Digital Sanskrit Buddhist Canon

प्रथमः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Prathamaḥ paricchedaḥ

रत्नगोत्रविभागो महायानोत्तरतन्त्रशास्त्रम्



प्रथमः परिच्छेदः



ओं नमः श्रीवज्रसत्त्वाय।



बुद्धश्च धर्मश्च गणश्च धातु-

र्बोधिर्गुणाः कर्म च बौद्धमन्त्यम्।

कृत्स्नस्य शास्त्रस्य शरीरमेतत्

समासतो वज्रपदानि सप्त॥१॥



वज्रोपमस्याधिगमार्थस्य पदं स्थानमिति वज्रपदम्। तत्र श्रुतिचिन्तामयज्ञानदुष्प्रतिवेधादनभिलाप्यस्वभावः प्रत्यात्मवेदनीयोऽर्थो वज्रवद्वेदितव्यः। यान्यक्षराणि तमर्थमभिवदन्ति तत्प्राप्त्यनुकूलमार्गाभिद्योतनतस्तानि तत्प्रतिष्ठाभूतत्वात् पदमित्युच्यन्ते। इति दुष्प्रतिवेधार्थेन प्रतिष्ठार्थेन च वज्रपदत्वमर्थव्यञ्जनयोरनुगन्तव्यम्। तत्र कतमोऽर्थः कतमद्‍व्यञ्जनम्। अर्थ उच्यते सप्तप्रकारोऽधिगमार्थो यदुत बुद्धार्थो धर्मार्थः संघार्थो धात्वर्थो बोध्यर्थो गुणार्थः कर्मार्थश्च। अयमुच्यतेऽर्थः। यैरक्षरैरेष सप्तप्रकारोऽधिगमार्थः सूच्यते प्रकाश्यत इदमुच्यते व्यञ्जनम्। स चैष वज्रपदनिर्देशो विस्तरेण यथासूत्रमनुगन्तव्यः।



अनिदर्शनो ह्यानन्द तथागतः। स न शक्यश्चक्षुषा द्रष्टुम्। अनभिलाप्यो ह्यानन्द धर्मः। स न शक्यः कर्णेन श्रोतुम्। असंस्कृतो ह्यानन्द संघः। स न शक्यः कायेन वा चित्तेन वा पर्युपा सितुम्। इतीमानि त्रीणि वज्रपदानि दृढाध्याशयपरिवर्तानुसारेणानुगन्तव्यानि।



तथागतविषयो हि शारिपुत्रायमर्थस्तथागतगोचरः। सर्वश्रावकप्रत्येकबुद्धैरपि तावच्छारिपुत्रायमर्थो न शक्यः सम्यक् स्वप्रज्ञया xxx द्रष्टुं वा प्रत्यवेक्षितुं वा। प्रागेव बालपृथग्जनैरन्यत्र तथागतश्रद्धागमनतः। श्रद्धागमनीयो हि शारिपुत्र परमार्थः। परमार्थ इति शारिपुत्र सत्त्वधातोरेतदधिवचनम्। सत्त्वधातुरिति शारिपुत्र तथागतगर्भस्यैतदधिवचनम्। तथागतगर्भ इति शारिपुत्र धर्मकायस्यैतदधिवचनम्। इतीदं चतुर्थं वज्रपदमनूनत्वापूर्णत्वनिर्देशपरिवर्तानुसारेणानुगतव्यम्।



अनुत्तरा सम्यक्‍संबोधिरिति भगवन् निर्वाणधातोरेतदधिवचनम्। निर्वाणधातुरिति भगवन् तथागतधर्मकायस्यैतदधिवचनम्। इतीदं पञ्चमं वज्रपदमार्यश्रीमालासूत्रानुसारेणानुगन्तव्यम्।



योऽयं शारिपुत्र तथागतनिर्दिष्टो धर्मकायः सोऽयमविनिर्भागधर्मा। अविनिर्मुक्तज्ञानगुणो यदुत गङ्गानदीवालिकाव्यतिक्रान्तैस्तथागतधर्मैः। इतीदं षष्ठं वज्रपद्‍मनूनत्वापूर्णत्वनिर्देशानुसारेणानुगन्तव्यम्।



न मञ्जुश्रीस्तथागतः कल्पयति न विकल्पयति। अथवास्यानाभोगेनाकल्पयतोऽविकल्पयत इयमेवंरूपा क्रिया प्रवर्तते। इतीदं सप्तमं वज्रपद तथागतगुणज्ञानाचिन्त्यविषयावतारनिर्देशानुसारेणानुगन्तव्यम्। इतीमानि समासतः सप्त वज्रपदानि सकलस्यास्य शास्त्रस्योद्देशमुखसंग्राहार्थेन शरीरमिति वेदितव्यम्।



स्वलक्षणेनानुगतानि चैषां

यथाक्रमं धारणिराजसूत्रे।

निदानतस्त्रीणि पदानि विद्या-

च्चत्वारि धीमज्जिनधर्मभेदात्॥२॥



एषां च सप्तानां वज्रपदानां स्वलक्षणनिर्देशेन यथाक्रममार्यधारणीश्वरराजसूत्रनिदानपरिवर्तानुगतानि त्रीणि पदानि वेदितव्यानि। तत ऊर्ध्वमवशिष्टानि चत्वारि बोधिसत्त्वतथागतधर्मनिर्देशभेदादिति। तस्माद्यदुक्तम्।



भगवान् सर्वधर्मसमताभिसंबुद्धः सुप्रवर्तितधर्मचक्रोऽनन्तशिष्यगणसुविनीत इति। एभिस्त्रिभिर्मूलपदैर्यथाक्रमं त्रयाणां रत्नानामनुपूर्वसमुत्पादसमुदागमव्यवस्थानं वेदितव्यम्। अवशिष्टानि चत्वारि पदानि त्रिरत्नोत्पत्त्यनुरूपहेतुसमुदागमनिर्देशो वेदितव्यः। तत्र यतोऽष्टम्यां बोधिसत्त्वभूमौ वर्तमानः सर्वधर्मवशिताप्राप्तो भवति तस्मात् स बोधिमण्डवरगतः सर्वधर्मसमताभिसंबुद्ध इत्युच्यते। यतो नवम्यां बोधिसत्त्वभूमौ वर्तमानोऽनुत्तरधर्मभाणकत्वसंपन्नः सर्वसत्त्वाशयसुविधिज्ञ इन्द्रियपरमपारमिताप्राप्तः सर्वसत्त्वक्लेशवासनानुसंधिसमुद्‍घातनकुशलो भवति तस्मात् सोऽभिसंबुद्धबोधिः सुप्रवर्तितधर्मचक्र इत्युच्यते। यतो दशम्यां भूमावनुत्तरतथागतधर्मयौवराज्याभिषेकप्राप्त्यनन्तरमनाभोगबुद्धकार्याप्रतिप्रश्रब्धो भवति तस्मात् स सुप्रवर्तितधर्मचक्रोऽनन्तशिष्यगणसुविनीत इत्युच्यते। तां पुनरनन्तशिष्यगणसुविनीततां तदनन्तरमनेन ग्रन्थेन दर्शयति। महता भिक्षुसंघेन सार्ध यावदप्रमेयेण च बोधिसत्त्वगणेन सार्धमिति। यथाक्रमं श्रावकबोधौ बुद्धबोधौ च सुविनीतत्वादेवंगुण समन्वागतैरिति।



ततः श्रावकबोधिसत्त्वगुणवर्णनिर्देशानन्तरमचिन्त्यबुद्धसमाधिवृषभितां प्रतीत्य विपुलरत्नव्यूहमण्डलव्यूह निर्वृत्तितथागतपरिषत्समावर्तनविविधदिव्यद्रव्यपूजाविधानस्तुतिमेघाभिसंप्रवर्षणतो बुद्धरत्नगुणविभागव्यवस्थानं वेदितव्यम्। तदनन्तरमुदारधर्मासनव्यूहप्रभाधर्मपर्यायनामगुणपरिकीर्तनतो धर्मरत्नगुणविभागव्यवस्थानं वेदितव्यम्। तदनन्तरमन्योन्यं बोधिसत्त्वसमाधिगोचरविषयप्रभाव संदर्शनतद्विचित्रगुणवर्णनिर्देशतः संघरत्नगुणविभागव्यवस्थानं वेदितव्यम्। तदनन्तरं पुनरपि बुद्धरश्म्यभिषेकैरनुत्तरधर्मराजज्येष्ठपुत्रपरमवैशारद्यप्रतिभानोपकरणतां प्रतीत्य तथागतभूतगुणपरमार्थस्तुतिनिर्देशतश्च महायानपरमधर्मकथावस्तूपन्यसनतश्च तत्प्रतिपत्तेः परमधर्मैश्वर्यफलप्राप्तिसंदर्शनतश्च यथासंख्यमेषामेव त्रयाणां रत्नानामनुत्तरगुणविभागव्यवस्थानं निदानपरिवर्तावसानगतमेव द्रष्टव्यम्।



ततः सूत्रनिदानपरिवर्तानन्तरं बुद्धधातुः षष्ट्‍याकारतद्विशुद्धिगुणपरिकर्मनिर्देशेन परिदीपितः। विशोध्येऽर्थे गुणवति तद्विशुद्धिपरिकर्मयोगात्। इमं चार्थवशमुपादाय दशसु बोधिसत्त्वभूमिषु पुनर्जातरूपपरिकर्मविशेषोदाहरणमुदाहृतम्। अस्मिन्नेव च सूत्रे तथागतकर्मनिर्देशानन्तरमविंशुद्धवैडूर्यमणिदृष्टान्तः कृतः।



तद्यथा कुलपुत्र कुशलो मणिकारो मणिशुद्धिसुविधिज्ञः। स मणिगोत्रादपर्यवदापितानि मणिरत्नानि गृहीत्वा तीक्ष्णेन खारोदकेनोत्क्षाल्य कृष्णेन केशकम्बलपर्यवदापनेन पर्यवदापयति। न च तावन्मात्रेण वीर्य प्रश्रम्भयति। ततः पश्चात् तीक्ष्णेनामिषरसेनोत्क्षाल्य खण्डिकापर्यवदापनेन पर्यवदापयति। न च तावन्मात्रेण वीर्य प्रश्रम्भयति। ततः स पश्चान्महाभैषज्यरसेनोत्क्षाल्य सूक्ष्मवस्त्रपर्यवदापनेन पर्यवदापयति। पर्यवदापितं चापगतकाचम भिजातवैडूर्यमित्युच्यते। एवमेव कुलपुत्र तथागतोऽप्यपरिशुद्धं सत्त्वधातुं विदित्वानित्यदुःखानात्माशुभोद्वेगकथया संसाराभिरतान् सत्त्वानुद्वेजयति। आर्ये च धर्मविनयेऽवतारयति। न च तावन्मात्रेण वीर्य प्रश्रम्भयति। ततः पश्चाच्छून्यानिमित्तप्रणिहितकथया तथागतनेत्रीमवबोधयति। न च तावन्मात्रेण तथागतो वीर्यं प्रश्रम्भयति। ततः पश्चादविवर्त्यधर्मचक्रकथया त्रिमण्डलपरिशुद्धिकथया च तथागतविषये तान् सत्त्वानवतारयति नानाप्रकृतिहेतुकान्। अवतीर्णाश्च समानास्तथागतधर्मतामधिगम्यानुत्तरा दक्षिणीया इत्युच्यन्त इति।



एतदेव विशुद्धगोत्रं तथागतधातुमभिसंधायोक्तम्।



यथा पत्थरचुण्णम्हि जातरूपं न दिस्सति।

परिकम्मेन तद् दिट्‍ठं एवं लोके तथागता इति॥



तत्र कतमे ते बुद्धधातोः षष्ट्‍याकारविशुद्धिपरिकर्मगुणाः। तद्यथा चतुराकारो बोधिसत्त्वालंकारः। अष्टाकारो बोधिसत्त्वावभासः। षोडशाकारी बोधिसत्त्वमहाकरुणा। द्वात्रिंशदाकारं बोधिसत्त्वकर्म।



तन्निर्देशानन्तरं बुद्धबोधिः षोडशाकारमहाबोधिकरुणानिर्देशेन परिदीपिता। तन्निर्देशानन्तरं बुद्धगुणा दशबलचतुर्वैशारद्यष्टादशावेणिकबुद्धधर्मनिर्देशेन परिदीपिताः। तन्निर्देशानन्तरं बुद्धकर्म द्वात्रिंशदाकार निरुत्तरतथागतकर्मनिर्देशेन परिदीपितम्। एवमिमानि सप्त वज्रपदानि स्वलक्षणनिर्देशतो विस्तरेण यथासूत्रमनुगन्तव्यानि। कः पुनरेषामनुश्लेषः।



बुद्धाद्धर्मो धर्मतश्चार्यसंघः

संघे गर्भो ज्ञानधात्वाप्तिनिष्ठः।

तज्ज्ञानाप्तिश्चाग्रबोधिर्बलाद्यै-

र्धमैर्युक्ता सर्वसत्त्वार्थकृद्‍भिः॥३॥



उक्तः शास्त्रसंबन्धः।



इदानीं श्लोकानामर्थो वक्तव्यः। ये सत्त्वास्तथागतेन विनीतास्ते तथागतं शरणं गच्छन्तो धर्मतानिष्यन्दाभिप्रसादेन धर्म च संघं च शरणं गच्छन्ति। अतस्तत्प्रथमतो बुद्धरत्नमधिकृत्य श्लोकः।



यो बुद्धत्वमनादिमध्यनिधनं शान्तं विबुद्धः स्वयं

बुद्ध्‍वा चाबुधबोधनार्थमभयं मार्गं दिदेश ध्रुवम्।

तस्मै ज्ञानकृपासिवज्रवरधृग्दुःखङ्कुरैकच्छिदे

नानादृग्गहनोपगूढविमतिप्राकारभेत्त्रे नमः॥४॥



अनेन किं दर्शयति।



असंस्कृतमनाभोगमपरप्रत्ययोदितम्।

बुद्धत्वं ज्ञानकारुण्यशक्त्युपेतं द्वयार्थवत्॥५॥



अनेन समासतोऽष्टाभिर्गुणैः संगृहीतं बुद्धत्वमुद्‍भावितम्। अष्टौ गुणाः कतमे। असंस्कृतत्वमनाभोगतापरप्रत्ययाभिसंबोधिर्ज्ञानं करुणा शक्तिः स्वार्थसंपत् परार्थसंपदिति।



अनादिमध्यनिधनप्रकृतत्वादसंस्कृतम्।

शान्तधर्मशरीरत्वादनाभोगमिति स्मृतम्॥६॥



प्रत्यात्ममधिगम्यत्वादपरप्रत्ययोदयम्।

ज्ञानमेवं त्रिधा बोधात् करुणा मार्गदेशनात्॥७॥



शक्तिर्ज्ञानकृपाभ्यां तु दुःखक्लेशनिबर्हणात्।

त्रिभिराद्यैर्गुणैः स्वार्थः परार्थः पश्चिमैस्त्रिभिः॥८॥



संस्कृतविपर्ययेणासंस्कृतं वेदितय्वम्। तत्र संस्कृतमुच्यते यस्योत्पादोऽपि प्रज्ञायतेस्थितिरपि भङ्गोऽपि प्रज्ञायते। तदभावाद्‍बुद्धत्वमनादिमध्यनिधनमसंस्कृतधर्मकाय प्रभावितं द्रष्टव्यम्। सर्वप्रपञ्चविकल्पोपशान्तत्वादनाभोगम्। स्वयंभूज्ञानाधिगम्यत्वादपरप्रत्ययोदयम्। उदयोऽत्राभिसंबोधोऽभिप्रेतोत्पादः। इत्यसंस्कृतादप्रवृत्तिलक्षणादपि तथागतत्वादनाभोगतः सर्वसंबुद्धकृत्यमा संसारकोटेरनुपरतमनुपच्छिन्नं प्रवर्तते।



