Digital Sanskrit Buddhist Canon

तृतीय परिच्छेद

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Tṛtīyaḥ paricchedaḥ

तृतीय परिच्छेद



उक्ता निर्मला तथता। ये तदाश्रिता मणिप्रभावर्णसंस्थानवदभिन्नप्रकृतयोऽशान्तर्निमला गुणास्त इदानीं वक्तव्या इति। अनन्तरं बुद्धगुणविभागमारभ्य श्लोकः।



स्वार्थः परार्थः परमार्थकाय-

स्तदाश्रिता संवृतिकायता च।

फलं विसंयोगविपाकभावा-

देतच्चतुः षष्टिगुणप्रभेदम्॥१॥



किमुक्तं भवति।

आत्मसंपत्त्यधिष्ठानं शरीरं पारमार्थिकम्।

परसंपत्त्यधिष्ठानमृषेः सांकेतिकं वपुः॥२॥



विसंयोगगुणर्युक्तं वपुराद्यं बलादिभिः।

वैपाकिकैर्द्वितीयं तु महापुरुषलक्षणैः॥३॥



अतः परं ये च बलादयो यथा चानुगन्तव्यास्तथतामधिकृत्य ग्रन्थः।



बलत्वमज्ञानवृतेषु वज्रव-

द्विशारदत्वं परिषत्सु सिंहवत्।

तथागतावेणिकतान्तरीक्षवन्

मुनेर्द्विधादर्शनमम्बुचन्द्रवत्॥४॥



बलान्वित इति।

स्थानास्थाने विपाके च कर्मणामिन्द्रियेषु च।

धातुष्वप्यधिमुक्तौ च मार्गे सर्वत्रगामिनि॥५॥



ध्यानादिक्लेशवैमल्ये निवासानुस्मृतावपि।

दिव्ये चक्षुषि शान्तौ च ज्ञानं दशविधं बलम्॥६॥



वज्रवदिति।

स्थानास्थानविपाकधातुषु जगन्नानाधुमुक्तौ नये

संक्लेशव्यवदान इन्द्रियगणे पूर्वे निवासस्मृतौ।

दिव्ये चक्षुषि चास्रवक्षयविधावज्ञानवर्माचल-

प्राकारद्रुमभेदनप्रकिरणच्छेदाद्वलं वज्रवत्॥७॥



चतुर्वेशारद्यप्राप्त इति।

सर्वधर्माभिसंबोधे विवन्धप्रतिषेधने।

मार्गाख्याने निरोधाप्तौ वैशारद्यं चतुर्विधम्॥८॥



ज्ञेये वस्तुनि सर्वथात्मपरयोर्ज्ञानात् स्वयंज्ञापना-

द्धेये वस्तुनि हानिकारणकृतेः सेव्ये विधौ सेवनात्।

प्राप्तव्ये च निरुत्तरेऽतिविमले प्राप्तेः परप्रापणा-

दार्याणां स्वपरार्थसत्यकथनादस्तम्भितत्वं क्वचित्॥९॥



सिंहवदिति।

नित्यं वनान्तेषु यथा मृगेन्द्रो

निर्भीरनुत्तस्तगतिर्मृगेभ्यः।

मुनीन्द्रसिंहोऽपि तथा गणेषु

स्वस्थो निरास्थः स्थिरविक्रमस्थः॥१०॥



अष्टदशावेणिकबुद्धधर्मसमन्वागत इति।

स्खलितं रवितं नास्ति शास्तुर्न मुषिता स्मृतिः।

न चासमाहितं चित्तं नापि नानत्वसंज्ञिता॥११॥



नोपेक्षाप्रतिसंख्याय हानिर्न च्छन्दवीर्यतः।

स्मृतिप्रज्ञाविमुक्तिभ्यो विमुक्तिज्ञानदर्शनात्॥१२॥



ज्ञानपूर्वंगमं कर्म त्र्यध्वज्ञानमनावृतम्।

इत्येतेऽष्टादशान्ये च गुरोरावेणिका गुणाः॥१३॥



नास्ति प्रस्खलितं रवो मुषितता चित्ते न संभेदतः

संज्ञा न स्वरसाध्युपेक्षणमृषेर्हानिर्न च च्छन्दतः।

वीर्याच्च स्मृतितो विशुद्धविमलप्रज्ञाविमुक्तेः सदा

मुक्ति ज्ञाननिर्दशनाच्च निखिलज्ञेयार्थसंदर्शनात्॥१४॥



सर्वज्ञानुपुरोजवानुपरिवर्त्यर्थेषु कर्मत्रयं

त्रिष्वध्वस्वपराहत सुविपुलज्ञानप्रवृत्तिर्ध्रुवम्।

इत्येषा जिनता महाकरुणया युक्तावबुद्धा जिनै-

र्यद्बोधाज्जगति प्रवृत्तमभयदं सद्धर्मचक्रं महत्॥१५॥



आकाशवदिति।

या क्षित्यादिषु धर्मता न नभसः सा धर्मता विद्यते

ये चानावरणादिलक्षणगुणा व्योम्नो न ते रूपिषु।

क्षित्यम्बुज्वलनानिलाम्बरसमा लोकेषु साधारणा

बुद्धावेणिकता न चाश्वपि पुनर्लोकेषु साधारणा॥१६॥



द्वात्रिंशन्महापुरुषलक्षणरूपधारीति।

सुप्रतिष्ठितचक्राङ्कव्यायतोत्सङ्गपादता।

