Digital Sanskrit Buddhist Canon

द्वितीय परिच्छेद

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel Romanized version Dvitīyaḥ paricchedaḥ
द्वितीय परिच्छेद



उक्ता समला तथता। निर्मला तथतेदानीं वक्तव्या। तत्र कतमा निर्मला तथता यासौ बुद्धानां भगवतामनास्रवधातौ सर्वाकारमलविगमादाश्रयपरिवृत्तिर्व्यवस्थाप्यते। सा पुनरष्टौ पदार्थानधिकृत्य समासतो वेदितव्या। अष्टौ पदार्थाः कतमे।



शुद्धिः प्राप्तिर्विसंयोगः स्वपरार्थस्तदाश्रयः।

गम्भीर्यौदार्यमाहात्म्यं यावत्कालं यथा च तत्॥१॥



इत्येतेऽष्टौ पदार्था यथासंख्यमनेन श्लोकेन परिदीपिताः। तद्यथा स्वभावार्थो हेत्वर्थः फलार्थः कर्मार्थो योगार्थो वृत्त्यर्थो नित्यार्थोऽचिन्त्यार्थः। तत्र योऽसौ धातुरविनिर्मुक्तक्लेशकोशस्तथागतगर्भ इत्युक्तो भगवता। तद्विशुद्धिराश्रयपरिवृत्तेः स्वभावो वेदितव्यः। यत आह। यो भगवन् सर्वक्लेशकोशकोटिगूढे तथागतगर्भे निष्काङ्क्षः सर्वक्लेशकोशविनिर्मुक्तेस्तथागतधर्मकायेऽपि स निष्काङ्क्ष इति। द्विविधं ज्ञानं लोकोत्तरमविकल्पं तत्पृष्ठलब्धं च। लौकिकलोकोत्तरज्ञानमाश्रयपरिवृत्तिहेतुः प्राप्तिशब्देन परिदीपितः। प्राप्यतेऽनेनेति प्राप्तिः। तत्फलं द्विविधम्। द्विविधो विसंयोगः क्लेशावरणविसंयोगो ज्ञेयावरणविसंयोगश्च। यथाक्रमं स्वपरार्थसंपादनं कर्म। तदधिष्ठानसमन्वागमो योगः। त्रिभिर्गाम्भीर्यौदार्यमाहात्म्यप्रभवितैर्बुद्धकायैर्नित्यमा भवगतेरचिन्त्येन प्रकारेण वर्तनं वृत्तिरिति। उद्दानम्।



स्वभावहेतुफलतः कर्मयोगप्रवृत्तितः।

तन्नित्याचिन्त्यतश्चैव बुद्धभूमिष्ववस्थितिः॥२॥



तत्र स्वभावार्थे हेत्वर्थे चारभ्य बुद्धत्वे तत्प्राप्त्युपाये च श्लोकः।

बुद्धत्वं प्रकृतिप्रभास्वरमिति प्रोक्तं यदागन्तुक-

क्लेशज्ञेयघनाभ्रजालपटलच्छन्नं रविव्योमवत्।

सर्वैर्बुद्धगुणैरुपेतममलैर्नित्यं ध्रुवं शाश्वतं

धर्माणां तदकल्पनप्रविचयज्ञानाश्रयादाप्यते॥३॥



अस्य श्लोकस्यार्थः समासेन चतुर्भिः श्लोकैर्वेदितव्यः।

बुद्धत्वमविनिर्भागशुक्लधर्मप्रभावितम्।

आदित्याकाशवज्ज्ञानप्रहाणद्वयलक्षणम्॥४॥



गङ्गातीररजोऽतीतैर्बुद्धधर्मैः प्रभास्वरैः।

सर्वैरकृतकैर्युक्तमविनिर्भागवृतिभिः॥५॥



स्वभावापरिनिष्पत्तिव्यापित्वागन्तुकत्वतः।

क्लेशज्ञेयावृतिस्तस्मान्मेघवत् समुदाहृता॥६॥



द्वयावरणविश्लेषहेतुर्ज्ञानद्वयं पुनः।

निर्विकल्प च तत्पृष्ठलब्धं तज्ज्ञानमिष्यते॥७॥



यदुक्तमाश्रयपरिवृत्तेः स्वभावो विशुद्धिरिति तत्र विशुद्धिः समासतो द्विविधा। प्रकृतिविशुद्धिर्वैमल्यविशुद्धिश्च। तत्र प्रकृतिविशुद्धिर्या विमुक्तिर्न च विसंयोगः प्रभास्वरायाश्चित्तप्रकृतेरागन्तुकमलाविसंयोगात्। वैमल्यविशुद्धिर्विमुक्तिर्विसंयोगश्च वार्यादीनामिव रजोजलादिभ्यः प्रभास्वरायाश्चित्तप्रकृतेरनवशेषमागन्तुकमलेभ्यो विसंयोगात्। तत्र वैमल्यविशुद्धौ फलार्थमारभ्य द्वौ श्लोकौ।



