंबनेन बहिर्धा प्रतिसंयुक्तेन मैत्रेन(ण) रागाच्चित्तं विशोधयति। तत्र दुःखताशुभतालम्बनेनावराशुभतालम्बनेन च। विषयप्रतिसंयुक्तात्कामरागाच्चित्तं विशोधयति। तत्रापेक्षाशुभतालम्बनेन रूपरागाच्चित्तं विशोधयति। तत्र क्लेशाशुभतालम्बनेन प्रभंगुराशुभतालम्बनेन च का(म)भवाग्रमुपादाय सर्वस्मात्काय(म) रागाच्चित्तं विशोधयति। इदं तावद्रागचरितस्य चरितविशोधनेन सालम्बनं संभवं प्रत्येतदुच्यते। सर्व्वं सर्व्वाकारमशुभतालम्बनं। संगृहीतं भवत्यस्मिंस्त्वर्थे प्रत्यशुभतै वाभिप्रेता। तदन्या त्वशुभता तदन्यस्यापि चरितस्य विशुद्धये। आलम्बनं॥

तत्र मैत्री कतमा। यो मित्रपक्षे वा, अमित्रपक्षे वा। उदासीनपक्षे वा। हिता[ध्या] शयमुपस्थाप्य मृदुमध्याधिमात्रस्य सुखस्योपसंहारायाधिमोक्षः। समाहितभूमिकः। तत्र योयं मित्रपक्षः। अमित्रपक्ष उदासीनपक्षश्च [।] इदमालम्बनं। तत्र यो हिताध्याशयः, सुखोपसंहाराय चाधिमोक्षः समाहितभूमिकः अयमालम्बक इति (।) यच्चालम्बनं। यश्चालम्बकस्तदेकत्यमभिसंक्षिप्य मैत्रीत्युच्यते।

तत्र यत्तावदाह मैत्रीसहगतेन चित्तेनेत्यनेन त्रिषु पक्षेषु मित्रपक्षे, अमित्र पक्षे, उदासीनपक्षे हितध्याशय आख्यातः।

यत्पुनराह। अवैरेणासम्पन्नेनाव्याबाधेनेत्यनेन तस्यैव हिताध्याशयस्य त्रिविधं लक्षणमाख्यातं॥

तत्रावैरतया हिताध्याशयः सा पुनरवैरता द्वाभ्यां पदाभ्यामाख्याता (ः)। असमर्थतया अव्याबाधत [या च] तत्राप्रत्यनीकभावस्थानार्थेनासमर्थता। अपकारा विषष्टनार्थेन अव्याबाध्यता (अव्याबाधता)।

यत्पुनराह। विपुलेन महद्गतेन प्रमाणेनेत्यनेन मृदुमध्याधिमात्रस्य सुखस्योपसंहार आख्यातः। कामावचरस्य, प्रथमद्वितीयध्यानभूमिकस्य वा, तृतीयध्यानभूमिकस्य वा [।] यत्पुनराह। अधिमुच्यस्यानि र्व्वो ( )पसम्पद्य विहरतीत्यनेन सुखोपसंहाराधिमोक्षः। समाहितभूमिक आख्यातः। स पुनरेष सुखोपसंहारो हिताध्याशयपरिगृहीतः। आधिमोक्षिकः। मनस्कारानुगतः। अदुःखासुखिते मित्रपक्षे, अमित्रपक्षे, उदासीनपक्षे, सुखकामे वेदितव्यः। यस्तु दुःखितो वा, अदुःखितो वा पुनर्मित्रपक्षः। अमित्रपक्ष उदासीनपक्षो वा [।]तत्र यो दुःखितः स करुणाया आलम्बनं। यः सुखितः स मुदिताया आलम्बनमियमुच्यते मैत्री[।] तत्र व्यापादचरितः पुद्गलः मैत्री भावयन् सत्त्वेषु यो व्यापादस्तं प्रतनु करोति। व्यापादाच्चित्तं परिशोधयति॥

तत्रेदंप्रत्ययताप्रतीत्यसमुत्पादः कतमः। यत्त्रिष्वध्वसु संस्कारमात्रं, धर्ममात्रं, वस्तुमात्रं, हेतुमात्रं, फलमात्रं, युक्तिपतितं, यदुतापेक्षा युक्त्या, कार्यकारणयुक्त्या। उपपत्तिसाधनयुक्त्या च। धर्माणामेव धर्माहारकत्वं। निष्कारकवेदकत्वं च। इदमुच्यते। इदंप्रत्ययताप्रतीत्यसमुत्पादालम्बनं। यदालम्बनं मनसि कुर्व्वन् मोहाधिकः पुद्गलो मोहचरितः मोहं प्रजहाति। तनूकरोति। [मोह] चरिताच्चित्तं विशोधयति॥

तत्र धातुप्रभेदः कतमः। तद्यथा षड्धातवः। पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुश्च।

तत्र पृथिवीधातुर्द्विविधः। आध्यात्मिको बाह्यश्च। तत्राध्यात्मिको यदस्मिन्काये अध्यात्मं प्रत्यात्मं खक्खटं खरतरमुपादत्तं। बाह्यः पुनः पृथिवीधातुर्यद्बाह्यं खक्खटं खरगतमनु (मु?) पगतमनु (मु?) पादत्तं।

स पुनरध्यात्मिकपृथिवीधातुः कतमः। तद्यथा केशा, रोमाणि, नखा, दन्ता, रजो,मलं, त्वङ्मान्समस्थि, स्नायु [ः], सिरा, वृक्का(क्कं), हृदयं, प्लीहकं, क्लोममन्त्राण्यन्त्रगुणाः। आमाशयः। पक्वाशयः। यकृत्पुरीषमयमुच्यते आध्यात्मिकः पृथिवीधातुः।

स पुनर्बाह्यः पृथिवीधातुः कतमः। काष्ठानि वा, लोष्ठानि वा, शर्करा वा, कठिल्ला वा, वृक्षा वा, पर्वताग्रा वा, इति वा पुनरन्योप्येवंभागीयः अयमुच्यते बाह्यः पृथिवीधातुः॥

अब्धातुः कतमः। अब्धातुर्द्विविधः। आध्यात्मिको बाह्यश्च।

तत्राध्यात्मिक कोप्धातुः(ब्धातुः) कतमः। यदध्यात्मं प्रत्यात्मं स्नेहः स्नेहगतं। आपः अब्धातुमुपगतमुपादातुं (अब्धातुगतमुपगतमुपादत्तं)। तद्यथा अश्रु, स्वेदः। खेटः शिंघाणकः। बसा, लसीका, मज्जा, मेदः, पित्तं, श्लेष्मा, पूयः, शोणितं, मस्तकं, मस्तकलुंगं, प्रश्रावोय (स्रावोऽय)मुच्यते आध्यात्मिकोब्धातुः।

बाह्योब्धातुः कतमः। यद्बाह्यमापः अप्गतं (अब्गतं), स्नेहः स्नेहगतमनु(तमु)पगतमनु(तमुं)पादत्तं। तत्पुनरुत्सो वा, सरांसि वा, तडागा वा, नद्यो वा,प्रस्रवणानि वा, इति यो वा पुनरन्योप्येवंभागीयोयमुच्यते बाह्योब्धातुः॥

तेजोधातुः कतमः। तेजोधातुर्द्विविधः आध्यात्मिको बाह्यश्च॥

तत्राध्यात्मिकस्तेजोधातुः कतमः। यदध्यात्मं प्रत्यात्मं तेजस्तेजोगतमूष्मा ऊष्मागतमुपगतमुपादत्तं। तद्यथा यदस्मिन्काये तेजो येनायं काय आतप्यते। संतप्यते, परितप्यते। येन चाशितपीतखादितास्वादितं सम्यक्सुखेन परिपाकं गच्छति। यस्य चोत्सदत्वात् जारितो जारित इति संख्यां गच्छति॥

बाह्यस्तेजोधातुः कतमः। यद्बाह्यं तेजस्तेजोगतमूष्मा(ष्म) गतमनु (मु)पगतमनु(मु)पादत्तं। तत्पुनर्यन्मनुष्या अरणीसहगतकेभ्यो गोमयचूर्ण्णेभ्यः समन्वेषते(न्ते)। यत्तूत्पन्नं ग्राममपि दहति। ग्रामप्रदेशमपि। नगरम्वा, नगरप्रदेशम्वा, जनपदम्वा, जनपदप्रदेशम्वा, द्वीपम्वा, कक्षम्वा, दावम्वा, काष्ठम्वा, तृणम्वा, गोमयम्वादहन् परैति। इति यो वा पुनरन्योप्येवंभागीयः॥

तत्र वायुधातुः कतमः। वायुधातुर्द्विविधः। आध्यात्मिको बाह्यश्च।

तत्राध्यात्मिको वायुधातुः। यदप्यध्यात्मं प्रत्यात्मं वायुर्व्वायुगतं। लघुत्वं समुदीरणत्वमुपगतमुपादत्तं। स पुनः सन्त्यस्मिन् काये ऊर्ध्वंगमा वायवः, अधोगमा वायवः, पार्श्वशया वायवः। कुक्षिशया वायवः। पृष्ति(ष्ठि) शया वायवः। वाय्वष्ठीला (वाताष्ठीला) वायवः। क्षुरकपिप्पलकशस्त्रका वायवः। आश्वास-प्रश्वासा वायवः। अंगप्रत्यं [गानुसारिणोवायवः]

बाह्यो वायुधातुः कतमः। यद्बाह्यं वायुर्वायुगतं लघुत्वं, समदीरणत्वं। अनु(उ)पगतमनु(मु)पादत्तं[।] सन्ति बहिर्धा पूर्वा वायवो, दक्षिणा वायवः। उत्तरा वायवः पश्चिमा वायवः। सरजसो वायवः, अरजसो वायवः, [परीत्ता] महद्गता वायवः, विश्वा वायवो, वैरम्भा वायवः वायुमण्डलकवायवः [।] भवति च समयः यन्महान् वायुस्कन्धः समुदागतः वृक्षाग्रानपि पातयति। कुड्याग्रानपि पातयति। पर्वताग्रानपि पातयति। पातयित्वा निरुपादानो निग(निर्ग)च्छति। ये सत्त्वाश्चीवरकर्णिकेन वा पर्येषन्ते, तालवृन्तेन वा, विधमनकेन वा। इति वायुरन्योप्येवंभागीय[ः॥]

आकाशधातुः कतमः। यच्चक्षुः सौषिर्यम्वा, श्रोत्रसौषिर्यम्वा, घ्राणसौषिर्यम्वा, मुखसौषिर्यम्वा, कण्ठसौषिर्यम्वा। इति येन चाभ्यवहरति। यत्र वाभ्यवहरति। येन वाभ्यवह्रियते। यदधोभागेन प्रघरति। इति यो वा पुरनरप्योप्येवंभागीयः [?] अयं उच्यते आकाशधातुः॥

विज्ञानधातुः कतमः [।] यच्चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानं। तत् पुनश्चित्तं मनोविज्ञानं च। अयमुच्यते विज्ञानधातुः॥

तत्र मानचरितः पुद्गल इमं धातुप्रभेदं मनसि कुर्व्वन् काये पिण्डसंज्ञां विभावयति। अशुभसंज्ञां च प्रतिलभते। न च पुनस्तेनोन्नतिं गच्छति। मानं प्रतनु करोति। तस्माच्चरिताच्चित्तं विशोधयति। अयमुच्यते धातुप्रभेदः। मानचरितस्य पुद्गलस्य चरितविशोधनमालम्बनं॥

तत्रानापानस्मृतिः कतमा। आश्वासप्रश्वासालम्बना स्मृतिरियमुच्यते आनापानस्मृति [ः]।

तत्र द्वावाश्वासौ कतमौ।
द्ववौ आश्वासोऽन्तराश्वासश्च।
द्वौ प्रश्वासौ कतमौ।
द्वौ प्रश्वासोन्तरप्रश्वासश्च।

तत्र श्वासः यः प्रश्वाससमनन्तरं अन्तर्मुखो वायुः प्रवर्त्तते। यावन्नाभीप्रदेशात्।

तत्रान्तराश्वासो य उपरतेस्मिन्नाश्वासे न तावत्प्रश्वास उत्पद्यते। यदन्तरालविश्रामस्थानसहगत इत्वरकालीनस्तदनुसदृशो वायुरुत्पद्यते। अयमुच्यतेन्तराश्वासः।

यथाश्वासोऽन्तराश्वासश्चैवं प्रश्वासोन्तर(न्तः)प्रश्वासश्च वेदितव्यः। तत्रायं, विशेषः। बहिर्मुखो वायुः प्रवर्तते बहि[ः] नाभीदेशमुपादाय। यावन्मुखाग्रान्नासिकाग्रा [त्]ततो वा पुनर्बहिः।

द्वावाश्वासप्रश्वासनिदानौ [।]कतमौ द्वौ। तदाक्षे पकं च कर्म, नाभीप्रदेशसौषिर्यं च। ततो वा पुन [रुत्पन्नं]यत्कायसौषिर्यं [।] द्वावाश्वासप्रश्वासयोः संनिश्रयौ कतमौ। द्वौ कायश्चित्तं च। तत्कस्य हेतोः[।] कायसंन्नि (सन्नि) श्रिताश्चित्तसंन्नि (सन्नि) श्रिताश्चाश्वासप्रश्वासाः प्रवर्तन्ते। ते च यथायोगं स चेत्कायसंन्निश्रिता [एव] प्रवर्तेरन्। असंज्ञिसमापन्नानां, निरोधसमापन्नानां असंज्ञिसत्त्वेषु देवेषूपपन्नानां सत्त्वानां प्रवर्तेरन्। स चेच्चित्तसन्निश्रिता एव प्रवर्त्तेरन्। तेनारूप्यसमापन्नोपपन्नानां सत्त्वानां प्रवर्तेरन्। स चेत्कायसन्निश्रिताश्चित्तसन्निश्रिताः प्रवर्तेरन्। ते च न यथायोगं तेन चतुर्थध्यानसमापन्नोपपन्नानां, कललगतानाञ्चार्बुदगतानां, पेशीगतानां सत्त्वानां प्रवर्तेरन्। न च प्रवर्त्तते (तन्ते)। तस्मादाश्वासप्रश्वासात्कायसन्निश्रिताश्चि (तस्मादाश्वासप्रश्वासाः कायसन्निश्रिताश्चि) त्तसन्निश्रिताश्व प्रवर्त्तन्ते तेन यथायोगं।

द्वे आश्वासप्रश्वासयोर्गती [।] कतमे द्वे। आश्वासयोरधोगतिः। प्रश्वासयोरूर्ध्वगतिः।

द्वे आश्वासप्रश्वासयोर्भूमी। कतमे द्वे। औदारिकं च सौषिर्यं, सूक्ष्मं च(।) सौषिर्यं। तत्रौदारिकं सौषिर्यं नाभीप्रदेशमुपादाय। यावन्मुखनासिकाद्वारं। मुखनासिकाद्वारमुपादाय यावन्नाभीप्रदेशसौषिर्यं। सूक्ष्मसौषिर्यं कतमत्। सर्व्वंकायगतानि रोमकूपानि (पाः)॥

चत्वार्याश्वासप्रश्वासानां पर्यायनामानि [।] कतमानि चत्वारि। वायव[ः], आनापानाः, आश्वासप्रश्वासाः। कायसंस्काराश्चेति। तत्रान्यैर्वायुभिः साधारणं पर्यायनामैकं। यदुत वायुरिति। असाधारणानि तदन्यानि त्रीणि।

द्वावपक्षालावाश्वाप्रश्वासप्रयुक्तस्य [।] कतमौ द्वौ। अशिथिलप्रयोगता च, सत्याभ्यवष्टब्धप्रयोगताच। तत्राशिथिलप्रयोगतया कौसीद्यप्राप्तस्य स्त्यानमिद्धम्वा चित्तं पर्यवनह (ह्य)ति, बहिर्धा वा विक्षिप्यते। तथाभ्यवष्टब्धप्रयुक्तस्य कायवैषम्यं चोत्पद्यते। चित्तवैषम्यम्वा। कथं कायवैषम्यमुत्पद्यते। बलाभिनिग्रहेणानाश्वासप्रश्वासानभिनिष्पीडयतः काये विषमा वायवः प्रवर्तन्ते। येस्य तत्प्रथमतस्तेषु तेष्वंगप्रत्यङ्गेषु स्फुरन्ति। ये स्फारकाय (स्फुरका) इत्युच्यन्ते। ते पुनः स्फुरका वायवो विवर्द्धमाना रुजका भवन्ति। येप्येतेष्वंगप्रत्यंगेषु रुजमुत्पादयन्ति। इदमुच्यते कायवैषम्यं॥ कथं चित्तवैषम्यमुत्पद्यते। चित्तम्वास्य विक्शिप्यते। प्राग[सौ] न वा दौर्मनस्योपायासेनाभिभूयते। एवं चित्तवैषम्यमुत्पद्यते॥

अस्या आनापानस्मृतेः पञ्चविधः प[रिचयो] वेदितव्यः। तद्यथा गणनापरिचयः, स्कन्धावतारपरिचयः। प्रतीत्यसमुत्पादावतारपरिचयः। सत्यावतारपरिचयः। षोडशाकारपरिचयश्च।

तत्र गणनापरिचयः कतमः। समासतश्चतुर्विधो गणनापरिचयः। तद्यथा एकैकगणना [।] द्वयैकगणना [।] अनुलोमगणना। प्रतिलोमगणना च॥

तत्रैकैकगणना कतमा।यदा आश्वासः प्रविष्टो भवति। तदा आश्वास प्रश्वासोपनिबद्धया स्मृत्या एकमिति गणयति। यदा आश्वासे निरुद्धे प्रश्वास उत्पद्य निर्गतो भवति। तदा द्वितीयं गणयत्येवं यावद्‍दश गणयति। एषा हि गणना संख्या नातिसंक्षिप्ता नातिविस्तरा इयमुच्यते एकैकगणना॥

द्वयैकगणना कतमा। यदा आश्वासः प्रविष्टो भवति, निरुद्धश्च। प्रश्वास उत्पन्नो भवति। निर्गतश्च तदा एकमिति गणयति। अनेन गणनायोगेन यावद्दश गणयति। इयमुच्यते। द्वयैकगणना। आश्वासं च प्रश्वासं चेदं द्वयमेकत्यमभिसंक्षिप्यैकमिति गणयति तेनोच्यते द्वयैकगणना॥

अनुलोमगणना कतमा। अनयैवैकैकगणनया, द्वयैकगणनया वा, अनुलोमं यावद्‍दश गणयति। इयमुच्यते अनुलोमगणना॥

प्रतिलोमगणना कतमा। प्रतिलोमं दश उपादाय, नवाष्टौ, सप्त, षट्, पंच, यावदेकं गणयति। इयमुच्यते प्रतिलोमगणना।

यदा स एकैकगणनां निश्रित्य, द्वयैकगणनाम्वा, अनुलोमगणनायां, प्रतिलोमगणनायां च कृतपरिचयो भवति। न चास्यान्तराच्चित्तं विक्षिप्यते [।] अविक्षिप्तचित्तश्च गणयति। तदास्योत्तरगणनाविशेषो व्यपदिश्यते।

कतमो गणनाविशेषः। एकैकगणनया वा, द्वयैकगणनया वा, द्वयमेकं कृत्वा गणयति। तत्र द्वयैकगणनया चत्वार आश्वासप्रश्वासा एकं भवति। एकैकगणनया पुनराश्वासप्रश्वासश्चैकं भवत्येवं यावद्‍दश गणयति। एवमुत्तरोत्तर वृद्‍ध्या यावच्छतमप्येकं कृत्वा गणयति। तदा शतैकगणनयानुपूर्व्वेण यावद्‍दश गणयति। एवमस्य गणनाप्रयुक्तस्य यावद्‍दशैकं कृत्वा गणयति। यावच्च दश परिपूरयति। तया दशैकगणनया न चास्योत्तराच्चित्तम्विक्षिप्यते। इयता तेन गणनापरिचयः कृतो भवति।

तस्य च गणनाप्रयुक्तस्य स चेदन्तराच्चित्तं विक्षिप्यते तदा पुनः प्रतिनिवर्त्यादितो गणयितुमारभते। अनुलोमम्वा, प्रतिलोमम्वा [।] यदा चास्य गधयाच्चित्तं स्वरसेनैव बाहिमार्ग(स्वरसवाहिमार्गेणैव) समारूढमाश्वासप्रश्वासालम्बनोपनिबद्धमव्यवच्छिन्नं निरन्तरं, प्रवर्त्तमासे आश्वास(से) प्रवृत्तिग्राहकं, निरुद्धे आश्वासे प्रश्वासशून्यावस्थाग्राहकं, प्रवृत्ते प्रश्वासे प्रवृत्तिग्राहकं, निवृत्ते पुनर्निवृत्तिग्राहकं, अविकंप्यमविचलमविक्षेपाकारं, साभिरामं च प्रवर्त्तते। इयता गणनाभूमिसमतिक्रमो भवति।

पुनस्तदा गणयितव्यं भवति। नान्यत्राश्वासप्रश्वासालम्बनं चित्तमुपनिबध्यते। आश्वासप्रश्वासा अनुगन्तव्याश्चा [भिलक्ष]यितव्याश्च सान्तराश्वासप्रश्वासाः सप्रवृत्तिनिवृत्त्यवस्थाः अयमुच्यते गणनापरिचयः।

स खल्वेष गणनापरिचयो मृद्विन्द्रियाणां व्यपदिश्यते। तेषामेतद् व्याक्षेपस्थानं भवति। चित्तस्थितये चित्तनिरतये[।] अन्यथा गणनामन्तरेण तेषां स्त्यानमिद्धम्वा चित्तं पर्यवहेत्, बहिर्धा वा चित्तं विक्षिप्येत, गणनाप्रयुक्तेन तु तेषामेतन्न भवति।

ये तु तीक्ष्णेन्द्रियाः पटुबुद्धयः तेषां पुनर्गणनाप्रयोगेण प्रियारोहता भवति। तत्रोपदिष्टा एवं गणनाप्रयोगं लघु लघ्वेव प्रतिविध्यन्ति। न च तेनाभिरमन्ते [।] ते पुनराश्वासप्रश्वासालम्बनां स्मृतिमुपनिबध्य यत्र च प्रवर्त्तन्ते, यावच्च प्रवर्त्तन्ते। यथा च प्रवर्त्तन्ते, यदा च प्रवर्त्तन्ते। तत्सर्वमनुप्रच्छत्युपलक्षयत्युपस्थितया स्मृत्या [।] अयमेवं रूपस्तेषां प्रयोगः।

तस्य च प्रयोगस्यासेवनान्वयाद्भावनान्वयाद् बहुलीकारान्वयात्कायप्रश्रब्धिरुत्पद्यते, चित्तप्रश्रब्धिश्च। एकाग्रतां च स्पृशत्यालम्बनाभिरतिं च निर्गच्छति। य एवं कृतपरिचयो ग्राह्यग्राहकवस्तुमनसिकारेण स्कन्धानवतरति। ये चाश्वासप्रश्वासा यश्चैषामाश्रयकायस्तं मनसि कुर्व्वन् रूपस्कन्धमवतरति। या तेषामाश्वासप्रश्वासानां तद्ग्राहिकया स्मृत्या संप्रयुक्ता अनुभावना स वेदनास्कन्ध इत्यवतरति। या संजानना [स] संज्ञास्कन्ध इत्यवतरति। या चासौ स्मृतिर्या च चेतना, या च (।) तत्र प्रज्ञा। अयं संस्कार इत्युवतरति। यच्चित्तं, मनो, विज्ञानमयं विज्ञानस्कन्ध इत्यवतरति। या तद्बहुलविहारिता। एवं स्कन्धेष्ववतीर्ण्णस्यायमुच्यते स्कन्धावतारपरिचयः।