दीर्घाङ्गुलिकता जालपाणिपादावनद्धता॥१७॥



त्वङ् मृदुश्रीतरुणता सप्तोत्सदशरीरता।

एणेयजङ्घता नागकोशवद्वस्तिगुह्यत॥१८॥



सिंहपूर्वार्धकायत्वं निरन्तरचितांशता।

संवृत्तस्कन्धता वृत्तश्लक्ष्णानुन्नामबाहुता॥१९॥



प्रलम्बबाहुता शुद्धप्रभामण्डलगात्रता।

कम्बुग्रीवत्वममलं मृगेन्द्रहनुता समा॥२०॥



चत्वारिंशद्दशनता स्वच्छाविरलदन्तता।

विशुद्धसमदन्तत्वं शुक्लप्रवरदंष्ट्रता॥२१॥



प्रभूतजिव्हतानन्ताचिन्त्यरसरसाग्रता।

कलविङ्करुतं ब्रह्मस्वरता च स्वयंभुवः॥२२॥



नीलोत्पलश्रीवृषपक्ष्मनेत्र-

सितामलोर्णोदितचारुवक्त्रः।

उष्णीषशीर्षव्यवदातसूक्ष्म-

सुवर्णवर्णच्छविरग्रसत्त्वः॥२३॥



एकैकविश्लिष्टमृदूर्ध्वदेह-

प्रदक्षिणावर्तसुसूक्ष्मरोमा।

महेन्द्रनीलामलरत्नकेशो

न्यग्रोधपूर्णद्रुममण्डलाभः॥२४॥



नारायणस्थामदृढात्मभावः

समन्तभद्रोऽप्रतिमो महर्षिः।

द्वात्रिंशदेतान्यमितद्युतीनि

नरेन्द्रचिन्हानि वदन्ति शास्तुः॥२५॥



दकचन्द्रवदिति।

व्यभ्रे यथा नभसि चन्द्रमसो विभूतिं

पश्यन्ति नीलशरदम्बुमहाह्रदे च।

संबुद्धमण्डलतलेषु विभोर्विभूतिं

तद्विज्जिनात्मजगणा व्यवलोकयन्ति॥२६॥



इतीमानि दश तथागतबलानि चत्वारि वैशारद्यान्यष्टादशावेणिका बुद्धधर्मा द्वात्रिंशच्च महापुरुषलक्षणान्यकेनाभिसंक्षिप्य चतुःषष्टिर्भवन्ति।



गुणाश्चैते चतुःषष्टिः सनिदानाः पृथक् पृथक्।

वेदितव्या यथासंख्यं रत्नसूत्रानुसारतः॥२७॥



एषां खलु यथोद्दिष्टानामेव चतुःषष्टेस्तथागतगुणानामपि यथानुपूर्व्या विस्तरविभागे निर्देशो रत्नदारिकासूत्रानुसारेण वेदितव्यः। यत्पुनरेषु स्थानेषु चतुर्विधमेव यथाक्रमं वज्रसिंहाम्वरदकचन्द्रोदाहरणमुदाहृतमस्यापि पिण्डार्थो द्वादशभिः श्लोकैर्वेदितव्यः।



निर्वेधिकत्वनिर्दैन्यनिष्कैवल्यनिरीहतः।

वज्रसिंहाम्बरस्वच्छदकचन्द्रनिदर्शनम्॥२८॥



बलादिषु बलैः षड्‍भिस्त्रिभिरेकेन च क्रमात्।

सर्वज्ञेयसमापत्तिसवासनमलोद्धृतेः॥२९॥



भेदाद्विकरणाच्छेदाद्वर्मप्राकारवृक्षवत्।

गुरुसारदृढाभेद्यं वज्रप्रख्यमृषेर्बलम्॥३०॥



गुरु कस्माद्यतः सारं सारं कस्माद्यतो दृढम्।

दृढं कस्माद्यतोऽभेद्यमभेद्यत्वाच्च वज्रवत्॥३१॥



निर्भयत्वान्निरास्थत्वात्स्थैर्याद्विक्रमसंपदः।

पर्षद्‍गणेष्वशारद्यं मुनिसिंहस्य सिंहवत्॥३२॥



सर्वाभिज्ञतया स्वस्थो विहरत्यकुतोभयः।

निरास्थः शुद्धसत्त्वेभ्योऽप्यात्मनोऽसमदर्शनात्॥३३॥



स्थिरो नित्यसमाधानात् सर्वधर्मेषु चेतसः।

विक्रान्तः परमाविद्यावासभूमिव्यतिक्रमात्॥३४॥



लौकिकश्रावकैकान्तचारिधीमत्स्वयंभुवाम्।

उत्तरोत्तरधीसौक्ष्म्यात् पञ्चधा तु निदर्शनम्॥३५॥



सर्वलोकोपजीव्यत्वाद्‍भूम्यम्ब्वग्न्यनिलोपमाः।

लौक्यलोकोत्तरातीतलक्षणत्वान्नभोनिभाः॥३६॥



गुणा द्वात्रिंशदित्येते धर्मकायप्रभाविताः।

मणिरत्नप्रभावर्णसंस्थानवदभेदतः॥३७॥



द्वात्रिंशल्लक्षणाः काये दर्शनाह्लादका गुणाः।

निर्माणधर्मसंभोगरूपकायद्वयाश्रिताः॥३८॥



शुद्धेर्दुरान्तिकस्थानां लोकेऽथ जिनमण्डले।

द्विधा तद्दर्शनं शुद्धं वारिव्योमेन्दुबिम्बवत्॥३९॥



इति रत्नगोत्रविभागे महायानोत्तरत्नत्रशास्त्रे गुणाधिकारो नाम त्रितीयः परिच्छेदः॥३॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project