इत्येवमत्यद्‍भुताचिन्त्यविषयं बुद्धत्वमश्रुत्वा परतः स्वयमनाचार्यकेण स्वयंभूज्ञानेन निरभिलाप्यस्वभावतामभिसंबुध्य तदनुबोधं प्रत्यबुधानामपि जात्यन्धानां परेषामनुबोधाय तदनुगामिमार्गव्युपदेशकरणादनुत्तरज्ञानकरुणान्वितत्वं वेदितव्यम्। मार्गस्याभयत्वं लोकोत्तरत्वात्। लोकोत्तरत्वमपुनरावृत्तितश्च। यथाक्रमं परदुःखक्लेशमूलसमुद्‍घातं प्रत्यनयोरेव तथागतज्ञानकरुणयोः शक्तिरसिवज्रदृष्टान्तेन परिदीपिता। तत्र दुःखमूलं समासतो या कचिद्‍भवेषु नामरूपाभिनिर्वृत्तिः। क्लेशमूलं य काचित्सत्कायाभिनिवेशपूर्विका दृष्टिर्विचिकित्सा च। तत्र नामरूपसंगृहीतं दुःखमभिनिर्वृत्तिलक्षणत्वादङ्कुरस्थानीयं वेदितव्यम्। तच्छेत्तृत्वे तथागतज्ञानकरुणायोः शक्तिरसिदृष्टन्तेनोपमिता वेदितव्या। दृष्टिविचिकित्सासम्गृहीतो दर्शनमार्गप्रहेयः। क्लेशो लौकिकज्ञानदुरवगाहो दुर्भेदंत्वाद्वनगहनोपगूढप्राकारसदृशः। तद्‍भेत्तृत्वात् तथागतज्ञानकरुणयोः शक्तिर्वज्रदृष्टान्तेनोपमिता वेदितव्या।



इत्येते यथाद्दिष्टाः षट् तथागतगुणा विस्तरविभागनिर्देशतोऽनयैवानुपूर्व्या सर्वबुद्धविषयावतारज्ञानालोकालंकारसूत्रानुसारेणानुगन्तव्याः। तत्र यदुक्तमनुत्पादोऽनिरोध इति मञ्जुश्रीस्तथागतोऽर्हन् सम्यक्‍संबुद्ध एष इत्यनेन तावदसंस्कृतलक्षणस्तथागत इति परिदीपितम्। यत्पुनरनन्तरं विमलवैडूर्यपृथिवीशक्रप्रतिबिम्बोदाहरणमादिं कृत्वा यावन्नवभिरुदाहरणैरेतमेवानुत्पादानिरोधतथागतार्थमधिकृत्याह। एवमेव मञ्जुश्रीस्तथागतोऽर्हन् सम्यक्‍संबुद्धो नेञ्जते न विठपति न प्रपञ्चयति न कल्पयति न विकल्पयति। अकल्पोऽविकल्पोऽचित्तोऽमनसिकारः शीतिभूतोऽनुत्पादोऽनिरोधोऽदृष्टोऽश्रुतोऽनाघ्रातोऽनास्वादितोऽस्पृष्टोऽनिमित्तोऽविज्ञप्तिकोऽविज्ञपनीय इत्येवमादिरुपशमप्रभेदप्रदेशनिर्देशः। अनेन स्वक्रियासु सर्वप्रपञ्चविकल्पोपशान्तत्वादनाभोगस्तथागत इति परिदीपितम्। तत ऊर्ध्वमुदाहरणनिर्देशादवशिष्टेन ग्रन्थेन सर्वधर्मधर्मतथताभिसंबोधमुखेष्वपरप्रत्ययाभिसंबोधस्तथागतस्य परिदीपितः। यत्पुनरन्ते षोडशाकारां तथागतबोधिं निर्दिश्यैवमाह। तत्र मञ्जुश्रीस्तथागतस्यैवंरूपान् सर्वधर्मानभिसंबुध्य सत्त्वानां च धर्मधातुं व्यवलोक्याशुद्धमविमलं साङ्गनं विक्रीडिता नाम सत्त्वेषु महाकरुणा प्रवर्तत इति। अनेन तथागतस्यानुत्तरज्ञानकरुणान्वितत्वमुद्‍भावितम्। तत्रैवंरूपान् सर्वधर्मानिति यथापूर्व निर्दिष्टानभावस्वभावात्। अभिसंबुध्येति यथाभूतमविकल्पबुद्धज्ञानेन ज्ञात्वा। सत्त्वानामिति नियतानियतमिथ्यानियतराशिव्यवशितानाम्। धर्मधातुमिति स्वधर्मताप्रकृतिनिर्विशिष्टत्तथागतगर्भम्। व्यवलोक्येति सर्वाकारमनावरणेन बुद्धचक्षुषा दृष्ट्वा। अशुद्धं क्लेशावरणेन बालपृथग्जनानाम्। अविमलं ज्ञेयावरणेन श्रावकप्रत्येकबुद्धानाम्। साङ्गनं तदुभयान्यतमविशिष्टतया बोधिसत्त्वानाम्। विक्रीडिता विविधा संपन्नविनयोपायमुखेषु सुप्रविष्टत्वात्। सत्त्वेषु महाकरुणा प्रवर्तत इति समतया सर्वसत्त्वनिमित्तमभिसंबुद्धबोधेः स्वधर्मताधिगमसंप्रापणाशयत्वात्। यदित ऊर्ध्वमनुत्तरज्ञानकरुणाप्रवृत्तेरसमधर्मचक्रप्रवर्तनाभिनिर्हारप्रयोगाश्रंसनमियमनयोः परार्थकरणे शक्तिर्वेदितव्या। तत्रैषामेव यथाक्रमं षण्णां तथागतगुणानामाद्यैस्त्रिभिरसंस्कृतादिभिर्योगः स्वार्थसंपत्। त्रिभिरवशिष्टैर्ज्ञानादिभिः परार्थसंपत्। अपि खलु ज्ञानेन परमनित्योपशान्तिपदस्वाभिसंबोधिस्थानगुणात् स्वार्थसंपत् परिदीपिता। करुणाशक्तिभ्यामनुत्तरमहाधर्मचक्रप्रवृत्तिस्थानगुणात् परार्थसंपदिति।



अतो बुद्धरत्नाद्धर्मरत्नप्रभावनेति तदनन्तरं तदधिकृत्य श्लोकः।



यो नासन्न च सन्न चापि सदसन्नान्यः सतो नासतो

ऽसक्यस्तर्कयितुं निरुक्‍त्यपगतः प्रत्यात्मवेद्यः शिवः।

तस्मै धर्मदिवाकराय विमलज्ञानावभासत्विषे

सर्वारम्वण रागदोषतिमिरव्याघातकर्त्रे नमः॥९॥



अनेन किं दर्शितम्।

अचिन्त्याद्वयनिष्कल्पशुद्धिव्यक्तिविपक्षतः।

यो येन च विरागोऽसौ धर्मः सत्यद्विलक्षणः॥१०॥



अनेन समासतोऽष्टाभिर्गुणैः संगृहीतं धर्मरत्नमुद्‍भावितम्। अष्टौ गुणाः कतमे। अचिन्त्यत्वमद्वयता निर्विकल्पता शुद्धिरभिव्यक्तिकरणं प्रतिपर्क्षता विरागो विरागहेतुरिति।



निरोधमार्गसत्याभ्यां संगृहीता विरागिता।

गुणैस्त्रिभिस्त्रिभिश्चैते वेदितव्ये यथाक्रमम्॥११॥



एषामेव यथाक्रमं षण्णां गुणानां त्रिभिराद्यैरचिन्त्याद्वयनिर्विकल्पतागुणैर्निरोधसत्यपरिदीपनाद्विरागसंग्रहो वेदितव्यः। त्रिभिरवशिष्टैः शुद्ध्‍यभिव्यक्तिप्रतिपक्षतागुणैर्मार्गसत्यपरिदीपनाद्विरागहेतुसंग्रह इति। यश्च विरागो निरोधसत्यं येन च विरागो मार्गसत्येन तदुभयमभिसमस्य व्यवदानसत्य द्वयलक्षणो विरागधर्म इति परिदीपितम्।



अतर्क्यत्वादलाप्यत्वादार्यज्ञानादचिन्यता।

शिवत्वादद्वयाकल्पौ शुद्‍ध्यादि त्रयनर्कवत्॥१२॥



समासतो निरोधसत्यस्य त्रिभिः कारणैरचिन्त्यत्वं वेदितव्यम्। कतमैस्त्रिभिः। असत्सत्सदसन्नोभयप्रकारैश्चतुर्भिरपि तर्कागोचरत्वात्। सर्वरुतरवितघोषवाक्‍पथनिरुक्तिसंकेतव्यवहाराभिलापैरनभिलाप्यत्वात्। आर्याणां च प्रत्यात्मवेदनीयत्वात्।



तत्र निरोधसत्यस्य कथमद्वयता निर्विकल्पता च वेदितव्या। यथोक्तं भगवता। शिवोऽयं शारिपुत्र धर्मकायोऽद्वयधर्माविकल्पधर्मा। तत्र द्वयमुच्यते कर्म क्लेशांश्च। विकल्प उच्यते कर्मक्लेशसमुदयहेतुरयोनिशोमनसिकारः। तत्प्रकृतिनिरोधप्रतिवेधाद् द्वयविकल्पासमुदाचारयोगेन यो दुःखस्यात्यन्तमनुत्पाद इदमुच्यते दुःखनिरोधसत्यम्। न खलु कस्यचिद्धर्मस्य विनाशाद्‍दुःखनिरोधसत्यं परिदीपितम्। यथोक्तम्। अनुत्पादानिरोधे मञ्जुश्रीश्चित्तमनोविज्ञानानि न प्रवर्तन्ते। यत्र चित्तमनोविज्ञानानि न प्रवर्तन्ते तत्र न कश्चित्परिकल्पो येन परिकल्पेनायोनिशोमनसिकुर्यात्। स योनिशोमनसिकारप्र युक्तोऽविद्यां न समुत्वापयति। यच्चाविद्यासमुत्थानं तद् द्वादशानां भवाङ्गानामसमुत्थानम्। साजातिरिति विस्तरः। यथोक्तम्। न खलु भगवन् धर्मविनाशो दुःखनिरोधः। दुःखनिरोधनाम्ना भगवन्ननादिकालिकोऽकृतोऽजातोऽनुत्पन्नोऽक्षयः क्षयापगतः नित्यो ध्रुवः शिवः शाश्वतः प्रकृतिपरिशुद्धः सर्वक्लेशकोशविनिर्मुक्तो गङ्गावालिकाव्यतिवृत्तैरविनिर्भागैरचिन्त्यैर्बुद्धधर्मैः समन्वागतस्तथागतधर्मकायो देशितः। अयमेव च भगवंस्तथागतधर्मकायोऽविनिर्मुक्तक्लेशकोशस्तथागतगर्भः सूच्यते। इति सर्वविस्तरेण यथासूत्रमेव दुःखनिरोधसत्यव्यवस्थानमनुगन्तव्यम्।



अस्य खलु दुःखनिरोधसंज्ञितस्य तथागतधर्मकायस्य प्राप्तिहेतुरविकल्पज्ञानदर्शनभावनामार्गस्त्रिविधेन साधर्म्येण दिनकरसदृशः वेदितव्यः। मण्डलविशुद्धिसाधर्म्येण सर्वोपक्लेशमलविगतत्वात्। रूपाभिध्यक्तिकरणसाधर्म्येण सर्वाकारज्ञेयावभासकत्वात्। तमःप्रतिपक्षसाधर्म्येण च सर्वाकारसत्यदर्शनविबन्धप्रतिपक्षभूतत्वात्।



विबन्ध पुनरभुतवस्तुनिमित्तारम्बणमनसिकारपूर्विका रागद्वेषमोहोत्पत्तिरनुशयपर्युत्थानयोगात्। अनुशयतो हि बालानाम भूतमतत्स्वभावं वस्तु शुभाकारेण वा निमित्तं भवति रागोत्पत्तितः। प्रतिघाकारेण वा द्वेषोत्पत्तितः। अविद्याकारेण वा मोहोत्पत्तितः। तच्च रागद्वेषमोहनिमित्तमयथाभुतमारम्बणं कुर्वतामयोनिशोमनसिकारश्चित्तं पर्याददाति। तेषामयोनिशोमनसिकारपर्यवस्थितचेतसां रागद्वेषमोहानामन्यतक्लेशसमुदाचारो भवति। ते ततोनिदानं कायेन वाचा मनसा रागजमपि कर्माभिसंस्कुर्वन्ति। द्वेषजमपि मोहजमपि कर्माभिसंस्कुर्वन्ति। कर्मतश्च पुनर्जन्मानुबन्ध एव भवति। एवमेषां बालानामनुशयवतां। निमित्तग्राहिणामारम्बणचरितानामयोनिशोमनसिकारसमुदाचारात् क्लेशसमुदयः। क्लेशमुदायात् कर्मसमुदयः। कर्मसमुदयाज्जन्मसमुदयो भवति। स पुनरेष सर्वाकारक्लेशकर्मजन्मसंक्लेशो बालानामेकस्य धातोर्यथाभूतमज्ञानाददर्शनाच्च प्रवर्तते।



स च तथा द्रष्टव्यो यथा परिगवेषयन्न तस्य किंचिन्निमित्तमारम्बणं वा पश्यति। स यदा न निमित्तं नारम्बणं वा पश्यति तदा भूतं पश्यति। एवमेते धर्मास्तथागतेनाभिसंबुद्धाः समतया समा इति। य एवमसतश्च निमित्तारम्बणस्यादर्शनात् सतश्च यथाभूतस्य परमार्थसत्यस्य दर्शनात् तदुभयोरनुत्‍क्षेपाप्रक्षेपसमताज्ञानेन सर्वधर्मसमताभिसंबोधः सोऽस्य सर्वाकारस्य तत्त्वदर्शनविबन्धस्य प्रतिपक्षो वेदितव्यो यस्योदयादितरस्यात्यन्तमसंगतिरसमवधानं प्रवर्तते। स खल्वेष धर्मकायप्राप्तिहेतुरविकल्पज्ञानदर्शनभावनामार्गो विस्तरेण यथासूत्रं प्रज्ञापारमितानुसारेणानुगन्तव्यः।



अतो महायानधर्मरत्नादवैवर्तिकबोधिसत्त्वगणरत्नप्रभावनेति तदनन्तरं तदधिकृत्य श्लोकः।



ये सम्यक् प्रतिविध्य सर्वजगतो नैरात्म्यकोटिं शिवां

तच्चित्तप्रकृतिप्रभास्वरतया क्लेशास्वभावेक्षणात्।

सर्वत्रानुगतामनावृतधियः पश्यन्ति संबुद्धतां

तेभ्यः सत्त्वविशुद्‍ध्यनन्तविषयज्ञानेक्षणेभ्यो नमः॥१३॥



अनेन किं दर्शितम्।

यथावद्यावदध्यात्मज्ञानदर्शनशुद्धितः।

धीमतामविवर्त्यानामनुत्तरगुणैर्गणः॥१४॥



अनेन समासतोऽवैवर्तिकबोधिसत्त्वगणरत्नस्य द्वाभ्यामाकाराभ्यां यथावद्‍भाविकतया यावद्‍भाविकतया च लोकोत्तरज्ञानदर्शनविशुद्धितोऽनुत्तरगुणान्वितत्वमुद्‍भावितम्।