यदा चानेन स्कन्धमात्रं दृष्टं भवति। परिज्ञातं ससंस्कारमात्रं, वस्तुमात्रं, तदा स एषामेव संस्काराणां प्रतीत्यसमुत्पादमवतरति।

कथं च पुनरवतरति। स एवं रूपमन्वेषते, पर्येषते, इतीये आश्वासप्रश्वासाः किमाश्रिताः, किंप्रत्ययास्तस्यैवं भवति। कायाश्रिता एते आश्वासप्रश्वासाः कायप्रत्ययाच्चि (श्चि) त्ताश्रिताश्चित्तप्रत्ययाश्च। कायः पुनश्चित्तं च किं प्रत्ययं च [।] स कायं (यः)चित्तञ्च जीवितेन्द्रियप्रत्ययमित्यवतरति। पूर्व्वकः संस्कारः [।] स पूर्व्वकं संस्कारमविद्याप्रत्ययमि (इ) त्यवतरति। इति हि अविद्याप्रत्यय (ः) पूर्व्वकः संस्कारः सर्व्वसंस्कारप्रत्ययं जीवितेन्द्रियं, जीवितेन्द्रियप्रत्ययः कायो, विज्ञानं च, कायचित्तप्रत्यया आश्वासप्रश्वासाः। तत्राविद्यानिरोधात् संस्कारनिरोधः। संस्कार निरोधाज्जीवितेन्द्रियनिरोधः। जीवितेन्द्रियनिरोधात्कायचित्तनिरोधः [।] कायचित्तनिरोधादाश्वासप्रश्वासनिरोधः। एवमसौ प्रतीत्यसमुत्पादमतवरति।

स तद्बहुलविहारी प्रतीत्यसमुत्पा[दाका]रे कृतपरिचय इत्युच्यते। अयमुच्यते प्रतीत्यसमुत्पादावतारपरिचयः [।]

स एवं प्रतीत्यसमुत्पादे कृतपरिचयो य एते संस्काराः प्रतीत्यसमुत्पन्नाः। अनित्या एत इत्यवतरति। अनित्यत्वादभूत्वा [च प्रति]विगच्छन्ति। पुनरेते अभूत्वा भवन्ति। भूत्वा च प्रतिविगच्छन्ति। ते जाति धर्माणो, जराधर्माणो, व्याधिधर्माणो, मरणधर्माणः। ये जातिजराव्याधिमरणधर्माणस्ते दुःखा, ये दुःखास्तेनात्मानः, अस्वतन्त्राः, स्वामिविरहिताः[।] एवं सोनित्यदुःखशून्यानात्माकारैर्दुःखसत्यमवतीर्ण्णो भवति। या काचिदेषा [ं] संस्काराणामभिनिर्वृत्तिः। दुःखभूता, रोगभूता, गण्डभूता, सर्व्वासौ तृष्णाप्रत्यया (ः)। यत्पुनरस्या दुःखजनिकायास्तृष्णाया अशेषप्रहाणमेतच्छान्तमेतत्प्रणीतमेतत्तमेवं च मे जानत, एवं बहुलविहारिणस्तृष्णाया अशेषप्रहाणं भविष्यतीति। एवं हि समुदयसत्यं, निरोधसत्यं, मार्गसत्यमवतीर्ण्णो भवति। स तद्बहुलविहारी यदा सत्यान्यभिसमागच्छति। अयमुच्यते सत्यावतारपरिचयः [।]

तस्यैवं सत्येषु कृतपरिचयस्य। दर्शनप्रहातव्येषु धर्मेषु प्रहीणेषु भावनाप्रहातव्या अवशिष्टा भवन्ति। येषां प्रहाणाय षोडशाकारपरिचयं करोति।

कतमे पुनः षोडशाकाराः। स्मृत आश्वासः (त आश्वसन्) स्मृत आश्वसिमीति शिक्षते। स्मृतः प्रश्वसन् प्रश्वसिमीति शिक्षते। दीर्घं ह्रस्वं सर्वकायप्रतिसम्वेदी। आश्वसन् सर्वकायप्रतिसंवेदी। आश्वसिमीति शिक्षते। सर्वकायप्रतिसंवेदी प्रश्वसन्। सर्वकायप्रतिसंवेदी प्रश्वसिमीति शिक्षते। प्रश्रभ्य कायसंस्कारानाश्वसन्‍प्रश्रभ्यकायसंस्कारानाश्वसिमीति शिक्षते। प्रश्रभ्य कायसंस्कारान् प्रश्वसन्, प्रश्रभ्य कायसंस्कारान् प्रश्वसिमीति शिक्षते। प्रीतिप्रतिसंवेदी सुखप्रतिसंवेदी शिक्षते। चित्तसंस्कारप्रतिसम्वेदी प्रश्रभ्य चित्तसंस्कारानाश्वसन्, प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति शिक्षते। प्रश्रभ्य चित्तसंस्कारान् प्रश्वसन्, प्रश्रभ्य चित्तसंस्कारान् प्रश्वसिमीति शिक्षते। चित्तप्रतिसंवेदी। अभिप्रमोदयंश्चित्तं, समादधच्चित्तं, विमोचच्चित्तं आश्वसन् विमोचयन् चित्तं विमोचयतीति माश्वसिमीति शिक्षते। विमोचयंश्चित्तं प्रश्वसन् विमोचयंश्चित्तं प्रश्वसिमीति शिक्षते। अनित्यानुदर्शी, प्रहाणानुदर्शी, विरागानुदर्शी आश्वसन्निरोधानुदर्शी आश्वसिमीति शिक्षते। निरोधानुदर्शी प्रश्वसन्निरोधानुदर्शी प्रश्वसिमीति शिक्षते। कः पुनरेषां विभागः (।) आकाराणां [।] स शैक्षो दृष्ट(प्र)पवादो लाभीभवति। चतुर्ण्णां स्मृत्युपस्थानानां आश्वा सप्रश्वासालम्बनं च (।) मनस्कारमारभते। अवशिष्टानां संयोजनानां प्रहाणाय [।] तेनाह स्मृतः। आश्वसन् स्मृत आश्वसिमीति शिक्षते। यदा आश्वासं वा प्रश्वासम्वा आलम्बते तदा दीर्घम् आश्वसिमि प्रश्वसिमीति शिक्षते। यदा अन्तराश्वास मन्तरा (न्तः)प्रश्वासं वा [ऽऽ]लम्बनीकरोति। तदा ह्रस्वमा [श्वसिमि] प्रश्वसिमीति शिक्षते। तथा हि आश्वासप्रश्वासा दीर्घाः प्रवर्त्तन्ते। अन्तराश्वासा अन्तर(न्तः) प्रश्वासाश्च हृस्वास्ते तथैव प्रवर्त्तन्ते। तथैवोपलक्षयति। जानाति। यदा सूक्ष्मसौर्षियगतानाश्वासप्रश्वासा विक्षेपानुप्रविष्टान् काये अधिमुच्यते। आलम्बनीकरोति। निरुद्धे च प्रश्वासेऽन्तर (न्तः)प्रश्वासे च। अनुत्पन्ने आश्वासेन्तराश्वासे च। प्रश्वासाश्वासशून्यां, तद्‍व्युपेतां, तद्‍व्यवहितां सितामवस्था मालम्बनी करोति॥

तस्मिन् समये प्रश्रभ्य कायसंस्कारानाश्वसन्, प्रश्रभ्य, कायसंस्कारानाश्वसिमीति शिक्षते। प्रश्रभ्य कायसंस्कारान् प्रश्वसन्, प्रश्रभ्य कायसंस्कारान् प्रश्वसिमीति शिक्षते। अपि तु खलु तस्यासेवनान्वयाद्भाव नान्वयाद् बहुलीकरान्वयात्। ये खरा, दुःसंस्पर्शा, आश्वासप्रश्वासाः पूर्व्वमकृतपरिचयस्य प्रवृत्ता भवन्ति। कृतपरिचयस्य अन्ये च मृदवः सुखसंस्पर्शाः प्रवर्त्तन्ते। तेनाह। प्रश्रभ्य कायसंस्कारानाश्वसिमीति शिक्षते। स चैवमानापानस्मृतिप्रयोगेण च युक्तः स चेल्लाभी भवति। प्रथमस्य वा ध्यानस्य, द्वितीयस्य वा यस्मिन् समये प्रीतिप्रतिसंवेदी आश्वसन्, प्रीतिप्रतिसंवेदी (।) आश्वसि मीति शिक्षते। स चेत्पुनर्लाभी भवति। निष्प्रीतिकस्य तृतीयस्य ध्यानस्य [।] स तस्मिन् समये सुखप्रतिसंवेदी भवति।

तृतीयध्यानादूर्ध्वं आनापानस्मृतिसंप्रयोगो नास्ति। येन यावत्तृतीयध्यानात् परिकीर्तितं संगृहीतं। तस्यैवं प्रीतिप्रतिसंवेदिनो वा, सुखप्रतिसंवेदिनो वा [।] स चेत्कदाचित्कर्ह (र्हि) चित्स्मृतिसंप्रमो षादुत्पद्यते। अस्मीति वा अयमहमस्मीति वा भविष्यामीति वा, न भविष्यामीति वा, रूपी भविष्याम्यरूपी भविष्यामि। संज्ञी, असंज्ञी। नैव संज्ञी, नासंज्ञी भविष्यामीत्येवं संमोहसंज्ञाचेतनासहगतमिञ्जितं मन्थित प्रपञ्चिता(तम)भिसंस्कृतं तृष्णागतमुत्पद्यते। य[त्]तदुत्पन्नं लघु लघ्वेव प्रज्ञया प्रतिविध्यति। नाधिवासयति। प्रजहाति। विनोदयति। व्यन्तीकरोति। एवं चित्तसंस्कारप्रतिसंवेदी प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति [आश्वसन् प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति] शिक्षते।

स चेत्पुनर्लाभी भवति मौलानां प्रथमद्वितीयतृतीयध्यानानां स चावश्यमनागम्यस्य प्रथमध्यानसामन्तकस्य लाभी भवति। स तं नि (तन्नि) श्रित्योत्पन्नं स्वं चित्तं प्रत्यवेक्षते। सरागं वा, विगतरागम्वा, सद्वेषम्वा, विगतद्वेषम्वा, संमोहं(समोहं) विगतमोहं, संक्षिप्तं, लीनं, प्रगृहीतमुद्धतमनुद्धतं, व्युपशान्तमव्युपशान्तं, समाहितमसमाहितं, सुभावितमसुभावितं, विमुक्तं चित्तमविमुक्तं चित्तमिति यथाभूतं प्रजानाति। प्रतिसंवेदयति। तेनाह चित्तप्रतिसंवेदी।

स यदा स्त्यान [मिद्ध] निवरणे चित्तं निश्रितं (।) भवति। अध्यात्मं संगमयतः यदान्यतमान्यतमेन प्रसादनीयेनालम्बनेन संदर्शयति। समादापयति। समुत्तेजयति। संप्रदीपयति। तेनाह [।]अभिप्रमोदयंश्चित्तं [।]

यदा [पुन] रौद्धत्यनिवरणेन कौकृत्यनिवरणेन निवृत्तं पश्यति। अभिसंप्रगृह्णत स्तदा अन्यतममान्यतमेन प्रसादनीयेनालम्बनेन संदर्शयत्यध्यात्ममवस्थापयति। शमयति, समाधत्ते। तेनाह समदधच्चितं (समादधंश्चित्तं)[।]

यदा च तच्चित्तमासेवनान्वयाद् भावनान्वयाद् बहुलीकरान्वयान्निवरणसमुदाचाराय दूरी कृतं भवति। निवरणेभ्यो विशोधितं (विमोचितं) [।] तेनाह[।] विमोचयच्चि (यंश्चि)त्तमाश्वसन्। विमोचयंश्चित्तमाश्वसिमीति शिक्षते।

तस्य निवरणेभ्यो विमुक्तचेतसो मार्गभावनाया आन्तरायिकेभ्यः अनुशया [अ]वशिष्टा भवन्ति। प्रहातव्याः [।] स तेषां प्रहाणाय मार्गं संमुखीकरोति यदुत संस्कारानित्यतामेव साधु च, सुष्ठु च, योनिशः प्रत्यवेक्षते। तेनाह। अनित्यानुदर्शी। तेन च पूर्व्वं प्रथमद्वितीयतृतीयध्यानसन्निश्रयेणानागम्यसंनिश्रयेण वा पुनः शमथयोगः [।] ऋजुं एतर्हि अनित्यानुदर्शि (र्शी) विपश्यनायां योगं करोत्येवं अस्य तच्चित्तं शमथविपश्यनापरिभावितं धातुषु विमुच्यते। यदुतानुशयेभ्यः।

कतमे धातवः [।] यश्च प्रहाणधातुर्यश्च विरागधातुः, यश्चनिरोधधातुः। तत्र सर्व्वसंस्काराणां दर्शनप्रहातव्यानां प्रहाणात्प्रहाणधातुः। सर्व्वसंस्काराणां भावनाप्रहातव्यानां प्रहाणाद्विराग धातुः। सर्वोपधिनिरोधान्निरोधधातुः। स एवं त्रीन्धातून् शान्ततो मनसि कुर्व्वन्, क्षेमत, आरोग्यतः, शमथविपश्यनां भावयति। येनास्यासेवनान्वयाद्भावान्वयाद् बहुलीकारान्वयादवशिष्टेभ्यो भावनाप्रहातव्येभ्यः क्लेशेभ्यश्चित्तं विमुच्यते। तेनाह। प्रहाणानुदर्शी, विरागानुदर्शी, निरोधानुदर्शी आश्वसन्निरोधानुदर्शी आश्वसिमीति शिक्षते। एवमयं दर्शनभावनाप्रहातव्येषु क्लेशेषु। प्रहीणेष्वर्हन्भवति। क्षीणास्रवः नास्त्यस्यात उत्तरिकरणीयं भवति। कृतस्य वा परिचयः। अयमस्योच्यते षोडशाकारः परिचयः। यश्चायं पंचविधः परिचय इयमस्योच्यते। आनापानस्मृतिः। यत्र वितर्कचरितः पुद्गलः प्रयुज्यमानः प्रियारो हतया प्रयुज्यते। सव्यापारं चैतदालम्बनं। सव्योक्षेपमध्यात्मं प्रत्यात्मं आसन्नासन्नं येनास्य तत्र प्रयुज्यमानस्य यो वितर्कसंक्षोभः स न भवति। त्वरितत्वरितं च चित्तमालम्बने सन्तिष्ठते। अभिरमते। संजायते। इदं पञ्च [विधं] (सं) वितर्कचरितस्य पुद्गलस्य चरितविशोधनमालम्बनं।

तत्र कौशलालम्बनं (कौशल्यालम्बनं) च [क] तमत् तद्यथा। स्कन्धकौशल्यं, धातुकौशल्यमायतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यं। तत्र कतमे स्कन्धाः, कतमः (मत्) स्कन्धकौशल्यं॥ आह। पंच स्कन्धाः। रूपस्कन्धो वेदनास्कन्धः। संस्कारस्कन्धो विज्ञानस्कन्धश्च॥

तत्र रूपस्कन्धो यत्किंचिद्रूपं सर्वं तच्चत्वारि महाभूतानि। चत्वारि महाभूतान्युपादाय। तत्पुनरतीतानागतप्रत्युत्पन्नमाध्यात्मिकं वा, बाह्यम्वा, [औदारि]कम्वा, सूक्ष्म्वा, हीनम्वा, प्रणीतम्वा, दूरे वा, अन्तिके वा।

तत्र वेदनास्कन्धः कतमः [।] सुखवेदनीयम्वास्पर्शं प्रतीत्य, दुःखवेदनीयम्वा, अदुःखासुखवेदनीयम्वा [।] षडवेदनाकायाः। चक्षुः संस्पर्शजा वेदना [।श्रो] त्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदना॥

तत्र संज्ञास्कन्धः कतमः [।] तद्यथा सनिमित्तसंज्ञा, अनिमित्तसंज्ञा, परीत्तसंज्ञा। महद्गतसंज्ञा। अप्रमाणसंज्ञा। नास्ति किञ्चिदित्याकिञ्चन्यायतनसंज्ञा। षट्संज्ञाकायाः॥ चक्षुःसंस्पर्श [जा] संज्ञा॥ श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा संज्ञा॥ संस्कार [स्कन्धः] कतमः। षट्चेतना कायाः चक्षुः संस्पर्शजा चेतना, श्रोत्रघ्राणजिह्वकायमनः संस्पर्शजा चेतना [।] चेतनां च संज्ञा च स्थापयित्वा॥ ये तदन्ये चैतसिका धर्माः॥

तत्र विज्ञानस्कन्धः कतमः। यच्चित्तं मनोविज्ञानं [।] ते पुनः षड्विज्ञानकायाः। चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वकायमनोविज्ञानं। सा चैषा वेदना संज्ञा संस्कारस्तच्चैतद्विज्ञानं। अतीतानागतप्रत्युत्पन्नमाध्यात्मिकं वा बाह्यम्वा इति विस्तरेण पूर्व्ववत्॥ इम उच्यन्ते स्कन्धाः॥

स्कन्धकौशल्यं कतमत्। य एतान्यथोद्दिष्टान्धर्मान्नानात्मकतया च जानाति। बह्वात्मकतया च, न ततः परमुपलभते। विकल्पयति वा। इदमुच्यते समासतः स्कन्धकौशल्यम्॥

तत्र कतमा नानात्मकता स्कन्धानामन्य एव रूपस्कन्धोऽन्यो वेदनास्कन्ध एवं। अन्यो यावद्विज्ञानस्कन्ध इयं नानात्मकता॥

तत्र कतमा बह्वात्मकता। यो रूपस्कन्धो नेकविधो नानाप्रकारः। भूतलौकिकभेदेनानागतप्रत्युत्पन्नादिकेन च। प्रकारभेदेन [।] इयमुच्यते अनेकात्मकता। रूपस्कन्धस्यैवमवशिष्टानां स्कन्धानां यथायोगं वेदितव्यम्। किं च न तस्मात्परं उपलभते, विकल्पयति। स्कन्धमात्रमुपलभते। वस्तुमात्रं नो तु स्कन्धव्यतिरेकेणाह्वा(त्मा)नमुपलभते। नित्यध्रुवमविपरिणामधर्मकं, नाप्यात्मीयं किंचिदिदं नोपलभते। नो विकल्पयति तस्मात्परेण।

तत्र कतमे धातवः। कतमद्धातुकौशल्यं। आह। अष्टादश धातवः। चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुः। श्रोत्रधातुः। शब्दधातुः। श्रोत्रविज्ञानधातुः। घ्राणधातुः। गन्धधातुः। घ्राणविज्ञानधातुः। जिह्वधातूरसधातुः। जिह्वविज्ञानधातुः। कायधातुः, स्प्रष्टव्यधातुः, कायविज्ञानधातुर्धर्मधातुर्मनो विज्ञानधातुरिम‍उच्यन्ते धातवः। यत्पुनरेतानष्टादशधर्मान्स्वकस्वकाद्धातोः स्वकस्वकाद्वीजात्। स्वकस्वकाद्गोत्राज्जायन्ते निर्वर्तन्ते प्रादुर्भवन्तीति। जानाति रोचयत्युपनिध्याति। इदमुच्यते धातुकौशल्यं॥ यदष्टादशानां धर्माणां स्वरुस्वकाद्धातोः प्रवृत्तिं जानाति। तदेवमेति हेतुप्रत्यकौशल्यमेतद्यदुत धातुकौशल्यं॥

तत्र कतमान्यायतनानि। कतमदायतनकौशल्यमाह। द्वादशयतनानि। चक्षुरायतनं, रूपायतनं। श्रोत्रायतनं। शब्दायतनं। घ्राणायतनं। गन्धायतनं। जिह्वायतनं। रसायतनं। कायायतनं। स्प्रष्टव्याय तनं, मन आयतनं, धर्मायतनं च। इमान्‍युच्यन्ते आयतनानि। कतमदायतनकौशल्यं। तत्र चक्षुरधिपतिः रूपाण्यालम्बनं चक्षुर्विज्ञानस्य संप्रयोगस्योत्पत्तये [।] समनन्तरनिरुद्धं च मनः समनन्तरप्रत्ययः। तत्र श्रोत्रमधिपतिः। शब्द आलम्बनं। समन[न्तर] निरुद्धं च मनः समनन्तरप्रत्ययः। श्रोत्रविज्ञानस्य स संप्रयोगस्योत्पत्तये[।] एवं यावन्मनः समनन्तरं तज्जो मनसिकारोधिपतिप्रत्ययो धर्मालम्बनं (धर्म आलम्बनं) मनोविज्ञानस्य संप्रयोगस्योत्पत्तये इति। त्रिभिः प्रत्ययैः समनन्तरप्रत्ययेन, आलम्बनप्रत्ययेनाधिपतिप्रत्ययेन च। षण्णां विज्ञानकायानां प्रवृत्तिर्भवति। ससंप्रयोगाना(णा)मिति। यदेवमाध्यात्मिकबाह्येष्वायतनेषु प्रत्ययकौशल्यमिदमुच्यते आयतनकौशल्यम्॥

तत्र कतमः प्रतीत्यसमुत्पादः कतमः (मत्) प्रतीत्यसमुत्पादकौशल्यं [।] आह। अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययम्विज्ञानं, विज्ञानप्रत्ययं नामरूपं। विस्तरेण यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवत्ययमुच्यते प्रतीत्यसमुत्पादः। यत्पुरर्धर्मा एव धर्मानभिष्पन्दयति(न्ति) धर्मा एव धर्मान् परिष्पन्दयन्ति। संस्कारा एव धर्माणामाहारकाः तेन हेतुसमुत्पन्नत्वात् प्रतीत्यसमुत्पन्नत्वात्वादभूत्वा भवन्ति। भूत्वा च प्रतिविगच्छन्ति। तस्मादनित्या एते संस्कारा ये पुनरनित्यास्ते जातिधर्माणो, जरांधर्माणो, व्याधिधर्माणो, मरणधर्माणः, शोकपरिदेवदुःखादौर्मनस्योपायासधर्माणः। ते जरा धर्मित्वाद्यावदुपायासधर्मित्वात्। दुःखा, ये वा पुनर्दुःखा, अस्वतन्त्रा, दुर्बलास्ते अनात्मान इति। यदेभिराकारैः प्रतीत्यसमुत्पन्नेषु धर्मेषु अनित्यज्ञानं, दुःखज्ञानं, नैरात्म्यज्ञानं। इदमुच्यते प्रतीतत्यसमुत्पादकौशल्यम्॥

