Digital Sanskrit Buddhist Canon

पंचमः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Paṁcamaḥ paricchedaḥ

पंचमः परिच्छेदः



अतः परमेष्वेव यथापरिकीर्तितेषु स्थानेष्वधिमुक्तानामधिमुक्त्यनुशंसे षट् श्लोकाः



बुद्धधातुर्बुद्धबोधिर्बुद्धधर्मा बुद्धकृत्यम्।

गोचरोऽयं नायकानां शुद्धसत्त्वैरप्यचिन्त्यः॥१॥



इह जिनविषयेऽधिमुक्तबुद्धि-

र्गुणगणभाजनतामुपैति धीमान्।

अभिभवति स सर्वसत्त्वपुण्य-

प्रसवमचिन्त्यगुणाभिलाषयोगात्॥२॥



यो दद्यान्मणिसंस्कृतानि कनकक्षेत्राणि बोध्यर्थिको

बुद्धक्षेत्ररजःसमान्यहरहो धर्मेश्वरेभ्यः सदा।

यश्चान्यः शृणुयादितः पदमपि श्रुत्वाधिमुच्येदयं

तस्माद्दानमयाच्छुंभाद्‍बहुतरं पुण्यं समासादयेत्॥३॥



यः शीलं तनुवाङ्मनोभिरमलं रक्षेदनाभोगव-

द्धीमान् बोधिमनुत्तरामभिलषन् कल्पाननेकानपि।

यश्चान्यः शृणुयादितः पदमपि श्रुत्वाधिमुच्येदयं

तस्माच्छीलमयाच्छुभाद्‍बहुतरं पुण्यं समासादयेत्॥४॥



ध्यायेद्‍ध्यानमपीह यस्त्रिभुवनक्लेशाग्निनिर्वापकं

दिव्यब्रह्म विहारपारमिगतः संबोध्युपायाच्युतः।

यश्चान्यः श्रृणुयादितः पदमपि श्रुत्वाधिमुच्येदयं

तस्माद्‍ध्यानमयाच्छुभाद्‍बहुतरं पुण्यं समासादयेत्॥५॥



दानं भोगानावहत्येवः यस्मा-

च्छीलं स्वर्गं भावना क्लेशहानिम्।

प्रज्ञा क्लेशज्ञेयसर्वप्रहाणं

सातः श्रेष्ठा हेतुरस्याः श्रवोऽयम्॥६॥



एषा श्लोकानां पिण्डार्थो नवभिः श्लोकैर्वेदितव्यः।

आश्रये तत्परावृत्तौ तद्‍गुणेष्वर्थसाधने।

चतुर्विधे जिनज्ञानविषयेऽस्मिन् यथोदिते॥७॥



धिमानस्तित्वशक्तत्वगुणवत्त्वा धिमुक्तितः।

तथागतपदप्राप्तिभव्यतामाशु गच्छति॥८॥



अस्त्यसौ विषयोऽचिन्त्यः शक्यः प्राप्तुं स मादृशैः।

प्राप्त एवंगुणश्चासाविति श्रद्धाधिमुक्तितः॥९॥



छन्दवीर्यस्मृतिध्यानप्रज्ञादिगुणभाजनम्।

बोधिचित्तं भवत्यस्य सततं प्रत्यपस्थितम्॥१०॥



तच्चित्तप्रत्युपस्थानादविवर्त्यो जिनात्मजः।

पुण्यपारमितापूरिपरिशुद्धिं निगच्छति॥११॥



पुण्यं पारमिताः पञ्च त्रेधा तदविकल्पनात्।

तत्पूरिः परिशुद्धिस्तु तद् विपक्षप्रहाणतः॥१२॥



दानं दानमयं पुण्यं शीलं शीलमयं स्मृतम्।

द्वे भावनामयं क्षान्तिध्याने वीर्यं तु सर्वगम्॥१३॥



त्रिमण्डलविकल्पो यस्तज्ज्ञेयावरणं मतम्।

मात्सर्यादिविपक्षो यस्तत् क्लेशावरणं मतम्॥१४॥



एतत्प्रहाणहेतुश्च नान्यः प्रज्ञामृते ततः।

श्रेष्ठा प्रज्ञा श्रुतं चास्य मूलं तस्माच्छ्रुतं परम्॥१५॥



इतीदमाप्तागमयुक्तिसंश्रया-

दुदाहृतं केवलमात्मशुद्धये।

धियाधिमुक्त्या कुशलोपसंपदा

