Digital Sanskrit Buddhist Canon

चतुर्थः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Caturthaḥ paricchedaḥ

चतुर्थः परिच्छेदः



उक्ता विमला बुद्धगुणाः। तत्कर्म जिनक्रियेदानीं वक्तव्या। सा पुनरनाभोगतश्चाप्रश्रब्धितश्च समासतो द्वाभ्यामाकराभ्या प्रवर्तत इति। अनन्तरमनाभोगाप्रश्रब्ध बुद्धकार्यमारभ्य द्वौ श्लोकौ।



विनेयधातौ विनयाभ्युपाये

विनेयधातोर्विनयक्रियायाम्।

तद्देशकाले गमने च नित्यं

विभोरनाभोगत एव वृत्तिः॥१॥



कृत्स्नं निष्पाद्य यानं प्रवरगुणगणज्ञानरत्नस्वगर्भं

पुण्यज्ञानार्करश्मिप्रविसुतविपुलानन्तमध्याम्बराभम्।

बुद्धत्वं सर्वसत्त्वे विमलगुणनिधिं निर्विशिष्टं विलोक्य

क्लेशज्ञेयाभ्रजालं विधमति करुणा वायुभूता जिनानाम्॥२॥



एतयोर्यथाक्रमं द्वाभ्यामष्टाभिश्च श्लोकैः पिण्डार्थो वेदितव्यः।

यस्य येन च यावच्च यदा च विनयक्रिया।

तद्विकल्पोदयाभावादनाभोगः सदा मुनेः॥३॥



यस्य धातोर्विनेयस्य येनोपायेन भूरिणा।

या विनीतिक्रिया यत्र यदा तद्देशकालयोः॥४॥



निर्याणे तदुपस्तम्भे तत्फले तत्परिग्रहे।

तदावृत्तौ तदुच्छित्तिप्रत्यये चाविकल्पतः॥५॥



भूमयो दश निर्याणं तद्धेतुः संभृतिद्वयम्।

तत्फलं परमा बोधिर्बोधेः सत्त्वः परिग्रहः॥६॥



तदावृतिरपर्यन्तक्लेशोपक्लेशवासनाः।

करुणा तत्समुद्‍घातप्रत्ययः सार्वकालिकः॥७॥



स्थानानि वेदितव्यानि षडेतानि यथाक्रमम्।

महोदधिरविव्योमनिधानाम्बुदवायुवत्॥८॥



ज्ञानाम्बुगुणरत्नत्वादग्रयानं समुद्रवत्।

सर्वसत्त्वोपजीव्यत्वात् संभारद्वयमर्कवत्॥९॥



विपुलानन्तमध्यत्वाद्‍बोधिराकाशधतुवत्।

सम्यक्‍संबुद्धधर्मत्वात् सत्त्वधातुर्निधानवत्॥१०॥



आगन्तुव्याप्त्यनिष्प त्तेस्तत्संक्लेशोऽभ्रराशिवत्।

तत्क्षिंप्तिप्रत्युपस्थानात् करुणोद्‍वृत्तवायुवत्॥११॥



पराधिकारनिर्याणात् सत्त्वात्मसमदर्शनात्।

कृत्यापरिसमाप्तेश्च क्रियाप्रश्रब्धिरा भवात्॥१२॥



यदनुत्पादानिरोधप्रभावितं बुद्धत्वमित्युक्तं तत्कथमिहासंस्कृतादप्रवृत्तिलक्षणाद्बुद्धत्वादनाभोगाप्रतिप्रश्रब्धमा लोकादविकल्पं बुद्धकार्य प्रवर्तत इति। बुद्धमाहात्म्यधर्मतामारभ्य विमतिसंदेहजातानामचिन्त्यबुद्धविषयाधिमुक्तिसंजननार्थ तस्य माहात्म्ये श्लोकः।