यथावत्तज्जगच्छन्तधर्मतावगमात् स च।

प्रकृतेः परिशुद्धत्वात् क्लेशस्यादिक्षयेक्षणात्॥१५॥



तत्र यथावद्‍भाविकता कृत्स्नस्य पुद्‍गलधर्माख्यस्य जगतो यथावन्नैरात्म्यकोटेरव गमाद्वेदितव्या। स चायमवगमोऽत्यन्तादिशान्तस्वभावतया पुद्‍गलधर्माविनाशयोगेन समासतो द्वाभ्यां कारणाभ्यामुत्पद्यते। प्रकृतिप्रभास्वरतादर्शनाच्च चित्तस्यादिक्षयनिरोधदर्शनाच्च तदुपक्लेशस्य। तत्र या चित्तस्य प्रकृतिप्रभास्वरता यश्च तदुपक्लेश इत्येतद् द्वयमनास्रवै धातौ कुशलाकुशलयोश्चित्तयोरेकेचरत्वाद् द्वितीयचित्तानभिसंधानयोगेन परमदुष्प्रतिवेध्यम्। अत आह। क्षणिकुं भगवन् कुशलं चित्तम्। न क्लेशैः संक्लिश्यते। क्षणिकमकुशलं चित्तम्। न संक्लिष्टमेव तच्चित्तं क्लेशैः। न भगवन् क्लेशास्तच्चित्तं स्पृशन्ति। कथमत्र भगवन्नस्पर्शनधर्मि चित्तं तमःक्लिष्टं भवति। अस्ति च भगवन्नुपक्लेशः। अस्त्युपक्लिष्टं चित्तम्। अथ च पुनर्भगवन् प्रकृतिपरिशुद्धस्य चित्तस्योपक्लेशार्थो दुष्प्रतिवेध्यः। इति विस्तरेण यथावद्‍भाविकतामारभ्य दुष्प्रतिविधार्थनिर्देशो यथासूत्रमनुगन्तव्यः।



यावद्‍भाविकता ज्ञेयपर्यन्तगतया धिया।

सर्वसत्त्वेषु सर्वज्ञधर्मतास्तित्वदर्शनात्॥१६॥



तत्र यावद्‍भाविकता सर्वज्ञेयवस्तुपर्यन्तगतया लोकोत्तरया प्रज्ञया सर्वसत्त्वेष्वन्तशस्तिर्यग्योनिगतेष्वपि तथागतगर्भास्तित्वदर्शनाद्वेदितव्या। तच्च दर्शनं बोधिसत्त्वस्य प्रथमायामेव बोधिसत्त्वभूमावुत्पद्यते सर्वत्रगाथने धर्मधातुप्रतिवेधात्।



इत्येवं योऽवबोधस्तत्प्रत्यात्मज्ञानदर्शनम्।

तच्छुद्धिरमले धातावसङ्गाप्रतिघा ततः॥१७॥



इत्येवमनेन प्रकारेण यथावद्‍भाविकतया च यावद्‍भाविकतया च यो लोकोत्तरमार्गावबोधस्तदार्याणां प्रत्यात्ममनन्यसाधारणं लोकोत्तरज्ञानदर्शनमभिप्रेतम्। तच्च समासतो द्वाभ्यां कारणाभ्यामितप्रादेशिकज्ञानदर्शनमुपनिधाय सुविशुद्धिरित्युच्यते। कतमाभ्यां द्वाभ्याम्। असङ्गत्वादप्रतिहतत्वाच्च। तत्र यथावद्‍भाविकतया सत्त्वधातुप्रकृतिविशुद्धविषयत्वादसङ्गम् यावद्‍भाविकतयानन्तेज्ञेयवस्तुविषयत्वादप्रतिहतम्।



ज्ञानदर्शनशुद्‍ध्या बुद्धज्ञानादनुत्तरात्।

अवैवर्त्याद्‍भवन्त्यार्याः शरणं सर्वदेहिनाम्॥१८॥



इतीयं ज्ञानदर्शनशुद्धिरविनिवर्तनीयभूमिसमारूढानां बोधिसत्त्वानामनुत्तरायास्तथागतज्ञानदर्शनविशुद्धेरुपनिषद्‍गतत्वादनुत्तरा वेदितव्या तदन्येभ्यो वा दान शीलादिभ्यो बोधिसत्त्वगुणेभ्यो मद्योगादविनिवर्तनीया बोधिसत्त्वाः शरण भूता भवन्ति सर्वसत्त्वानामिति।



श्रावकसंघरत्नाग्रहणं बोधिसत्त्वगणरत्नानन्तरं तत्पूजानर्हत्वात्। न हि जातु पण्डिता बोधिसत्त्वश्रावकगुणान्तरज्ञा महाबोधिविपुलपुण्यज्ञानसंभारापूर्यमाणज्ञानकरुणामण्डलमप्रमेयसत्त्वधातुगणसंतानावभासप्रत्युपस्थितमनुत्तरतथागतपूर्णचन्द्र गमनानुकूलमार्गप्रतिपन्नं बोधिसत्त्वनवचन्द्रमुत्सृज्य प्रादेशिकज्ञाननिष्ठागतमपि तारारूपवत् स्वसंतानावभासप्रत्युपस्थितं श्रावकं नमस्यन्ति। परहितक्रियाशयविशुद्धेः संनिश्रयगुणेनैव हि प्रथमचित्तोत्पादिकोऽपि बोधिसत्त्वो निरनुक्रोशमनन्यपोषिगण्यमनास्रवशीलसंवरविशुद्धिनिष्ठागतमार्यश्रावकमभिभवति। प्रागेव तदन्यैर्दशवशितादिभिर्बोधिसत्त्वगुणैः। वक्ष्यति हि।



यः शीलमात्मार्थकरं विभर्ति

दुःशीलसत्त्वेषु दयावियुक्तेः।

आत्मंभरिः शीलधनप्रशुद्धो

विशुद्धशीलं न तमाहुरार्यम्॥



यः शीलमादाय परोपजीव्यं

करोति तेजोऽनिलवारिभूवत्।

कारुण्यमुत्पाद्य परं परेषु

स शीलवांस्तत्प्रतिरूपकोऽन्य इति॥



तत्र केनार्थेन किमधिकृत्य भगवता शरणत्रयं प्रज्ञप्तम्॥



शास्तृशासनशिष्यार्थैरधिकृत्य त्रियानिकान्।

कारत्रयाधिमुक्तांश्च प्रज्ञप्तं शरणत्रयम्॥१९॥



बुद्धः शरणमग्र्‍यत्वाद् द्विपदानामिति शास्तृगुणोद्‍भावनार्थेन बुद्धभावायोपगतान् बोधिसत्त्वान् पुद्‍गलान् बुद्धे च परमकारक्रियाधिमुक्तानधिकृत्य देशितं प्रज्ञप्तम्।



धर्मः शरणमग्र्‍यत्वाद्विरागाणामिति शास्तृः शासन गुणोद्‍भावनार्थेन स्वयं प्रतीत्य गम्भीरधर्मानुबोधायोपगतान् प्रत्येकबुद्धयानिकान् पुद्‍गलान् धर्मे च परमकारक्रियाधिमुक्तानधिकृत्य देशितं प्रज्ञप्तम्।



संघः शरणमग्र्‍यत्वाद्‍गणानामिति शास्तुः शासने सुप्रतिपन्नशिष्यगुणोद्‍भावनार्थेन परतः श्रवघोषस्यानुगमायोपगतान् श्रावकयानिकान् पुद्‍गलान् संघे च परमकाराक्रियाधिमुक्तानधिकृत्य देशितं प्रज्ञप्तम्। इत्यनेन समासतस्त्रिविधेनार्थेन षट् पुद्‍गलानधिकृत्य प्रभेदयो भगवता संवृतिपदस्थानेन सत्त्वानामनुपूर्वनयावतारार्थमिमानि त्रीणि शरणानि देशितानि प्रज्ञप्तानि।



त्याज्यत्वान् मोषधर्मत्वादभावात् सभयत्वतः।

धर्मो द्विधार्यसंघश्च नात्यन्तं शरणं परम्॥२०॥



द्विविधो धर्मः। देशनाधर्मोऽधिगमधर्मश्च। तत्र देशनाधर्मः सूत्रादिदेशनाया नामपदव्यञ्जनकायसंगृहीतः। स च मार्गाभिसमयपर्यवसानत्वात् कोलोपम इत्युक्तः। अधिगमधर्मो हेतुफलभेदेन द्विविधः। यदुत मार्गसत्यं निरोधसत्यं च। येन यदधिगम्यत इति कृत्वा। तत्र मार्गः संस्कृतलक्षणपर्यापन्नः। यत् संस्कृतलक्षणपर्यापन्नं तन् मृषामोषधर्मि। यन् मृषामोषधर्मि तदसत्यम्। यदसत्यं तदनित्यम्। यदनित्यं तद्शरणम्। यश्च तेन मार्गेण निरोधोऽधिगतः सोऽपि श्रावकनयेन प्रदीपोच्छेदवत् क्लेशदुःखाभावमात्रप्रभावितः। न चाभावः शरणमशरणं वा भवितुमर्हति।



संघ इति त्रैयानिकस्य गणस्यैतदधिवचनम्। स च नित्यं सभयस्तथागतशरणगतो निःसरणपर्येषी शैक्षः सकरणीयः प्रतिपन्नकश्चानुत्तरायां सम्यक्‍संबोधाविति। कथं समयः। यस्मादर्हतामपि क्षीणपुनर्भवानामप्रहीणत्वाद्वासंनायाः सततसमितं सर्वासंस्कारेषु तीव्रा भयसंज्ञा प्रत्युपस्थिता भवति स्याद्यथापि नामोत्क्षिप्तासिके वधकपुरुषे तस्मात्तेऽपि नात्यन्तसुखनिःसरणमधिगताः। न हि शरणं शरणं पर्येषते। यथैवा शरणाः सत्त्वा येन तेन भयेन भीतास्ततस्ततो निःसरणं पर्येषन्ते तद्वदर्हतामप्यस्ति तद्‍भयं यतस्ते भयाद्‍भीतास्तथागतमेव शरणमुपगच्छन्ति। यश्चैवं सभयत्वाच्छरणमुपगच्छत्यवश्यं भयान्निःसरणं स पर्येष्यते। निःसरणपर्येषित्वाच्च भयनिदानप्रहाणमधिकृत्य शैक्षो भवति सकरणीयः। शैक्षत्वात् प्रतिपन्नको भवत्यभयमार्यभस्थानमनुप्राप्तुं यदुतानुत्तरां सम्यक्‍संबोधिम्। तस्मात्सोऽपि तदङ्गशरणत्वान्नात्यन्तं शरणम्। एवमिमे द्वे शरणे पर्यन्तकाले शरणे इत्युच्येते।



जगच्छरणमेकत्र बुद्धत्वं पारमार्थिकम्।

मुनेर्धर्मशरीरत्वात् तन्निष्ठत्वाद्‍गणस्य च॥२१॥



अनेन तु पूर्वोक्तेन विधिनानुत्पादानिरोधप्रभावितस्य मुनेर्व्यवदानसत्यद्वयविरागधर्मकायत्वाद् धर्मकायविशुद्धिनिष्ठाधिगमपर्यवसानत्वाच्च त्रैयानिकस्य गणस्य पारमार्थिकमेवात्राणेऽशरणे लोकेऽपरान्तकोटिसममक्षयशरणं नित्यशरणं ध्रुवशरणं यदुत तथागता अर्हन्तः सम्यक्‍संबुद्धाः। एव च नित्यध्रुवशिवशाश्वतैकशरणनिर्देशो विस्तरेणार्यश्रीमालासूत्रानुसारेणानुगन्तव्यः।



रत्नानि दुर्लभोत्पादान निर्मलत्वात् प्रभावतः।

लोकालंकारभूतत्वादग्रत्वान् निर्विकारतः॥२२॥



समासतः षड्‍विधेन रत्नसाधर्म्येणैतानि बुद्धधर्मसंघाख्यानि त्रीणि रत्नान्युच्यन्ते। यदुत दुर्लभोत्पादभावसाधर्म्येण बहुभिरपि कल्पपरिवर्तेरनवाप्तकुशलमूलानां तत्समवधानाप्रतिलम्भात्। वैमल्यसाधर्म्येण सर्वाचारमलविगतत्वात्। प्रभावसाधर्म्येण षडभिज्ञाद्यचिन्त्यप्रभावगुणयोगात्। लोकालंकारसाधर्म्येण सर्वजगदाशयशोभानिमित्तत्वात्। रत्नप्रतिवर्णिकाग्र्‍यसाधर्म्येण लोकोत्तरत्वात्। स्तुतिनिन्दाद्यविकारसाधर्म्येणासंस्कृतस्वभावत्वादिति।



रत्नत्रयनिर्देशानन्तरं यस्मिन् सत्येव लौकिकलोकोत्तरविंशुद्धियोनिरत्नत्रयमुत्पद्यते तदधिकृत्य श्लोकः।



समला तथताथ निर्मला विमलाः बुद्धगुणा जिनक्रिया।

विषयः परमार्थदर्शिनां शुभरत्नत्रयसर्गको यतः॥२३॥



अनेन किं परिदीपितम्।

गोत्रं रत्नत्रयस्यास्य विषयः सर्वदर्शिनाम्।

चतुर्विधः स चाचिन्त्यश्चतुर्भिः कारणैः क्रमात्॥२४॥



तत्र समला तथता यो धातुरविनिर्मुक्तक्लेशकोशस्तथागतगर्भ इत्युच्यते। निर्मला तथता स एव बुद्धभूमावाश्रयपरिवृत्तिलक्षणो यस्तथागतधर्मकाये इत्युच्यते। विमलबुद्धगुणा ये तस्मिन्नेवाश्रयपरिवृत्तिलक्षणे तथागतधर्मकाये लोकोत्तरा दशबलादयो बुद्धधर्माः। जिनक्रिया तेषामेव दशबलादीनां बुद्धधर्माणां प्रतिस्वमनुत्तरं कर्म यदनिष्ठितमविरतमप्रतिप्रश्रब्धं बोधिसत्त्वव्याकरणकथां नोपच्छिनत्ति। तानि पुनरिमानि चत्वारि स्थानानि यथासंख्यमेव चतुर्भिः कारणैरचिन्त्यत्वात् सर्वज्ञविषया इत्युच्यन्ते। कतमैश्चतुर्भिः।



शुद्‍ध्युपक्लिष्टतायोगात् निःसंक्लेशविशुद्धितः।

अविनिर्भागधर्मत्वादनाभोगाविकल्पतः॥२५॥



तत्र समला तथता युगपदेककालं विशुद्धा च संक्लिष्टा चेत्यचिन्त्यमेतत् स्थानं गम्भीरधर्मनयाधिमुक्तानामपि प्रत्येकबुद्धानामगोचरविषत्वात्। यत आह। द्वाविमौ देवि धर्मौ दुष्प्रतिवेध्यौ। प्रकृतिपरिशुद्धिचित्तं दुष्प्रतिवेध्यम्। तस्यैव चित्तस्योपक्लिष्टता दुष्प्रतिवेध्या। अनयोर्देवि धर्मयोः श्रोता त्वं वा भवेरथवा महाधर्मसमन्वागता बोधिसत्त्वाः। शेषाणां देवि सर्वश्रावकप्रत्येकबुद्धानां तथागतश्रद्धागमनीया वेवैतो धर्माविति।



तत्र निर्मला तथता पूर्वमलासंक्लिष्टा पश्चाद्विशुद्धेत्यचिन्त्यमेतत् स्थानम्। यत् आह। प्रकृतिप्रभास्वरं चित्तम्। तत्तथैव ज्ञानम्। तत उच्यते। एकक्षणलक्षणसमायुक्तया प्रज्ञया सम्यक्‍संबोधिरभिसंबुद्धेति।



तत्र विमला बुद्धगुणाः पौर्वापर्येणैकान्तसंक्लिष्टायामपि पृथग्जनभूमावविनिर्भागधर्मतया निर्विशिष्टा विद्यन्त इत्यचिन्त्यमेतत् स्थानम्। यत् आह।