समन्विता ये तदनुग्रहाय च॥१६॥



प्रदीपविद्युन्मणिचन्द्रभास्करान्

प्रतीत्य पश्यन्ति यथा सचक्षुषः।

महार्थधर्मप्रतिभाप्रभाकरं

मुनिं प्रतीत्येदमुदाहृतं तथा॥१७॥



यदर्थवद्धर्मपदोपसंहितं

त्रिधातुसंक्लेशनि बर्हण वचः।

भवेच्च यच्छान्त्यनुशंसदर्शकं

तदुक्तमार्षं विपरीतमन्यथा॥१८॥



यत्स्यादविक्षिप्तमनोभिरुक्तं

शास्तारमेकं जिनमुद्दिशद्भिः।

मोक्षा प्तिसंभारपथानुकूलं

मूर्ध्ना तदप्यार्षमिव प्रतीच्छेत्॥१९॥



यस्मान्नेह जिनात् सुपण्डिततमो लोकेऽस्ति कश्चित्क्वचित्

सर्वज्ञः सकलं स वेद विधिवत्तत्त्वं परं नापरः।

तस्माद्यत्स्वयमेव नीतमृषिणा सूत्रं विचाल्यं न तत्

सद्धर्मप्रतिबाधनं हि तदपि स्यान्नीति भेदान्मुनेः॥२०॥



आर्यांश्चापवदन्ति तन्निगदितं धर्मं च गर्हन्ति यत्

सर्वः सोऽभिनिवेशदर्शनकृतः क्लेशो विमूढात्मनाम्।

तस्मान्नाभिनिवेशदृष्टिमलिने तस्मिन्निवेश्या मतिः

शुद्धं वस्त्रमुपैति रङ्गविकृतिं न स्नेहपङ्काङ्कितम्॥२१॥



धीमान्द्यादधिमुक्तिशुक्लविरहान् मिथ्याभिमानाश्रयात्

सद्धर्मव्यसनावृतात्मकतया नेयार्थतत्त्वग्रहात्।

लोभग्रेधतया च दर्शनवशाद्धर्मद्विपां सेवना-

दाराद्धर्मभृतां च हीनरुचयो धर्मान् क्षिपन्त्यर्हताम्॥२२॥



नाग्नेर्नोग्रविषादहेर्न वधकान्नैवाशनिभ्यस्तथा

भेतव्यं विदुषामतीव तु यथा गम्भीरधर्मक्षतेः।

कुर्युर्जीवितविप्रयोगमनलव्यालारिवज्राग्नय-

स्तद्धेतोर्न पुनर्व्रजेदतिभयामावीचिकानां गतिम्॥२३॥



योऽभीक्ष्णं प्रतिसेव्य पापसुहृदः स्याद्वुद्धदुष्टाशयो

मातापित्ररिहद्वधाचरणकृत् संघाग्रभेत्ता नरः।

स्यात्तस्यापि ततो विमुक्तिरचिरं धर्मार्थनिध्यानतो

धर्मे यस्य तु मानसं प्रतिहतं तस्मै विमुक्तिः कुतः॥२४॥



रत्नानि व्यवदानधातुममलां बोधिं गुणान् कर्म च

व्याकृत्यार्थपदानि सप्त विधिवद्यत् पुण्यमाप्तं मया।

तेनेयं जनतामितायुषमृषिं पश्येदनन्तद्युतिं

दृष्ट्वा चामलधर्मचक्षुरुदयाद्बोधिं परामाप्नुयात्॥२५॥



एषामपि दशानां श्लोकानां पिण्डार्थस्त्रिभिः श्लोकैर्वेदितव्यः।

यतश्च यन्निमित्तं च यथा च यदुदाहृतम्।

यन्निष्यन्दफलं श्लोकैश्चतुर्भिः परिदीपितम्॥२६॥



आत्मसंरक्षणोपायो द्वाभ्यामेकेन च क्षतेः।

हेतुः फलमथ द्वाभ्यां श्लोकाभ्यां परिदीपितम्॥२७॥



संसारमण्डलक्षान्तिर्बोधिप्राप्तिः समासतः।

द्विधा धर्मार्थवादस्य फलमन्तेन दर्शितम्॥२८॥



इति रत्नगोत्रविभागे महायानोत्तरतन्त्रशास्त्रेऽनुशंसाधिकारो नाम पञ्चमः परिच्छेदः श्लोकार्थसंग्रहव्याख्यानतः समाप्तः॥५॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project