स्थानास्थानकौशल्यं पुनः प्रतीत्यसमुत्पाद एव वेदितव्यं॥ तत्रायं विशेषः [।] स्थानास्थानकौशल्येना विषमहेतुकतां जानाति। अस्ति कुशलाकुशलानां कर्मणां फलविपाकः। अकुशलानामनिष्ट इति॥ यदेवं ज्ञानमिदमुच्यते स्थानास्थानकौशल्यं॥ तच्चैतत्पञ्चस्थानकौशल्यं समासतः स्वलक्षणकौशल्यं भवति। सामान्यलक्षणकौशल्यं च। तत्र स्कन्धकौशल्येन स्वलक्षणकौशल्यमाख्यातं। अवशिष्टैः सामान्यलक्षणकौशल्यमिदमुच्यते कौशल्यालम्बनं॥

तत्र क्लेशविशोधनमालम्बनं कतमत्। आह। अधोभूमीनामौदारिकत्वं तद्यथा कामधातौ प्रथमध्यानस्य एवं यावन्नैव संज्ञानासंज्ञायतनस्य।

तत्र कतमा औदारिकता। औदारिकता द्विविधा। स्वभावोदारिकता (स्वभावौदारिकता) संख्यौदारिकता च।

तत्र स्वभावौदारिकता कामधातावपि पञ्च स्कन्धाः संविद्यन्ते। प्रथमे तु ध्याने ये कामावचरास्ते सादीनवतराश्च दुःखविहार त[रा] [श्]च। अल्पकावस्थायितराश्च। हीनतराः प्रतिक्रुष्टतराश्च [।] इयमेषां स्वभावौदारिकता प्रथमे तु ध्याने [।] तथा तेन ते शान्ततराः प्रणीततरा इत्युच्यन्ते।

तत्र संख्यौदारिकता कतमा। कामावचरो रूपस्कन्धः प्रभूततरः परिज्ञेयः। प्रहातव्य एवं यावद्विज्ञानस्कन्ध इयमुच्यते स्कन्धौदारिकता॥ एवमुपरिमाभूमिषु स्वभावो (वौ)दारिकता संख्यौदारिकता च। यथायोगं वेदितव्याः (ः)।

इयं तूपरिमासु भूमिषु यावदाकिंचन्यायतना[त्]तदौदारिकत[रा]श्च वेदितव्याः सर्वा अधरिमा भूमयः। दुःखविहारत[रा]श्च अल्पायुष्कतराश्च, नैवसंज्ञानासंज्ञायतनं पुनः शान्तमेव उपरि श्रेष्ठतया भूमेरभावात्। यत्र समासत आदीनवार्थः। औदारिकतार्थः। यस्यां यस्यां भूमौ प्रभूततरमा(आ)दीनवं(वो) भवति। सा आदीनवतः। औदारिकेत्युच्यते। यस्यां लौकिकानां भूमावल्पतर मा(आ)दीनवं(वो) भवति। सा आदीनवतः शान्तेत्युच्यते। इदं लौकिकानां लौकिकेन मार्गेण क्लेशविशोधनमालम्बनं तथापि तस्याधरिमां भूमिमादीनवतः पश्यतः। रोगतः, अयोगक्षेमतः, उपरिमांच भूमिं शान्ततः [।] ये अधोभूमिकाः क्लेशा यावदाकिंचन्यायतनभूमिकाः, कामधातुमुपादाय ते प्रहीयन्ते। न त्वत्यन्ततः प्रहीयन्ते। ते पुनरेव ते प्रतिसन्धिका भवन्ति।

लोकोत्तरेण वा पुनर्मार्गेण क्लेशविशोधनमालम्बनं चतुर्विधं, तद्यथा। दुःखसत्यं, समुदयसत्यं, निरोधसत्यं, मार्गसत्यञ्च॥

तत्र दुःखसत्यं कतमत्। तद्यथा जातिर्दुःखं जरापि [दुःखं]व्याधिर्मरणमप्रियसंयोगः प्रियविनाभाव इच्छाविघातश्च। संक्षेपतः पञ्चोपादानस्कन्धा दुःखं[।]

तत्र समुदय आर्यसत्यं तृष्णा पौनर्भविकी नन्दीरागसहगता तत्र तत्राभिनन्दिनी॥

तत्र निरो[ध आ]र्य सत्यं यदस्या एव तृष्णाया अशेषप्रहाणं॥ मार्गसत्यं आर्याष्टांगो मार्गः[।]

तत्र कृष्णपक्षं शुक्लपक्षं चोपादाय हेतुफलव्यवस्थानेन चतुःसत्यव्यवस्थानं॥

तत्र दुःखसत्यं फलं। समुदयसत्यं हेतुः। निरोधसत्यं फलं। मार्गसत्यं हेतुः प्राप्तये, स्पर्शनायै। तत्र दुःखसत्यं व्याधिस्थानीयं तत्प्रथमतः परिज्ञेयं। समुदयसत्यं व्याधिनिदानस्थानीयं। तच्चान्तरम्परिवर्जयितव्यं। निरोधसत्यमारोग्यस्थानीयं। तच्च स्पर्शयितव्यं (स्प्रष्टव्यम्), साक्षात्कर्तव्यं। मार्गसत्यं भैषज्यस्थानीयं। तच्चासेवितव्यं, भावयितव्यं। बहुलीकर्तव्यं। भूतं चैतत्तथा अवितथा (-थम) विपरीतमविपर्यस्तं दुःखं दुःखार्थेन, यावन्मार्गो मार्गार्थेन तस्मात्सत्यमित्युच्यते। स्वलक्षणं च[न] विसम्वदति। तद्‍दर्शनाच्चाविपरीता बुद्धयः प्रवर्त्तन्ते। तेन सत्यमित्युच्यते [।]

कस्मात्पुनरेतान्यार्याणामेव सत्यानि भवन्ति। आर्या एतानि पश्यन्त्येव समानानि, सत्यता (तो) जानन्ति पश्यन्ति (।) यथाभूतं, बालास्तु न जानन्ति, न पश्यन्ति। यथाभूतं तस्मादार्यसत्यानीत्युच्यन्ते। बालानामेतद्धर्मतया सत्यं नावबोधेत(बुध्यते)। आर्याणां तूभयथा तत्र जानाति (ज्ञायते)।

दुःखमिति जायमानस्य दुःखा वेदनोत्पद्येत (।) कायिक चैतसिकी, न तु ज[।]तिरेव दुःखं, दुःखनिदानं सा, एवं यावदिच्छाविघातो दुःखमिति॥ इच्छाविघातनिदानं दुःखमुत्पद्येत। कायिकचैतसिकं, न त्विच्छाविघात एव(।) दुःखं, दुःखनिदानं पुनः स इति पेयालम्। संक्षेपतः पंचोपादानस्कन्धाः दुःखमित्येभिर्जात्यादिभिः पर्यायै[ः]। दुःखदुःखतैव परिदीपिता। तत्र विपणामदुःखता संस्कारदुःखता चावशिष्टा। सा पुनः पञ्चस्कन्धदुःखतया परिदीपिता भवति। तथा हि पंचोपादानस्कन्धास्त्रिवेदनापरिगतास्ते तथोक्तायाः दुखदुःखताया भाजनभूता[ः। ] या च नोक्ता विपरिणामदुःखता। संस्कारदुःखता च। साप्येष्वेव द्रष्टव्या।

केन पुनः कारणेन भगवता दुःखदुःखतैव परिकीर्त्तिता। स्वशब्देन विपरिणामदुःखता, संस्कारदुःखता पुनः पर्यायेण[।]तथा हि दुःखदुःखताया मार्याणां बालानाञ्च तुल्या दुःखताबुद्धिः प्रवर्त्तते। संवेजिकात्यर्थं दुःखदुःखता पूर्व्वमकृतप्रज्ञानामेवं च देश्यमाने सुखमवतारो भवति। सत्येषु विनेयानां [।]

तत्र त्रिविधाया दुःखतायाः कथं व्यवस्थानं भवति। यत्तावद्‍दुःखं जातिर्दुःखं यावदिच्छाविघातो दुःखमित्यनेन साधिष्ठाना दुःखा वेदना आख्याता॥ सा च दुःखदुःखता[।] इदं दुःखदुःखताया व्यवस्थानं। ये वा पुनरेतद्विपक्षा धर्मास्तथा यौवनं जराया, व्याधेरारोग्यं, जीवितं मरणस्य, प्रियसंप्रयोगो[ऽ]प्रियसंप्रयोगस्य। अप्रियविनाभावः प्रियविनाभावस्य, इच्छासम्पत्तिरिच्छाविघातस्य, ये च दुःखायां वेदनायां प्रवृत्ताः क्लेशाः साधिष्ठाना, ये चारोग्यादिषु सुखस्थानीयेषु धर्मेषु तन्निर्जातायां च वेदनायां ये प्रवृत्ताः क्लेशा इयमुच्यते विपरिणाम दुःखता॥

तत्र सुखा वेदना साधिष्ठाना अनित्यतया प[रि]णमन्ती। अत्यर्थीभावाधिपतेयं दुःखं विदधाति। क्लेशाः पुनः सर्व्वत्र प्रवृत्ताः पर्यवस्थानष(श)एव दुःखा भवन्ति। विपरिणामश्च स चेतसः तस्माद्विपरिणामदुःखतेत्युच्यते॥ यथोक्तं भगवता-अवतीर्ण्णविपरिणतेन चित्तेन मातृग्रामस्य हस्तिग्रहणं चेति विस्तरः॥ यथा चोक्तं-काम[च्]छन्दपर्यवस्थितः। काम[च्]छन्दपर्यवस्थानप्रत्ययं तज्जं चतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयते। एवं व्यापादस्त्यानमिद्धामौद्ध(मिद्धौद्ध)त्यकौकृत्यविचिकित्सापर्यवस्थितः। तदनेनागमेनाप्तेन परमाप्तेन क्लेशेषु दुःखार्तोपि लम्बते। विपरिणामार्थो(र्त्तो)पि। तेनोच्यते क्लेशविपरिणाम[दुःखते ति[।]इदं विपरिणाम] दुःखताया व्यवस्थानं। संस्कारदुःखता पुनः। सर्व्वत्रगा उपादानस्कन्धेषु संक्षेपत आर्या च दुखदुःखता, या च क्लेशसंगृहीता विपरिणामधर्मता, ये (या) च साधिष्ठाना सुखा वेदना तां स्थापयित्वा, ये तदन्ये स्कन्धाश्च दुःखाः(दुःख)सहगतास्तन्निर्जातास्तदुत्पत्तिप्रत्यया स्तस्य चोत्पन्नस्य स्थितिभाजना इयमुच्यते संस्कारदुःखता॥ ये स्कन्धा अनित्या उदयव्यययुतो(ताः) सोपादानास्त्रिवेदनाभिरनुषक्ता [ः]। दौष्ठुल्योपगता अयोगक्षेमपतिता अविनिर्मुक्ताः। दुःखदुःखताया विपरिणामदुःखताया अस्ववशवर्तिनश्च[।] इयमुच्यते संस्कारदुःखतया दुःखता[।] इदं संस्कारदुःखताया व्यवस्थानं।

तभ(त्र)तृष्णा प्रार्थनाभिलाषोभिनन्दनेति पर्यायाः [।]सा पुनः प्रार्थना त्रिभिर्मुखैः प्रवृत्ता(स्)तद्यथा पुनर्भवप्रार्थना, विषयप्रार्थना च। तत्र या पुनर्भवप्रार्थना मा पौनर्भविकी तृष्णा। विषयप्रार्थना पुनर्द्विविधा[।] प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता, अप्राप्तेषु च विषयेषु संयोगाभिलाषसहगता[।] तत्र या प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता नन्दीरागसहगतेत्युच्यते। या पुनरप्राप्तेषु विषयेषु संयोगाभिलाषसहगता तत्र तत्राभिनन्दिनीत्युच्यते।

निरोधोपिद्विविधः। क्लेशनिरोधः, उपक्लेशनिरोधश्च।

मार्गोपि द्विविधः। शैक्षश्चाशैक्षश्च। इदमालम्बनं क्लेशविशोधनं लोकोत्तरेण मार्गेण वेदितव्यं। तेनाह चतुर्व्विधमालम्बनं। व्याप्यालम्बनं, चरितविशोधनं, कौशल्यालम्बनं, क्लेशविशोधनं चेति॥

तत्राववादः कतमः। चतुर्विधो[अ]ववादः। अविपरीताववादः। अनुपूर्व्वाववादः। आगमाववादः। अधिगमाववादश्च॥

तत्राविपरीताववादः कतमः। यदविपरीतं धर्मसत्त्वं च देशयति। ग्राहयति। भूतं यदस्य निर्याति। सम्यग्दुःखक्षयाय। दुःखस्यान्तक्रियायै[।] अयमुच्यतेऽविपरीताववादः।

अनुपूर्व्वाववादः कतमः। यत्कालेन धर्मं देशयति। उत्तानोत्तानानि [स्थानानि] तत्प्रथमतो ग्राहयति। वाचय[ति]। ततः पश्चाद्गंभीराणि प्रथमस्य वा सत्यस्याभिसमयाय तत्प्रथमतोववदते। ततः पश्चात्समुदयनिरोधमार्गसत्यस्य, प्रथमस्य ध्यानस्य समापत्तये तत्प्रथमतोववदते। ततः पश्चादन्यासां ध्यानसमापत्तीनामयमेवंभागीयोनुपूर्व्वाववादो वेदितव्यः।

तत्रागमाववादो यथा तेन गुरूणामन्तिकादागमितं भवति। गुरुस्थानीयानां, योगज्ञानां, आचार्याणामुपाध्यायस्य वा, तथागतस्य वा, तथागतश्रावकस्य वा[।]तथैवानेनान्यूनमधिकं कृत्वा परानववदते। अयमुच्यते आगमाववादः।

तत्राधिगमाववादः[।] यथानेन तेधर्मा अधिगता भवन्ति। स्पर्शिताः(स्पृष्टाः) साक्षात्कृता, एकाकिना व्यवकृष्टविहारिणा। तञ्चैव परेषां प्राप्तये। स्पर्शनायै साक्षात्क्रियायै। अववदते[।] अयमुच्यते अधिगमाववादः।

अस्ति पुनः सर्व्वाकारपरिपूर्ण्णोववादः। स पुनः कतमः[।] यस्त्रिभिः (यत् त्रिभिः) प्रातिहारर्यैववदति। ऋद्धिप्रातिहार्येण, आदेशनाप्रातिहार्येण। अनुशास्तिप्रातिहार्येण। ऋद्धिप्रातिहार्येण, अनेकविधमृद्धिविषयमुपदर्शयत्यात्मनि च बहुमानं ज[न]यति। परेषां यथा तेन बहुमानजाताः। श्रोत्रावधानयोगे मनसिकारे आदरजाता भवन्ति। तत्र[।]देशना प्रातिहार्येण चित्तचरितं समन्वेष्य अनुशास्तिप्रातिहार्येण यथेन्द्रियं, यथाचरितं, यथावतारंधर्मदेशनां देशयति। प्रतिपक्षे समनुशास्ति। तेनायं प्रातिहार्यत्रयसंगृहीतः परिपूर्ण्णाववादो भवति॥

तत्र शिक्षा कतमा। आह। तिस्रः शिक्षाः[।] अधिशीलं शिक्षा, अधिचित्तमधिप्रज्ञं शिक्षा॥

तत्राधिशीलं शिक्षा कतमा। यथापि तच्छीलं वा (तच्छीलवान्) विहरतीति विस्तरेण पूर्व्ववत्॥

तत्राधिशीलं (चित्तं)शिक्षा विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं, सविचारं, विवेकजं, प्रीतिसुखं, चित्तैकाग्रता[ञ्]च, प्रथमं ध्यानं यावच्चतुर्थं ध्यानमुपसम्पद्य विहरति। इयमधिचित्तं, शिक्षा। अपि खलु सर्व्वे आरूप्यास्तदन्याश्च समाधिसमापत्तयः। अधिचित्तं शिक्षेत्युच्यते। अपि तु ध्यानानि निश्रित्य तत्प्रथमतः सत्याभिसमयोमा वक्रान्तिर्भवति। न तु सर्व्वेण सर्व्वं विना ध्यानैः तस्मात्प्रधानानि ध्यानानि कृत्वा अधिचित्तं शिक्षेत्युक्तानि।

तत्राधिप्रज्ञं शिक्षा या चतुर्ष्वार्यसत्येषु यथाभूतं ज्ञानं[।]

केन कारणेन तिस्र एव शिक्षा न तदूर्ध्वं। आह। समाधिप्रतिष्ठार्थेन। ज्ञानसंनिश्रयार्थेन। कृत्यकरणार्थेन च[।] तत्र समाधिप्रतिष्ठार्थेनाधिशीलं। शिक्षा। तथा हि शीलं प्रतिष्ठाय चित्तैकाग्रतां स्पृशति (॥) चित्तसमाधिं [॥] तत्र ज्ञानसन्निश्रयार्थेन अधिचित्तं शिक्षा। तथा हि समाहितचित्तस्यैकाग्रता। स्मृत्या ज्ञेये वस्तुनि यथाभूतं ज्ञानदर्शनं प्रवर्त्तते। तत्र कृत्यकरणार्थेन अधिप्रज्ञं शिक्षा। तथा हि सुविशुद्धेन ज्ञानदर्शनेन क्लेशप्रहाणं साक्षात्करोति। एष हि स्वार्थ ए[तत्] परमं कृत्यं यदुत क्लेशप्रहाणं [।]तत उत्तरिकरणीयं पुनर्नास्ति। तेन एतास्तिस्र एव शिक्षाः।

काः पुनरासां शिक्षाणामानुपूर्व्वीषु विशुद्धशीलस्य विप्रतिसारः[।] अविप्रतिसारिणः प्रामोद्यं, प्रीतिः, प्रश्रब्धिः, सुखं, सुखितस्य चित्तसमाधिः [।] समाहितचित्तो यथाभूतं प्रजानाति। यथाभूतं पश्यति। यथाभूतं जानन्पश्यन्निर्विद्यते। निर्विण्णो विरज्यते। विरक्तो विमुच्यते। विमुक्तो[अ]नुपादाय परिनिर्व्वाति। एवमिमानि शीलानि भावितानि अग्रतायामुपनयन्ति। यदुतानुपादाय परिनिर्व्वाणमियमासां शिक्षाणामानुपूर्व्वी।

तत्र केन कारणेनाधिशीलं शिक्षा अधिशीलमित्युच्यते। एवमधिचित्तमधिप्रज्ञमधिकारार्थेना(धिकारार्थेन) च।

तत्र कथमधिकारार्थेना (ना अ) धिचित्तमधिकृत्य यच्छीलं सा अधिशीलं शिक्षा। अधिप्रज्ञमधिकृत्य यश्चित्तसमाधिः। सा अधिचित्तं शिक्षा।

क्लेशप्रहाणमधिकृत्य यज्ज्ञानं दर्शनं। सा अधिप्रज्ञं शिक्षा।

या चाधिचित्तं। या चाधिप्रज्ञं शिक्षा। एताः शिक्षाः अस्मिन्नेव शासने असाधारणा इतो बाह्यैरेवमधिकार्थेन [।]

अस्ति पुनरधिचित्तं शिक्षा या अधिप्रज्ञं शिक्षाया आवाहिका, अस्त्यधिप्रज्ञं शिक्षा या अधिचित्तं शिक्षाया आवाहिका। तद्यथा। आर्यश्रावकः। अलाभी मौलध्यानानां, शैक्षो, दृष्टपदः, ततः पश्चाद्भावनाप्रहातव्यानां क्लेशानां प्रहाणाय प्रयुज्यमान[ः]स्मृतिसंबोध्यंगं भावयति। इयमधिप्रज्ञं शिक्षा(।)अधिचित्तं शिक्षाया आवाहिका। अधिचित्तं पुनः शिक्षा अधिप्रज्ञाया आवाहिका पूर्व्वमेवोक्ता॥ तत्र अस्त्यधिशीलं शिक्षा। नाधिचित्तं, नाधिप्रज्ञं। अस्त्यधिशीलमधिचित्तं, नाधिप्रज्ञं। न त्वस्त्यधिप्रज्ञं शिक्षा या विनाधिशीलेनाधिचित्तेन च। अतो यत्राधिप्रज्ञं। शिक्षा। तत्र तिस्रः शिक्षा वेदितव्या[ः]॥ इदं तावच्छिक्षाव्यवस्थानं। तत्र योगिना योगप्रयुक्तेन शिक्षितव्यं।

तत्र त्रयः पुद्गलाः सत्यान्यभिसमागच्छन्ति। कतमे त्रयस्तद्यथा। अवीतरागः यद्भूयो वीतरागः, वीतरागश्च।

तत्र सर्व्वेणसर्व्वमवीतरागः सत्यान्यभिसमागच्छन् सह सत्याभिसमयात्स्रोत (-येन स्त्रोत) आपन्नो भवति।

यद्भूयो वीतरागः पुनः सकृदागामी भवति।

वीतरागः सह सत्याभिसमयाद् (येना) नागामी भवति।

त्रीणीन्द्रियाणि। अनाज्ञातमाज्ञास्यामीन्द्रियं। आज्ञेन्द्रिय माज्ञातवत इन्द्रियं।

एषामिन्द्रियाणां कथं व्यवस्थानं भवति। अनभिसमितानां सत्यानां अभिसमयाय प्रयुक्तस्य अनाज्ञातमाज्ञास्यामीन्द्रियव्यवस्थानं। अभिसमितवतः शैक्षस्याज्ञेन्द्रियव्यवस्थानं। कृतकृत्यस्याशैक्षस्यार्हतः। आज्ञा[तावीन्द्रिय]व्यवस्थानं।

त्रीणि विमोक्षमुखानि। तद्यथा शून्यता [अ]प्रणिहितमानिमित्तेमेषां त्रयाणां विमोक्षमुखानां कथं व्यवस्थानं भवति। आह[।]द्वयमिदं संस्कृतमसंस्कृतञ्च।

तत्र संस्कृतं त्रैधातुकप्रतिसंयुक्ताः पञ्चस्कन्धाः, [अ]संस्कृतं पुनः निर्व्वाणं। इदमुभयं यच्च संस्कृतं, यच्चा संस्कृतमित्युच्यते।

यत्पुनरिदमुच्यते। आत्मा वा, सत्त्वो वा, जीवो वा, जन्तुर्वा, इदमसत्। तत्र संस्कृते दोषदर्शनादादीनवदर्शनादप्रणिधानं भवति। अप्रणिधानाच्चाप्रणिहितं विमोक्षमुखं व्यवस्थाप्यते। निर्वाणे पुनः तत्र प्रणिधानवतः प्रणिधानं भवति। शान्तदर्शनं। प्रणीतदर्शनं। निःसरणदर्शनं च। निःसरणदर्शनाच्च पुनरानिमित्तं विमोक्षमुखं व्यवस्थाप्यते। तत्रासत्यसम्विद्यमाने नैव प्रणिधानं भवति। तद्यथैवासत्तथैवासदिति। जानतः पश्यतः शून्यताविमोक्षमुखं व्यवस्थाप्यते। एवं त्रयाणां विमोक्शमुखानां व्यवस्थानं भवति॥

तत्र कतमे शिक्षानुलोमिका धर्माः। आह दश शिक्षाविलोमा धर्माः। तेषां प्रतिपक्षेण दश शिक्षानुलोमिका [धर्मा] वेदितव्याः।