न स कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते यत्र तथागतज्ञानं न सकलमनुप्रविष्टम्। अपि तु संज्ञाग्राहतस्तथागतज्ञानं न प्रज्ञायते। संज्ञाग्राहविगमात् पुनः सर्वज्ञज्ञानं स्वयंभूज्ञानमसङ्गतः प्रभवति। तद्यथापि नाम भो जिनपुत्र त्रिसाहस्रमहासहस्रलोकधातुप्रमाणं महापुस्तं भवेत्। तस्मिन् खलु पुनर्महापुस्ते त्रिसाहस्रमहासाहस्रलोकधातुः सकलसमाप्त आलिखितो भवेत्। महापृथिवीप्रमाणेन महापृथिवी। द्विसाहस्रलोकधातुप्रमाणेन द्विसाहस्रलोकधातुः। साहस्रलोकधातुप्रमाणेन साहस्रलोकधातुः। चातुर्द्वीपिकप्रमाणेन चातुर्द्वीपिकाः। महासमुद्रप्रमाणेन महासमुद्राः। जम्बूद्वीपप्रमाणेन जम्बूद्वीपाः। पूर्वविदेहद्वीपप्रमाणेन पूर्वविदेहद्वीपाः। गोदावरीद्वीपप्रमाणेन गोदावरीद्वीपाः। उत्तरकुरुद्वीपप्रमाणेनोत्तरकुरुद्वीपाः। सूमेरुप्रमाणेन सुमरेवः। भूम्यवचरदेवविमानप्रमाणेन भूम्यवचरदेवविमानानि। कामावचरदेवविमानप्रमाणेन कामावचरदेवविमानानि। रूपावचरदेवविमानप्रमाणेन रूपावचरदेवविमानानि। तच्च महापुस्तं त्रिसाहस्रमहासाहस्रलोकधात्वायामविस्तरप्रमाणं भवेत्। तत्खालु पुनर्महापुस्तमेकस्मिन् परमाणुरजसि प्रक्षिप्तं भवेत्। यथा चैकपरमाणुरजसि तन्महापुस्तं प्रक्षिप्तं भवेत् तथान्येषु सर्वपरमाणुरजःसु तत्प्रमाणान्येव महापुस्तान्यभ्यन्तरप्रविष्टानि भवेयुः। अथ कश्चिदेव पुरुष उत्पद्यते पण्डितो निपुणो व्यक्तो मेधावी तत्रोपगमिकया मीमांसया समन्वागतः दिव्यं चास्य चक्षुः समन्तपरिशुद्धं प्रभास्वरं भवेत्। स दिव्येन चक्षुषा व्यवलोकयति। इदं महापुस्तमेवंभूतमिहैव परीत्ते परमाणुरजस्यनितिष्ठतं। न कस्यचिदपि सत्त्वस्योपकारित्भूतं भवति। तस्यैवं स्यात्। यन्न्वहं महावीर्यबलस्थाम्ना एतत्परमाणुरजो भित्त्वा एतन्महापुस्तं सर्वजगदुपजीव्यं कुर्याम्। स महावीर्यबलस्थाम संजनयित्वा सूक्ष्मेण वज्रेण तत्परमाणुरजो भित्त्वा यथाभिप्रायं तन्महापुस्तं सर्वजगदुपजीव्यं कुर्यात्। यथा चैकस्मात् तथाशेषेभ्यः परमाणुभ्यस्तथैव कुर्यात्। एवमेव भो जिनपुत्र तथागतज्ञानमप्रमाणज्ञानं सर्वसत्त्वोपजीव्यज्ञानं सर्वसत्त्वचित्तसंतानेषु सकलमनुप्रविष्टम्। सर्वाणि च तानि सत्त्वचित्तसंतानान्यपि तथागतज्ञानप्रमाणानि। अथ च पुनः संज्ञाग्राहविनिवद्धा बाला न जानन्ति न प्रजानन्ति नानुभवन्ति न साक्षात्कुर्वन्ति तथागतज्ञानम्। ततस्तथागतोऽसङ्गेण तथागतज्ञानेन सर्वधर्मधातुसत्त्वभवनानि व्यवलोक्याचार्यसंज्ञी भवति। अहो बत इमे सत्त्वा यथावत् तथागतज्ञानं न प्रजानन्ति। तथागतज्ञानानुप्रविष्टाश्च। यन्न्वहमेषा सत्त्वानामार्येण मार्गोपदेशेन सर्वसंज्ञाकृतबन्धनापनयनं कुर्या यथा स्वयमेवार्यमार्गबलाधानेन महतीं संज्ञाग्रन्थिं विनिवर्त्य तथागतज्ञानं प्रत्यभिजानीरन्। तथागतसमतां चानुप्राप्नुयः। ते तथागतमार्गोपदेशेन सर्वसंज्ञाकृतबन्धनानि व्यपनयन्ति। अपनीतेषु च सर्वसंज्ञाकृतबन्धनेषु तत् तथागतज्ञानम प्रमाणं भवति सर्वजगदुपजीव्यमिति।



तत्र जिनक्रिया युगपत्सर्वत्र सर्वकालमनाभोगेनाविकल्पतो यथाशयेषु यथावैनयिकेषु सत्त्वेष्वक्षूणमनुगुणं प्रवर्तत इत्यचिन्त्यमेतत् स्थानम्। यत आह। संक्षेपमात्रकेणावतारणार्थं सत्त्वानामप्रमाणमपि तथागतकर्म प्रमाणतो निर्दिष्टम्। अपि तु कुलपुत्र यत्तथागतस्य भूतं तथागतकर्म तदप्रमाणमचिन्त्यमविज्ञेयं सर्वलोकेन। अनुदाहरणमक्षरैः। दुःसंपादं परेभ्यः। अधिष्ठितं सर्वबुद्धक्षेत्रेषु। समतानुगतं सर्वबुद्धैः। समतिक्रान्तं सर्वाभोगक्रियाभ्यः। निर्विकल्पमाकाशसमतया। निर्नीताकारणं धर्मधातुक्रियया। इति विस्तरेण यावद्विशुद्धवैडूर्यमणिदुष्टान्तं कृत्वा निर्दिशति। तदनेन कुलपुत्र पर्यायेणैवं वेदितव्यमचिन्त्यं तथागतकर्म समतानुगतं च सर्वतोऽनवद्यं च त्रिरत्नवंशनुपच्छेत्तृ च। यत्राचिन्त्ये तथागतकर्मणि प्रतिष्ठितस्तथागत आकाशस्वभावतां च कायस्य न विजहाति सर्वबुद्धक्षेत्रेषु च दर्शनं ददाति। अनभिलाप्यधर्मतां च वाचो न विजहाति यथारुतविज्ञप्त्या च सत्त्वेभ्यो धर्मं देशयति। सर्वचित्तारम्बणविगतश्च सर्वसत्त्वचित्तचरिताशयांश्च प्रजानातिति।



बोध्यं बोधिस्तदङ्गानि बोधनेति यथाक्रमम्।

हेतुरेकं पदं त्रीणि प्रत्ययस्तद्विशुद्धये॥२६॥



एषां खल्वपि चतुर्णामर्थपदानां सर्वज्ञेयसंग्रहमुपादाय प्रथमं बोद्धव्यपदं द्रष्टव्यम्। तदनुबोधो बोधिरिति द्वितीयं बोधिपदम्। बोधेरङ्गभूता बुद्धगुणा इति त्रितीयं बोध्यङ्गपदम्। बोध्यङ्गैरेव बोधनं परेषामिति चतुर्थ बोधनापदम्। इतीमानि चत्वारि पदान्यधिकृत्य हेतुप्रत्ययभावेन रत्नत्रयगोत्रव्यवस्थानं वेदितव्यम्।



तत्रैषां चतुर्णां पदानां प्रथमं लोकोत्तरधर्मविजत्वात् प्रत्यात्मयोनिशोमनसिकारसंनिश्रयेण तद्विशुद्धिमुपादाय त्रिरत्नोत्पत्तिहेतुरनुगन्तव्यः। इत्येवमेकं पदं हेतुः। कथं त्रीणि प्रत्ययः। तथागतोऽनुत्तरां सम्यक्‍संबोधिमभिसंबुध्य दशबलादिभिर्बुद्धधर्मेर्द्वात्रिशदाकारं तथागतकर्म कुर्वन् परतो घोषसंनिश्रयेण तद्विशुद्धिमुपादाय त्रिरत्नोत्पत्तिप्रत्ययोऽनुगन्तव्यः। इत्येवं त्रीणि प्रत्ययः। अतः परमेषामेव चतुर्णा पदानामनुपूर्वमवशिष्टेन ग्रन्थेन विस्तरविभागनिर्देशो वेदितव्यः।



तत्र समलां तथतामधिकृत्य यदुक्तं सर्वसत्त्वास्तथागतगर्भा इति तत् केनार्थेन।



बुद्धज्ञानान्तर्गमात् सत्त्वराशे-

स्तन्नैर्मल्यस्याद्वयत्वात् प्रकृत्या।

बौद्धे गोत्रे तत्फलस्योपचारा-

दुक्ताः सर्वे देहिनो बुद्धगर्भाः॥२७॥



संबुद्धकायस्फरणात् तथताव्यतिभेदतः।

गोत्रतश्च सदा सर्वे बुद्धगर्भाः शरीरिणः॥२८॥



समासतस्त्रिविधेनार्थेन सदा सर्वसत्त्वास्तथागतगर्भा इत्युक्तं भगवता। यदुत सर्वसत्त्वेषु तथागतधर्मकायपरिस्फरणार्थेन तथागततथताव्यतिभेदार्थेन तथागतगोत्रसंभवार्थेन च। एषां पुनस्त्रयाणामर्थपदानामुतरत्र तथागतगर्भसूत्रानुसारेण निर्देशो भविष्यति। पूर्वतरं तु येनार्थेन सर्वत्राविशेषेण प्रवचने सर्वाकारं तदर्थसूचनं भवति तदप्याधिकृत्य निर्देक्ष्यामि। उद्दानम्।



स्वभावहेत्वो फलकर्मयोग-

वृत्तिष्ववस्थास्वथ सर्वगत्वे।

सदाविकारित्वगुणेष्वभेदे

ज्ञेयोऽर्थसंधिः परमार्थधातो॥२९॥



समासतो दशविधमर्थमभिसंधाय परमतत्त्वज्ञानाविषयस्य तथागतधातोर्व्यवस्थानमनुगन्तव्यम्। दशविधोऽर्थः कतमः। तद्यथा स्वभावार्थो हेत्वर्थः फलार्थः कर्मार्थो योगार्थो वृत्यर्थोऽवस्थाप्रभेदार्थः सर्वत्रगार्थोऽविकारार्थोऽभेदार्थश्च। तत्र स्वभावर्थं हेत्वर्थ चारभ्य श्लोकः।



सदा प्रकृत्यसंक्लिष्टः शुद्धरत्नाम्वराम्बुवत्।

धर्माधिमुक्त्यधिप्रज्ञासमाधिकरुणान्वयः॥३०॥



तत्र पूर्वेणं श्लोकार्थेन किं दर्शयति।



प्रभावानन्यथाभावस्निग्धभावस्वभावतः।

चिन्तामणिनभोवारिगुणसाधर्म्यमेषु हि॥३१॥



य एते त्रयोऽत्र पूर्वमुद्दिष्टा एषु त्रिषु यथासंख्यमेव स्वलक्षणं सामान्यलक्षणं चारभ्य तथागतधातोश्चिन्तामणिनभोवारिविशुद्धिगुणसाधर्म्यं वेदितव्यम्। तत्र तथागतधर्मकाये तावच्चिन्तितार्थसमुद्धयादि प्रभावस्वभावतां स्वलक्षणमारभ्य चिन्तामणिरत्नसाधर्म्यं वेदितव्यम्। तथतायामनन्यथाभावस्वभावतां स्वलक्षणमारभ्याकाशसाधर्म्यं वेदितव्यम्। तथागतगोत्रे सत्त्वकरुणास्निग्धस्वभावतां स्वलक्षणमारभ्य वारिसाधर्म्य वेदितव्यम्। सर्वेषां चात्र सदात्यन्तप्रकृत्यनुपक्लिष्टतां प्रकृतिपरिशुद्धिं सामान्यलक्षणामारभ्य तदेव चिन्तामणिनभोवारिविशुद्धिगुणसाधर्म्यं वेदितव्यम्।



तत्र परेण श्लोकार्धेन किं दर्शितम्।

चतुर्धावरणं धर्मप्रतिभोऽप्यात्मदर्शनम्।

संसारदुःखभीरूत्वं सत्त्वार्थं निरपेक्षता॥३२॥



इच्छन्तिकानां तीर्थ्यानां श्रावकाणां स्वयंभुवाम्।

अधिमुक्त्यातयो धर्माश्चत्वारः शुद्धिहेतवः॥३३॥



समासत इमे त्रिविधाः सत्त्वाः सत्त्वराशौ संविद्यन्ते। भवाभिलाषिणो विभवाभिलाषिणस्तदुभयानभिलाषिणश्च। तत्र भवाभिलाषिणो द्विविधा वेदितव्याः। मोक्षमार्गप्रतिहताश अपरिनिर्वाणगोत्रकाः सत्त्वा ये संसारमेवेच्छन्ति न निर्वाणं तन्नियतिपतिताश्चेहधार्मिका एव। तदेकत्या महायानधर्मविद्विषो यानधिकृत्यतदुक्तं भगवता। नाहं तेषां शास्ता न ते मम श्रावकाः। तानहं शारिपुत्र तमसस्तमोऽन्तरमन्धकारान् महान्धकारगामिनस्तमोभूयिष्ठा इति वदामि।



तत्र विभवाभिलाषिणो द्विविधाः। अनुपायपतिता उपायपतिताश्च। तत्रानुपायपतिताः अपि त्रिविधाः। इतोबाह्या बहुनानाप्रकाराश्चकपरिब्राजकनिग्रन्थिपुत्रप्रभृतयोऽन्यतीर्थ्याः। इहधार्मिकाश्च तत्सभागचरिता एव श्राद्धा अपि दुर्गृहीतग्राहिणः। ते च पुनः कतमे। यदुत पुद्‍गलदृष्टयश्च परमार्थानधिमुक्ता यान् प्रति भगवता शून्यतानधिमुक्तो निर्विशिष्टो भवति तीर्थिकैरित्युक्तम्। शून्यतादृष्टयश्चाभिमानिका येषामिह तद्विमोक्षमुखेऽपि शून्यतायां माद्यमानानां शून्यतैव दृष्टिर्भवति यानधिकृत्याह। वरं खलु काश्यप सुमेरुमात्रा पुद्‍गलदृष्टिर्न त्वेवाभिमानिकस्य शून्यतादृष्टिरिति। तत्रोपायपतिता अपि द्विविधाः। श्रावकयानीयाश्च सम्यक्त्वनियाममवक्रान्ताः प्रत्येकबुद्धयानीयाश्च।



तदुभयानाभिलाषिणः पुनर्महायानसंप्रस्थिताः परमतीक्ष्णेन्द्रियाः सत्त्वा ये नापि संसारमिच्छन्ति यथेच्छन्तिका नानुपायपतितास्तीर्थिकादिवन् नाप्युपायपतिताः श्रावकप्रत्येकबुद्धवत्। अपि तु संसारनिर्वाणसमतापत्ति मार्गप्रतिपन्नास्ते भवन्त्यप्रतिष्ठितनिर्वाणाशया निरुपक्लिष्टसंसारगतप्रयोगा दृढकरुणाध्याशयप्रतिष्ठितमूलपरिशुद्धा इति।



तत्र ये सत्त्वा भवाभिलाषिण इच्छन्तिकास्तन्नियतिपतिता इहधार्मिका एवोच्यन्ते मिथ्यात्वनियतः सत्त्वराशिरिति। ये विभवाभिलाषिणोऽप्यनुपायपतिता उच्यन्तेऽनियतः सत्त्वराशिरिति। ये विभवाभिलाषिण उपायपतितास्तदुभयानभिलाषिणश्च समताप्तिमार्गप्रतिपन्नास्त उच्यत्ते सम्यक्त्वनियतः सत्त्वराशिरिति। तत्र महायानसंप्रस्थितान् सत्त्वाननावरणगामिनः स्थापयित्वा य इतोऽन्ये सत्त्वास्तद्यथा। इच्छन्तिकास्तीर्थ्याः श्रावकाः प्रत्येकबुद्धाश्च। तेषामिमानि चत्वार्यावरणानि तथागतधातोरनधिगमायासाक्षात्क्रियायैसंवर्तन्ते। कतमानि च चत्वारि। तद्यथा महायानधर्मप्रतिघ इच्छन्तिकानामावरण यस्य प्रतिपक्षो महायानधर्माधिमुक्तिभावना बोधिसत्त्वानाम्। धर्मेष्वात्मदर्शनमन्यतीर्थानामावरणं यस्य प्रतिपक्षः प्रज्ञापारमिताभावना बोधिसत्त्वानाम्। संसारे दुःखसंज्ञा दुःखभीरुत्व श्रावकयानिकानामवरणं यस्य प्रतिपक्षो गगनगञ्जादिसमाधिभावना बोधिसत्त्वानाम्। सत्त्वार्थविमुखता सत्त्वार्थनिरपेक्षता प्रत्येकबुद्धयानिकानामावरणं यस्य प्रतिपक्षो महाकरुणाभावना बोधिसत्त्वानामिति।