शक्रदुन्दुभिवन् मेघब्रह्मार्कमणिरत्नवत्।

प्रतिश्रुतिरिवाकाशपृथिवीवत् तथागतः॥१३॥



अस्य खलु सूत्रस्थानीयस्य श्लोकस्य यथाक्रमं परिशिष्टेन ग्रन्थेन विस्तरविभागनिर्देशो वेदितव्यः।

शक्रप्रतिभासत्वादिति।

विशुद्धवैडूर्यमयं यथेदं स्यान्महीतलम्।

स्वच्छत्वात्तत्र दृश्येत देवेन्द्रः साप्सरोगणः॥१४॥



प्रासादो वैजयन्तश्च तदन्ये च दिवौकसः।

तद्विमानानि चित्राणि ताश्च दिव्या विभूतयः॥१५॥



अथ नारीनरगणा महीतलनिवासिनः।

प्रतिभासं तमालोक्य प्रणिधिं कुर्युरीदृशम्॥१६॥



अद्यैव न चिरादेवं भवेमस्त्रिदशेश्वराः।

कुशलं च समादाय वर्तेरंस्तदवाप्तये॥१७॥



प्रतिभासोऽयमित्येवमविज्ञायापि ते भुवः।

च्युत्वा दिव्युपपद्येरंस्तेन शुक्लेन कर्मणा॥१८॥



प्रतिभासः स चात्यन्तमविकल्पो निरीहकः।

एवं च महतार्थेन भुवि स्यात्प्रत्युपस्थितः॥१९॥



तथा श्रद्धादिविमले श्रद्धादिगुणभाविते।

सत्त्वाः पश्यन्ति संबुद्धं प्रतिभास स्वचेतसि॥२०॥



लक्षणव्यञ्जनोपेतं विचित्रेर्यापथक्रियम्।

चङ्क्रम्यमाणं तिष्ठन्तं निषण्णं शयनस्थितम्॥२१॥



भाषमाणं शिवं धर्म तूष्णींभूतं समाहितम्।

चित्राणि प्रातिहार्याणि दर्शयन्तं महाद्युतिम्॥२२॥



तं च दृष्ट्वाभियुज्यन्ते बुद्धत्वाय स्पृहान्विताः।

तद्धेतुं च समादाय प्राप्नुवन्तीप्सितं पदम्॥२३॥



प्रतिभासः स चात्यन्तमविकल्पो निरीहकः।

एवं च महतार्थेन लोकेषु प्रत्युपस्थितः॥२४॥



स्वचित्तप्रतिभासोऽयमिति नैवं पृथग्जनाः।

जानन्त्यथ च तत्तेषामवन्ध्यं बिम्बदर्शनम्॥२५॥



तद्धि दर्शनमागम्य क्रमादस्मिन्नये स्थिताः।

सद्धर्मकायं मध्यस्थं पश्यन्ति ज्ञानचक्षुषा॥२६॥



भूर्यद्‍वत्स्यात् समन्तव्यपगतविषमस्थानान्तरमला

वैडूर्यस्पष्टशुभ्रा विमलमणिगुणा श्रीमत्समतला।

शुद्धत्वात्तत्र बिम्बं सुरपतिभवनं माहेन्द्रमरुता-

मुत्पद्येत क्रमेण क्षितिगुणविगमादस्तं पुनरियात्॥२७॥



तद्‍भावायोपवासव्रतनियमतया दानाद्यभिमुखाः

पुष्पादीनि क्षिपेयुः प्रणिहितमनसो नारीनरगणाः।

वैडूर्यस्वच्छभुते मनसि मुनिपतिच्छायाधिगमने

चित्राण्युत्पादयन्ति प्रमुदितमनसस्तद्वज्जिनसुताः॥२८॥



यथैव वैडूर्यमहीतले शुचौ

सुरेन्द्रकायप्रतिबिम्बसंभवः।

तथा जगच्चित्तमहीतले शुचौ

मुनीन्द्रकायप्रतिबिम्बसंभवः॥२९॥