तत्र कतमे शिक्षाविलोमाधर्मास्तद्यथा। मातृग्रामः। शिशुरुदारवर्ण्णो रंजनीयः। शिक्षाप्रयुक्तस्य कुलपुत्रस्याधिमात्रमन्तरायकरः परिपन्थकः, सत्कायपर्यापन्नेषु संस्कारेषु नियन्तिरालस्यं, कौसीद्यं। सत्कायदृष्टेः कबडंकाराहारमुपादाय रसरागः। लोकाख्यानकथास्वनेकविधासु बहुनानाप्रकारासु चित्रेषु (त्रासु) छ(च्छ)न्दरागानुनयः, धर्मचिन्ता, योगमनसिकारापक्षालः। स पुनः कतमस्तद्यथा र[से]षु वा, सत्येषु वा, स्कन्धेषु वा[।]कर्मफले वा प्रहाणप्रयुक्तस्य च कायदौष्ठुल्यशैथिलिकस्य शमथविपश्यनापक्षालमनसिकारः। स्त्यानमिद्धेन वा चित्ताभिभवः। चित्ताभिसंक्षेपः। अन्वारब्धवीर्यस्य वा कायिकक्लमः। चैतसिक उपायासः। अतिलीनवीर्यस्य विशेषासंप्राप्तिः कुशलपक्षपर्यादानं। लोभेन वा, यशसावा, प्रशंसया वा, अन्यतमान्यतमेन वा सुखलवमात्रत्वेन, नन्दीसौमनस्यमौद्धत्यमव्युपशमः। औद्विग्न्य मुत्प्लावितत्वं। सत्कायनिरोधे निर्व्वाणे उत्त्रासश्ठ(ःस्त)म्भितत्वं। अमात्रया प्रयोगः। अत्यभिजल्पः। धर्म्यामपि कथां कथयता विगृह्य कथामारभ्यानुयोगः। पूर्वदृष्टश्रुतानुभूतेषु विषयेष्वनेकविधेषु बहुनानाप्रकारेषु चित्तविसारः चित्ता क्षेपः। अनित्येषु च संस्का[रेषु] निध्यायितत्वं, इमे धर्माश्चिन्तायोगमनसिकारापक्षाला वेदितव्याः।

ध्यान [समापत्ति] सुखास्वादनता, आनिमित्तं समापत्तुकामस्य संस्कारनिमित्तानुसारिता। स्पृष्टस्य शारीरिकाभिर्वेदनाभिः, दुःखामिर्यावत्प्राणहारिणीभिर्जीवितनियन्ति[ः]।, जीविताशा तदाशानुगतस्य शोचना, क्लाम्यना, परिदेवना इति। इमे दश शिक्षाविलोमा धर्माः [।]

कतमे दश शिक्षापदानां विलोमानां धर्माणां प्रतिपक्षेण शिक्षानुलोमिका भवन्ति। तद्यथा-अशुभसंज्ञा, अनित्ये दुःखसंज्ञा। दुःखे अनात्मसंज्ञा। आहारे प्रतिकूलसंज्ञा। सर्वालोके अनभिरतिसंज्ञा। आलोकसंज्ञा। विरागसंज्ञा। निरोधसंज्ञा। मरणसंज्ञा। इतीमा दश संज्ञा[ः]। आसेविता भाविता बहुलीकृता दशविधस्य शिक्षापरिपन्थकस्य दशानां शिक्षाविलोमानां धर्माणां प्रहाणाय सम्वर्तन्ते।

तत्र धर्मालोकः। अर्थालोकः। शमथालोको, विपश्यनालोकश्च। एतानालोकानधिपतिं कृत्वा आलोकसंज्ञा। अस्मिन्नर्थे अभिप्रेता। धर्मचिन्तायोगमनसिकारः। परिपन्थस्य प्रहाणाय॥

तत्रापरे दश शिक्षानुलोमिका धर्मा वेदितव्याः। कतमे दश[।]तद्यथा पूर्व्वको हेतुः। आनुलोमिक उपदेशः। योनिशः प्रयोगः। सातत्यसत्कृत्यकारिता तीव्र[च्]छन्दता, योगबलाधानता, कायचित्तदौष्ठुल्यप्रतिप्रश्रब्ध(ब्धि) रभीक्ष्णप्रत्यवेक्ष[ण]ता। अपरितमना, निरभिमानता च।

तत्र पूर्व्वको हेतुः कतमः। यः पूर्व्वमिन्द्रिय परिपाकः। इन्द्रियसमुदागमश्च। [तत्रानुलोमिक उपदेशः कतमः] य उपदेशो[ऽ]विपरीतश्चान(नु)पूर्व्विकस्य(श्च)।

तत्र योनिशः प्रयोगः। यथैवा[व]वदितः(वोदितः)। तथैव प्रयुज्यते। तथा प्रयुज्यमानः सम्यग्दृष्टिमुत्पादयति॥

तत्र सातत्यसत्कृत्यकारिता[।] षडूपेण प्रयोगेण अबन्ध्यञ्च कालं करोति। कुशलपक्षेण क्षिप्रमेव कुशलपक्षं समुदानयति।

तत्र तीव्र[च्]छन्दता [।] यथापि तदुत्तरे विमोक्षे स्पृहामुत्पादयति। कदा स्विदहं तदायतनमुपसम्पद्य विहरिष्यामि। यदार्या आयतनमुपसंपद्य विहरन्तीति।

तत्र योगबलाधानता [।] द्वाभ्यां कारणाभ्यां योगबलाधानप्राप्तो भवति। प्रकृत्यैव च तीक्ष्णेन्द्रियतया, दीर्घकालाभ्यासपरिचयेन च। तत्र कायचित्तदौष्ठु[ल्यं, प्रीतिः] प्रश्रब्धिर्यथापि तच्छ्रान्तकायस्य क्लान्तकायस्योत्पद्यते। कायदौष्ठुल्यं, चित्तदौष्ठुल्यं। तदीर्यापथान्तरकल्पनया प्रतिप्रस्रम्भयति। अतिवितर्कितेनातिविचारितेनोत्पद्यते। कायचित्तदौष्ठुल्यं तदा [चात्म] चेतः शमथानुयोगेन प्रतिप्रश्रम्भयति। चित्ताभिसंक्षेपेण चित्तलयेन स्त्यानमिद्धपर्यवस्थानं। चोत्पद्यते। कायचित्तदौष्ठुल्यं तदधिप्रज्ञं धर्मविपश्यनया, प्रसदनीयेन च मनस्कारेण प्रश्रम्भयति। प्रकृत्यैव वा प्रहीणक्लेशस्य क्लेशपक्षं कायचित्तदौष्ठुल्यं अविगतं भवति। सदानुषक्तं तत्सम्यङ्मार्गभावनया प्रतिप्रश्रम्भयति।

तत्राभीक्ष्णप्रत्यवेक्षा। अभीक्ष्णं शीलान्यारभ्य कुकृतं प्रत्यवेक्षते। सुकृतञ्च। अकृतं च प्रत्यवेक्षते, कृतं च। कुकृताच्चाकृताद् व्यावर्त्तते। सुकृताच्च कृतान्न प्रत्युदावर्त्तते। तथा क्लेशानां प्रहीणाप्रहीणानां मीमान्सा (मांसा) मनस्कारमधिपतिं कृत्वा अभीक्ष्णं प्रत्यवेक्षते। तत्र प्रहीणतां ज्ञात्वा पुनः पुनस्तमेव मार्गं भावयति।

तत्रापरितमनाय (नया) तत्कालान्तरेण ज्ञातव्यं। द्रष्टव्यं, प्राप्तव्यं। तदजानतो [अ]पश्यतो, नाधिगच्छतः। परितमना उत्पद्यते, चैतसिकः क्लमः। चैतसिकोविघातः। तामुत्पन्नान्नाधिवासयति। प्रजहाति।

निरभिमानता। अधिगमे प्राप्तौ। स्पर्शनायां निरभिमानो भवति। अविपरीतग्राही, प्राप्ते प्राप्त संज्ञी, अधिगते अधिगतसंज्ञी[।]इतीमे दश धर्माः शिक्षाकामस्य योगिनः॥ आदिमध्यपर्यवसानमुपादाय शिक्षामनुलोमयति(न्ति), न विलोमयन्ति। तेनोच्यन्ते शिक्षानुलोमिका इति।

तत्र कतमो योग्रभंशः। आह। चत्वारो योगभ्रंशाः। कतमे चत्वारः। अस्ति योगभ्रंश आत्यन्तिकः। अस्ति तावत्कालिकः। अस्ति पारिहाणिकः। अस्ति मिथ्याप्रतिपत्तिकृतः।

तत्रात्यन्तिको योगभ्रंशः। अयोगस्थानां पुद्गलानां वेदितव्यः। तस्यापरिनिर्व्वाणधर्मकत्वादत्यन्तपरिभ्रष्टा एव योगाद्भवन्ति।

तत्र तावत्कालिकः। तद्यथा गोत्रस्थानां परिनिर्व्वाण धर्मकाणां प्रत्ययविकलानां, ते हि दूरमपि, परमपि गत्वा अवश्यमेव प्रत्ययानासादयिष्यन्ति। योगं च संमुखीकृत्य भावयित्वा परिनिर्व्वास्यन्ति। तेनैव तेषां तावत्कालिक एव भ्रंशो भवति।

तत्र प्राप्तिपरिहाणिको योगभ्रंशः। यथापीहैकत्ये प्राप्तादधिगता[ज्]ज्ञानदर्शनस्पर्शविहारात्परिहीयन्ते।

तत्र मिथ्याप्रतिपत्तिकृतो योगभ्रंशः। यथापीहैकत्येः। अयोनिशः प्रयुज्यमानो नाराधको भवति (।)योगस्य, नाराधयति(।) ध्याय्यं धर्मं कुशलं [।] यथापीहैकत्यः बहुक्लेशो भवति। प्रभूतरजस्कजातीयः। महाविज्ञानश्च भवति। महाबुद्धिः। महताया(महत्या) बुद्धया समन्वागतः। स श्रुतमुद्गृह्णाति। श्रुतं पर्यवाप्नोति। अल्पम्वा, प्रभूतं वा, अरण्ये वा पुनर्विहरति आगतागतानाञ्च गृहिप्रव्रजितानां, रुजकानां, रुजकजातीयानां धर्मदेशनया चित्तमाराधयति। कुहनानुचरितया च चेष्टया कायवाक्यप्रतिसंयुक्तया, तस्य तेन हेतुभावेन, तेन प्रत्ययेनोत्पद्यते। लाभसत्कारश्लोकः, स ज्ञातो भवति। महासुखो लाभी भवति। चीवरपिण्डपातशयनासन [ग्लानप्रत्य]यभैषज्यपरिष्काराणां, सत्कृतश्च भवति, गुरुकृतो, राज्ञां राजामात्राणां, यावत्सार्थवाहानां, अर्हत्सम्पत(द)ः। तस्यान्ता वर्त्तन्ते श्रावकाः, गृहिणः, प्रव्रजिताः। अपि अध्वादेन्तेषु ग्रेधं निगमयम्वा वर्त्तते (अप्यध्वान्तेषु ग्रामो निगमो वा वर्तते) वा [ःःः]यतस्यैवं भवति। सन्ति ये श्रावका, गृहिप्रव्रजिता, ये मयि संभावनाजाता येषां महत्संस(म)तः ते चेद्या(न्मा) मुपसंक्रम्य योगे मनसिकारे शमथविपश्यनाया [ं] प्रश्नं पृच्छेयुः। तेषां चाहं पृष्टो व्याकुर्यां न जानामीत्येवं सति या संभावना सा च हीयेन्न (हीयेत, न) च स्यामर्हत्सम्मतः, यन्न्वहं स्वयमेव चिन्तयित्वा, तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयेयं। स एतमेवार्थमधिपतिं कृत्वा लाभसत्काराभिगृद्ध एकाकी रहोगतः स्वयमेव चिन्तयित्वा, तुलयित्वा, तुलयित्वोपपरीक्ष्य योगंव्यवस्थापयति। स चास्य योगो न सूत्रे भवति। न विनये संदृश्यते। धर्मतां च विलोमयति। मयेते(य एते) भिक्षवः। सूत्रधरा, विनयधरा, मातृकाधरास्तेषां तद्योगस्थानं विनिगूहति। न प्रकाशयति। येप्यस्य श्रावका भवन्ति। गृहिणः, प्रव्रजिताश्च, तानपि योगप्रतियुक्तये आज्ञापयति। तत्कस्य हेतोर्मा, मैव ते सूत्रधरा, विनयधरा, मातृकाधरा, एतद्योगस्थानं श्रुत्वा सूत्रेवतारयेयुः। तच्च नावतारये (तरे) द्विनये, संदर्शयेयुः। तच्च न संदृश्यते। धर्मतया उपपरीक्ष्येत। तच्च धर्मतां विरोधयेत्। ते च ततो निदानम् प्रतीता भवेयुरप्रतीतवचनैश्च सां चोदयेयुः। अधिकरणानि चोत्पादयेयुः। एवमहं पुनरपि न सत्कृतः (।) स्यान्न गुरुकृतो, राज्ञां राजामात्राणां यावद्धनिनां श्रेष्ठिनां सार्थवाहानां, न च पुनर्लाभी स्यां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामिति। स तामेव लाभसत्कारकामतामधिपतिं कृत्वा अधर्मे धर्मसंज्ञी, विनिधाय संज्ञां रूपि[णी]मधर्मं धर्म्मतो दीपयति। संप्रकाशयति। तत्र येस्य दृष्ट्यनुमतमापद्यन्ते। तेप्यधर्मे। धर्मसंज्ञिनो भवन्ति। मन्दत्वान्मोहत्वात्ते अधर्मे धर्मसंज्ञिनो यथानुशिष्टा अपि, प्रतिपद्यमाना मिथ्याप्रतिपन्ना एव ते वेदितव्याः। अयमेवं रूपो मिथ्याप्रतिपत्तिकृतो योगभ्रंशस्सद्धर्मप्रतिरूपको ह्यसद्धर्मः सद्धर्मस्यान्तर्धानाय[।] इतीमे चत्वारो योगभ्रंशा ध्यायिना भिक्षुणा योगाचारेण परिज्ञेया वर्जयितव्याः॥

तत्र योगः कतमः। आह[।] चतुर्व्विधो योगः। तद्यथा श्रद्धा, छन्दो, वीर्यं, उपायश्च॥

तत्र श्रद्धा द्विविधाधिष्ठाना-अभिसंप्रत्ययाकारा प्रसादाकारा च॥ धर्मयुक्तिविचारणाधिष्ठाना पुद्गलानुभावाधिमुक्त्यधिष्ठाना च॥

छन्दोपि चतुर्विधः। तद्यथा प्राप्तये[।] यथापीहैकत्यः उत्तरे विमोक्षस्पृहामुत्पादयति। विस्तरेण पूर्व्ववत्। परिपृच्छायै। यथापीहैकत्यः स्पृहामुत्पादयति विस्तरेण पूर्व्ववत्परिपृच्छायै। आरामं गमनाय, विज्ञानां सब्रह्मचारिणां योगज्ञानामन्तिकमश्रुतस्य श्रवणाय, श्रुतस्य च पर्यवदानाय[।] संभारसमुदागमाच्छन्दः। यथापीहैकत्यः शीलसम्वरपारिशुद्धये, इन्द्रियं संवरपारिशुद्धये, भोजने मात्रज्ञतायां, जागरिकानुयोगे, संप्रजानद्विहारितायामुत्तरोत्तरां स्पृहामुत्पादयति। अनुयोगाच्छन्दः। या(यः) सातत्यप्रयोगतायां सत्कृत्यप्रयो[गता]यां च मार्गभावनायां स्पृहामुत्पादयत्यभिलाषं कर्तुकामतामित्ययं चतुर्विधश्छन्दः। (इत्ययं चतुर्विधश्छन्दः) यदुत प्राप्तये। परिपृच्छनायै। संभारसमुदागमाय। अनुयोगाय च।

तत्र वीर्यमपि चतुर्विध[ं] तद्यथा श्र[वणा]य, चिन्तनायै, भावनायै। आवरणपरिशुद्धये च।

तत्र श्रवणाय वीर्यं। यदश्रुतं शृण्वतः। पर्यवदापयतः। चेतसो [अ]भ्युत्साहः। अविन्यस्तप्रयोगता, एवं यथाश्रुतानां धर्माणामेकाकिनो रहोगतस्यार्थं। चिन्तयतस्तुलयत उपपरीक्षमाणस्य। एवं प्रतिसंलयनप्रविष्टस्य कालेन कालं शमथविपश्यनां भावयत एवमहोरात्रानुयुक्तस्य चंक्रमनिषद्याभ्या [ं] निवरणेभ्यश्चित्तं विशोधयतः। यश्चेतसोभ्युत्साहः। अविन्यस्तयागता(प्रयोगता) [।] एवं यथाश्रुतानां धर्माणामेकाकिनो रहोगतस्यार्थं चिन्तयत आलयदीर्घता तत्र।

उपायोपि चतुर्विधस्तद्यथा शीलसम्वरमिन्द्रियसंवरमधिपतिं कृत्वा सूपस्थितस्मृतिता। तथा चोपस्थितस्मृतेरप्रमादश्चेतस आरक्षा। कुशलानां धर्माणां निषेवणा। तथा वा[ऽ]प्रमत्तस्याध्यात्मं चेतःशमथयोगः। अधिप्रज्ञञ्च धर्मविपश्यना[।] स चायं योगश्चतुर्विधः। षोडशाकारो भवति। तत्र श्रद्धया प्राप्तव्यमर्थमधिपतिं संप्राप्नोति। प्राप्तिमभिसंप्रत्ययात्कर्तुकामतामुत्पादयति। कुशलेषु धर्मेषु[।] स एवं कर्तुकामः। अहोरात्रानुयुक्तो विहरति। उत्साही। दृढपराक्रमः। तच्च वीर्यमुपादाय परिगृहीतमप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय। असाक्षात्कृतस्य साक्षात्क्रियायै। सम्वर्त्तते। तस्मादिमे चत्वारो धर्मा योग इत्युच्यते।

तत्र मनसिकारः कतमः। चत्वारो मनस्काराः कतमे चत्वारः। (संस्थापयतश्च धर्माः (धर्मान्) प्रविचिन्वतः। यावन्मनस्कारं न प्राप्नोति। तावदस्य बलवाहनो मनस्कारो भवति। बलादवष्टभ्य तच्चित्तमेकाग्रतायामवस्थापयति। तेनोच्यते। बलवाहन इति। सछिद्रवाहनो मनस्कारः कतमः) तद्यथा- बलवाहनः स(च्]छिद्रवाहनः, अनाभोगवाहनश्च।

तत्र बलवाहनो मनस्कारः कतमः। तद्यथा आदिकर्मिकस्याध्यात्ममेव चित्तं स्थापयतः। संस्थापयतश्च। धर्मान् प्रविचिन्वतः। यावन्मनस्कारं न प्राप्नोति। तावदस्य बलवाहनो मनस्कारो भवति। बलादवष्टभ्य तच्चित्तमेकाग्रतायामवस्थापयति। तेनोच्यते बलवाहन इति।

स[च्]छिद्रवाहनो मनस्कारः कतमः। यो लब्धमनस्कारस्य च लौकिकेन मार्गेण गच्छतो लोकोत्तरेण वा (यो)लक्षण प्रतिसंवेदी मनस्कारः। तथा हि समाधिस्तत्र चिन्तया व्यवथी(स्थी)यते। नैकान्तेन भावनाकारेण प्रवर्त्तते।

तत्र नि[श्]छिद्रवाहनो मनस्कारः। लक्षणप्रतिसंवेदिनो मनस्कारादूर्ध्वं यावत्। प्रयोगनिष्ठान्मनसिकारात्तथानाभोगवाहनो मनस्कारः। यः प्रयोगनिष्ठाफलो मनस्कारः॥

अपरे चत्वारो मनस्काराः तद्यथा आनुलोमिकः, प्रातिपक्षिकः, प्रसदनीयः, प्रत्यवेक्षणीयश्च [।]

तत्रानुलो[मिको]मनस्कारः। येनालम्बनं विदूषयति। सम्यक्प्रयोगं चारभते। नो तु क्लेशं प्रजहाति॥

तत्र प्रातिपक्षिको येन क्लेशं प्रजहाति।

तत्र प्रसदनीय येन लीनं चित्तं प्रग्राहकैर्निमित्तैरभिप्रमोच(द)यति। सं[प्रहर्ष]यति। प्रगृह्णाति। तत्र प्रत्यवेक्षणीयो मनस्कारः। तद्यथा मिमान्सा(मांसा)मनस्कारः। यमधिपतिं कृत्वा प्रहीणा प्रहीणतां क्लेशानां प्रत्यवेक्षते।

तत्रालम्बनं मनसि कुर्व्वता कति निमित्तानि मनसि कर्त्तव्यानि भवन्ति। आह। चत्वारि। तद्यथा। आलम्बननिमित्तं। परिवर्त्त(र्ज)नीयं निमित्तं [।] निषेवणीयं च निमित्तं। तत्रालम्बननिमित्तं यत्। ज्ञेयवस्तुसभागं प्रतिबिम्बं। प्रतिभासं (सः)॥

तत्र निदाननिमित्तं तद्यथा समाधिसंभारोपचयः। अनुलोमिक उपदेशः। भावनासहगतः। तीव्र[च्]छन्दः, संवेजनीयेषु धर्मेषु संवेगः। विक्षेपाविक्षेपपरिज्ञा। अवधानं परतश्च। संघहा मनुस्य(ष्य) कृतो वा, को (अ)मनुष्य कृतो वा, शब्द कृतो वा, व्यापादकृतो वा। तथा विपश्यनापूर्व्वंगमः। अध्यात्मं चित्ताभिसंक्षेपः। उत्तप्ततराया विपश्यनायाः उत्तरत्र निदाननिमित्तं, तथा शमथपूर्व्वंगमा विपश्यना, उत्तप्ततरस्य शमथस्योत्तरत्र निदाननिमित्तं।

तत्र परिवर्जनीयनिमित्तं चतुर्व्विधं। तद्यथा। लयनिमित्तं, औद्धत्यनिमित्तं, संगनिमित्तं, विक्षेपनिमित्तं च। तत्र लयनिमित्तं येनालम्बननिमित्तेन निदाननिमित्तेन चित्तं लीनत्वाय परैति। तत्रौद्धत्यं येनालम्बननिमित्तेन निदाननिमित्तेन चित्तमुत्पद्यते। तत्र संगनिमित्तं येनालम्बननिमित्तेन। निदाननिमित्तेन चित्तमालम्बने रज्यते॥ संरज्यते। संक्लिश्यते। तत्र विक्षेपनिमित्तं। येनालम्बननिमित्तेन निदाननिमित्तेन चित्तम्बहिर्धा विक्षिप्यते। तानि पुनर्निमित्तानि यथा समाहितायां भूमौ एभिर्मनस्कारैरालम्बनमधिमुच्यते।

कत्यधिमोक्षा भवन्ति। आह [।] नवाधिमोक्षा स्तद्यथा। प्रभास्वरश्चाप्रभास्वरश्च। जड्ः, पटुः, परीत्तो, महद्गतः। अप्रमाणः। परिशुद्धः। अपरिशुद्धश्चेति॥

तत्र प्रभास्वरोधिमोक्षो य आलोकनिमित्ते सूद्गृहीते आलोकसहगतः ।]