ह्रद इव विमलाम्बुः फुल्लपद्‍मक्रमाढ्यः।

सकल एव शशाङ्को राहुवक्त्राद्विमुक्तः।

रविरिव जलदादिक्लेशनिर्मुक्तरश्मि-

र्विमलगुणयुतत्वाद्‍भाति मुक्तं तदेव॥८॥



मुनिवृषमधुसारहेमरत्न-

प्रवरनिधानमहाफलद्रुमाभम्।

सुगतविमलरत्नविग्रहाग्र-

क्षितिपतिकाञ्चनबिम्बवज्जिनत्वम्॥९॥



अस्य खलु श्लोकद्वयस्यार्थः समासतोऽष्टाभिः श्लोकैर्वेदितव्यः।

रागाद्यागन्तुकक्लेशशुद्धिरम्बुह्रदादिवत्।

ज्ञानस्य निर्विकल्पस्य फलमुक्तं समासतः॥१०॥



सर्वाकारवरोपेतबुद्धभावनिदर्शनम्।

फलं तत्पृष्ठलब्धस्य ज्ञानस्य परिदीपितम्॥११॥



स्वच्छाम्बुह्रदवद्रागरजःकालुष्यहानितः।

विनेयाम्बुरुहध्यानवार्यभिष्यन्दनाच्च तत्॥१२॥



द्वेषराहुप्रमुक्तत्वा न्महामैत्रीकृपांशुभिः।

जगत्स्फरणतः पूर्णविमलेन्दूपमं च तत्॥१३॥



मोहाभ्रजालनिर्मोक्षाज्जगति ज्ञानरश्मिभिः।

तमोविधमनात्तच्च बुद्धत्वममलार्कवत्॥१४॥



अतुल्यतुल्यधर्मत्वात् सद्धर्मरसदानतः।

फल्गुव्यपगमात्तच्च सुगतक्षौद्रसारवत्॥१५॥



पवित्रत्वाद्‍गुणद्रव्यदारिद्रयविनिवर्तनात्।

विमुक्तिफलदानाच्च सुवर्णनिधिवृक्षवत्॥१६॥



धर्मरत्नात्मभावत्वाद् द्विपदाग्राधिपत्यतः।

रूपरत्नाकृतित्वाच्च तद्रत्ननृप बिम्बवत्॥१७॥



यत्तु द्विविधं लोकोत्तरमविकल्पं तत्पृष्ठलब्धं च ज्ञानमाश्रयपरिवृत्तेर्हेतुर्विसंयोगफलसंज्ञितायाः। तत्कर्म स्वपरार्थसंपादनमित्युक्तम्। तत्र कतमा स्वपरार्थसंपत्। या सवासनक्लेशज्ञेयावरणविमोक्षादनावरणधर्मकायप्राप्तिरियमुच्यते स्वार्थसंपत्तिः। या तदूर्ध्वमा लोकादनाभोगतः कायद्वयेन संदर्शनदेशनाविभुत्वद्वयप्रवृत्तिरियमुच्यते परार्थसंपत्तिरित्। तस्यां स्वपरार्थसंपत्तौ कर्मार्थमारभ्य त्रयः श्लोकाः।