बिम्बोदयव्ययमनाविलताविलस्व-

चित्तप्रवर्तनवंशाज्जगति प्रवृत्तम्।

लोकेषु यद्वदवभासमुपैति बिम्बं

तद्वन्न तत्सदिति नासदिति प्रपश्येत्॥३०॥



देवदुन्दुभिवदिति।

यथैव दिवि देवानां पूर्वशुक्लानुभावतः।

यत्नस्थानमनोरूपविकल्परहिता सती॥३१॥



अनित्यदुःखानैरात्म्यशान्तशब्दैः प्रमादिनः।

चोदयत्यमरान् सर्वानसकृद्देवदुन्दुभिः॥३२॥



व्याप्य बुद्धस्वरणैवं विभुर्जगदशेषतः।

धर्म दिशति भव्येभ्यो यत्नादिरहितोऽपि सन्॥३३॥



देवानां दिवि दिव्यदुन्दुभिरवो यैद्वत् स्वकर्मोद्‍भवो

धर्मोदाहरणं मुनेरपि तथा लोके स्वकर्मोद्‍भवम्।

यत्नस्थानशरीरचित्तरहितः शब्दः स शान्त्यावहो

यद्वत् तद्वदृते चतुष्टयमयं धर्मः स शान्त्यावहः॥३४॥



संग्रामक्लेशवृत्तावसुरबलजयक्रीडाप्रणुदनं

दुन्दुभ्याः शब्दहेतुप्रभवमभयदं यद्वत् सुरपुरे।

सत्त्वेषु क्लेशदुःखप्रमथनशमनं मार्गोत्तमविधौ

ध्यानारूप्यादिहेतुप्रभवमपि तथा लोके निगदितम्॥३५॥



आकाशवदिति।

निष्किंचने निराभासे निरालम्बे निराश्रये।

चक्षुष्पथव्यतिक्रान्तेऽप्यरूपिण्यनिदर्शने॥७३॥



यथा निम्नोन्नतं व्योम्नि दृश्यते न च तत्तथा।

बुद्धेष्वपि तथा सर्व दृश्यते न च तत्तथा॥७४॥



पृथिवीवदिति।

सर्वे महीरुहा यद्‍वदविकल्पां वसुंधराम्।

निश्रित्य वृद्धिं वैरूढिं वैपुल्यमुपयान्ति च॥७५॥



संबुद्धपृथिवीमेवमविकल्पामशेषतः।

जगत्कुशलमूलानि वृद्धिमाश्रित्य यान्ति हि॥७६॥



उदाहरणानां पिण्डार्थः।

न प्रयत्नमृते केश्चिद्‍दृष्टः कुर्वन् क्रियामतः।

विनेयसंशयच्छित्त्यै नवधोक्तं निदर्शनम्॥७७॥



सूत्रस्य तस्य नाम्नैव दिपितं तत्प्रयोजनम्।

यत्रैते नव दृष्टान्ता विस्तरेण प्रकाशिताः॥७८॥



एतच्छ्रतमयोदारज्ञानालोकाद्यलंकृताः।

धीमन्तोऽवतरन्त्याशु सकलं बुद्धगोचरम्॥७९॥



इत्यर्थ शक्रवैडूर्यप्रतिबिम्बाद्युदाहृतिः।

नवधोदाहृता तस्मिन्तत्पिण्डार्थोऽवधार्यते॥८०॥



दर्शनादेशना व्याप्तिर्विकृतिर्ज्ञाननिःसृतिः।

मनोवाक्कायगुह्यानि प्राप्तिश्च करुणात्मनाम्॥८१॥



सर्वाभोगपरिस्पन्दप्रशान्ता निर्विकल्पिकाः।

धियो विमलवैडूर्यशक्रबिम्बोदयादिवत्॥८२॥



प्रतिज्ञाभोगशान्तत्वं हेतुर्धीनिर्विकल्पता।

दृष्टान्तः शक्रबिम्बादिः प्रकृतार्थसुसिद्धये॥८३॥



अयं च प्रकृतोऽत्रार्थो नवधा दर्शनादिकम्।