एतच्चतुर्विधमावरणमेषां चतुर्विधानां सत्त्वानां यस्य प्रतिपक्षानिमांश्चतुरोऽधिमुक्त्यादीन् भावयित्वा बोधिसत्त्वा निरुत्तरार्थधर्मकायविशुद्धिपरमतामधिगच्छन्त्येभिश्च विशुद्धिसमुदागमकारणैश्चतुर्भिरनुगता धर्मराजपुत्रा भवन्ति तथागतकुले। कथमिति।



बीजं येषामग्रयानाधिमुक्ति-

र्माता प्रज्ञा बुद्धधर्मप्रसूत्यै।

गर्भस्थानं ध्यानसौख्यं कृपोक्ता

धात्री पुत्रास्तेऽनुजाता मुनीनाम्॥३४॥



तत्र फलार्थ कर्मार्थ चारभ्य श्लोकः।

शुभात्मसुखनित्यत्वगुणपारमिता फलम्।

दुःखनिर्विच्छमप्राप्तिच्छन्दप्रनिधिकर्मकः॥३५॥



तत्र पूर्वेण श्लोकार्धेन किं दर्शितम्।

फलमेषां समासेन धर्मकाये विपर्ययात्।

चतुर्विधविपर्यासप्रतिपक्षप्रभावितम्॥३६॥



य एतेऽधिमुक्त्यादयश्चत्वारो धर्मास्तथागतधातोर्विशुद्धिहेतव एषां यथासंख्यमेव समासतश्चतुर्विधविपर्यासविपर्ययप्रतिपक्षेण चतुराकारा तथागतधर्मकायगुणपारमिता फलं द्रष्टव्यम्। तत्र या रूपादिके वस्तुन्यनित्ये नित्यमिति संज्ञा। दुःखे सुखमिति। अनात्मन्यात्मेति। अशुभे शुभमिति संज्ञा। अयमुच्यते चतुर्विधो विपर्यासः। एतद्विपर्ययेण चतुर्विध एवाविपर्यासो वेदितव्यः। कतमश्चतुर्विधः। या तस्मिन्नेव रूपादिके वस्तुन्यनित्यसंज्ञा। दुःखसंज्ञा। अनात्मसंज्ञा। अशुभसंज्ञा। अयमुच्यते चतुर्विधविपर्यासविपर्ययः। स खल्वेष नित्यादिलक्षणं तथागतधर्मकायमधिकृत्येह विपर्यासोऽभिप्रेतो यस्य प्रतिपक्षेण चतुराकारा तथागतधर्मकायगुणपारमिता व्यवस्थापिता। तद्यथा नित्यपारमिता सुखपारमितात्मपारमिता सुभपारमितेति। एष च ग्रन्थो विस्तरेण यथासूत्रमनुगन्तव्यः। विपर्यस्ता भगवन् सत्त्वा उपात्तेषु पञ्चसूपादानस्कन्धेषु। ते भवन्त्यनित्ये नित्यसंज्ञिनः। दुःखे सुखसंज्ञिनः। अनात्मन्यात्मसंज्ञिनः। अशुभे सुभसंज्ञिनः। सर्वश्रावकप्रत्येकबुद्धा अपि भगवन् शून्यताज्ञानेनादृष्टपूर्वे सर्वज्ञज्ञानविषये तथागतधर्मकाये विपर्यस्ताः। ये भगवन् सत्त्वाः स्युर्भगवतः पुत्रा औरसा नित्यसंज्ञिन आत्मसंज्ञिनः सुखसंज्ञिनः शुभसंज्ञिनस्ते भगवन् सत्त्वाः स्युरविपर्यस्ताः। स्युस्ते भगवन् सम्यग्दर्शिनः। तत् कस्माद्धेतोः। तथागतधर्मकाय एव भगवन् नित्यपारमिता सुखपारमिता आत्मपारमिता शुभपारमिता। ये भगवन् सत्त्वास्तथागतधर्मकायमेवं पश्यन्ति ते सम्यक् पश्यन्ति। ये सम्यक पश्यन्ति ते भगवतः पुत्रा औरसा इति विस्तरः।



आसां पुनश्चतसृणां तथागतधर्मकायगुणपारमितायां हेत्वानुपूर्व्या प्रतिलोमक्रमो वेदितव्यः। तत्र महायानधर्मप्रतिहतानामिच्छन्तिकानामशुचिसंसाराभिरतिविपर्ययेण बोधिसत्त्वानां महायानधर्माधिमुक्तिभावनायाः शुभपारमिताधिगमः फलं द्रष्टव्यम्। पञ्चसूपादानस्कन्धेष्वात्मदर्शिनामन्यतीर्थ्यानामसदात्मग्रहाभिरतिविपर्ययेण प्रज्ञापारमिताभावनायाः परमात्मपारमिताधिगमः फलं द्रष्टव्यम्। सर्वे ह्यन्यतीर्थ्या रूपादिकमतत्स्वभावं वस्त्वात्मेत्युपगताः। तच्चैषां वस्तु यथाग्रहमात्मलक्षणेन विसंवादित्वात् सर्वकालमनात्मा। तथागतः पुनर्यथाभूतज्ञानेन सर्वधर्मनैरात्म्यपरपा रमभिप्राप्तः। तच्चास्य नैरात्म्यमनात्मलक्षणेन यथादर्शनमविसंवादित्वात् सर्वकालमात्माभिप्रेतो नैरात्म्यंमेवात्मनि कृत्वा। यथोक्तं स्थितोऽस्थानयोगेनेति। संसारदुःखभीरूणां श्रावकयानिकानां संसारदुःखोपशममात्राभिरतिविपर्ययेण गगनगञ्जादिसमाधिभवनायाः सर्वलौकिकलोकोत्तरसुखपारमिताधिगमः फलं द्रष्टव्यम्। सत्त्वार्थनिरपेक्षाणां प्रत्येकबुद्धयानीयानायमसंसर्गविहाराभिरतिविषपर्ययेण महाकरुणाभावनायाः सततसमितमा संसारात् सत्त्वार्थफलिगोधपरिशुद्धत्वान् नित्यपारमिताधिगमः फलं द्रष्टव्यम्। इत्येतासां चतसृणामधिमुक्तिप्रज्ञासमाधिकरुणाभावनानां यथासंख्यमेव चतुराकारं तथागतधर्मकाये शुभात्मसुखनित्यत्वगुणापारमिताख्यं फलं निर्वर्त्यते बोधिसत्त्वानाम्। आभिश्च तथागतो धर्मधातुपरम आकाशधातुपर्यवसानोऽपरान्तकोटीनिष्ठ इत्युच्यते। महायानपरमधर्माधिमुक्तिभावनाया हि तथागतोऽत्यन्तशुभधर्मधातुपरमताधिगमाद्धर्मधातुपरमः संवृत्तः। प्रज्ञापारमिताभावनयाकाशोपमसत्त्वभाजनलोकनैरात्म्यनिष्ठागमनाद् गगनगञ्जादिसमाधिभावनया च सर्वत्र परमधर्मेश्वर्यविभुत्वसंदर्शनादाकाशधातुपर्यवसानः। महाकरुणाभावनया सर्वसत्त्वेष्वपर्यन्तकालकारुणिकतामुपादायापरान्तकोटिनिष्ठ इति।



आसां पुनश्चतसृणां तथागतधर्मकायगुणपारमितानामधिगमायानास्रवधातुस्थितानामप्यर्हतां प्रत्येकबुद्धानां वशिताप्राप्तानां च बोधिसत्त्वानामिमे चत्वारः परिपन्था भवन्ति। तद्यथा प्रत्ययलक्षणं हेतुलक्षणं संभवलक्षणं विभवलक्षणमिति। तत्र प्रत्ययलक्षणमविद्यावासभूमिरविद्येव संस्काराणाम्। हेतुलक्षणमविद्यावासभूमिप्रत्ययमेव संस्कारवदनास्रवं कर्म। संभवलक्षणमविद्यावासभूमिप्रत्ययानास्रवकर्महेतुकी च त्रिविधा मनोमयात्मभावनिर्वृत्तिश्चतुरुपादानप्रत्यया सास्रवकर्महेतुकीव त्रिभवाभिनिर्वृत्तिः। विभवलक्षणं त्रिविधमनोमयात्मभावनिर्वृत्तिप्रत्यया जातिप्रत्ययमिव जरामरणमचिन्त्या पारिणामिकी च्युतिरिति।



तत्र सर्वोपक्लेशसंनिश्रयभूताया अविद्यावासभूमेरप्रहीणात्वादर्हन्तः प्रत्येकबुद्धा वशिताप्राप्ताश्च बोधिसत्त्वाः सर्वक्लेशमलदौर्गन्ध्यवासनापकर्षपर्यन्तशुभपारमितां नाधिगच्छन्ति। तामेव चावि द्यावासभूमिं प्रतीत्य सूक्ष्मनिमित्तप्रपञ्चसमुदाचारयोगादत्यन्तमनभिसंस्कारमात्मपारमितां नाधिगच्छन्ति। तां चाविद्यावासभूमिमविद्यावासभूमिप्रत्ययं च सूक्ष्मनिमित्तप्रपञ्चसमुदाचारसमुत्थापितमनास्रवं कर्म प्रतीत्य मनोमयस्कन्धसमुदयात् तन्निरोधमत्यन्तसुखपारमितां नाधिगच्छन्ति। यावच्च निरयशेषक्लेशकर्मजन्मसंक्लेशनिरोधसमुद्‍भूतं तथागतधातुं न साक्षात्कुर्वन्ति तावदचिन्त्यपारिणामिक्याश्च्यु तेरविगमादत्यन्तानन्यथाभावां नित्यपारमितां नाधिगच्छन्ति। तत्र क्लेशसंक्लेशवदविद्यावासभूमिः। कर्मसंक्लेशवदनास्रवकर्माभिसंस्कारः। जन्मसंक्लेशवत् त्रिविधा मनोमयात्मभावनिर्वृत्तिरचिन्त्यपारिणामिकी च च्युतिरिति।



एष च ग्रन्थो विस्तरेण यथासूत्रमनुगन्तव्यः। स्याद्यथापि नाम भगवन्नुपादानप्रत्ययाः सास्रवकर्महेतुकास्त्रयो भवाः संभवन्ति। एवमेव भगवन्नविद्यावासभूमिप्रत्यया अनास्रवकर्महेतुका अर्हतां प्रत्येकबुद्धानां वशिताप्राप्तानां च बोधिसत्त्वानां मनोमयास्त्रयः कायाः संभवन्ति। आसु भगवन् तिसृषु भूमिप्वेषां त्रयाणां मनोमयानां कायानां संभवायानास्रवस्य च कर्मणोऽभिनिर्वृत्तये प्रत्ययोभवत्यविद्यावासभूमिरिति विस्तरः। यत एतेषु त्रिषु मनोमयेष्वर्हत्प्रत्येकबुद्धबोधिसत्त्वकायेषु सुभात्मसुखनित्यत्वगुणपारमिता न संविद्यन्ते तस्मात् तथागतधर्मकाय एव नित्यपारमिता सुखपारमितात्मपारमिता शुभपारमितेत्युकतम्।



स हि प्रकृतिशुद्धत्वाद्वासनापगमाच्छुचिः

परमात्मात्मनैरात्म्यप्रपञ्चक्षयशान्तितः॥३७॥



सुखो मनोमयस्कन्धतद्धेतुविनिवृत्तितः।

नित्यः संसारनिर्वाणसमताप्रतिवेधतः॥३८॥



समसतो द्वाभ्यां कारणाभ्यां तथागतधर्मकाये शुभपारमिता वेदितव्या। प्रकृतिपरिशुद्‍ध्या सामान्यलक्षणेन। वैमल्यपरिशुद्‍ध्या विशेषलक्षणेन। द्वाभ्यां कारणाभ्यामात्मपारमिता वेदितव्या। तीर्थिकान्तविवर्जनतया चात्मप्रपञ्चविगमाच्छ्रावकान्तविवर्जनतया च नैरात्म्यप्रपञ्चविगमात्। द्वाभ्यां कारणाभ्यां सुखपारमितां वेदितव्या। सर्वाकारदुःखसमुदयप्रहाणतश्च वासनानुसंधिसमुद्‍घातात् सर्वाकारदुःखनिरोधसाक्षात्करणतश्च मनोमयस्कन्धनिरोधसाक्षात्कारणात्। द्वाभ्यां कारणाभ्यां नित्यपारमिता वेदितव्या। अनित्यसंसारानपकर्षणात श्चोच्छेदान्ता पतनान् नित्यनिर्वाणसमारोपणतश्च शाश्वतान्तापतनात्। यथोक्तम्। अनीत्याः संस्कारा इति चेद् भगवन् पश्येत सास्य स्यादुच्छेददृष्टिः। सास्य स्यान्न सम्यग्दृष्टिः। नित्यं निर्वाणमिति चेद् भगवन् पश्येत सास्य स्याच्छाश्वतदृष्टिः। सास्य स्यान्न सम्यग्दृष्टिरिति।



तदनेन धर्मधातुनयमुखेन परमार्थतः संसार एव निर्वाणमित्युक्तम्। उभयथाविकल्पनाप्रतिष्ठितनिर्वाणसाक्षात्करणतः। अपि खलु द्वाभ्यां कारणाभ्यामविशेषेण सर्वसत्त्वानामासन्नदूरीभावविगमादप्रतिष्ठितपदप्राप्तिमात्रपरिदीपना भवति। कतमाभ्यां द्वाभ्याम्। इह बोधिसत्त्वोऽविशेषेण सर्वसत्त्वानां नासन्नीभवति प्रज्ञयाशेषतृष्णानुशयप्रहाणात्। न दूरीभवति महाकरुणया तदपरित्यागादिति। अयमुपायोऽप्रतिष्ठितस्वभावायाः सम्यक्‍संबोधेरनुप्राप्तये। प्रज्ञया हि बोधिसत्त्वोऽशेषतृष्णानुशयप्रहाणादात्महिताय निर्वाणगताध्याशयः संसारे न प्रतिष्ठतेऽपरिनिर्वाणगोत्रवत्। महाकरुणया दुःखितसत्त्वापरित्यागात् परिहीताय संसारगतप्रयोगो निर्वाणे न प्रतिष्ठते शमैकयानगोत्रवत्। एवमिदं धर्मद्वयमनुत्तराया बोधेर्मूलं प्रतिष्ठानमिति।



छित्त्वा स्नेहं प्रज्ञयात्मन्यशेषं

सत्त्वस्नेहान् नैति शान्तिं कृपावान्।

निःश्रित्यैवं धीकृपे बोध्युपायौ

नोपैत्यार्यः संवृतिं निर्वृतिं वा॥३९॥



तत्र पुर्वाधिकृतं कर्मार्थमारभ्य परेण श्लोकार्धेन किं दर्शितम्।

बुद्धधातुः सचेन्न स्यान्निर्विद्‍दुःखेऽपि नो भवेत्।

नेच्छा न प्रार्थना नापि प्राणिधिर्निवृतौ भवेत्॥४०॥



तथा चोक्तम्। तथागतगर्भश्चेद्‍भगवन्न स्यान्न स्याद्‍दुःखेऽपि निर्विन्न निर्वाण इच्छा वा प्रार्थना वा प्रणिधिर्वेति। तत्र समासतो बुद्धधातुविशुद्धिगोत्रं मिथ्यात्वनियतानामपि सत्त्वानां द्विविधकार्यप्रत्युपस्थापनं भवति। संसारे च दुःखदोषदर्शननिःश्रयेण निर्विदमुत्पादयति। निर्वाणे सुखनुशंसदर्शननिःश्रयेण च्छन्दं जनयति। इच्छां प्रार्थनां प्रणिधिमिति। इच्छाभिलषितार्थप्राप्तावसंकोचः। प्रार्थनाभिलषितार्थप्राप्त्युपायपरिमार्गणा। प्रणिधिर्याभिलषितार्थे चेतना चित्ताभिसंस्कारः।