अनास्रवं व्याप्यविनाशधर्मि च

ध्रुवं शिवं शाश्वतमच्युतं पदम्।

तथागतत्वं गगनोपमं सताम्

षडिन्दियार्थानुभवेषु कारणम्॥१८॥



विभूतिरूपार्थविदर्शने सदा

निमित्तभूतं सुकथाशुचिश्रवे।

तथागतानां शुचिशीलजिघ्रणे

महार्यसद्धर्मरसाग्रविन्दने॥१९॥



समाधिसंस्पर्शसुखानुभूतिषु

स्वभावगाम्भीर्यनयावबोधने।

सुसूक्ष्मचिन्तापरमार्थगव्हरं

तथागतव्योम निमित्तवर्जितम्॥२०॥



अस्य खलु श्लोकत्रयस्यार्थः समासतोऽष्टभिः श्लोकैर्वेदितव्यः।



कर्म ज्ञानद्वयस्यतद्वेदितव्यं समासतः।

पूरणं मुक्तिकायस्य धर्मकायस्य शोधनम्॥२१॥



विमुक्तिधर्मकायौ च वेदितव्यौ द्विरेकधा।

अनास्रवत्वाद्‍व्यापित्वादसंस्कृतपदत्वतः॥२२॥



अनास्रवत्वं क्लेशानां सवासननि रोधतः।

असङ्गाप्रतिघातत्वाज्ज्ञानस्य व्यापिता मता॥२३॥



असंस्कृतत्वमत्यन्तमविनाशस्वभावतः।

अविनाशित्वमुद्देशस्तन्निर्देशो ध्रुवादिभिः॥२४॥



नाशश्चतुर्विधो ज्ञेयो ध्रुवत्वादिविपर्ययात्।

पूर्तिर्विकृतिरुच्छित्तिरचिन्त्यनमनच्युतिः॥२५॥



तदभावाद्‍ध्रुवं ज्ञेयं शिवं शाश्वतमच्युतम्।

पदं तदमलज्ञानं शुक्लधर्मास्पदत्वतः॥२६॥



यथानिमित्तमाकाशं निमित्तं रूपदर्शने।

शब्दगन्धरस्पृश्यधर्माणां च श्रवादिषु॥२७॥



इन्द्रियार्थेषु धीराणामनास्रवगुणोदये।

हेतुः कायद्वयं तद्वदनावरणयोगतः॥२८॥



यदुक्तमाकाशलक्षणो बुद्ध इति तत्पारमार्थिकमावेणिकं तथागतानां बुद्धलक्षणमभिसंधायोक्तम्। एवं ह्याह। संचेद्द्वात्रिंशन्महापुरुषलक्षणैस्तथागतो द्रष्टव्योऽभविष्यत्तद्राजापि चक्रवर्ती तथागतोऽभविष्यदिति। तत्र परमार्थलक्षणे योगार्थमारभ्य श्लोकः।



अचिन्त्यं नित्यं च ध्रुवमथ शिवं शाश्वतमथ

प्रशान्तं च व्यापि व्यपगतविकल्पं गगनवत्।

असक्तं सर्वत्रापरतिघपरुषस्पर्शविगतं

न दृश्यं न ग्राह्यं शुभमपि च बुद्धत्वममलम्॥२९॥



अथ खल्वस्य श्लोकस्यार्थः समासतोऽष्टाभिः श्लोकैर्वेदितव्यः।



विमुक्तिधर्मकायाभ्यां स्वपरार्थो निदर्शितः।

स्वपरार्थाश्रये तस्मिन् योगोऽचिन्त्यादिभिर्गुणैः॥३०॥



अचिन्त्यमनुगन्तव्यं त्रिज्ञानाविषयत्वतः।

सर्वज्ञज्ञानविषयं बुद्धत्वं ज्ञानदेहिभिः॥३१॥



श्रुतस्याविषयः सौक्ष्म्याच्चिन्तायाः परमार्थतः।

लौक्यादिभावनायाश्च धर्मतागव्हरत्वतः॥३२॥



दृष्टपूर्वं न तद्यस्माद्वालैर्जात्यन्धकायवत्।

आर्यैश्च सूतिकामध्यस्थित बालार्कबिम्बवत्॥३३॥



उत्पादविगमान्नित्यं निरोधविगमाद्‍ध्रुवम्।

शिवमेतद्‍द्वयाभावाच्छाश्वतं धर्मतास्थितेः॥३४॥



शान्तं निरोधसत्यत्वाद्‍व्यापि सर्वावबोधतः।

अकल्पमप्रतिष्ठानादसक्तं क्लेशहानितः॥३५॥



सर्वत्राप्रतिघं सर्वज्ञेयावरणशुद्धितः।

परुषस्पर्शनिर्मुक्तं मृदुकर्मण्यभावतः॥३६॥



अदृश्यं तदरूपित्वादग्राह्यमनिमित्ततः।

शुभं प्रकृतिशुद्धत्वादमलं मलहानितः॥३७॥



यत्पुनरेतदाकाशवदसंस्कृतगुणाविनिर्भागवृत्त्यापि तथागतत्वामा भवगतेरचिन्त्यमहोपायक्रुणाज्ञानपरिकर्मविशेषेण जगद्धितसुखाधाननिमित्तममलै स्त्रिभिः स्वभाविकसांभोगिकनैर्माणिकैः कायैरनुपरतमनुच्छिन्नमनाभोगेन प्रवर्तत इति द्रष्टव्यमावेणीकधर्मयुतत्वादिति। तत्र वृत्त्यर्थमारभ्य बुद्धकायविभागे चत्वारः श्लोकाः।