जन्मान्तर्धिमृते शास्तुरनाभोगात् प्रवर्तते॥८४॥



एतमेवार्थमधिकृत्योदाहरणसंग्रहे चत्वारः श्लोकाः।

यः शक्रवद्‍दुन्दुभिवत् पयोदवद्

ब्रह्मार्कचिन्तामणिराजरत्नवत्।

प्रतिश्रुतिव्योममहीवदा भवात्

परार्थकृद्यत्नमृते स योगवित्॥८५॥



सुरेन्द्ररत्नप्रतिभासदर्शनः

सुदैशिको दुन्दुभिवद् विभो रुतम्।

विभुर्महाज्ञानकृपाभ्रमण्डलः

स्फरत्यनन्तं जगदा भवाग्रतः॥८६॥



अनास्रवाद्‍ब्रह्मवदच्युतः पदा-

दनेकधा दर्शनमेति निर्मितैः।

सदार्कवज्ज्ञानविनिःसृतद्युति-

र्विशुद्धचिन्तामणिरत्नमानसः॥८७॥



प्रतिरव इव घोषोऽनक्षरोक्तो जिनानां

गगनमिव शरीरं व्याप्यरूपि ध्रुवं च।

क्षितिरिव निखिलानां शुक्लधर्मौषधीनां

जगत इह समन्तादास्प दं बुद्धभूमिः॥८८॥



कथं पुनरनेनोदाहरणनिर्देशेन सततमनुत्पन्ना अनिरुद्धाश्च बुद्धा भगवन्त उत्पद्यमाना निरुध्यमानाश्च संदृश्यन्ते सर्वजगति चैषामनाभोगेन बुद्धकार्याप्रतिप्रश्रब्धिरिति परिदीपितम्।



शुभं वैडूर्यवच्चित्ते बुद्धदर्शनहेतुकम्।

तद्विशुद्धिरसंहार्यश्रद्धेन्द्रियविरूढिता॥८९॥



शुभोदयव्ययाद्धुद्धंप्रतिबिम्बोदयव्ययः।

मुनिर्नोदेति न व्येति शक्रवद्धर्मकायतः॥९०॥



अयत्नात् कृत्यमित्येवं दर्शनादि प्रवर्तते।

धर्मकायादनुत्पादानिरोधादा भवस्थितेः॥९१॥



अयमेषां समासार्थ औपम्यानां क्रमः पुनः।

पूर्वकस्योत्तरेणोक्तो वैधर्म्यपरिहारतः॥९२॥



बुद्धत्वं प्रतिबिम्बाभं तद्वन्न च न घोषवत्।

देवदुन्दुभिवत् तद्वन्न च नो सर्वथार्थकृत्॥९३॥



महामेघोपमं तद्वन्न च नो सार्थबीजवत्।

महाब्रह्मोपमं तद्वन्न च नात्यन्तपाचकम्॥९४॥



सूर्यमण्डलवत् तद्वन्न नात्यन्त तमोऽपहम्।

चिन्तामणिनिभं तद्वन्न च नो दुर्लभोदयम्॥९५॥



प्रतिश्रुत्कोपमं तद्वन्न च प्रत्ययसंभवम्।

आकाशसदृशं तद्‍वन्न च शुक्लास्पदं च तत्॥९६॥



पृथिवीमण्डलप्रख्यं तत्प्रतिष्ठाश्रयत्वतः।

लौक्यलोकोत्तराशेषजगत्कुशलसंपदम्॥९७॥



बुद्धानां बोधिमागम्य लोकोत्तरपथोदयात्।

शुक्लकर्मपथध्यानाप्रमाणारूप्यसंभव इति॥९८॥



इति रत्नगोत्रविभागे महायानोत्तरतन्त्रशास्त्रे तथागतकृत्यक्रियाधिकारश्चतुर्थः परिच्छेदः श्लोकार्थसंग्रहव्याख्यानतः समाप्तः॥४॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project