तत्रा[ऽ]प्रभास्वरोधिमोक्षः। तद्यथा आलोकनिमित्ते सूद्गृहीते अन्धकारसहगतः।

तत्र जडो[ऽ]धिमोक्षः। यो मृद्विन्द्रियसन्तानपतितः।

तत्र पटुरधिमोक्षो यस्तीक्ष्णेन्द्रियसन्तानपतितः।

तत्र परीत्तोधिमोक्षः। यः परीत्तश्रद्धाछ(च्छ)न्दसमाधिः परीत्तालम्बनश्च। इति मनस्कारपरीत्ततया चालम्बनपरीत्ततया च परीत्तोधिमोक्षः॥

तत्र महद्गतोधिमोक्षः। तत्र यो महद्गतः श्रद्धाच्छन्दसहगतो महद्गतम्वा आलम्बनमधिमुच्यते। योधिमोक्ष इति। मनस्कारमहद्गत[त]या चालम्बनमहद्गततया महद्गतोधिमोक्षः।

तत्राप्रमाणोधिमोक्षः। अप्रमाण [ः] श्रद्धाछ(च्छ)न्दसहगतः। अनन्तम्वा अपर्यन्त [मालम्ब]नमधिमुच्यते। योधिमोक्ष इति। मनस्काराप्रमाणतया चालम्बनप्रमाणतया चाप्रमाणाधिमोक्षः।

तत्र परिशुद्धोऽधिमोक्षः यः प्रभावितः, परिनिष्पन्नः पर्यवसानगतः।

अपरिशुद्धो वा पुनर्यो न सुभावितो, न परिनिष्पन्नो न पर्यवसानगतः।

तत्रकति योगस्य योगकरणीयानि। आह। चत्वारि। कतमानि चत्वारि। तद्यथा। आश्रयनिरोधः। आश्रयपरिवर्त्तः। आलम्बनपरिज्ञानं। आलम्बनाभिरतिश्च।

तत्रत्राश्रयनिरोधः प्रयोगमनसिकारभावनानुयुक्तस्य यो दौष्ठुल्यसहगत आश्रयः। सोनुपूर्व्वेण निरुध्यते। प्रस्रब्धिसहगतश्चाश्रयः परिवर्त्तते। अयमाश्रयनिरोधोयमाश्रय परिवर्तः। योगकरणीयं।

तत्रालम्बनपरिज्ञानमालम्बनाभिरतिश्च। अस्त्यालम्बनपरिज्ञानमालम्बनाभिरतिः। आश्रयनिरोधपरिवर्त्तपूर्व्वंगमं। यदा चालम्बनपरिज्ञानमालम्बनाभिरतिमधिपतिं कृत्वा आश्रयो निरुध्यते। परिवर्त्तते च। अस्त्यालम्बनपरिज्ञानमालम्बनाभिरतिः। आश्रयविशुद्धिपूर्व्वंगमः। आश्रयविशुद्धिमधिपतिं कृत्वा सुविशुद्धमालम्बनज्ञानं। कार्यपरिनिष्पत्तिकाले प्रवर्तते। अभिरतिश्च[।] तेनोच्यते चत्वारि योगस्य करणीयानीति॥

तत्र कति योगाचाराः। आह त्रयस्तद्यथा। आदिकर्मिकः, कृतपरिचयः। अतिक्रान्तमनस्कारश्च॥

तत्रादिकर्मिको योगाचारः। मनस्कारादिकर्मिकः। क्लेशविशुद्‍ध्यादिकर्मिकश्च॥

तत्र मनस्कारादिकर्मिकः। तत्र प्रथमकर्मिक एकाग्रतायां यावन्मनस्कारं न प्राप्नोति। चित्तैकाग्रतां न स्पृशति।

तत्र क्लेशविशुद्‍ध्यादिकर्मिकः। अधिगतेपि मनस्कारे क्लेशस्य चित्तं विमोचयितुकामस्य यल्लक्षणप्रतिसंवेदिनो मनस्कारस्यारम्भः प्रतिग्रहश्चाभ्यासः। अयं क्लेशविशुद्‍ध्यादिकर्मिकः।

तत्र कृतपरिचयः कतमः। लक्षणप्रतिसंवेदिनं मनस्कारं स्थापयित्वा तदन्येषु षट्सु मनस्कारेषु प्रयोगनिष्ठापन्नेषु कृतपरिचयो भवति।

तत्रातिक्रान्तमनस्काराः (रः) प्रयोगनिष्ठाफलमनस्कारे वेदितव्यः। अतिक्रान्तोऽसौ भवति। प्रमो(यो)गभावनामनस्कारं। स्थितो भवति। भावनाफले[।]तस्मादतिक्रान्तमनस्कार इत्युच्यते।

अपि च कुशलं धर्म[च्]छन्दमुपादाय। प्रयुज्यमानो यावन्निर्वेधभागीयानि कुशलमूलानि नोत्पादयति। तावदादिकर्मिको भवति। यदा पुनर्निर्व्वेधभागीयान्युत्पादयति। तद्यथा ऊष्मगतानि। मूर्धानः (मूर्ध्नः), सत्यानुलोमाः। क्षान्तयो(न्तीः)लौकिकानग्रधर्मान्। तदा कृतपरिचयो भवति। यदा पुनः सम्यक्त्वं न्याममवतरति। सत्यान्यभिसमागच्छति। अपरप्रत्ययो भवत्यनन्यनेयः। शास्तुः शासने तदातिक्रान्तमनस्कारो भवति। परप्रत्ययं मनस्कारमतिक्रम्यापरप्रत्यये स्थितः। तस्मादतिक्रान्तमनस्कार इत्युच्यते।

तत्र योगभावना कतमा। आह। द्विविधा। संज्ञाभावना बोधिपक्ष्या भावना च।

तत्र संज्ञाभावना कतमा। तद्यथा लौकिकमार्गप्रयुक्तः। सर्व्वास्वधरिमासु भूमिष्वादीनवसंज्ञा[ं]भावयति। [प्रहा]णाय वा पुनः प्रयुक्तः। प्रहाणधातौ, विरागधातौ निरोधधातौ, शान्तदर्शी प्रहाणसंज्ञां, विरागसंज्ञां, निरोधसंज्ञाञ्च भावयति। शमथाय वा पुनः प्रयुक्तः। ऊर्ध्वमधः संज्ञां शमथपक्ष्यां भावयति। विपश्यनायां प्रयुक्तः। पश्चात्पुनः संज्ञां विपश्यनापक्ष्यां भावयति। विपश्यनायां प्रयुक्तः। पश्चात्पुर इममेव कायं यथास्थितं यथाप्रणिहितं ऊर्ध्वं पादतलादधः केशमस्तकात्पूर्ण्णं नानाविधस्याशुचेः प्रत्यवेक्षते। सन्त्यस्मिन्काये केशा रोमाणीति पूर्व्ववत्। तत्र पश्चात्पुनः। संज्ञी तथा तदेकत्येन प्रत्यवेक्षणानिमित्तमेव। साधु च, सुष्ठु च, सूद्गृहीतं भवति। सुमनसीकृतं, सूत्कृष्टं। सुप्रतिविद्धं। तद्यथा स्थितो निषण्णं प्रत्यवेक्षते। निषण्णो वा निपन्नं। पुरतो वा गच्छन्तं, पृष्ठतो गच्छन्प्रत्यवेक्षते। सा खल्वेषा त्रैयध्विकानां संस्काराणां प्रतीत्यसमुत्पन्नानां विपश्यनाकारा प्रत्यवेक्षापरिदीपिता। तत्र यत्तावदाह-स्थितो निषण्णं प्रत्यवेक्षते। अनेन वर्तमानेन मनस्कारेण अनागतज्ञेयं प्रत्यवेक्षते। वर्तमानापि मनस्कारावस्था उत्पन्ना स्थितेत्युच्यते। अनागता पुनः ज्ञेयावस्था। अनुत्पन्नत्वादुत्पादाभिमुखत्वाच्च निषण्णेत्युच्यते। यत्पुनराह। निषण्णो वा निपन्नं प्रत्यवेक्षत इत्यनेन प्रत्युत्पन्नेन मनस्कारेणातीतस्य ज्ञेयस्य प्रत्यवेक्षणा परिदीपिता। प्रत्युत्पन्ना हि मनस्कारावस्था। निरोधाभिमुखा निषण्णेत्युच्यते। अतीता पुनः निरुद्धत्वाज्ज्ञेयावस्था निपन्नेत्युच्यते। यत्पुनराह। पुरतो वा गच्छन्तं प्रत्यवेक्षत इत्यनेन प्रत्युत्पन्नेन मनस्कारेण। अनन्तरनिरुद्धस्य मनस्कारस्य प्रत्यवेक्षा परिदीपिता। तत्र य उत्पन्नोत्पन्नो मनसिकारो[अ]नन्तरनिरुद्धः स पुरतो यायी[।] तत्र अनन्तरोत्पन्नः। अनन्तरोत्पन्नो मनस्कारः। नवनवो[ऽ]नन्तरनिरुद्धस्यानन्तरनिरुद्धस्य ग्राहकः। स पृष्ठतो यायी। तत्र शमथं च विपश्यनां च भावयन्स्तदुभयपक्ष्यामालोकसंज्ञां भावयति। इयं संज्ञाभावना।

तत्र बोधिपक्ष्यभावना कतमा। यः षट्(सप्त)त्रिंशतां बोधिपक्ष्याणां धर्माणामभ्यासः। परिचयः। आसेवना बहुलीकार इयमुच्यते बोधिपक्ष्यभावना। तद्यथा चतुर्ण्णां स्मृत्युपस्थानानां, चतुर्ण्णां सम्यक्प्रहाणानां, चतुर्ण्णा ऋद्धिपादानां। पञ्चानामिन्द्रियाणां, पंचानां बलानां, सप्तानां बोध्यंगानामामार्याष्टाङ्गस्य मार्गस्य[।]

कायस्मृत्युपस्थानस्य वेदनाचित्तधर्मस्मृत्युपस्थानस्य। अनुत्पन्नानां धर्माणां पापकानामकुशलानां धर्माणामनुत्पादाय[च्]छन्दं जनयति। व्यायच्छते, वीर्यमारभते। चित्तं प्रगृह्णाति। प्रदधाति। सम्यक्प्रहाणस्य(ण्णाय)। उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय। अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय। उत्पन्नानां कुशलानां धर्माणां स्थितये। असंमोषाय भावनापरिपूरये (य यो) भाववृद्धिविपुलतायै छन्दं व्यायच्छते। वीर्यमारभते। चित्तं प्रगृह्णाति, प्रदधातीति सम्यक्प्रहाणस्य छन्दसमाधिप्रहाणसंस्कारसमन्वागतस्य (।) ऋद्धिपादस्य, श्रद्धावीर्यचित्तमीमान्सा(मांसा) समाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य, वीर्यचित्तमीमान्सा(मांसा)समाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य, श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियश्च श्रद्धास्मृतिसमाधिप्रज्ञाबलानां स्मृतिसंबोध्यंगस्य [।] सम्यग्दृष्टेः। सम्यक्संकल्पस्य, सम्यग्वाक्कर्मान्ताजीवानां, सम्यग्व्यायामस्य, सम्यक्स्मृतेः सम्यक्समाधेश्च॥

तत्र कतमः कायः। कतमा काये कायानुपश्यना[।] कतमा (।) स्मृतिः [।] कतमा[नि] (।) स्मृतेरुपस्थानानि [।] आह। कायः पञ्चत्रिंशद्विधः। तद्यथा आध्यात्मिको, बाह्यश्च। इन्द्रियसंगृहीतः। अनिन्द्रियसंगृहीतश्च। सत्त्वसंख्याता (तो) [ऽ]सत्त्वसंख्याता (त)श्च। दौष्ठुल्यसहगतः, प्रश्रब्धिसहगतश्च। भूतकायः, भौतिककायश्च। नामकायो, रूपकायश्च। नारकस्तैर्यग्योनिकः। पैतृविषयिकः। मानुष्यो, दिव्यश्च। सविज्ञानकः। अविज्ञानकं (को)वा। अन्तःकायो, बहिःकायश्च[।] विपरिणतो[अ]विपरिणतश्च॥ स्त्रीकायः, पुरुषकायः, षण्ड(ढ)ककायश्च। मित्रकायः, अमित्रकायः। उदासीनकायश्च। हीनकायो, मध्यकायः, प्रणीतकायश्च, दह्नकायः, यून(युव)कायो, वृद्धकायश्च। अयं तावत्कायश्च प्रभेदः।

तत्रानुपश्यना त्रिविधा। या कायमधिपतिं कृत्वा-श्रुतमयी वा प्रज्ञाभावनामयी वा [।] यया प्रज्ञया सर्वंकायं सर्व्वाकारं सम्यगेवोपपरीक्षते। संतीरयत्यनुप्रविशति। अनुवुप्यते।

तत्र स्मृतिपदस्य कायमधिपतिं कृत्वा (॥) ये धर्मा उद्गृहीतास्तेषामेव च धर्माणां योर्थः (।) चिन्तितो, ये च भावनया साक्षात्कृता[ः]। तत्र व्यंजने, चार्थे च, साक्षाक्रियायां च यश्चेतसः असंमोषः सूद्गृहीता वा मे ते एते धर्मा न वेति॥ सूपलक्षिता वा तत्र तत्र प्रज्ञया न वेति। सुसंस्पर्शिता [ः] (सुसंस्पृष्टाः) तत्र तत्र विमुक्त्या न वेति रुपस्थिता भवतीदं स्मृतेरुपस्थानं। अपि च स्मृत्या रक्षायै स्मृतेरुपस्थानं विषयासंक्लेशायालम्बनोपनिबद्धाय (निबन्धनाय) च। तत्र स्मृत्या रक्षा यथोक्तं पूर्व्वमेवारक्षितस्मृतिर्भवति। निपकस्मृतिरिति। तत्र विषयासंक्लेशाय। यथोक्तं स्मृत्या रक्षितमानसः। समावस्थाचारको, न निमित्तग्राही। नानुव्यंजनग्राही। यावद्विस्तरेण रक्षति। मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते। तत्रालम्बनोपनिबन्धाय। यथोक्तं चतुर्विधे आलम्बने स्मृतिमुपनिबध्नतः। तद्यथा व्याप्यालम्बने, चरितविशोधने, कौशल्यालम्बने, क्लेशविशोधने वा एभिस्त्रिभिराकारैर्या सूपस्थितस्मृतिता इदमुच्यते स्मृतेरुपस्थानं॥

तत्र वेदना कतमा [।] तद्यथा सुखा, दुःखा, अदुःखासुखाच वेदना। तत्र सुखापि कायिकी। दुःखाप्यदुःखासुखापि [।] यथा कायिकी। एवं चैतसिकी। सुखापि सामिषा, दुःखाप्यदुःखासुखापि। एवं निरामिषापि, एवं गर्ध(वा) श्रिते (ता), नैष्क्रम्याश्रिता वेदना, सुखापि दुःखाप्यदुःखाप्यदुःखासुखापि। सैषा एकविंशतिविधा वेदना भवति। नवविधा वा॥

तत्र चित्तं कतमत्। तद्यथा-सरागं चित्तं, सद्वेषं, विगतद्वेषं, समोहं, विगतमोहं, संक्षिप्तं, विक्षिप्तं, लीनं, प्रगृहीतं। उद्धतमनुद्धतं, व्युपशान्तमव्युपशान्तं। समाहितमसमाहितं, सुभावितमसुभावितं। सुविमुक्तं चित्तमसुविमुक्तं चित्तं। तदेतदभिसमस्य विंशतिविधं चित्तं भवति।

तत्र धर्माः कतमे [।] रागो, रागविनयश्च। द्वेषो, द्वेषविनयश्च। मोहो मोहविनयश्च। संक्षेपो, विक्षेपः। लयः, प्रग्रह, औद्धत्यमनौद्धत्यं। व्युपशमः। अव्युपशमस्सुसमाहि[त]ता, न सुसमाहितता। सुभावितमार्गता, न सुभावितमार्गता। सुभावितमुक्तता, न सुभावितमुक्तता च। इतीमे कृष्णशुक्ल[पक्ष]व्यवस्थिता विंशतिधर्मा वेदितव्याः। संक्लेशव्यवदानपक्ष्ये (क्ष्याः)।

तत्र सुखावेदना यत्सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते [।] सातं, वेदितं, वेदनागतं। सा पुनर्या पञ्चविज्ञानसंप्रयुक्ता। सा कायिकी। या मनोविज्ञानसंप्रयुक्ता सा चैतसिकी। यथा सुखवेदनीयमेवं दुःखवेदनीयमदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते असातं, नैवसातं नासातं वेदितं [विगतरागं]। वेदनागतमिदमुच्यते दुःखा अदुःखासुखा वेदना। सा पुनर्या पञ्चविज्ञानकायसंप्रयुक्ता। सा कायिकी। या मनोविज्ञानसंप्रयुक्ता। सा चैतसिकी। या निर्व्वाणानुकूला[सा]नैर्व्वेधिकी। अत्यन्तनिष्ठतायै अत्यन्तविमलतायै। अत्यन्तब्रह्मचर्यपर्यवसानायै (य?)। सम्वर्त्तते। सा निरामिषा॥ या पुनर्धातुपतिता, भवपतिता सा सामिषा [।] या पुन(ना)रूपारूप्य प्रतिसंयुक्ता, वैराग्यानुकूला वा, सा नैष्क्रम्याश्रिता। या पुनः कायप्रतिसंयुक्ता, न च वैराग्यानुकूला, सा गर्धाश्रिता॥

तत्र सरागं चित्तं। यद्रंजनीये वस्तुनि रागपर्यवस्थितं [।]
विगतरांगं यद्रागपर्यवस्थानापगतं [।]
सद्वेषे(षं) य[द्]द्वेषणीये वस्तुनि द्वेषपर्यवस्थितं।
विगतद्वेषं यद्‍द्वेषपर्यवस्थानापगतं।
तत्र सम्मो(मो)हं। यन्मोहनीये वस्तुनि [ःःःःःःः]
तान्येतानि षट्चित्तानि चारसहगतानि वेदितव्यानि। तत्र त्रीणि संक्लेशपक्ष्याणि। त्रीणि संक्लेशप्रातिपक्षिकाणि।

तत्र संक्षिप्तचित्तं यच्छमथाकारेणाध्यात्ममात्मनोपनिबद्धं।

विक्षिप्तं। यद्बहिर्धा पञ्चसु कामगुणेष्वनुविसृतं।

तत्र लीनं चित्तं। यत्स्त्यानमिद्धसहगतं, प्रग्रहीतं यत् प्रसदनीयेनालम्बनेन संप्रतिष्ठितं[।]

उद्धतं चित्तं यदति संप्रग्रहादौद्धत्यपर्यवस्थितमनुबद्धचित्तं यत्प्रग्रहकाले चाभिसंक्षेपकाले चोपेक्षा प्राप्तं [।]

तत्र प्रशान्तंचित्तं यन्निवरणेभ्यो विमुक्तमव्युपशान्तं पुनर्यदविमुक्तं।

तत्र समाहितं चित्तं यन्निवरणविमोक्षान्मौलध्यानप्रविष्टं, न सुसमाहितं यदप्रविष्टं [।]

तत्र सुभावितं चित्तं यदस्यैव समाधेर्दीर्घकालपरिचयान्निकामलाभी भवत्यकृच्छ्रलाभी। आशुसमापत्ता।

तत्र न सुभावितं चित्तमेतद्पिर्ययेण वेदितव्यम्।

तत्र सुविमुक्तं चित्तं यत्सर्वतश्चात्यन्ततश्च विमुक्तं [।]

न सुविमुक्तं। चित्तं यन्न सर्व्वतो ना (ना) प्यत्यन्ततो विमुक्तमितीमानि चतुर्दश चित्तानि (।) विहारगतानि वेदितव्यानि।

तत्र निवरणभूविशुद्धा (द्धि)भूमिमारभ्य विहारगतान्यष्टौ चित्तानि वेदितव्यानि। विक्षिप्तं संक्षिप्तं यावद् व्युपशान्तमव्युपशान्तमिति। क्लेशविशुद्धिं पुनरारभ्य विहारगतानि षट् चित्तानि यावत्सुविमुक्तं चित्तं न सुविमुक्तमिति [।]

यत्पुनः सत्यध्यात्मं निवरणे अस्ति मे निवरणमिति जानाति। असति निवरणे नास्ति मे निवरणमिति जानाति। यथा चानुत्पन्नस्य विवरणस्योत्पादो भवति। तदपि यथा योत्पन्नस्य विगमो भवति। तदपि प्रजानाति। यत्र सति चक्षुःसंयोजने यावत्पुनः (न्मन) संयोजने अस्ति मे यावत्पुनः (मनः) संयोजनमिति। असति यावत्पुनः (न्मनः) संयोजने नास्ति मे मनः संयोजनमिति प्रजानाति। यथा चानुत्पन्नस्य यावन्मनः संयोजनस्योत्पादो भवति। तदपि प्रजानाति। यथा चोत्पन्नस्य निरोधो भवति। तदपि प्रजानाति। सत्यध्यात्मं स्मृतिसंबोध्यंगे अस्ति मे [स्मृति] संबोध्यंगमिति प्रजानाति। असति नास्ति मे प्रजानाति। यथा चानुत्पन्नस्य स्मृतिसंबोध्यंगस्योत्पादो भवति। तदपि प्रजानाति। यथा चोत्पन्नस्य स्थितिर्भवति। असंमोषो भावना (।) परिपूरिर्भूयो भाववृद्धिर्विपुलता तदपि प्रजानाति। सत्यध्यात्मं स्मृतिसंबोध्यंगमेवं धर्मविनयवीर्यप्रश्रब्धिसमाध्युपेक्षासंबोध्यंगं वेदितव्यमिति यदेवं स्वभावादीनवप्रतिपक्षाकारैः संक्लिष्टधर्म्मपरिज्ञानमिदं शरीरं धर्म्मस्मृत्युपस्थानस्य, यथा काये कायानुपश्यना स्मृत्युपस्थानपक्षमे (क्ष‍ए) वं वेदना [यां]यच्चित्ते (यावच्चिते) धर्मेषु यथायोगं वेदितव्यम्।

तत्र कथमध्यात्मं काये कायानुदर्शी विहरति। कथं बहिर्धा कथमध्यात्मबहिर्धा[।] यदा अध्यात्मं प्रत्यात्मं सत्व(त्त्व)संख्याते काये कायानुपश्यी (दर्शी) विहरति। एवमध्यात्मं काये कायानुदर्शी विहरति। कथं बहिर्धा कथमध्यात्मबहिर्धा[।] यदा अध्यात्मं प्रत्यात्मं, यदा बहिर्धा असत्त्वसंख्यातं रूपमालम्बनीकरोत्येवं बहिर्धाकाये कायानुदर्शी विहरति। यदा बहिर्धा (र्धो)परक्तं सत्त्वसंख्यातं रूपमालम्बनीकरोत्येवमध्यात्मबहिर्धा काये कायानुदर्शी विहरति।

तत्राध्यात्मं रूपमुपादाय। सूक्ष्मं सत्त्वसंख्यातं। या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन्[।] अध्यात्मं वेदना [यां], चित्ते, धर्मेषु धर्मानुदर्शी विहरति। बाह्यमसत्त्वसंख्यातं रूपमुपादाय। या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन्। बहिर्धा वेदनायां, चित्ते, धर्मेषु धर्मानुदर्शी विहरति। बहिर्धा बाह्यं रूपसत्त्वमुपादाय। या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्व्वन्नध्यात्मबहिर्धा वेदनायां, चित्ते धर्मेषु धर्मानुदर्शी विहरति॥