अनादिमध्यान्तमभिन्नमद्वयं

त्रिधा विमुक्तं विमलाविकल्पकम्।

समाहिता योगिनस्तत्प्रयत्नाः

पश्यन्ति यं धर्मधातुस्वभावम्॥३८॥



अमेयगङ्गासिकतातिवृत्तै-

र्गुणैरचिन्त्यैरसमैरुपेतः।

सवासनोन्मूलितसर्वदोष-

स्तथागतानाममलः स धातुः॥३९॥



विचित्रसद्धर्ममयूखविग्रहै-

र्जगद्विमोक्षार्थसमाहृतोद्यमः।

क्रियासु चिन्तामणिराजरत्नव-

द्विचित्रभावो न च तत्स्वभववान्॥४०॥



लोकेषु यच्छान्तिपथावतार-

प्रपाचनाव्याकरणे निदानम्।

बिम्बं तदप्यत्र सदावरुद्ध-

माकाशधाताविव रूपधातुः॥४१॥



एषां खलु चतुर्णां श्लोकानां पिण्डार्थो विंशतिश्लोकैर्वेदितव्यः।

यत्तद्‍बुद्धत्वमित्युक्तं सर्वज्ञत्वं स्वयंभुवाम्।

निर्वृतिः परमाचिन्त्यप्राप्तिः प्रत्यात्मवेदिता॥४२॥



तत्प्रभेदस्त्रिभिः कायैर्वृत्तिः स्वाभाविकादिभिः।

गाम्भीर्यैदार्यमाहात्म्यगुणधर्मप्रभावितैः॥४३॥



तत्र स्वभाविकः कायो बुद्धानां पञ्चलक्षणः।

पञ्चाकारगुणोपेतो वेदितव्यः समासतः॥४४॥



असंस्कृतमसंभिन्नमन्तद्वयविवर्जितम्।

क्लेशज्ञेयसमापत्तित्रयावरणनिःसृतम्॥४५॥



वैमल्यादविकल्पत्वाद्योगिनां गोचरत्वतः।

प्रभास्वरं विशुद्धं च धर्मधातोः स्वभावतः॥४६॥



अप्रमेयैरसंख्येयैरचिन्त्यैरसमैर्गुणैः।

विशुद्धिपारमीप्राप्तैर्युक्तं स्वाभाविकं वपुः॥४७॥



उदारत्वादगण्यत्वात् तर्कस्यागोचरत्वतः।

कैवल्याद्वासनोच्छित्तेरप्रमेयादयः क्रमात्॥४८॥



विचित्रधर्मसंभोगरूपधर्मावभासतः।

करुणाशुद्धिनिष्यन्दसत्त्वार्थास्रंसनत्वतः॥४९॥



निर्विकल्पं निराभोगं यथाभिप्रायपूरितः।

चिन्तामणिप्रभावर्द्धेः सांभोगस्य व्यवस्थितिः॥५०॥



देशने दर्शने कृत्यास्रंसनेऽनभिसंस्कृतौ।

अतत्स्वभावाख्याने च चित्रतोक्ता च पञ्चधा॥५१॥



रङ्गप्रत्ययवैचित्र्यादतद्‍भावो यथा मणेः।

सत्त्वप्रत्ययवैचित्र्यादतद्‍भावस्तथा विभोः॥५२॥



महाकरुणया कृत्स्नं लोकमालोक्य लोकवित्।

धर्मकायादविरलं निर्माणैश्चित्ररूपिभिः॥५३॥



जातकान्युपपत्तिं च तुषितेषु च्युतिं ततः।

गर्भा[व]क्रमणं जन्म शिल्पस्थानानि कौशलम्॥५४॥



अन्तःपुररतिक्रीडां नैष्क्रम्यं दुःखचारिकाम्।

बोधिमण्डोपसंक्रान्तिं मारसैन्यप्रमर्दनम्॥५५॥



संबोधिं धर्मचक्रं च निर्वाणाधिगमक्रियाम्।

क्षेत्रेष्वपरिशुद्धेषु दर्शयत्या भवस्थिते॥५६॥



अनित्यदुःखनैरात्म्यशान्तिशब्दैरुपायवित्।

उद्वेज्य त्रिभवात् सत्त्वान् प्रतारयति निर्वृत्तौ॥५७॥