भवनिर्वाणतद्‍दुःखसुखदोषगुणेक्षणम्।

गोत्रे सति भवत्येतदगोत्राणां न विद्यते॥४१॥



यदपि तत् संसारे च दुःखदोषदर्शनं भवति निर्वाणे च सुखानुशंसदर्शनमेतदपि शुक्लांशस्य पुद्‍गलस्य गोत्रे सति भवति नाहेतुकं नाप्रत्ययमिति। यदि हि तद्‍गोत्रमन्तरेण स्यादहेतुकमप्रत्ययं पापसमुच्छेदयोगेन तदिच्छान्तिकानामप्यपरिनिर्वाणगोत्राणां स्यात्। न च भवति तावद्यावदागन्तुकमलविशुद्धिगोत्रं त्रयाणामन्यतमधर्माधिमुक्तिं न स मुदानयति सत्पुरुषसंसर्गादिचतुःशुक्लसमवधानयोगेन।



यत्र ह्याह। तत्र पश्चादन्तशो मिथ्यात्वनियतसंतानानामपि सत्त्वानां कायेषु तथागतसूर्यमण्डलरश्मयो निपतन्ति अनागतहेतुसंजननतया संवर्धयन्ति च कुशलैर्धर्मेरिति। यत्पुनरिदमुक्तमिच्छन्तिकोऽत्यन्तमपरिनिर्वाणधर्मेति तन् महायानधर्मप्रतिघ इच्छन्तिकत्वे हेतुरिति महायानधर्मप्रतिघनिवर्तनार्थमुक्तं कालान्तराभिप्रायेण। न खलु कश्चित्प्रकृतिविशुद्धगोत्रसंभवादत्यन्ताविशुद्धिधर्मा भवितुमर्हसि। यस्मादविशेषेण पुनर्भगवता सर्वसत्त्वेषु विशुद्धिभव्यतां संधायोक्तम्।



अनादिभूतोऽपि हि चावसानिकः

स्वभावशुद्धो ध्रुवधर्मसंहितः।

अनादिकोशैर्बहिर्वृतो न दृश्यते

सुवर्णबिम्बं परिच्छादितं यथा॥



तत्र योगार्थमारभ्य श्लोकः।

महोदधिरिवामेयगुणरत्नाक्षयाकरः।

प्रदीपवदनिर्भागगुणयुक्तस्वभावतः॥४२॥



तत्र पूर्वेण श्लोकार्थेन कि दर्शितम्।

धर्मकायजिनज्ञानकरुणाधातुसंग्रहात्।

पात्ररत्नाम्बुभिः साम्यमुधेरस्य दर्शितम्॥४३॥



त्रयाणां स्थानानां यथासंख्यमेव त्रिविधेन महासमुद्रसाधर्म्येण तथागतधातोर्हेतुसमन्वागममधिकृत्य योगार्थो वेदितव्यः। कतमानि त्रीणि स्थानानि। तद्यथा धर्मकायविशुद्धिहेतुः। बुद्धज्ञानसमुदागमहेतुः। तथागतमहाकरुणावृत्तिहेतुरिति। तत्र धर्मकायविशुद्धिहेतुर्महायानाधिमुक्तिभावना द्रष्टव्या। बुद्धज्ञानसमुदागमहेतुः प्रज्ञासमाधिमुखभवना। तथागतमहाकरुणाप्रवृत्तिहेतुर्बोधिसत्त्वकरुणाभावनेति। तत्र महायानाधिमुक्तिभावनाया भाजनसाधर्म्यं तस्यामपरिमेयाक्षयप्रज्ञासमाधिरत्नकरुणावारिसमवसरणात्। प्रज्ञासमाधिमुखभावनाया रत्नासाधर्म्यं तस्य निर्विकल्पत्वादचिन्त्यप्रभावगुणयोगाच्च। बोधिसत्त्वकरुणाभावनाया वारिसाधर्म्यं तस्याः सर्वजगति परमस्निग्धभावैकरसलक्षणप्रयोगादिति। एषां त्रयाणां धर्माणामनेन त्रिविधेन हेतुना तत्संबद्धःसमन्वागमो योग इत्युच्यते।



तत्रापरेण श्लोकार्धेन किं दर्शयति।

अभिज्ञाज्ञानवैमल्यतथताव्यतिरेकतः।

दीपालोकोष्णवर्णस्य साधर्म्यं विमलाश्रये॥४४॥



त्रयाणां स्थानानां यथासंख्यमेव त्रिविधेन दीपसाधर्म्येण तथागतधातोः फलसमन्वागममधिकृत्य योगार्थो वेदितव्यः। कतमनि त्रीणि स्थानानि। तद्यथा। अभिज्ञा आस्रवक्षयज्ञानमास्रवक्षयश्चेति। तत्र पञ्चानामभिज्ञानां ज्वालासाधर्म्यं तासामर्थानुभवज्ञानविपक्षान्धकारविधमनप्रत्युपस्थानलक्षणत्वात्। आस्रवक्षयज्ञानस्योष्णसाधर्म्य तस्य निरवशेषकर्मक्लेशेन्धनदहनप्रत्युपस्थानलक्षणत्वात्। आश्रयपरिवृत्तेरास्रवक्षयस्य वर्णसाधर्म्य तस्यात्यन्तविमलविशुद्धप्रभास्वरलक्षणत्वात्। तत्र विमलः क्लेशावरणप्रहाणात्। विशुद्धो ज्ञेयावरणप्रहाणात्। प्रभास्वरस्तदुभयागन्तुकताप्रकृतितः। इत्येषां समासतः सप्तानामभिज्ञाज्ञानप्रहाणसंगृहीतानामशैक्षसान्तानिकानां धर्माणामनास्रवधातावन्योन्यमविनिर्भगत्वमपृथग्भावो धर्मधातुसमन्वागमो योग इत्युच्यते। एष च योगार्थमारभ्य प्रदीपदृष्टान्तो विस्तरेण यथासूत्रमनुगन्तव्यः। तद्यथा शारिपुत्र प्रदीपः। अविनिर्भगधर्मा। अविनिर्मुक्तगुणः। यदुत आलोकोष्णवर्णताभिः। मणिर्वालोकवर्णसंस्थानैः। एवमेव शारिपुत्र तथगतनिर्दिष्टो धर्मकायोऽविनिर्भागधर्माविनिर्मुक्तज्ञानगुणो यदुत गङ्गानदीवालिकाव्यतिवृत्तैस्तथागतधर्मैरिति।



तत्र वृत्त्यर्थमारभ्य श्लोकः।

पृथग्जनार्यसंबुद्धतथताव्यतिरेकतः।

सत्त्वेषु जिगर्भोऽयं देशितस्तत्त्वदर्शिभिः॥४५॥



अनेन किं दर्शितम्।

पृथग्जना विपर्यस्ता दृष्टसत्या विपर्ययात्।

यथावदविपर्यस्ता निष्प्रपञ्चास्तथागताः॥४६॥



यदिदं तथागतधातोः सर्वधर्मतथताविशुद्धिसामान्यलक्षणमुपदिष्टं प्रज्ञापारमितादिषु निर्विकल्पज्ञानमुखाववादमारभ्य बोधिसत्त्वानामस्मिन् समासतस्त्रयाणां पुद्‍गलानां पृथग्जनस्यातत्त्वदर्शिन आर्यस्य तत्त्वदर्शिनो विशुद्धिनिष्ठागतस्य तथागतस्य त्रिधा भिन्ना प्रवृत्तिर्वेदितव्या। यदुत विपर्यस्ताविपर्यस्ता सम्यगविपर्यस्ता निष्प्रपञ्चा च यथाक्रमम्। तत्र विपर्यस्ता संज्ञाचित्तदृष्टिविपर्यासाद् वालानाम्। अविपर्यस्ता विपर्ययेण तत्प्रहाणादार्याणाम्। सम्यगविपर्यस्ता निष्प्रपञ्चा च सवासनक्लेशज्ञेयावरणसमुद्‍घातात् सम्यक्‍सम्बुद्धानाम्।



अतः परमेतमेव वृत्त्यर्थमारभ्य तदन्ये चत्वारोऽर्थाः प्रभेदनिर्देशादेव वेदितव्याः। तत्रैषां त्रयाणां पुद्‍गलानामवस्थाप्रभेदार्थमारभ्य श्लोकः।



अशुद्धोऽशुद्धशुद्धोऽथ सुविशुद्धो यथाक्रमम्।

सत्त्वधातुरिति प्रोक्तो बोधिसत्त्वस्तथागतः॥४७॥



अनेन किं दर्शितम्।

स्वभावादिभिरित्येभिः षड्‍भिरर्थेः समासतः।

धातुस्तिसृष्ववस्थासु विदितो नामभिस्त्रिभिः॥४८॥



इति ये केचिदनास्रवधातुनिर्देशा नानाधर्मपर्यायमुखेषु भगवता विस्तरेण निर्दिष्टाः सर्वेत एभिरेव समासतः षड्‍भिः स्वभावहेतुफलकर्मयोगवृत्त्यर्थः संगृहीतास्तिसृष्ववस्थासु यथाक्रमं त्रिनामनिर्देशतो निर्दिष्टा वेदितव्याः। यदुताशुद्धावस्थायां सत्त्वधातुरिति। अशुद्धशुद्धावस्थायां बोधिसत्त्व इति। सुविशुद्धावस्थायां तथागत इति। यथोक्तं भगवता। अयमेव शारिपुत्र धर्मकायोऽपर्यन्तक्लेशकोशकोटिगूढः। संसारस्त्रोतसा उह्ममानोऽनवराग्रसंसारगतिच्युत्युपपत्तिषु संचरन् सत्त्वधातुरित्युच्यते। स एव शारिपुत्र धर्मकायः संसारस्त्रोतोदुःखनिर्विष्णो विरक्तः सर्वकामविषयेभ्यो दशपारमितान्तर्गतैश्चतुरशीत्या धर्मस्कन्धसहस्रैर्बोधाय चर्या चरन् बोधिसत्त्व इत्युच्यते। स एव पुनः शारिपुत्र धर्मकायः सर्वक्लेशकोशपरिमुक्तः सर्वदुःखतिक्रान्तः सर्वोपक्लेशमलापगतः शुद्धो विशुद्धः परमपरिशुद्धधर्मतायां स्थितः सर्वसत्त्वालोकनीयां भूमिमारूढः सर्वस्यां ज्ञेयभूमावद्वितीयं पौरुषं स्थाम प्राप्तोऽनावरणधर्माप्रतिहतसर्वधर्मैश्वर्यबलतामधिगतस्तथागतोऽर्हन् सम्यक्‍संबुद्ध इत्युच्यते।



तास्तेव तिसृष्ववस्थासु तथागतधातोः सर्वत्रगार्थमारभ्य श्लोकः।



सर्वत्रानुगतं यद्वन्निर्विकल्पात्मकं नभः।

चित्तप्रकृतिवैमल्यधातुः सर्वत्रगस्तथा॥४९॥



अनेन किं दर्शितम्।

तद्दोषगुणनिष्ठासु व्यापि सामान्यलक्षणम्।

हीनमध्यविशिष्टेषु व्योम रूपगतेष्विव॥५०॥



यासौ पृथग्जनार्यसंबुद्धानामविकल्पचित्तप्रकृतिः सा तिसृष्ववस्थासु यथाक्रमं दोषेष्वपि गुणेष्वपि गुणविशुद्धिनिष्ठायामपि सामान्यलक्षणत्वादाकाशमिव मृद्रजतसुवर्णभाजनेष्वनुगतानुप्रविष्टा समा निर्विशिष्टा प्राप्ता सर्वकालम्। अत एवावस्थानिर्देशानन्तरमाह। तस्माच्छारिपुत्र नान्यः सत्त्वधातुर्नान्यो धर्मकायः। सत्त्वधातुरेव धर्मकायः। धर्मकाय एव सत्त्वधातुः। अद्वयमेतदर्थेन। व्यञ्जनमात्रभेद इति



एतास्तेव तिसृष्ववस्थासु तथागतधातोः सर्वत्रगस्यापि तत्संक्लेशव्यवदानाभ्यामविकारार्थमारभ्य चतुर्दश श्लोकाः। अयं च तेषां पिण्डार्थो वेदितव्यः।



दोषागन्तुकतायोगाद् गुणप्रकृतियोगतः।

यथा पूर्वं तथा पश्चादविकारित्वधर्मता॥५१॥



द्वादशभिरेकेन च श्लोकेन यथाक्रममशुद्धावस्थायामशुद्धशुद्धावस्थायां च क्लेशोपक्लेशदोषयोरागन्तुकयोगांच्चतुर्दशमेन श्लोकेन सुविशुद्धावस्थायां गङ्गानदीवालुकाव्यतिवृत्तैरविनिर्भागैरमुक्तशिरचिन्त्यैर्बुद्धगुणैः प्रकृतियोगादाकाशधातोरिव पौर्वापर्येण तथागतधातोरत्यन्ताविकारधर्मता परिदीपिता। तत्राशुद्धावस्थायामविकारार्थमारभ्य कतमे द्वादश श्लोकाः