अपरः पर्यायः। इन्द्रिय संगृहीतं रूपमालम्बनीकुर्व्वन्, अध्यात्मं काये कायानुपश्यी (दर्शी) विहरति। अनिन्द्रियसंगृहीतं। रूपगतमनुपादत्तमालम्बनीकुर्व्वन् बहिर्धा काये कायानुदर्शी विहरति। अनिन्द्रियसंगृहीतमेव। रूपमध्यात्ममुपगतमुपादत्तं रूपमालम्बनीकुर्व्वन्नध्यात्मबहिर्धा काये कायानुपश्यी (दर्शी) विहरति। [अनिन्द्रियसंगृहीतं रूपगतमनुपादत्तमालम्बनीकुर्व्वन् बहिर्धा काये कायानुदर्शी विहरति। अनिन्द्रियसंगृहीतमेव रूपमध्यात्ममुपगतमुपादत्तं रूपमालम्बनीकुर्व्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति] [।] एवं पूर्व्वं [ं] त्रिविधं रूपमुपादाय। यदु (यो) त्पन्ना वेदना, चित्तं, धर्मास्तान्यथायोगमालम्बनीकुर्व्वन् तथादर्शी विहरतीति वेदितव्यं।

अपरः पर्यायः। यत्समाहितभूमिकं प्रश्रब्धिसहगतं रूपमालम्बनीकरोत्येवमध्यात्मं काये कायानुदर्शी विहरति। यत्सूक्ष्ममेवाध्यात्मं समाहितभूमिकं दौष्ठुल्यसहगतं रूपमालम्बनीकरोति। एवं बहिर्धा काये कायानुपश्यी (दर्शी) विहरति।परदौष्ठुल्यसहगतं प्रश्रब्धिसहगतं च रूपमालम्बनीकुर्व्वन् अध्यात्मबहिर्धा काये। कायानुदर्शी विहरति। एवं तदुपादायोत्पन्ना वेदना, चित्तं, धर्मा यथायोगं वेदितव्याः।

अपरः पर्यायः। अध्यात्मं भूतरूपमालम्बनीकुर्व्वन्नध्यात्मं काये कायानुदर्शी विहरति। बाह्यं भूतरूपमालम्बनी कुर्व्वन् बहिर्धा काये कायानुदर्शी विहरति। तच्च भूतरूपमुपादाय। यदुत्पन्नमिन्द्रियविषयसंगृहीतमुपादाय। रूपं चालम्बनीकुर्व्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति। एवं तदुपादाय या उत्पन्ना वेदना चित्तं धर्मास्तेपि यथायोगं वेदितव्याः। अपरः पर्यायः। यदा सविज्ञानकं कायमध्यात्ममालम्बननीकरोति। एवमध्यात्मं काये कायानुदर्शी विहरति। अविज्ञानकं रूपं सत्त्वसंख्यातं। विनीलकादिष्ववस्थास्वालम्बनी कुर्व्वन्बहिर्धा काये कायानुदर्शी विहरति। अ(स)विज्ञानकस्य च रूपस्यातीते काले सविज्ञानतां [।] अविज्ञान [क]स्य च रूपस्यानागते काले अविज्ञानतां, तुल्यधर्मतां, समधर्म्मतां आलम्बनीकुर्व्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरत्येवं तदुपादाय, या उत्पन्ना वेदना, चित्तं, धर्मास्तेपि यथायोगं वेदितव्याः। अपरः पर्यायः [।] आत्मनः अन्त[ः] कायं केशरोमनखादिभिः आकारैरालम्बनीकुर्व्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति॥ परेषामन्तः कायं केशरोमनखादिभिराकारैरालम्बनीकुर्व्वन्बहिर्धा काये कायानुदर्शी विहरत्यध्यात्मं चित्तं च बहिःकायविपरिणतं विनीलकादिभिराकारैः। बहिर्धा च बहिःकायं विपरिणतमविपरिणतं च। विनीलकादिभिराकारैस्तुल्यधर्म्मतया आलम्बनीकुर्व्वन् बहिर्धा काये कायानुदर्शी विहरति। तदुपादाय या उत्पन्ना वेदना, चित्तं, धर्मास्तेपि यथायोगं वेदितव्याः। इत्येवंभागीया काये वेदनाचित्तधर्मप्रभेदेनबहवः पर्याया वेदितव्याः। इमे तु कतिपयाः (ये)पर्यायाः। संप्रकाशिताः [।]

तत्र चतुर्ण्णाम्विपर्यासानां प्रतिपक्षेण भगवता चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि। तत्राशुचौ शुचीति विपर्यासे प्रतिपक्षेण कायस्मृत्युपस्थानं व्यवस्थापितं। तथा हि भगवता कायस्मृत्युपस्थानभावनायां। अशुभाप्रतिसंयुक्ताश्चतस्रः शिवपथिका देशिताः। या अस्य बहुलं कुर्व्वन् मनसिकुर्व्वतः। अशुचौ शुचीति विपर्यासः प्रहीयते। तत्र सुखे सुखमिति। विपर्यासप्रतिपक्षेण वेदनास्मृत्युपस्थानं व्यवस्थापितं। वेदनानुदर्शी विहरन्। यत्किंचिद्वेदितमिदमत्र दुःखस्येति यथाभूतं प्रजानात्येवमस्य यो दुःखसुखे सुखमिति। विपर्यासः। स प्रहायते (प्रहीयते)। अनित्ये नित्यमिति विपर्यासः। प्रतिपक्षेण स्मृत्युपस्थानं व्यवस्थापितं। तस्य सरागादिचित्तप्रभेदेन तेषां तेषां रात्रिंदिवसानामत्ययात्क्षणलवमुहूर्त्ताना (णा) मनेकविधानां बहुनानाप्रकारतां चित्तस्योपलभ्य यः अनित्ये नित्यमिति विपर्यासः [स] प्रहीयते। यत्रा [ना]त्मन्यात्मेति विपर्यासप्रतिपक्षेण धर्मस्मृत्युपस्थानं व्यवस्थापितं। तस्य येषां आत्मदृष्ट्यादिका [नां]संक्लेशानां सद्भावाद्येषां नानात्मदृष्ट्यादिकानां कुशलानां धर्माणामसद्भावात्स्कन्धेष्वात्म दर्शनं भवति। नान्यस्य, स्वलक्षणतः। सामान्यलक्षणतश्च धर्माधर्मानुदर्शिनो यथाभूतं पश्यतः। योनात्मन्यात्मेति विपर्यासः। स प्रहीयते।

अपरः पर्यायः। प्रायेण हि लोक एवं प्रवृत्तः। स्कन्धेषु स्कन्धमात्रं, धर्म्ममात्रं, यथाभूतमप्रजानन् यथा काये आश्रितः। यदाश्रितश्च सुखदुःख ज धर्माधर्माभ्यां संक्लिश्यते व्यवदा(दी)यते च। तत्रात्मन आश्रयवस्तुसंमोहापनयनार्थं। कायस्मृत्युपस्थानं व्यवस्थापितं। तस्यैवात्मनः अनुभवनवस्तुसंमोहापनयनार्थं वेदनास्मृत्युपस्थानं व्यवस्थापितं। यत्रैव च ते चित्ते, मनसि, विज्ञाने, आत्मग्राहेण संमूढा, आत्मवस्तुसम्मोहापनयनार्थं धर्मस्मृत्युपस्थानं व्यवस्थापितम्।

अपरः पर्यायः। यत्र च कर्म करोति। यदर्थं च करोति। यश्च कर्म करोति। (यदर्थं च करोति। यश्च [कर्म] करोति।) (ं) येन च करोति। तत्सर्व्वमेकत्यमभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि। तत्र काये करोति। वेदनार्थं। चित्तेन कुशलाकुशलैर्धर्मैः।

अपरः पर्यायः। यत्र च संक्लिश्यते। विशुध्यते। यतश्च यश्च येन क्लिश्यते। विशुध्यते यतश्च यश्च येन संक्लिश्यते विशुध्यते च। तदेकत्यमभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि। तत्र काये संक्लिश्यते, विशुध्यते च। वेदनाभ्यश्चित्तं धर्मैः संक्लिश्यते। विशुध्यते च।

तत्र स्मृत्युपस्थानमिति [को]र्थ आह। यत्र च स्मृतिमुपस्थापयति। येन च स्मृतिमुपस्थापयति। तदुच्यते स्मृत्युपस्थानं। यत्र स्मृतिमुपस्थापयति। तदालम्बनस्मृत्युपस्थानं येन स्मृतिमुपस्थापयति। तत्र या प्रज्ञा स्मृतिश्च समाधिसंग्राहिका तत्स्वभावस्मृत्युपस्थानं। तदन्ये तत्संप्रयुक्ताश्चित्तचैतसिका धर्माः। संसर्गस्मृत्युपस्थानं। अपि [च] कायवेदनाधिपतेयो मार्गः समुत्पन्नः कुशलः सास्रवः। अनास्रवश्च [।] तत्स्मृत्युपस्थानं। स पुनः श्रुतमयश्चिन्तामयो भावनामयश्च। तत्र श्रुतचिन्तामयः। सास्रव एव [।] भावनामयः स्यात्सास्रवः स्यादनास्रवः॥

स एवं चतुर्षु स्मृत्युपस्थानेषु कृतपरिचय औदारिको(कौ)दारिकं विपर्यासमपीनय कुशलाकुशलधर्माभिज्ञः। तदनन्तरमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय। उत्पन्नानां प्रहाणाय। अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय। उत्पन्नानां स्थितय इति विस्तरेण पूर्व्ववद्यावच्चित्तं प्रगृह्णाति। प्रदधाति॥

तत्र कतमे पापका अकुशला धर्मा[ः] [।] यत्कामावचरं क्लिष्टं कायकर्म, वाक्कर्म, मनस्कर्म, कायवाङ्मनोदुश्चरितसंगृहीतं। येन तत्समुत्थापकाः क्लेशास्ते पुनर्ये असमवहिता, असंमुखीभूतास्ते उत्पन्ना, ये समवहिताः संमुखीभूतास्ते उत्पन्नाः [।] तत्र कुशला धर्मा ये तत्प्रातिपक्षिका धर्मादुश्चरितप्रातिपक्षिका, निवरणप्रातिपक्षिकाः, संयोजनप्रातिपक्षिका वा तेप्यनुत्पन्नास्तथैव वेदितव्याः। उत्पन्नाश्च पापका अकुशला धर्मास्तत्र यदा अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय स्पृहामुत्पादयति। प्रणिधत्ते, सर्वेण सर्व्वं सर्व्वथा नोत्पादयिष्यामीत्येवं छन्दं जनयति।उत्पन्नान्वा पुनः समवहितान्सर्व्वेणसर्व्वं नाधिवासयिष्यामि प्रहास्यामि। प्रतिविनोदयिष्यामि य[द]नुत्पन्नेषु पापकेष्वकुशलेषु पूर्व्व मेवोत्पाद(।)स्पृहामुत्पादयति। प्रणिधत्ते [।] नाधिवासय(यि)तुकामो भवति। अयमुत्पन्नानां प्रहाणाय[च्]छन्दः [।]

ते पुनः पापका अकुशला धर्मा अतीतवस्त्वालम्बना वा, अनागतवस्त्वालम्बना वा, वर्तमानविषयालम्बना वा उत्पद्यन्ते, भवन्ति। येनोक्तविषयालम्बना [ः], प्रत्यक्षविषयालम्बनाश्च ये अतीतानागतावस्थालम्बनास्ते, ये चोक्तविषयालम्बना, ये वर्तमानविषयालम्बनास्ते प्रत्यक्षविषयालम्बना [ः।]

तत्र परोक्षालम्बनानां पापकानामकुशलानां धर्माणामनुत्पादाय। उत्पन्नानां च प्रहाणाय। व्यायच्छते [।] प्रत्यक्षविषयालम्बननानां पुनः। अनुत्पन्नानामनुत्पादायोत्पन्नानां च प्रहाणाय वीर्यमारभते। तथा हि तेषां दृढतरेण वीर्यारंभेणानुत्पत्तिः। प्रहाणं वा भवति। अपि च मृदुमध्यानां समवस्थानामनुत्पन्नानामनुत्पादाय। उत्पन्नानां प्रहाणाय व्यायच्छते। अधिमात्राणां समवस्थानां अनुत्पन्नानामनुत्पादाय। उत्पन्नानां च प्रहाणाय वीर्यमारभते। स चेदतीते आलम्बने चरति। तथा चरति। यथास्य तेनालम्बनेन क्लेशो नोत्पद्यते। स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते नाधिवासयति। प्रजहाति। व्यन्तीकरोति। यथा अतीते आलम्बने एवमनागते[अ]पि वेदितव्यम्। एवमयमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादायोत्पन्नानां च प्रहाणाय व्यायच्छत इत्युच्यते। स चेदयम्वर्त्तमाने आलम्बने चरति, तथा तथा चरति। यथा तेनालम्बनेन क्लेशो नोत्पद्यते। स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते। उत्पन्नं नाधिवासयति। प्रजहाति। विनोदयति। व्यन्तीकरोति। एवमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय। उत्पन्नानाञ्च प्रहाणाय वीर्यमारभत इत्युच्यते।

सन्ति पापका अकुशला धर्मा ये संकल्पवशे (बले)नोत्पद्यन्ते। न विषयबलेन। सन्ति ये संकल्पबलेन च। विषयबलेन च। तत्र संकल्पबलेनोत्पद्यन्ते। तद्यथा विहरतः। अतीतानागतालम्बना ये उत्पद्यन्ते। तत्र संक्लेशवशे (ले)न च विषयबलेन चोत्पद्यते(न्ते)। तद्यथा चरतो वर्तमानेनालम्बनेनोत्पद्यन्ते। अवश्यं तत्रायोनिशः संकल्पो भवति। तत्र ये संकल्पबलेनोत्पद्यन्ते तेषामनुत्पन्नानामनुत्पादाय। उत्पन्नानां च प्रहाणाय। व्यायच्छते। तत्र ये विषयब[लेन] संकल्पब[लेन] चोत्पद्यन्ते। तेषामनुत्पन्नानामनुत्पादाय। उत्पन्नानाञ्च प्रहाणाय व्यायच्छ(ते) तत्र ये विषयबलेन संकल्पबलेन चोत्पद्यन्ते। तेषामनुत्पन्नानाममनुत्पादाय उत्पन्नानाञ्च प्रहाणाय वीर्यमारभते। तत्रानुत्पन्नानां कुशलानां धर्माणामनु(मु)त्पादाय छन्दं जनयतीति। ये कुशलाधर्मा अप्रतिलब्धा [अ]संमुखीभूतस्य (ताः) तेषां प्रतिलम्भाय संमुखीभावाय च स्मृति मुत्पादयति [।] चित्तं प्रणिधत्ते[।] तीव्रा प्रतिलब्धुकामता। संमुखीकर्तुकामता चास्य प्रत्युपस्थिता भवति। अयमनुत्पन्नानां कुशलानां धर्माणामुत्पत्तये।

कृ(य)त्तु उत्पन्नानां च कुशलानां धर्माणां स्थितये, असंमोषाय, भावनापरिपूरये छन्दं जनयतीति। उत्पन्नाः कुशला धर्मा ये प्रतिलब्धास्संमुखीभूताश्च, तत्र प्रतिलंभाविगमं प्रतिलब्धां पारिहाणिमधिकृत्याह। स्थितय इति संमुखीभावादधन्धायितत्वमधिकृत्याहासंमोषायेति। तेषामेव च कुशलानां धर्माणाम्प्रतिलब्धानां सम्मुखीभूतानामासेवनान्वयात्परिनिष्पत्तिं निष्ठागमनमधिकृत्याह। भावनापरिपूरये इति। तत्र च स्पृहामुत्पादयति। चित्तं प्रणिधत्ते। तीव्रा चास्य स्थितिकामता असम्मोषकामता। भावनापरिपूरिकामता प्रत्युपस्थिता भवति। अयमुच्यते। उत्पन्नानां कुशलानां धर्माणां स्थितये असंमोषाय भावनापरिपूरये[च्]छन्दः। तत्र व्यायच्छत इति। प्रतिलब्धानां संमुखीभावाय वीर्यमारभते। अप्रतिलब्धानां प्रतिलम्भाय[।]

तत्र व्यायच्छते। उत्पन्नानां स्थितये, असंमोषाय, वीर्यमारभते। भावनापरिपूरये, अपि च मृदुमध्यानां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च स्थितये। असंमोषाय व्यायच्छते। अधिमात्राणां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च यावद् भावनापरिपूरये वीर्यमारभते।

तत्र चित्तं प्रगृह्णाति। यदा तच्चित्तं शमथभावनायामेकाग्रतायां प्रयुक्तं भवति। अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय। एवं विस्तरेण यावदुत्पन्नानां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय। उत्पन्नानाञ्च यावद् भावनापरिपूरये वीर्यमारभते। तत्र चित्तं प्रगृह्णाति। यदा तच्चित्तं शमथभावनायामेकाग्रतायां प्रयुक्तं भवति। अनुत्पन्नानां पापकानां अकुशलानां धर्माणामनुत्पादाय। एवं विस्तरेण यावदुत्पन्नानां कुशलानां धर्माणां स्थितये। असंमोषाय भावनापरिपूरये। तच्च तथा अध्यात्ममभिसंक्षिप्तं लीनत्वाय परैति। लीनत्वाभिशंकि चैवं पश्यति। तदा अन्यतमान्यतमेन प्रग्राहकेन (ण) निमित्तेन प्रसदनीयेन प्रतिगृह्णाति। संहर्षयत्येवं चित्तं प्रगृह्णाति।

कथं प्रदधाति। पुनरुद्धतमौद्धत्याभिशंकि वा प्रग्रहकाले पश्यति। तदा पुनरप्यध्यात्ममभिसंक्षिपति। शमथाय प्रणिदधाति। तान्येतानि भवन्ति। चत्वारि सम्यक्प्रहाणानि। कृष्णपक्ष्याणां धर्माणामनुत्पन्नानामनुत्पादाय। उत्पन्नानां च प्रहाणाय [च्]छन्दो व्यायामो वीर्यारम्भः। चित्तप्रग्रहः। प्रदधनमिमे द्वे सम्यक्प्रहाणे शुक्लपक्ष्याणां धर्माणामनुत्पन्नानामुत्पादाय [।]

विस्तरेण द्वे सम्यक्प्रहाणे वेदितव्ये। तद्यथा कृष्णपक्ष्याणां तत्रैकं सम्वरणप्रहाणं यदुत्पन्नानाम्पापकानामकुशलानां धर्माणां प्रहाणाय [च्]छन्दं जनयतीति विस्तरेण। द्वितीयं प्रहाणप्रहाणं यदनुत्पन्नानामनुत्पादाय [च्]छन्दं जनयतीति विस्तरेण,उत्पन्नं हि संवरयितव्यं। पापकं च वस्तु। अनुत्पन्नं च यत्तदसमुदाचारतः प्रहीणमेवं तदसंमुखीभावतः प्रहातव्यमिति कृत्वा। प्रहीणस्य प्रहाणं प्रहाणप्रहाण[ं]।

तत्र भावनाप्रहाणमेकं यदाह। अनुत्पन्नानां कुशलानां धर्माणामुत्पादायेति विस्तरेण यावच्चित्तं प्रगृह्णाति, प्रदधातीति। तथा हि कुशला धर्मा आसेव्यमाना, भाव्यमाना, अप्रतिलब्धाश्च प्रतिलभ्यन्ते। प्रतिलब्धाश्च सम्मुखीक्रियन्ते।

तत्रानुरक्षणाप्रहाणमेकं। यदाह। उत्पन्नानां कुशलानां धर्माणां स्थितये। विस्तरेण यावच्चित्तं प्रगृह्णाति। प्रदधाति। तथा हि प्रतिलब्धेषु संमुखीकृतेषु च। कुशलेषु धर्मेषु यावत्प्रमादवर्जना अप्रमादनिषेवणा च। सा कुशलानां धर्माणां स्थितये, असम्मोषाय, भावनापरिपूरये। एवमनुत्पन्नाः कुशला धर्मा अनुरक्षिता भवन्त्ययं तावत्सम्यक्प्रहाणानां विस्तरविभागः।

समासत(सार्थ)ः पुनः कतमः। आह। कृष्णशुक्लपाक्षिकस्य त्यागात्पुनर्वस्तुनः। प्राप्तये पूर्वमेव स्पृहायुक्तेन भवितव्यं। पर्यवस्थानप्रहाणाय च। अस्त्याशयसम्पत्प्रयोगसम्पच्च। परिदीपिता भवति। तत्रास्या (स्त्या)शयसम्पत्। छन्दजननतया, प्रयोगसम्पत्पुनः व्यायामवीर्यारम्भचित्तप्रग्रहाप्रमादधनैः। एतावच्च योगिना करणीयं। यत्प्रहातव्यस्य वुस्तनः प्रहाणाय, प्राप्तव्यस्य वस्तुनः प्राप्तये पूर्व्वमेव स्पृहाजातेन भवितव्यं, पर्यवस्थानप्रहाणाय, वीर्यमारब्धव्यमनुशयप्रहाणाय च, कालेन कालं शमथप्रग्रहोपेक्षानिमित्तानि भावयितव्यानि। पर्यवस्थानप्रहाणानुशयप्रहाणाय च ये प्रातिपक्षिका धर्माः कुशलास्ते समुदानयितव्याः। तच्चैतत्सर्व्वं चतुर्भिः सम्यक्प्रहाणैः परिदीपितं भवत्ययं समासार्थः॥

तत्र चत्वारः समाधयः, तद्यथा छन्दसमाधिः। वीर्यसमाधिः, चित्तसमाधिः, मीमांसासमाधिश्च।

तत्र छन्द(समाधि) मधिपतिं कृत्वा यः प्रतिलभ्यते समाधिरयं छन्दसमाधिः। वीर्यं, चित्तं, मीमांसामधिपति कृत्वा प्रतिलभ्यते (प्रतिलभ्यते) समाधिरयं [...........]मीमान्सा (मांसा) समाधिः। यदा तावदयं छन्दमेव केवलं जनयति। छन्दजातश्च तान्पापकानकुशलान्धर्मान् स्वभावतो, निदानत, आदीनवतः, प्रतिपक्षतश्च। सम्यगेवोपनिदध्याति। एकाग्रां स्मृतिं प्रवर्त्तयति। एवं कुशला [न्]धर्मास्स्व (धर्मान्‍स्व)भावतो निदानतश्च। अकुशलतो निःसरणतः सम्यगेवोपनिदध्या (धा)ति। एकाग्रां स्मृतिमवस्थापयति। तद्बहुलाकारामेकाग्रतां स्पृशति। समवस्थानसमुदाचारदूरीकरणयोगेन। न त्वस्याप्यनुशयमुत्पादयति। पापकानामकुशलानां धर्माणामयमप्युच्यते। छन्दाधिपतेयः। स(सा) अतीता (ते) वा, अनागतप्रत्युत्पन्ने वा पुनरालम्बने पापकाकुशलाधर्मास्थानीये (लधर्मस्थानीये) मृदुमध्याधिमात्रक्लेशसमवस्थानीये, अनुत्पन्नस्य वा अनुत्पादाय, उत्पन्नस्य वा प्रहाणाय, व्यायच्छमानो वीर्यमारममाणः। तत्रालम्बने विचरत्यन्तस्य वालम्बनस्य स्वभावतो निदानतः प्रतिपक्षतश्च। सम्यगुपनिध्यायतः। एकाग्रां स्मृतिमुपस्थापयतो यत्तद्बहुलविहारिणश्चित्तैकाग्रता उत्पद्यते। समवस्थानदूरीकरणयोगेन त्वस्याप्यनुशयमुद्घातयति। पापकानामकुशलानां धर्माणामयं वीर्याधिपतेयः। समाधि[ः।]लीनम्वा पुनश्चित्तं प्रगृह्णतः। प्रगृहीतं चित्तं समादधतः। कालेन च कालमध्युपेक्षितः। यत्पापकानामकुशलानान्धर्माणां पापकाकुशला(ल) धर्मस्थानीयान्वयात् कुशल[त]ः। कुशलान्धर्मान् कुशलाकुशलस्थानीयांश्च धर्मान् स्वभावतो, निदानत, आदीनवतः, अनुशंसतः, प्रतिपक्षतो, निःसरणतः, सम्यगुपनि (द)ध्यायतः। एकाग्रतां स्मृतिमुपस्थापयतः। तद्बहुलविहारिणो या उत्पद्यन्ते चित्तस्यैकाग्रताः विस्तरेण यावदयं। चित्ताधिपतेयः समाधिः।