शान्तिमार्गावतीर्णाश्च प्राप्यनिर्वाणसंज्ञिनः।

सद्धर्मपुण्डरीकादिधर्मतत्त्वप्रकाशनैः॥५८॥



पूर्वग्रहान्निवर्त्यैतान् प्रज्ञोपायपरिग्रहात्।

परिपाच्योत्तमे याने व्याकरोत्यग्रबोधये॥५९॥



सौक्ष्म्यात् प्रभावसंपत्तेर्बालसार्थातिवाहनात्।

गाम्भीर्यौ दार्यमाहत्म्यमेषु ज्ञेयं यथाक्रमम्॥६०॥



प्रथमो धर्मकायोऽत्र रूपकायौ तु पश्चिमौ।

व्योम्नि रूपगतस्येव प्रथमेऽन्त्यस्य वर्तनम्॥६१॥



तस्यैव कायत्रयस्य जगद्धितसुखाधानवृत्तौ नित्यार्थमारभ्य श्लोकः।

हेत्वानन्त्यात् सत्त्वधात्वक्षयत्वात्

कारुण्यद्धिर्ज्ञानसंपत्तियोगात्।

धर्मैश्वर्यान्मृत्युमारावभङ्गान्

नैःस्वा भाव्याच्छाश्वतो लोकनाथः॥६२॥



अस्य पिण्डार्थः षड्भिः श्लोकैर्वेदितव्यः।

कायजीवितभोगानां त्यागैः सद्धर्मसंग्रहात्।

सर्वसत्त्वहितायादिप्रतिज्ञोत्तरणत्वतः॥६३॥



बुद्धत्वे सुविशुद्धायाः करुणायाः प्रवृत्तितः।

ऋद्धिपादप्रकाशाच्च तैरवस्थानशक्तितः॥६४॥



ज्ञानेन भवनिर्वाणद्वयग्रहविमुक्तितः।

सदाचिन्त्यसमाधानसुखसंपत्तियोगतः॥६५॥



लोके विचरतो लोकधर्मैरनुपलेपतः।

शमामृतपदप्राप्तौ मृत्युमाराप्रचारतः॥६६॥



असंस्कृतस्वभावस्य मुनेरादिप्रशान्तितः।

नित्यमशरणानां च शरणाभ्युपपत्तितः॥६७॥



सप्तभिः कारणैराद्यैर्नित्यता रूपकायतः।

पश्चिमैश्च त्रिभिः शास्तुर्नित्यता धर्मकायतः॥६८॥



स चायमाश्रयपरिवृत्तिप्रभावितस्तथागतानां प्राप्तिनयोऽचिन्त्यनयेनानुगन्तव्य इति। अचिन्त्यार्थमारभ्य श्लोकः।



अवाक्यवत्त्वात् परमार्थसंग्रहा-

दतर्कभूमेरुपमनिवृत्तितः।

निरुत्तरत्वाद्‍भवशान्त्यनुद्‍ग्रहा-

दचिन्त्य आर्यैरपि बुद्धगोचरः॥६९॥



अस्य पिण्डार्थश्चतुर्भिः श्लोकैर्वेदितव्यः।

अचिन्त्योऽनभिलाप्यत्वादलाप्यः परमार्थतः।

परमार्थोऽप्रतवर्यत्वादतर्क्यो व्यनुमेयतः॥७०॥



व्यनुमेयोऽनुत्तरत्वादानुत्तर्यमनुद्‍ग्रहात्।

अनुद्‍ग्रहोऽप्रतिष्ठानादगुणदोषाविकल्पनात्॥७१॥



पञ्चभिः कारणैः सौक्ष्म्यादिचिन्त्यो धर्मकायतः।

षष्ठेनातत्त्वभावित्वादचिन्त्यो रूपकायतः॥७२॥



अनुत्तरज्ञानमहाकृपादिभि-

र्गुणैरचिन्त्या गुणपारगा जिनाः।

अतः क्रमोऽन्त्योऽयमपि स्वयंभुवो

ऽभिषेकलब्धा न महर्षयो विदुरिति॥७३॥



इति रत्नगोत्रविभागे महायानोत्तरतन्त्रशास्त्रे बोध्यधिकारो नाम द्वितीयः परिच्छेदः॥२॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project