यथा-सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते।

सर्वत्रावस्थितः सत्त्वे तथायं नोपलिप्यते॥५२॥



यथा सर्वत्र लोकानामाकाश उबयव्ययः।

तथैवासंस्कृते धाताविन्द्रियाणां व्ययोदयः॥५३॥



यथा नाग्निभिराकाशं दग्धपूर्वं कदाचन।

तथा न प्रदहत्येनं मृत्युव्याधिजराग्नयः॥५४॥



पृथिव्यम्बौ जलं वायौ वायुर्व्योम्नि प्रतिष्ठितः।

अप्रतिष्ठितमाकाशं वाय्वम्बुक्षितिधातुषु॥५५॥



स्कन्धधात्विन्द्रियं तद्वत्कर्मक्लेशप्रतिष्ठितम्।

कर्मक्लेशाः सदायोनिमनस्कारप्रतिष्ठिताः॥५६॥



अयोनिशोमनस्कारश्चित्तशुद्धिप्रतिष्ठितः।

सर्वधर्मेषु चित्तस्य प्रकृतिस्त्वप्रतिष्ठिता॥५७॥



पृथिवीधातुवज्ज्ञेयाः स्कन्धायतनधातवः।

अब्धातुसदृशा ज्ञेयाः कर्मक्लेशाः शरीरिणाम्॥५८॥



अयोनिशोमनस्कारो विज्ञेयो वायुधातुवत्।

तदमूलाप्रतिष्ठाना प्रकृतिर्व्योमधातुवत्॥५९॥



चित्तप्रकृतिमालीनायोनिशो मनसः कृतिः।

अयोनिशोमनस्कारप्रभवे क्लेशकर्मणी॥६०॥



कर्मक्लेशाम्बुसंभूताः स्कन्धायतनधातवः।

उत्पद्यन्ते निरुध्यन्ते तत्संवर्तविवर्तवत्॥६१॥



न हेतुः प्रत्ययो नापि न सामग्री न चोदयः।

न व्ययो न स्थितिश्चित्तप्रकृतेर्व्योमधातुवत्॥६२॥



चित्तस्य यासौ प्रकृतिः प्रभास्वरा

न जातु सा द्यौरिव याति विक्रियाम्।

आगन्तुकै रागमलादिभिस्त्वसा-

वुपैति संक्लेशमभूतकल्पजैः॥६३॥



कथमनेनाकाशदृष्टान्तेन तथागतधातोरशुद्धावस्थायामविकारधर्मता परिदीपिता। तदुच्यते।



नाभिनिर्वर्तयत्येनं कर्मक्लेशाम्बुसंचयः

न निर्दहत्युदीर्णोऽपि मृत्युव्याधिजरानलः॥६४॥



यद्वदयोनिशोमनस्कारवातमण्डलसंभूत कर्मक्लेशोदकराशिं प्रतीत्य स्कन्धधात्वायतनलोकनिर्वृत्त्या चित्तप्रकृतिव्योमधातोर्विवर्तो न भवति। तद्वदयोनिशोमनस्कारकर्मक्लेशवाय्वप्स्कन्धप्रतिष्ठितस्य स्कन्धधात्वायतनलोकस्यास्तंगमाय मृत्युव्याधिजराग्निस्कन्धसमुदयादपि तदसंवर्तो वेदितव्यः। इत्येवमशुद्धावस्थायां भाजनलोकवदशेषक्लेशकर्मजन्मसंक्लेशसमुदयास्तगमंऽप्याकाशवदसंस्कृतस्य तथागतधातोरनुत्पादानिरोधादत्यन्तमविकारधर्मता परिदीपिता। एष च प्रकृतिविशुद्धिमुखं धर्मालोकमुखमारभ्याकाशदृष्टान्तो विस्तरेण यथासूत्रमनुगन्तव्यः। कविर्मार्षा क्लेशाः। आलोको विशुद्धिः। दुर्बलाः क्लेशाः। बलवती विपश्यना। आगन्तुकाः क्लेशाः। मूलविशुद्धा प्रकृतिः। परिकल्पाः क्लेशाः। अपरिकल्पा प्रकृतिः। तद्यथा मार्षा इयं महापृथिव्यप्सु प्रतिष्ठिता। आपो वायौ प्रतिष्ठिताः। वायुराकाशे प्रतिष्ठितः। अप्रतिष्ठितं चाकाशम। एवमेषां चतुर्णा धातूनां पृथिवीधातोरब्धातोर्वायुधातोराकाशधातुरेव बली यो दृढोऽचलोऽनुपचयो ऽनपचयोऽनुत्पन्नोऽनिरुद्धः स्थितः स्वरसयोगेन। तत्र य एते त्रयो धातवस्त उत्पादभङ्गयुक्ता अनवस्थिता अचिरस्थायिनः। दृश्यत एषां विकारो न पुनराकाशधातोः कश्चिद्विकारः। एवमेव स्कन्धधात्वायतनानि कर्मक्लेशप्रतिष्ठितानि। कर्मक्लेशा अयोनिशोमनस्कारप्रतिष्ठिताः। अयोनिशोमनस्कारः प्रकृतिपरिशुद्धिप्रतिष्ठितः। तत उच्यते प्रकृतिप्रभास्वरं चित्तमागन्तुकैरुपक्लेशैरुपक्लिश्यत इति। तत्र पश्चाद्योऽयोनिशोमनस्कारो ये च कर्मक्लेशा यानि च स्कन्धधात्वायतनानि सर्व एते धर्मा हेतुप्रत्ययसंगृहीता उत्पद्यन्ते हेतुप्रत्ययविसामग्रया निरुध्यन्ते। या पुनः सा प्रकृतिस्तस्या न हेतुर्न प्रत्ययो न सामग्री नोत्पादो न निरोधः। तत्र यथाकाशधातुस्तथा प्रकृतिः। यथा वायुधातुस्तथायोनिशोमनसिकारः। यथाब्धातुस्तथा कर्मक्लेशाः। यथा पृथिवीधातुस्तथा स्कन्धधात्वायतनानि। तत उच्यन्ते सर्वधर्मा असारमूला अप्रतिष्ठानमूलाः शुद्धमूला अमूलमूला इति।



उक्तमशुद्धावस्थायामविकारलक्षणमारभ्य प्रकृतेराकाशधातुसाधर्म्य तदाश्रितस्यायोनिशोमनसिकारस्य कर्मक्लेशानां च हेतुलक्षणमारभ्य वायुधातुसाधर्म्यमब्धातुसाधर्म्य च तत्प्रभवस्य स्कन्धधात्वायतनस्य विपाकलक्षणमारभ्य पृथिवीधातुसाधर्म्यम्। तद्विभवकारणस्य तु मृत्युव्याधिजराग्नेरुपसर्गलक्षणमारभ्य तेजोधातुसाधर्म्य नोक्तमिति तदुच्यते।



त्रयोऽग्नयो युगान्तेऽग्निर्नारकः प्राकृतः क्रमात्।

त्रयस्त्र उपमा तेया मृत्युव्याधिजराग्नयः॥६५॥



त्रिभिः कारणैर्यथाक्रमं मृत्युव्याधिजराणामग्निसाधर्म्य वेदितव्यम्। षडायतननिर्ममीकरणतो विचित्रकारणानुभवनतः संस्कारपरिपाकोपनयनतः। एभिरपि मृत्युव्याधिजराग्निभिरविकारत्वमारभ्य तथागतधातोरशुद्धावस्थायामिदमुक्तम्। लोकव्यवहार एप भगवन् मृत इति वा जात इति वा। मृत इति भगवन्निन्द्रियोपरोध एषः। जात इति भगवन् नवानामिन्द्रियाणां प्रादुर्भाव एष। न क्षुनर्भगवंस्तथागतगर्भो जायते वा जीर्यति वा म्रियते वा च्यवते वोत्पद्यते वा ! तत्कस्माद्धेतो। संस्कृतलक्षणविषयव्यतिवृत्तो भगवंस्तथागतगर्भो नित्यो ध्रुवः शिवः शाश्वत इति।



तत्राशुद्धशुद्धावस्थायामविकारार्थमारभ्य श्लोकः।



निर्वृत्तिव्युपरमरुग्जराविमुक्ता

अस्यैव प्रकृतिमनन्यथावगम्य।

जन्मादिव्यसनमृतेऽपि तन्निदानं

धीमन्तो जगति कृपोदयाद्‍भजन्ते॥६६॥



अनेन किं दर्शयति।



मृत्युव्याधिजरादुःखमूलमार्यैरपोद्धृतम्।

कर्मक्लेशवशाज्जातिस्तदभावान्न तेषु तत्॥६७॥



अस्य खलु मृत्युव्याधिजरादुःखवह्रेरशुद्धावस्थायामयोनिशोमनसिकारकर्मक्लेशपूर्विका जातिरिन्धनमिवोपादानं भवति। यस्य मनोमयात्मभावप्रतिलब्धेषु बोधिसत्त्वेषु शुद्धाशुद्धावस्थायामत्यन्तमनाभासगमनादितरस्यात्यन्तमनुज्ज्वलनं प्रज्ञायते।



जन्ममृत्युजराव्याधीन् दर्शयन्ति कृपात्मकाः।

जात्यादिवि निवृत्ताश्च यथाभूतस्य दर्शनात्॥६८॥



कुशलमूलसंयोजनाद्धि बोधिसत्त्वोः संचिन्त्योपपत्तिवशितासंनिःश्रयेण करुणया त्रैधातुके संश्लिष्यन्ते। जातिमप्युपदर्शयन्ति जरामपि व्याधिमपि मरणमप्युपदर्शयन्ति। न च तेषामिमे जात्यादयो धर्माः संविद्यन्ते। यथापि तदस्यैव धातोर्यथाभूतमजात्यनुत्पत्तिदर्शनात्। सा पुनरियं बोधिसत्त्ववस्था विस्तरेण यथासूत्रमनुगन्तव्या। यदाह। कतमे च ते संसारप्रवर्तकाः कुशलमूलसंप्रयुक्ताः क्लेशाः। यदुत पुण्यसंभारपर्येष्ट्यतृप्तता। संचिन्त्यभवोपपत्तिपरिग्रहः। बुद्धसमवधानप्रार्थना। सत्त्वपरिपाकापरिखेदः। सद्धर्मपरिग्रहोद्योगः। सत्त्वकिंकरणीयोत्सुकता। धर्मरागानुशयानुत्सर्गः। पारमितासंयोजनानामपरित्यागः। इत्येते सागरमते कुशलमूलसंप्रयुक्ताः क्लेशा यैर्बोधिसत्त्वाः संश्लिष्यन्ते। न खलु क्लेशदोषैर्लिप्यन्ते। आह पुनः। यदा भगवन् कुशलमूलानि तत्केन कारणेन क्लेशा इत्युच्यन्ते। आह। तथा हि सागरमते एभिरेवंरूपैः क्लेशैर्बोधिसत्त्वास्त्रैधातुके श्लिष्यन्ते। क्लेशसंभूतं च त्रैधातुकम्। तत्र बोधिसत्त्वा उपायकौशलेन च कुशलमूलवलान्वाधानेन च संचिन्त्य त्रैधातुके श्लिष्यन्ते। तेनोच्यन्ते कुशलमूलसंप्रयुक्ताः क्लेशा इति। यावदेव त्रैधातुके श्लेषतया न पुनश्चित्तोपक्लेशतया।



स्याद्यथापि नाम सागरमते श्रेष्ठिनो गृहपतेरेक पुत्रक इष्टः कान्तः प्रियो मनापोऽप्रकृतिकूलो दर्शनेन स च दारको बालभावेन नृत्यन्नेव मीढकूपे प्रपतेत। अथ ते तस्य दारकस्य मातृज्ञातयः पश्येयुस्तं दारकं मीढकूपे प्रपतितम्। दृष्ट्वा च गम्भीरं निश्वसेयुः शोचेयुः परिदेवेरन्। न पुनस्तं मीढकूपमवरुह्य तं दारकमध्यालम्बेरन्। अथ तस्य दारकस्य पिता तं प्रदेशमागच्छेत्। स पश्येतैकपुत्रकं मीढकूपे प्रपतितं दृष्ट्वा च शीघ्रशीघ्रं त्वरमाणरूप एकपुत्रकाध्याशयप्रेमानुनोतोऽजुगुप्समानस्तं मीढकूपमवरुह्यैकपुत्रकमभ्युत्क्षिपेत्। इति हि सागरमते उपमैषा कृता यावदेवार्थस्य विज्ञप्तये। कः प्रबन्धो द्रष्टव्यः। मीढकूप इति सागरमते त्रैधातुकस्यैतदधिवचनम्। एकपुत्रक इति सत्त्वानामेतदधिवचनम्। सर्वसत्त्वेषु हि बोधिसत्त्वस्यैकपुत्रसंज्ञा प्रत्युपस्थिता भवति। मातृज्ञातय इति श्रावकप्रत्येकबुद्धयानीयानां पुद्‍गलानामेतदधिवचनं ये संसारप्रपतितान् सत्त्वान् दृष्ट्वा शोचन्ति परिदेवन्ते न पुनः शमर्था भवन्त्यभ्युत्क्षेप्तुम्। श्रेष्ठी गृहपतिरिति बोधिसत्त्वस्यैतदधिवचनं यः शुचिर्विमलो निर्मलचित्तोऽसंस्कृतधर्मप्रत्यक्षगतः संचिन्त्य त्रैधातुके प्रतिसंदधाति सत्त्वपरिपाकार्थम्। सेयं सागरमते बोधिसत्त्वस्य महाकरुणा यदत्यन्तपरिमुक्तः सर्वबन्धनेभ्यः पुनरेव भवोपपत्तिमुपाददाति। उपायकौशल्यप्रज्ञापरिगृहीतश्च संक्लेशैर्न लिप्यते। सर्व क्लेशबन्धप्रहाणाय च सत्त्वेभ्यो धर्म देशयतीति। तदनेन सूत्रपदनिर्देशेन परहीतक्रियार्थ वशिनो बोधिसत्त्वस्य संचिन्त्यभवोपपत्तौ कुशलमूलकरुणावलाभ्यामुपश्लेषादुपायप्रज्ञाबलाभ्यां च तदसंक्लेशादशुद्धशुद्धावस्था परिदीपिता।



तत्र यदा बोधिसत्त्वो यथाभूताजात्यनुत्पत्तिदर्शनमागम्य तथागतधतोरिमां बोधिसत्त्वधर्मतामनुप्राप्नोति तथा विस्तरेण यथासूत्रमनुगन्तव्यम्। यदाह। पश्य सागरमते धर्माणामसारतामकारकतां निरात्मतां निःसत्त्वतां निर्जीवतां निःपुद्‍गलतामस्वामिकताम्। यत्र हि नाम यथेष्यन्ते तथा विठप्यन्ते विठपिताश्च समाना न चेतयन्ति न प्रकल्पयन्ति। इमां सागरमते धर्मविठपनामधिमुच्य बोधिसत्त्वो न कस्मिंश्चिद्धर्मे परिखेदमुत्पादयति। तस्यैव ज्ञानदर्शनं शुचि शुद्धं भवति। नात्र कश्चिदुपकारो वापकारो वा क्रियत इति। एवं च धर्माणां धर्मतां यथाभूतं प्रजानाति। एवं च महाकरुणासंनाहं न त्यजति। स्याद्यथापि नाम सागरमतऽनर्घ विडूर्यमणिरत्नं स्ववदापितं सुपरिशुद्धं सुविमलं कर्दमपरिक्षिप्तं वर्षसहस्रमवतिष्ठेत। तद्वर्षसहस्रात्ययेन ततः कर्दमादभ्युत्क्षिप्य लोड्‍येत पयवदायेत। तत्सुधौतं परिशोधितं पर्यवदापितं समानं तमेव शुद्धविमलमणिरत्नस्वभावं न जह्यात्। एवमेव सागरमते बोधिसत्त्वः सत्त्वानां प्रकृतिप्रभास्वरतां चित्तस्य प्रजानाति। तां पुनरागन्तुको पक्लेशोपक्लिष्टां पश्यति। तत्र बोधिसत्त्वस्यैवं भवति। नैते क्लेशाः सत्त्वानां चित्तप्रकृतिप्रभास्वरतायां प्रविष्टाः। आगन्तुका एते क्लेशा अभूतपरिकल्पसमुत्थिताः। शक्नुयामहं पुनरेषां सत्त्वानामागन्तुक्लेशापनयनाय धर्म देशयितुमिति। एवमस्य नावलीयनाचित्तमुत्पद्यते। तस्य भूयस्या मात्रया सर्वसत्त्वानामन्तिके प्रमोक्षचित्तोत्पाद उत्पद्यते। एवं चास्य भवति। नैतेषां क्लेशानां किंचिद्वलं स्थाम वा। अबला दुर्बला एते क्लेशाः। नैतेषां किंचिद्‍भूतप्रतिष्ठानम्। अभूतपरिकल्पित एते क्लेशाः। ते यथाभूतयोनिशोमनसिकारनिरीक्षिता न कुप्यन्ति। तेऽस्माभिस्तथा प्रत्यवेक्षितव्या यथा न भूयः श्लिष्येयुः। अश्लेषो हि क्लेशानां साधुर्न पुनः श्लेषः। यद्यहं क्लेशानां श्लिप्येय तत्कथं क्लेशबन्धनबद्धानां सत्त्वानां क्लेशबन्धनप्रहाणय धर्म देशयेयम्। हन्त वयं क्लेशानां च न श्लिष्यामहे क्लेशबन्धनप्रहाणाय च सत्त्वेभ्यो धर्म शयिष्यामः। ये पुनस्ते संसारप्रबन्धकाः कुशलनसंप्रयुक्ताः क्लेशास्तेष्वस्माभिः सत्त्वपरिपाकाय श्लेष्टव्यमिति।



संसारः पुनरिह त्रैधातुकप्रतिबिम्बकमनास्रवधातौ मनोमयं कायत्रयमभिप्रेतम्। तद्‍ध्यनास्रवकुशलमूलाभिसंस्कृतत्वात् संसारः। सास्रवकर्मक्लेशानभिसंस्कृतत्वान्निर्वाणमपि तत्। यदधिकृत्याह। तस्माद्‍भगवन्नस्ति संस्कृतोऽप्यसंस्कृतोऽपि संसारः। अस्ति संस्कृतमप्यसंस्कृतमपि निर्वाणमिति। तत्र संस्कृता संस्कृतसंसृष्टचित्तचैतसिकसमुदाचारयोगादियमशुद्धशुद्धावस्थेत्युच्यते। सा पुनरास्रवक्षयाभिज्ञाभिमुख्यसङ्गप्रज्ञापारमितभावनया महाकरुणाभावनया च सर्वसत्त्वधातुपरित्राणाय तदसाक्षात्करणादाभिमुख्यां बोधिसत्त्वभूमौ प्राधान्येन व्यवस्थाप्यते।