तत्र ये पापकाकुशला (ल)धर्मस्थानीया धर्मा भवन्ति। अयोनिशो मनसिकुर्व्वतः। त एव कुशलधर्म्मस्थानीया भवन्ति। योनिशो मनसिकुर्व्वतः। तस्यैवं समवस्थानेषु दूरीकृतेषु। समवस्थानप्रतिपक्षे च। समाधिप्रमुखेषु धर्मेष्वनुत्पन्नेषु ते पापका अकुशला धर्मा धर्म मुदा हरन्ति। तस्यैवं भवति। किं सतः सम्विद्यमानान्पापकानकुशलान्धर्मान् न प्रतिसंवेदयाम्याहोस्विदसतः। असंविद्यमानान्यन्व(न्न्व)हं परिमीमान्से (मांसये) यं। स मीमान्सा(मांसा)मनस्कारमधिपतिं कृत्वा प्रहीणाप्रहीणतां मीमान्स(मांस)ते सम्यगेवोपनिध्यापयति। तद्बहुलविहारी च स्पृशति] चित्तस्यैकाग्रतां येन च निरभिमानो भवति। पर्यवस्थानमात्रकाच्य(च्च)चित्तं विमुक्तं, न तु सर्व्वेण सर्व्वंमनुशयेभ्यः। तत्प्रतिपक्षाश्च मे समाधिप्रमुखाः कुशला धर्मा[श्]च प्रतिलब्धा, भाविता, न त्वनुशयप्रातिपाक्षिका इति यथाभूतं प्रजानाति। अयमस्योच्यते मीमान्सा (मांसा)समाधिः।

स तं चतुर्व्विधं समाधिमधिपतिं कृत्वा पर्यवस्थानेषु दूरीकृतेषु। सर्व्वेण सर्वमनुशयसमुद्घाताय पापकानामकुशलानां धर्माणां, तत्प्रातिपाक्षिकाणाञ्च कुशलानां (।) धर्माणां समुदागमाय [च्]छन्दं जनयति। व्यायच्छत इति विस्तरेण चतुर्भिः सम्यक्प्रहाणैः प्रयुज्यते। तथा प्रयुज्यमानस्य तथभूतस्याष्टौ प्रहाणसंस्कारा भवन्ति। ये[अ]स्यानुशयसमुद्घाताय च प्रवर्त्तन्ते। समाधिपरिपूरये च तद्यथा-छन्दः कदाचित्समाधिं परिपूरयिष्यामि। अनुशयांश्च प्रहास्यामि। पापकानामकुशलानां धर्माणां व्यायामो यावत्प्रतिपक्षभावनायामविन्यस्तप्रयोगया, श्रद्धायाम विन्यस्तयोगस्य विहरतः। उत्तरे[अ]धिगमे श्रद्द्धानता। अभिसंप्रत्ययः।

तत्र प्रश्रब्धिः। यच्छ्रद्धाप्रमादपूर्व्वंगमं प्रामोद्यं, प्रीतिः, प्रीतमनसश्चानुपूर्व्वा पापकाकुशला धर्मपक्षस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धिः।

तत्र स्मृतिर्या नवाकारा नवाकारायाश्चित्तस्थितेः शमथपक्ष्यायाः संग्राहिका।

छंदसंप्रजन्ये। या विपश्यनापक्ष्या प्रज्ञा। तत्र चेतनायाश्चित्ताभिसंस्कारः। प्रहीणाप्रहीणतो मीमान्स(मांस) मानस्य यश्चित्ताभिसंस्कारः शमथविपश्यनानुकूलः कायकर्म वाक्कर्म समुत्थापयति।

तत्रोपेक्षया अतीतानागतप्रत्युत्पन्नेषु पापकाकुशलाधर्मास्थानीयेषु चरतः चित्ताभिसंक्लेशश्चित्तंगमता। आभ्यां द्वाभ्यां कारणाभ्यां प्रहीणतामनुशयानां परिच्छिनत्ति जानाति। यदुत विषयविपरोक्षया चेतनया विषयविपरोक्षया चा(चो)पेक्षया। इमे [अ]ष्टौ प्रहाणसंस्कारा भवन्ति। ते चैतेष्टौ (स चैषोऽष्ट) प्रहाणसंस्कारयोगो भवत्यनुशयसमुद्घाताय। तत्र छन्द(च्छन्द)श्च, एत(ष) एव यो व्यायामः इदं वीर्यं, याश्रद्धा सा शुद्धा, या च प्रश्रब्धिर्या च स्मृतिर्यच्च संप्रजन्यं। या च चेतना, या चोपेक्षा। अय (इदं ?) मुपादाय। तदिदं सर्वमभिसमस्य ये च पूर्वकाश्छन्दसमाधयः। ये च इमे प्रहाणसंस्काराः प्रहीणेष्वनुशयेषु, परिक्षिप्ते समाधौ, छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्युच्यन्ते(ते)। वीर्यचित्तमीमान्सा (मांसा) समाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्युच्यते।

केन कारणेन ऋद्धिपाद इत्युच्ते। आह। तद्यथा। यस्य पादः सम्विद्यते सो[अ]भिक्रमप्रतिक्रम(म)पराक्रमसमर्थो भवति। एवमेव यस्यैते धर्माः संविद्यन्ते। एष च समाधिः संविद्ययते। परिपूर्ण्णः[।]स एवं परिशुद्धे चित्ते, पर्यवदाते, अनंगणे, विगतोपक्लेशे, ऋजुभूते कर्मण्यस्थिते, आनिंज्यप्राप्ते, अभिक्रमप्रतिक्रमसमर्थो भवति। लोकोत्तराणां धर्माणां प्राप्तये, स्पर्शनायै। एषा हि परा ऋद्धिः, परा समृद्धिः। यदुत लोकोत्तरा धर्मास्तेनोच्यन्ते (ते?)ऋद्धिपाद इति॥

स एवं समाधिप्रतिष्ठितः। समाधिं निश्रित्य। [अधि]चित्तं शिक्षा [या]मधिप्रज्ञं शिक्षायां योगं करोति। तत्रास्य योगं कुर्व्वतः। परेषां चाधिगमे शास्तुः श्रावकाणां च यो[अ]भिसंप्रत्ययः। प्रसादः, श्रद्धानता। समापत्त्यर्थेन श्रद्धेन्द्रियमित्युच्यते। कुत्र पुनरस्याधिपत्यं। आह। लोकोत्तरधर्मोत्पत्तिप्रमुखानां वीर्यस्मृतिसमाधिप्रज्ञानामुत्पत्तये आधिपत्यं। ये [अ]पि ते वीर्यादयः तेषामपि लोकोत्तरधर्मोत्पत्तये आधिपत्यं। यावत् प्रतिपत्तये आधिपत्यं। यावत् प्रज्ञया लोकोत्तरधर्मोत्पत्तये। आधिपत्यं। तैनैतानि श्रद्धादीनि पंचेन्द्रियाणि भवन्ति।

या पुनः पूर्व्वेणापरं विशेषाधिगमं सजानतः (संजानतः)। तदनुसारेण तदुत्तरलोकोत्तरधर्माधिगमायाभिसंप्रत्ययः, प्रसादः, श्रद्‍दधानता। सा अनवमृद्यनार्थेन श्रद्धाबलमित्युच्यते। केन पुनर्न शक्यते। अवमृदितुं। असंहाया (र्या)सा श्रद्धा देवेन वा, मारेण वा, ब्रह्मणा वा। केनचिद्वा पुनर्लोके, सहधर्मेण क्लेशपर्यवस्थानेन वा तेन सा अनवमृद्येत्युच्यते। तत्प्रमुखास्तत्पूर्व्वंगमा ये वीर्यादयस्तेपिबलानीत्युच्यन्ते। तैः स बलैर्बलवान् सर्व्वं मारबलं विजित्य प्रयुज्यते। आस्रवाणां क्षयाय। तस्माद्बलानीत्युच्यन्ते।

तत्र यश्च(यच्च) श्रद्धेन्द्रियं, यच्च श्रद्धाबलं चतुर्ष्वेतदवेत्य प्रसादेषु द्रष्टव्यं। तत्कस्य हेतोः। योऽसौ सम्यक्त्वन्यामावक्रान्तस्यावेत्य प्रसादः। स तद्धेतुकस्तत्प्रत्यस्तन्निदानः। तस्माद्धेतुफलसम्बन्धेन तस्यास्तदधिपतिफलमिति कृत्वा। तत्र द्रष्टव्यमित्युक्तं भगवता। न तु तच्छरीरतां तल्लक्षणतां [।] तत्र वीर्येन्द्रियं चतुर्षु सम्यक्प्रहाणेषु द्रष्टव्यं। (तत्कस्य हेतोः) यानि (तानि)कतमानि। सम्यक्प्रहाणानि यानि दर्शनप्रहातव्यक्लेशप्रहाणाय प्रायोगिकाणि सम्यक्प्रहाणानि, तान्यत्र सम्यक्प्रहाणान्यभिप्रेतानि तानि ह्यत्यन्ततायै पापकानामकुशलानां धर्माणां प्रहाणाय सम्वर्त्तन्ते॥

तत्र स्मृतीन्द्रियं चतुर्षु स्मृत्युपस्थानेषु द्रष्टव्यमितीमानि चत्वारि स्मृत्युपस्थानान्यविशेषविशेष विपर्यासप्रहाणाय सम्वर्त्तन्ते।

तत्र समाधीन्द्रियं चतुर्षु(स्था) ध्यानेषु द्रष्टव्यं। यानि ध्यानान्यगामितायां प्रायोगिकानि (णि) तत्र प्रज्ञेन्द्रियं चतुर्ध्वार्यसत्येषु द्रष्टव्यमिति। यत्सत्यज्ञानं चतुर्ध्णामार्यसत्यानामभिसमाय सम्वर्त्तन्ते (ते)। श्रामण्यफलप्राप्तते, प(य)पेन्द्रियाणि। एवं बलानि वेदितव्यानि। स एषामिन्द्रियाणामे तेषां च बलानामासेवनान्वयाद्भावनान्वयादबहुलीकारान्वयान्निर्वेधभागीयानि कुशलमूलान्युत्पादयति। मृदुमध्याधिमात्राणि। तद्यथा ऊष्मगतानि। मूर्धगतानि। मूर्धानः सत्यानुलोमाः क्षान्तयः लौकिकान(द)ग्रधर्मात्तद्यथा। कश्चिदेव पुरुषः अग्निना अग्निकायं कर्त्तुकामः। अग्निनार्थी अधरारण्यामुत्तरारणिं प्रतिष्ठाप्यास[-]न्नुत्सहते, घटते, व्यायच्छते। तथोत्सहतो, घटतो, व्यायच्छतश्च। तत्प्रथमतो[ऽ]धरारण्यामूष्मा जायते। सैव चोष्मा। अभिवर्धमाना ऊर्ध्वमागच्छति। भूयस्या मात्रया अभिवर्द्धमाना [।] निरर्च्चिषमग्निं पातयत्यग्निपतनसमनन्तरमेव चार्चिर्जायते। यथा अर्च्चिषा उत्पन्नया (नेन) जातया (तेन) संजातया (तेन) अग्निकायं करोति। यथा अभिमन्थन व्यायाम एवं पञ्चानामिन्द्रियाणामासेवना द्रष्टव्या। यथा अधरण्या तत्प्रथमत एव ऊष्मगतं भवति। एवमूष्मगतानि द्रंष्टव्यानि। पूर्व्वंगमानि। निमित्तभूतानि। अग्निस्थानीयानामनास्रवाणां धर्माणां क्लेशपरिदाहकानामुत्पत्तये। यथा तस्यैवोष्मण ऊर्ध्व[मा]गमनमेवं मूर्धानोद्रष्टव्याः।

यथा धूमप्रादुर्भाव एवं सत्यानुलोमाः क्षान्तयो द्रष्टव्याः॥ यथाग्नेः पतनं निरर्च्चिष एवं लौकिका अग्रधर्मा द्रष्टव्याः।

यथा तदनन्तरमर्च्चिषः (।) उत्पाद एवं लोकोत्तरा अनास्रवा धर्मा द्रष्टव्या (।) ये लौकिका अग्रधर्मसगृहीतानां पञ्चानामिन्द्रियाणां समनन्तरमुत्पद्यन्ते। ते पुनः कतमे‍आह। सप्तबोध्यंगानि। योऽसौ यथाभूतावबोधः। सम्यक्त्वन्यामावक्रान्तस्य पुद्गलस्यैतान्यंगानि [।] स हि यथाभूतावबोधः। सप्तांगपरिगृहीतः। त्रिभिः शमथपक्ष्यैः त्रिभिर्विपश्यनापक्ष्यैरेकेनोभयपक्ष्येण[।]तस्माद्बोध्यंगानीत्युच्यन्ते।

तत्र यश्च धर्मविनयः। यच्च वीर्यं, या च प्रीतिरितीमानि त्रीणि विपश्यनापक्ष्याणि। तत्र या च प्रश्रब्धिर्यश्च समार्धिया चोपेक्षा इतीमानि त्रीणि शमथपक्ष्याणि [।] स्मृतिरभयपक्ष्या (स्) सर्व्वत्रगेत्युच्यते। स तस्मिन् समये तत्प्रथमतो बोध्यंगलाभाच्छैक्षो भवति। प्रातिपदः [।] दर्शनप्रहातव्याश्चास्य क्लेशाः प्रहीणा भवन्ति। भावनाप्रहातव्याश्चावशिष्टाः [।] स तेषां प्रहाणाय त्रिस्कन्धमार्याष्टंगं मार्गं भावयति।

तत्र या च सम्यग्दृष्टिर्यश्च सम्यक्संकल्पः, यश्च सम्यग्व्यायामः। अयं प्रज्ञास्कन्धः।

तत्र ये सम्यक्कर्मान्ताजीवाः। अयं शीलस्कन्धः।

तत्र या च सम्यक्स्मृतिः, यश्च सम्यक्समाधिरयं समाधिस्कन्धः।

केन कारणेनार्याष्टांगो मार्ग इत्युच्यते। आह। आर्यस्य शैक्षस्य दृष्टपदस्यायं मार्ग इयं प्रतिपदष्टाभिरंगैः संगृहीता (ः)॥ अपरिशेषः। सर्व्वक्लेशप्रहाणाय विमुक्तिसाक्षात्क्रियायै तेनोच्यते आर्याष्टांगो मार्गः।

तत्र यश्च बोध्यंगकाले तत्त्वावबोधः (॥) प्रतिलब्धः, प्रतिलभ्य च यत्तस्यैव प्रज्ञया व्यवस्थानं करोति॥ यथाविगतस्यावबोधस्य, तदुभयमेकत्यमभिसंक्षिप्य सम्यग्दृष्टिरित्युच्यते। तां सम्यग्दृष्टिमधिपतिं कृत्वा। यन्नैष्क्रम्यसंकल्पं संकल्पयत्यव्यापादसंकल्पमविहिन्सा (हिंसा)संकल्पमयमुच्यते सम्यक्संकल्पः। स चेत्तावद्वितर्केषु चित्तं क्रामति। स एवं रूपाद्वितर्काद्वितर्कयति [।] स चेत्पुनः कथायां चित्तं क्रामति। सम्यग्दृष्टिमधिपतिं कृत्वा तेने(न)कुशलात्संकल्पां (लसंकल्पां) धर्म्यां कथां कथयति। सास्य भवति सम्यग्वाक्।

स चेच्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरतीथी(र्थी)भवति। तत्पर्येषणाम्वापद्यते। सोभिक्रमः। प्रतिक्रमे संप्रजानम्वि(द्वि)हारी भवत्यालोकितव्यवलोकिते[।] तस्मिंजित(संमिंजित) प्रसारिते। सांघटीचीवरपात्रधारणे, अशितपीतखादितास्वादिते। विहारगतो वा पुनः पर्येषितेषु चीवरादिषु गते, स्थिते, निषण्णे। यावन्निद्राक्लम[प्रति] विनोदने संप्रजानद्विहारी भवति। अयमस्योच्यते सम्यक्कर्मान्तः। स तच्चीवरं यावद्भैषज्यपरिष्कारं धर्मेण पर्येषते। यावन्मिथ्या [..........] धर्मविवर्जितः सोस्य भवति। सम्यगाजीवः।

ये पुनर्विरतिसंगृहीताः। सम्यक्कर्मान्ताजीवाः। ते अनेन पूर्व्वमेव मनस्कारलाभाद्बोध्यंगैरेव सह लब्धा भवन्ति। योप्यापकान्तानि शीलान्युच्यन्ते। केन कारणेन दीर्घ कालं ह्येतदार्याणां सतां सम्यग्गतानामिष्टं कान्तं प्रियं मन आपं कच्चिदहं तद्वाग्दुश्चरितस्य, कायदुश्चरितस्य, मिथ्याजीवस्याकरणं। सम्वरं प्रतिलभेयं। यदस्य दीर्घरात्रमिष्टं। कान्तं प्रियं मन आपं तदनेन तस्मिन्समये प्रतिलब्धं भवति। तस्मादापकान्तमित्युच्यते। तथा हि स लब्धेष्वापकान्तेषु शीलेषु, न संप्रजा[ना]नो मृषां वाचं भाषते। न संविध्य प्राणिनं (।) जीविताद् व्यपरोपयति। नादत्तमादत्ते[।]न (।)कामेषु मिथ्या चरति। न चाधर्मेण चीवरादीनि पर्येषते। इति तान्यापकान्तानि शीलान्यधिपतिं कृत्वा मार्गभावनाकाले यावत्प्रवर्तते। यच्च कायकर्म यश्चाजीवः तेपि सम्यग्वाक्कर्मान्ताजीवा इत्युच्यन्ते।

तस्य सम्यगदृष्टिसम्यक्संकल्प (ः।) वाक्कर्मान्ताजीवसन्निश्रयेण भावनाप्रयुक्तस्य। यच्छन्दो (यश्छन्दो), वीर्यं, व्यायामो, निष्क्रमः, पराक्रमस्थाम आरंभः। चेतसः संप्रग्रहः। सातत्यमयमुच्यते। सम्यग्व्यायामशमथः। यच्चत्वारि स्मृत्युपस्थानान्यधिपतिं कृत्वा अविपर्यायसंगृहीता स्मृतिः नवाकारा नवाकारचित्तस्थितिसंग्राहिका[।]इयमुच्यते सम्यक्स्मृतिः। सम्यक्समाधिश्च।

तदेतत्सर्व्वमभिसमस्य आर्याष्टांगो मार्गश्चारकरणीये च विहारकरणीये चावस्थितः।

तत्र सम्यग्वाक्कर्मान्ताजीवाः चारकरणीये [।]

विहारकरणीयं पुनर्द्विविधं। शमथो विपश्यना च[।] तत्र या सम्यग्दृष्टिः। यश्च सम्यक्संकल्पः। यश्च सम्यग्व्यायाम इयं विपश्यना।

तत्र या च सम्यक्समृतिर्यश्च सम्यक्समाधिस्यं शमथः। एवं परिशुद्धान् सम्यग्वाक्कर्मान्ताजीवान्निश्रित्य शमथविपश्यनां भावयति। कालेन कालं निरवशेषसंयोजनप्रहाणं साक्षात्करोत्यग्रफलमर्हत्त्वं, प्राप्नोति। प्राकर्षिकश्च(कञ्च) भावनामार्गः (र्गं) [।] कालान्तराभ्यासेन क्लेशान् प्रजहाति। ज्ञानमात्रप्रतिबद्धवस्तुदर्शनमार्गः ज्ञानोत्पत्तिमात्रेण क्लेशान् प्रजहात्यनेन कारणेन वाक्कर्मान्ताजीवा भावनामार्गे व्यवस्थापिताः।

इति य एवमेषामनया आनुपूर्व्या सप्तत्रिंशतां बोधपक्ष्याणां धर्माणामभ्यासः, परिचयः। इयमुच्यते बोधिपक्ष्या भावना।

तत्र भावनाफलं कतमत्। आह। चत्वारि श्रामण्यफलानि। स्रोत आपत्तिफलं, सकृदागामिफलं। अनागामिफलमग्रफलमर्हत्त्वं।

तत्र कतमच्छ्रामण्यं। कतमत्‍फलं। आह। मार्गः, क्लेशप्रहाणं फलं। अपि च पूर्व्वोत्पन्नस्य मार्गस्य पश्चादुत्पन्नो मार्गः। फलं, मध्यो, विशिष्टो वा, पुनः [।]तत्र केन कारणेन चत्वारि व्यवस्थापितानि। आह। चतुर्विधक्लेशप्रहाणप्रतिपक्षतया। तद्यथा निर्व्वस्तुकानां क्लेशानामपायगमनहेतुभूतानां प्रहाणात्प्रतिपक्षोत्पादाच्च स्रोत आपत्तिफलं व्यवस्थापितं। त्रयाणां तु संयोजनानां प्रहाणाद्‍व्यवस्थापितं। भगवता त्रिषु पक्षेषु, गृहिपक्षे, दुराख्यातधर्म्मविनय पक्षे च, त्रयाणां संयोजनानां मार्गोत्पत्तये विवृद्धाकरत्वात्। तत्र गृहिपक्षे सत्कायदृष्टिः। यया यमादित एव न प्रयुत्यत इत्यादित उ[त्]त्रासिका सत्कायदृष्टिः। दुराख्यातेधर्मविनये शीलव्रतपरामर्शः। उच्चलितस्यापि मिथ्याप्रतिपादयति। येनार्यमार्गो नोत्पद्यते। स्वाख्याते धर्मविनये विचिकित्सातश्चोच्चलितश्च भवति। न च मिथ्याप्रतिपन्नः। अपि स्वाभ्यासात्तस्य यावद् यथाभूतदर्शनं न भवति। ज्ञेयवस्तुनि तावत्कांक्षा विमतयो विबन्धकरा भवन्ति। मार्गस्योत्पत्तये। अनेन तावत्कारणेन स्रोत आपत्तिफलव्यवस्थानं॥

तस्यास्य स्रोत आपन्नस्य परं सप्त भवा अवशिष्टा भवन्ति। स चास्यजन्म प्रबन्धः। यदा जन्मप्राबन्धिकान्क्लेशान्प्रजहाति। देवभवसंगृहीतान्मनुष्यसंगृहीतांश्च [।] येषां प्रहाणात्परमेकं देवभवमभिनिर्व्वर्त्तयत्येकं मनुष्यभवं [।] तस्मिन्समये सकृदागामिफलं व्यवस्थाप्यते।

यदा तु देवभवमेव केवलमभिनिर्व्वर्त्तयति। इह प्रत्यागमजन्मिकं क्लेशं प्रहाय तदा अनागामिफलं व्यवस्थाप्यते॥ सर्व्वभवोपपत्तिसंवर्त्तनीयक्लेशप्रहाणादग्रफलमर्हत्त्वफलं व्यवस्थाप्यते।

तत्पुनः सकृदागामिफलं त्रयाणां संयोजनानां प्रहाणाद्रागद्वेषमोहानां च। तनुत्वाद् भगवता व्यवस्थापितं। पंचानामवरभागीयानां संयोजनानां प्रहाणादनागामिफलं। पर्यादाय सर्व्वक्लेशप्रहाणादर्हत्त्वफल मिदमुच्यते भावनाफलं।

तत्र ये रागद्वेषमोहमानवितर्कचरितेषु (ताः) पुद्गलेषु(लाः) पूर्व्वं [तैः] तावच्चरितविशोधने आलम्बने चरितं विशोधयितव्यं। ततः पश्चाच्चित्तस्थितिमधिगच्छन्ति। तेषां प्रतिनियतमेव तदालम्बनमवश्यं तैस्तेनालम्बनेन प्रयोक्तव्यं। समभागचरितस्य तु यत्र प्रियारोहिता। तत्र तेन प्रयोक्तव्यं केवलं चित्तस्थितये। न तु चरितविशुद्धये। यथा समभागचरित एवं मन्दरजस्को वेदितव्यः। अयं त्वेषां विशेषो रागादिचरितः प्रयुज्यमानश्चिरेणाधिगन्ता भवति। समभागचरितो नातिचिरेण, मन्दरजस्कस्तु आशु त्वरित त्वरितं चित्तस्थितमधिगच्छति। तत्रोक्तानि पूर्व्वं रागचरितानां पुद्गलानां लिंगानि।

समभागचरितस्य पुद्गलस्य मन्दरजस्कस्य च कतमानि लिंगानि। आह। समभागचरितस्य पुद्गलस्य सर्व्वाणि तानि लिंगानि संविद्यन्ते। यानि रागादिचरितानां, तानि रागा[दी]नि तु नाधिमात्राणि, न प्रधानानि। तथा रागादिचरितानां समप्राप्तानि भवन्ति प्रत्ययेषु सत्सु न प्रज्ञायन्ते। तत्र मन्दरजस्कस्य पुद्गलस्य लिंगानि। अनावृतो भवत्यादिशुद्धसंभारसंभृतः। प्रसादबहुलो मेधावी पुण्यवान् गुणान्वितश्च भवति।

तत्र त्रीण्यावरणानि। कर्मावरणं। क्लेशावरणं। विपाकावरणं।

तत्र कर्मावरणं। पञ्चानन्तर्याणि कर्माणि। यच्चान्यदपि किंचित्कर्माणि (कर्म)। सांचेतनीयं। गुरुकर्म, विपक्वविपाकं। मार्गोत्पत्तये। निबद्धकारकं। तत्र क्लेशावरणं। तीव्रक्लेशता। आयतक्लेशता च। या दृष्टे धर्मे चरितविशोधनेनालम्बनविशोधनेन न शक्यते विशोधयितुं।

तत्र विपाकावरणं यत्रार्यमार्गस्य अप्रवृत्तिरप्रसाद उपपत्त्यायतने[।]तत्र वा विपाकमभिनिर्व्वर्त्तयति। यत्र वा आर्यमार्गस्य प्रवृत्तिः। तत्रोपपत्रो जातो भवत्येडमूको हस्तसंबाधिकः अप्रतिबलो भवति। सुभावितदुर्भावितानां धर्माणामर्थमाज्ञातुं। तत्रादि शुद्धिः, शीलं च सुविशुद्धं दृष्टिश्च ऋज्वी [।] तत्र शीलं सुविशुद्धं। दशभिः कारणैर्वेदितव्यम्। तत्र दृष्टि तृप्तिता जाता श्रदधां(द्धा) संप्रयोगात्। अधिमुक्तिसंप्रयोगाद्धि तमार्या[अ]शाठ्यतया सुचिन्तित धर्मार्थस्य निःकांक्षनिर्विचिकित्साप्रयोगनिर्याणतया या दृष्टिः श्रद्धया संप्रयुक्ता। अस्माद्‍धर्म विनयादसंहार्यादधिमुक्त्या च संप्रयुक्ता बुद्‍धानां बुद्धश्रावकाणां च। अनित्यमनुभव[न]मनित्यानि चोपपत्त्यायतना नि। गंभीरां च देशनां, अव्याकृतवस्तु चाधिमुच्यते। नो[त्]त्रसति, न संत्रासमा पद्यते। विगतमायाशाठ्या च या दृष्टिः यया ऋजुको भवति। ऋजुकजातीयः। यथानुशिष्टश्च प्रतिपद्यते। यथाभूतं चात्मानमाविष्करोति। धर्माणां वाऽनित्यतामारभ्यं, दुःखतां, शून्यतामनात्मतामर्थः सुविचिन्तितोभवति। सुतुलितः सूपपरीक्षितः। यद्धेतोरयं निःकाङ्क्षो भवति। निर्विचिकित्सः। द्वेधा पथा गतो विशेषाय परैति। इतीयं चतुराकारा दृष्टिर्यथोद्दिष्टा। दृष्टिऋजुतेत्युच्यते। तत्र संभारसंभृतताविस्तरेण संभारः। पूर्व्वमेव निर्दिष्टः समासतः। पुनश्चर्विधो भवति। पुण्यसंभारो, ज्ञानसंभारः, पूर्व्वको, दृष्टधार्मिकश्च।

तत्र पुण्यसभारो येनाप्येतर्हि आनुलोमिकाः परिष्काराः प्रादुराभवन्ति। प्रदक्षिणाः। कल्याणमित्राणि च प्रतिलभते। अनन्तरायश्च प्रयुक्तस्य भवति।

तत्र ज्ञानसंभारः। येन मेधावी भवति, प्रतिबलः। सुभाषितदुर्भाषितानां धर्माणामर्थमाज्ञातुं [।]लाभी भवति। आनुलोभिकाया धर्मदेशनायाः, अर्थदेशनायाः, अववादानुशासन्याः।

तत्र पूर्व्वको येनैतहि (र्हि) प[रि]पक्वानीन्द्रियाणि लभते। पूर्वकुशलमूलोपचयात्। तत्र दृष्टधार्मिकस्तद्यथा। कुशलो धर्मछ(च्छ)न्दः। तथा परिपक्वेन्द्रियस्य शीलसम्वर, इन्द्रियसम्वर इति विस्तरेण पूर्व्ववत्।

तत्र प्रसादबहुलता [।] न शास्तरि कांक्षति। न विचिकित्सति। प्रसीदत्यधिमुच्यते। यथाशास्तर्येवं धर्मे, शिक्षायामिति विस्तरेण पूर्व्ववत्।

तत्र मेधा यया आशु धर्ममुद्गृह्णाति। चिरेण धर्ममर्थं च न विस्तारयति। आशु धर्ममर्थं च प्रतिविध्यति।

तत्र कृतपुण्यता। यया अभिरूपो भवति। दर्शनीयः। प्रासादिको दीर्घायुर्भवत्यादेयवाक्यो, महेशाख्यो, ज्ञातो भवति। महापुण्यो, लाभी चीवरादीनां। स सत्कृतो, गुरुकृतश्च। राजादीनां।

तत्र गुणान्वित इति। गुणा अल्पेच्छतादयो वेदितव्याः। यथोक्तं श्रमणालंकारे तैरयं प्रकृत्यैव समन्वागतो भवति। इतीमान्येवं भागीयानि मन्दरजस्कस्य पुद्गलस्य लिंगानि वेदितव्यानि॥

तत्र षट् पुद्गलपर्यायाः। तद्यथा श्रमणो, ब्राह्मणो, ब्रह्मचारी, भिक्षुर्यति [ः], प्रव्रजितश्चेति।

तत्र चत्वारः श्रमणाः। मार्गजिनः। मार्गदेशिकः। मार्गजीवी। मार्गदूषी च।

तत्र यः सुगतः स मार्गजिनः। यो धर्मवादी स मार्गदेशिकः। तत्र यः प्रतिपन्नः। स मार्गजीवी। यो मिथ्याप्रतिपन्नः स मार्गदूषी।

सुगतश्चोच्यते। योशेषं रागद्वेषमोहक्षयमनुप्राप्तः। धर्मवादी। यो रागद्वेषमोहविनयाय धर्मं देशयति। सुप्रतिपन्नो यो रागद्वेषमोहविनयाय प्रतिपन्नः। दुःशील[ः], पापधर्मा, मिथ्या प्रतिपन्नः।

अपि च। शैक्षाशैक्षा मार्गजिना इत्युच्यन्ते। दर्शनभावनाप्रहातव्यानां क्लेशानां विजयात्तत्र तथागतो बोधिसत्त्वश्चायत्यां बोधाय प्रतिपन्नाः। श्रावकाश्च सूत्रधरा, विनयधरा, मातृकाधराश्च। ये सांकेतिकं धर्मविनयं धारयन्ति। धर्मनेत्रीं प्रवर्त्तयन्ति। इम उच्यन्ते मार्गदेशिकाः। तत्र ये पृथग्जनकल्याणका आत्महिताय प्रतिपन्ना शज्जिनः (मार्गदेशिकाः)। कौकृतिकाः शिक्षाकामाः। अप्राप्तस्य प्राप्तये अनधिगतस्याधिगमाय आसाक्षात्कृतस्य साक्षात्क्रियायै प्रयुक्ता, भव्याश्च प्रतिबला, यावदसाक्षात्कृतस्य साक्षात्क्रियायै[।]इम उच्यन्ते मार्ग जीविनः। अप्येषामूष्मा येने[य]मस्य आर्यस्य प्रज्ञेन्द्रियस्योत्पत्तये, न मृता जीवन्तीत्युच्यते। तेनोच्यन्ते मार्गजीविन इति। तत्र योयं पुद्गलो दुःशीलः पापधर्मा यावदब्रहमचारी [ब्रह्मचारी] (रि) प्रतिज्ञः। अयमुच्यते मार्गदूषी दूषितोनेन मार्गो भवति मूलत आदितः। येनायमभव्यो भवत्यप्रतिबलः। अभाजनभूतो मार्गस्योत्पत्तये। सत्यां संविद्यमानायां मार्गदेशनायां सति संविद्यमानेधिगमे [।] तस्मान्मार्गदूषीत्युच्यते।

इदं च सन्धायोक्तं भगवता। इह कतमः श्रमणः। इह यावच्चतुर्थः। शून्याः परप्रवादाः। श्रमणैब्रह्मिणैश्च। यत्रार्याष्टांगो मार्गः प्रज्ञायते। तत्र प्रथमश्रमणस्तत्र यावच्चतुर्थ इति॥

तत्र (य)त्रयो ब्राह्मणाः। तद्यथा जातिब्राह्मणः। संज्ञाब्राह्मणः। प्रतिपत्तिब्राह्मणश्च। तत्र जातिब्राह्मणः। योयं जातिब्राह्मणः कुलजातो, योनिजो, मातृसम्भूतः। उत्पन्नो मातृतः, पितृतः। तत्र संज्ञाब्राह्मण इति लोके नाम भवति, संज्ञा, समाज्ञा, प्रज्ञप्तिर्व्यवहारः। प्रतिपत्तिब्राह्मणः। योत्यन्तनि(न्तं) भवति कृतार्थः। वाहिता भवन्त्यनेन पापका अकुशला धर्माः। यथोक्तं न कार्यं ब्राह्मणस्यास्ति। कृतार्थो ब्राह्मणः स्मृत इति।

तत्र त्रयो ब्रह्मचारिणः। तद्यथा विरतिसमादायी। तदन्तरप्रहायी, तदत्यन्तप्रहायी च। तत्र विरतिसमादायी। यो ब्रह्मचर्या[त्]पुनर्धर्मात्प्रतिविरतो भवति। समादत्तशिक्षः। तत्र तदन्तरप्रहायी यो लौकिकेन मार्गेण कामवीतरागः पृथग्जनः। तत्र तदत्यन्तप्रहायी। तद्यथानागामी। अर्हत्वात्पुनः (अर्हन्वा पुनः)॥

तत्र पञ्च भिक्षवः। भिक्षतीति भिक्षुः। प्रतिज्ञाभिक्षुः। संज्ञाभिक्षुः। भिन्नक्लेशत्वाद्भिक्षुः। ज्ञप्तिचतुर्थेन कर्मणोपसम्पादितो भिक्षुः॥

तत्र त्रयो यतयः। दौःशील्यसंयमाद् यतिः। योकुशलाद् वाक्कायकर्मणः प्रतिविरतः। विषयसंयमाद्यतिः। य इन्द्रिये गुप्तद्वारः। आरक्षितस्मृतिः। निपकस्मृति [ः।] विस्तरेण पूर्व्ववत्। क्लेशसंयमाद्यतिः। यस्य दर्शनप्रहातव्याः क्लेशाः प्रहीणा उत्पन्नोत्पन्नञ्च। वितर्कं व्यापादविहि[तं]वितर्कमभिध्याव्यापाददृष्टिमिथ्यादृष्टिक्रोधोपनाहम्रक्षप्रदाशादीन्यापायिकानि स्थानानि नैरयिकानि(णि)। दुर्गतिगामी[नि] (।) अश्रमणकारकाण्युत्पन्नोत्पन्नानि नाधिवासयति। प्रजहाति। विशोधयति। व्यन्तीकरोति। सोयं द्विविधः क्लेशसंयमो भवति। पर्यवस्थानसंयम, उभयसंयमश्च॥

तत्र द्वौ प्रव्रजितौ। स्वारव्यातधर्मविनयो, दुराख्यातधर्मविनयश्च। तत्र स्वाख्यातधर्मविनयः। भिक्षुर्भिक्षुणी, शिक्षमाणा, श्रामणेर [ः], श्रामणेरी। अपि च प्रव्राजयत्यात्मनः पापकानकुशलान् धर्मान् स प्रव्रजित इत्युच्यते। परमार्थतः। तत्र दुराख्यातधर्मविनयः। तद्यथा तीर्थिक [ः], परिव्राजो (व्राड्), निर्ग्रन्थो वा, परिव्राजकोपाण्डुरोग इति। यो वा पुनरप्येवंभागीयः। तेनाहं(ह) श्रमणो, ब्राह्मणो, ब्रह्मचारी, भिक्षुर्यतिः, प्रव्र [........................................] र-च। कालप्रभेदः दीर्घकालभावितमार्गो, न दीर्घकालभावितमार्गश्च। इतीमे चत्वारः प्रभेदाः कथंनिदानानि भवन्ति। यद्वा संप्र [.........................................] ज्ञ उपायज्ञ [ः]कुशल इत्यर्थः। सातत्यपक्षे प्रयोगो (गः) साततिको निपक्व इत्युच्यते। दीर्घकालभावितभावित [...........................................] त्रयेण भेदेन। योगप्रयोगकालभेदेनाप्तानां पुद्गलानां व्यवस्थानं यस्तावद्पुद्गलः अपरिपक्वेन्द्रियः। स तावदुपायज्ञोपि साततिकोपि कृतपरिचयोपि नाराधको भवति। ध्याय्यस्य धर्मस्य कुशलस्य। तत्र परिपक्वेन्द्रियश्च [...............................] ज्ञो भवति। परिपक्वेन्द्रियो भवति। उपायज्ञो न क्षिप्राभिज्ञो भवति। तत्र परिपक्वेन्द्रियो, भवत्युपायज्ञो, न साततिको, न कृतपरिचयः। न तावत्कृतस्वार्थो भवति। कृतकृत्यः। यश्च परिपक्वेन्द्रियो भवत्युपायज्ञः। साततिकः, कृतपरिचयश्च भवत्येवं स आराधको भवति। क्षिप्राभिज्ञश्च। कृतस्वकार्यश्च भवति कृत्यकृत्यः॥

तत्र चत्वारो माराः संबहुलानि मारकर्माणि। वेदितव्यानि योगिना। योगप्रयुक्तेन। ते च परिज्ञाय परिवर्जयितव्याः। तत्र चत्वारो माराः। तद्यथा-स्कन्धमारः, क्लेशमारः, मरणमारः। देवपुत्रमारश्च। पंचोपादानस्कन्धाः स्कन्धमारः। त्रैधातुकावचराः क्लेशाः। तेषां तेषां सत्त्वानां। तस्मात्तस्मात्सत्त्वनिकायाः य(याद्य)न्मरणं कालक्रिया मरणमारः। योप्यकुशलपक्षप्रयुक्तस्य स्कन्धक्लेशमृत्युसमतिक्रमाय कामधातूपपन्नो देवपुत्रः। निश्चयप्राप्तः अन्तरायमुपसंहरति। व्याक्षेपकरणे। अयमुच्यते देवपुत्रमारः। तत्र यत्र च म्रियते। यश्चासौ मृत्युर्येन च मृत्युं नमयति, क्रामयत्यन्तरायिकेन वस्तुना [।] इत्येतदधिकृत्य चत्वारो मारा व्यवस्थापिताः।

तत्र पञ्चसूपादानस्कन्धेषु जातेषु वर्द्धमानेषु म्रियते। क्लेशां(शान्)जनयत्यायत्यां जातश्च म्रियते। च्युतिश्च च्यवनता सत्वानां जीवितेन्द्रियनिरोधः। कालक्रिया स्वभाव एव मृत्युः। देवपुत्रमारश्च मरण समतिक्रमाय प्रयुक्तस्यान्तरायमुपसंहरति। येन नैव वा शक्नोति मरणधर्म्मतां समतिक्रमितुम्॥ कालान्तरेण वा समतिक्रामति। तत्रावशगतो मारस्य भवति लौकिकमार्गवीतरागः पृथग्जनः॥ इहस्थस्तत्रोपपन्नो वा, [अ]वशगतः। पुनर्यः अवीतरागः।

तत्र यो वीतरागः (।) एव हस्तगतो यथाकामं करणीयः। वीतरागो वा पुनर्बद्धो मारबन्धनैः। अपरिमुक्तो मारपाशैर्यस्मात्स पुनरप्यागन्ती(न्ता) इमां (मं)धार्न्तुम्(धातुम्)।

तत्र मारकर्माणि। यस्य कस्यचित्कर्मणो धर्मच्छन्दः समुत्पन्नो नैष्क्रम्योपसंहितः। कामग्रेधमधिपतिं कृत्वा प्रवर्त्तन्ते। वेदितव्यं मारकर्मै तदिति। इन्द्रियैर्गुप्तद्वारस्य विहरतः। यस्य रंजनीयेषु रूपेषु सहगत्वरसम्प्रष्टव्यधर्मेषु निमित्तग्राहितायामनुव्यंजनग्राहितायां चित्तं प्रस्कन्दति। वेदितव्यं मारकर्मैतदिति। एवं भोजनेषु मात्रज्ञस्य विहरतः प्रणीतेषु रसेषु छन्दरागमनुनयेन चित्तं प्रस्कन्दति। भक्तवैषम्ये एवं पूर्वरात्रापररात्रं जागरिकायो गमननुयुक्तस्य विहरतः। निद्रासुखे, शयनसुखे, पार्श्वसुखे चित्तं प्रस्कन्दति। वेदितव्यं मारकर्मैतदिति। तथा संप्रजानद्विहारिणो विहरतः। अभिक्रमप्रतिक्रमादिषु शिशुमुदारवर्ण्णं रंजनीयं मातृग्रामं दृष्ट्वा अयोनिशो निमित्तग्राहेण चित्तं प्रस्कन्दति। लोकचित्राणि वा दृष्ट्वा चित्तं प्रस्कन्दति। बह्वर्थतां(तायां), बहुकृत्यतायां, चित्तं प्रस्कन्दति। तद्यथा गृहस्थप्रव्रजितैः संसर्गारामतायां, पापमित्रैः सह एकव्यवसितायां, दृष्ट्यनुमते चित्तं प्रस्कन्दति। वेदितव्यं मारकर्मैतदिति॥ तथा बुद्धे, धर्मे, संघे, दुःखे, समुदये, निरोधे, मार्गे। इहलोके, परलोके कांक्षा विमतय उत्पद्यन्ते। वेदितव्यं मारकर्मैतदिति। अरण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, महान्तम्भयभैरवं पश्यत्यु[त्]त्रासकरं रोमहर्षणं। ब्राह्मणवेषेण, वा मनुष्यवेषेण वा, अमनुष्यवेषेण वा, कश्चिदुपसंक्रम्यायोनिशः (।) शुक्लपक्षाद्विच्छिन्दयति। कृष्णपक्षे च समादापयति। वेदितव्यं मारकर्मैतदिति। यदा लाभसत्कारे चित्तंप्रस्कन्दति। मात्सर्ये महेच्छतायां। असन्तुष्टौ, क्रोधोपनाह (।) कुहनालपनादिषु। श्रमणालंकारविपक्षेषु धर्मेषु चित्तं प्रस्कन्दति। वेदितव्यं मारकर्मैतदिति। इतीमान्येवंभागीयानि मारकर्माणि वेदितव्यानि तानि चतुर्ण्णां माराणां यथायोगं॥

तत्र चतुर्भिःकारणैः सम्यक्प्रयुक्तस्याप्यारंभो विफलो भवति। तद्यथा इन्द्रियसमुदागमेन। अनुलोमाववादेन। समाधिदुर्ब्बलतया च। इन्द्रियाणि चेन्न समुदागतानि। आनुलोमिकश्चाववादो भवति। समाधिश्च केवलवान्। एवमस्यारम्भो विफलो भवति। इन्द्रियाणि चेन्न समुदागतानि भवन्ति। अववादश्च नानुलोमिको भवति। समाधिश्च बलवान् भवति। एवमारम्भो विफलः। इन्द्रियाणि चेत्समुदागतानि। स अववादश्चानुलोमिको भवति। समाधिश्च दुर्बलो भवत्येवारंभा(वमारम्भो) विफलः। इन्द्रियाणि चेत्समुदागतानि भवन्ति। आनुलोमिकश्चाववादो भवति। समाधिश्च दुर्ब्बलो भवत्येव[मा]रम्भो विफलः। इन्द्रियाणि चेत्समुदागतानि भवन्ति। आनुलोमिकश्चाववादः। समाधिश्च बलवानेवम स्यारम्भः सफलो भवत्येभिस्त्रिभिः कारणैर्विफलो भवति। त्रिभिरेव कारणैः सफलः॥ उद्दानं॥

पुद्गलास्तद्‍व्यवस्थानं अथो आलम्बनेन च।
अववादश्च शिक्षा च तथा शिक्षानुलोमिका [ः] [॥]

योगभ्रंशश्च योगश्च मनस्कारश्च योनिशः।
करणीयं भावना च फलं पुद्गलपर्यायः॥
मारश्च मारकर्माणि आरम्भो विफलो भवेत्॥

॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां द्वितीयं योगस्थानम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project