यथोक्तमात्रवक्षयज्ञानमारभ्य नगरोदाहरणम्। एवमेव कुलपुत्र बोधिसत्त्वो मनता यत्नेन महत वीर्येण दृढयाध्याशयप्रतिपत्त्या पञ्चाभिज्ञा उत्पादयति। तस्य ध्यानाभिज्ञपरिकर्मकृतचित्तस्यास्रवक्षयोऽभिमुखीभवति। स महाकरुणाचित्तोत्पादेन सर्वसत्त्वपरित्राणायास्रवक्षयज्ञाने परिजयं कृत्वा पुनरपि सुपरिकर्मकृतचेताः षष्ठ्यामसङ्गप्रज्ञोत्पादादास्रवक्षयेऽभिमुखीभवति। एवमस्यामाभिमुख्यां बोधिसत्त्वभूमावास्रवक्षयसाक्षात्करणवशित्वलाभिनो बोधिसत्त्वस्य विशुद्धावस्था। परिदीपिता। तस्यैवमात्मना सम्यक्‍प्रतिपन्नस्य परानपि चास्यामेव सम्यक्‍प्रतिपत्तौ स्थापयिष्यामीति महाकरुणया विप्रतिपन्नसत्त्वपरित्राणाभिप्रायस्य शमसुखानास्वादनतया तदुपायकृतपरिजयस्य संसाराभिमुखसत्त्वापेक्षया निर्वाणविमुखस्य बोध्यङ्गपरिपूरणाय ध्यानैर्विहृत्य पुनः कामधातौ संचिन्त्योपपत्तिपरिग्रहणतो यावदाशु सत्त्वानामर्थं कर्तुकामस्य विचित्रतिर्यग्योनिगतजातकप्रभेदेन पृथग्जनात्मभावसंदर्शनविभुत्वलाभिनोऽविशुद्धावस्था परिदीपिता।



अपरः श्लोकार्थः

धर्मतां प्रतिविच्येमामविकारां जिनात्मजः।

दृश्यते यदविद्यान्धैर्जात्यादिषु तदद्‍भूतम्॥६९॥



अत एव जगद्वन्धोरुपायकरुणे परे।

यदार्यगोचरप्राप्तो दृश्यते बालगोचरे॥७०॥



सर्वलोकव्यतीतोऽसौ न च लोकाद्विनिःसृतः।

लोके चरति लोकार्थमलिप्तो लौकिकैर्मलैः॥७१॥



यथैव नाम्भसा पद्मं लिप्यते जातमम्भसि।

तथा लोकेऽपि जातोऽसौ लोकधर्मैर्न लिप्यते॥७२॥



नित्योज्ज्वलितबुद्धिश्च कृत्यसंपादनेऽग्निवत्।

शान्तध्यानसमापत्तिप्रतिपन्नश्च सर्वदा॥७३॥



पूर्वावेधवशात् सर्वविकल्पापगमाच्च सः।

न पुनः कुरुते यत्नं परिपाकाय देहिनाम्॥७४॥



यो यथा येन वैनेयो मन्यतेऽसौ तथैव तत्।

देशन्या रूपकायाभ्यां चर्ययेर्यापथेन वा॥७५॥



अनाभोगेन तस्यैवमव्याहतधियः सदा।

जगत्याकाशपर्यन्ते सत्त्वार्थः संप्रवर्तते॥७६॥



एतां गतिमनुप्राप्तो बोधिसत्त्वस्तथागतैः।

समतामेति लोकेषु सत्त्वसंतारणं प्रति॥७७॥



अथ चाणोः पृथिव्याश्च गोस्पदस्योदधेश्च यत्।

अन्तरं बोधिसत्त्वानां बुद्धस्य च तदन्तरम्॥७८॥



एषां दशानां श्लोकानां यथाक्रमं नवभिः श्लोकैः प्रमुदिताया बोधिसत्त्वभूमेरधश्च संक्लेशपरमतां दशमेन श्लोकेन धर्ममेघाया बोधिसत्त्वभूमेरूर्ध्वं विशुद्धिपरमतामुपनिधाय समासतश्चतुर्णां बोधिसत्त्वानां दशसु बोधिसत्त्वभूमिषु विशुद्धिरविशुद्धिश्च परीदीपिता। चत्वारो बोधिसत्त्वाः प्रथमचित्तोत्पादिकः। चर्याप्रतिपन्नः। अवैवर्तिकः। एकजातिप्रतिबद्ध इति। तत्र प्रथमद्वितीयाभ्यां श्लोकाभ्यामनादिकालिकमदृष्टपूर्वप्रथमलोकोत्तरधर्मताप्रतिवेधात प्रमुदितायां भूमौ प्रथमचित्तोत्पादिकबोधिसत्त्वगणविशुद्धि लक्षणं परिदीपितम्। त्रितीयचतुर्थाभ्यां श्लोकाभ्यामनुपलिप्तचर्याचरणाद्विमलां भूमिमुपादाय यावददूरंगमायां भूमौ चर्याप्रतिपन्नबोधिसत्त्वगुणविशुद्धिलक्षणं परिदीपितम्। पञ्चमेन श्लोकेन निरन्तरमहबोधिसमुदागमप्रयोगसमाधिषु व्यवस्थितत्वादचलायां भूमाववैवर्तिकबोधिसत्त्वगुणविशुद्धिलक्षणं परिदीपितम्। षष्ठेन सप्तमेनाष्टमेन च श्लोकेन सकलस्वपरार्थसंपादनोपायनिष्ठागतस्य बुद्धभूम्येकचरमजन्मप्रतिबद्धत्वादनुत्तरपरमाभिसंबोधिप्राप्तेर्धर्ममेघायां बोधिसत्त्वभूमावेकजातिप्रतिबद्धबोधिसत्त्वगुणविशुद्धिलक्षणं परिदीपितम्। नवमेन दशमेन च श्लोकेन परार्थमात्मार्थ चारभ्य निष्ठागतबोधिसत्त्वतथागतयोर्गुणविशुद्धेरविशेषो विशेषश्च परिदीपितः।



तत्र सुविशुद्धा वस्थायामविकारार्थमारभ्य श्लोकः।

अनन्यथात्माक्षयधर्मयोगतो

जगच्छरण्योऽनपरान्तकोटितः।

सदाद्वयोऽसावविकल्पकत्वतो

ऽविनाशधर्माप्यकृतस्वभावतः॥७९॥



अनेन किं दर्शयति।

न जायते न म्रियते बोध्यते नो न जीर्यते।

स नित्यत्वाद्‍ध्रुवत्वाच्च शिवत्वाच्छाश्वतत्वतः॥८०॥



न जायते स नित्यत्वादात्मभावैर्मनोमयैः।

अचिन्त्यपरिणामेन ध्रुवत्वान् म्रियते न सः॥८१॥



वासनाव्याधिभिः सूक्ष्मैर्बाध्यते न शिवत्वतः।

अनास्रवाभिसंस्कारैः शाश्वतत्वान्न जीर्यते॥८२॥



सख ल्वेष तथागतथातुर्बुद्धभूमावत्यन्तविमलविशुद्धप्रभास्वरतायां स्वप्रकृतौ स्थितः पूर्वान्तमुपादाय नित्यत्वान्न पुनर्जायते मनोमयैरात्मभावैः। अपरान्तमुपादाय ध्रुवत्वान्न पुनर्म्रियतेऽचिन्त्यपारिणामिक्या च्युत्या। पूर्वापरान्तमुपादाय शिवत्वान्न पुनर्वाध्यतेऽविद्यावासभूमिपरिग्रहेण। यश्चैवमनर्थापतितः स शाश्वतत्वान्न पुनर्जीर्यत्यनास्रवकर्मफलपरिणामेन।



तत्र द्वाभ्यामथ द्वाभ्यां द्वाभ्यां द्वाभ्यां यथाक्रमम्।

पदाभ्यां नित्यताद्यर्थो विज्ञेयोऽसंस्कृते पदे॥८३॥



तदेषामसंस्कृतधातौ चतुर्णा नित्यध्रुवशिवशाश्वपदानां यथाक्रममेकैकस्य पदस्य द्वाभ्यां द्वाभ्यामुद्देशनिर्देशपदाभ्यामर्थप्रविभागो यथासूत्रमनुगन्तव्यः। यदाह। नित्योऽयं शारिपुत्र धर्मकायोऽनन्यत्वधर्माक्षयधर्मतया। ध्रुवोऽयं शारिपुत्रधर्मकायो ध्रुवशरणोऽपरान्तकोटीसमतया। शिवोऽयं शारिपुत्र धर्मकायोऽद्वयधर्माविकल्पधर्मतया। शाश्वतोऽयं शारिपुत्र धर्मकायोऽविनाशधर्माकृत्रिमधर्मतयेति।



अस्यामेव विशुद्धावस्थायामत्यन्तव्यवदा ननिष्ठागमनलक्षणस्य तथागतगर्भस्या संभेदार्थमारभ्य श्लोकः।



स धर्मकायः स तथागतो यत-

स्तदार्यसत्यं परमार्थनिर्वृतिः।

अतो न बुद्धत्वमृतेऽर्करश्मिवद्

गुणाविनिर्भागतयास्ति निर्वृतिः॥८४॥



तत्र पूर्वश्लोकार्धेन कि दर्शयति।

धर्मकायादिपर्याया वेदितव्याः समासतः।

चत्वारोऽनास्रवे धातौ चतुरर्थप्रभेदतः॥८५॥



समासतोऽनास्रवे धातौ तथागतगर्भे चतुरोऽर्थानधिकृत्य चत्वारो नामपर्याया वेदितव्याः। चत्वारोऽर्थाः कतमे।



बुद्धधर्माविनिर्भागस्तद्‍गोत्रस्य तथागमः।

अमृषामोषधर्मित्वमादिप्रकृतिशान्तता॥८६॥



बुद्धधर्माविनिर्भागार्थः। यमधिकृत्योक्तम्। अशून्यो भगवंस्तथागतगर्भो गङ्गानदीवालुकाव्यतिवृत्तैरविनिर्भागैरमुक्तज्ञैरचिन्त्यैर्बुद्धधर्मैरिति। तद्‍गोत्रस्य प्रकृतेरचिन्त्यप्रकारसमुदागमार्थः। यमधिकृत्योक्तम्। षडायतनविशेषः स तादृशः परंपरागतोऽनादिकालिको धर्मताप्रतिलब्ध इति। अमृषामोपार्थः। यमधिकृत्योक्तम्। तत्र परमार्थसत्यं यदिदममोषधर्मि निर्वाणम्। तत्कस्माद्धेतोः। नित्यं तद्‍गोत्रं समधर्मतयेति। अत्यन्तोपशमार्थः। यमधिकृत्योक्तम्। आदिपरिनिर्वृत एव तथागतोऽर्हन् सम्यक्‍संबुद्धोऽनुत्पन्नोऽनिरुद्ध इति। एषु चतुर्ष्वर्थेषु यथासंख्यामिम चत्वारो नामपर्याया भवन्ति। तद्यथा धर्मकायस्तथागत परमार्थसत्यं निर्वाणमिति। यत एवमाह। तथागतगर्भ इति शारिपुत्र धर्मकायस्यैतदधिवचनमिति। नान्यो भगवंस्तथागतोऽन्यो धर्मकायः। धर्मकाय एव भगवंस्तथागत इति। दुःखनिरोधनाम्ना भगवन्नेवंगुणसमन्वागतस्तथागतधर्मकायो देशित इति। निर्वाणधातुरिति भगवंस्तथागतधर्मकायस्यैतदधिवचनमिति।



तत्रापरेण श्लोकार्धेन किं दर्शयति।

सर्वाकाराभिसंबोधिः सवासनमल्लोद्धृतिः।

बुद्धत्वमथ निर्वाणमद्वयं परमार्थतः॥८७॥



यत एते चत्वारोऽनास्रवधातुपर्यायास्तथागतधातावेकस्मिन्नभिन्नेऽर्थे समवसरन्ति। अत एषामेकार्थत्वादद्वयधर्मनयमुखेन यच्च सर्वाकारसर्वधर्माभिसंबोधाद्रुद्धत्वमित्युक्तं यच्च महाभिसंबोधात् सवासनमलप्रहाणान्निर्वाणमित्युक्तमेतदुभयमनास्रवे धातावद्वयमिति द्रष्टव्यमभिन्नमच्छिन्नम्।



सर्वाकारैरसंख्येयैरचिन्त्यैरमलैर्गुणैः।

अभिन्नलक्षणो मोक्षो यो मोक्षः स तथागत इति॥



यदुक्तमर्हत्प्रत्येकबुद्धपरिनिर्वाणमधिकृत्य। निर्वाणमिति भगवन्नुपाय एष तथा गतानामिति। अनेन दीर्घाध्वपरिश्रान्तानामटवीमध्ये नगरनिर्माणवदविवर्तनोपाय एष धर्मपरमेश्वराणां सम्यक्‍संबुद्धानामिति परिदीपितम्। निर्वाणाधिगमाद् भगवंस्तथागता भवन्त्यर्हन्तः सम्यक्‍संबुद्धाः सर्वाप्रमेयाचिन्त्यविशुद्धिनिष्ठागतगुणसमन्वागता इति। अनेन चतुराकारगुणनिष्पत्स्वसंभिन्नलक्षणं निर्वाणमधिगम्य तदात्मकाः सम्यक्‍संबुद्धा भवन्तीति। बुद्धत्वनिर्वाणयोरविनिर्भागगुणयोगादुद्धत्वमन्तरेण कस्यचिन्निर्वाणाधिगमो नास्तीति परिदीपितम्।



तत्र तथागतानामनास्रवे धातौ सर्वाकारवरोपेतशून्यताभिनिर्हारतश्चित्रकरदृष्टान्तेन गुणसर्वता वेदितव्या।



अन्योन्यकुशला यद्वद्‍भवेयुश्चित्रलेखकाः।

यो यदङ्गं प्रजानीयात्तदन्यो नावधारयेत्॥८८॥



अथे तेभ्यः प्रभू राजा प्रयच्छेद्‍दुष्यमाज्ञया।

सर्वैरेवात्र युष्माभिः कार्या प्रतिकृतिर्मम॥८९॥



ततस्तस्य प्रतिश्रुत्य युञ्जेरंश्चित्रकर्मणि।

तत्रैको व्यभियुक्तानामन्यदेशगतो भवेत्॥९०॥



देशान्तरगते तस्मिन् प्रतिमा तद्वियोगतः।

न सा सर्वाङ्गसंपूर्णा भवेदित्युपमा कृता॥९१॥



लेखका ये तदाकारा दानशीलक्षमादयः।

सर्वाकारवरोपेता शून्यता प्रतिमोच्यते॥९२॥



तत्रैषामेव दानादीनामेकैकस्य बुद्धविषयापर्यन्तप्रकारभेदभिन्नत्वादपरिमितत्वं वेदितव्यम्। संख्याप्रभावाभ्यामचिन्त्यत्वम्। मात्सर्यादिविपक्षमलवासनापकर्षितत्वाद्विशुद्धिपरमत्वमिति। तत्र सर्वाकारवरोपेतशून्यतासमाधिमुखभावनयानुत्पत्तिकधर्मलाभादचलायां बोधिसत्त्वभूमावविकल्पानिश्छिद्रनिरन्तरस्वरसवाहिमार्गज्ञानसंनिश्रयेण तथागतानामनास्रवे धातौ गुणसर्वता समुदागच्छति। साधुमत्यां बोधिसत्त्वभूमावसंख्येयसमाधिधारणीमुखसमुद्रैरपरिमाणबुद्धधर्मपरिग्रहज्ञानसनिश्रयेण गुणाप्रमेयता समुदागच्छति। धर्ममेघायां बोधिसत्त्वभूमौ सर्वतथागतगृह्यस्थानाविपरोक्षज्ञानसंनिश्रयेण गुणाचिन्त्यता समुदागच्छति। तदनन्तरं बुद्धभूभ्यधिगमाय सर्वसवासनक्लेशज्ञेयावरणविमोक्षज्ञानसंनिश्रयेण गुणविशुद्धिपरमता समुदागच्छति। यत् एषु चतुर्षु भूमिज्ञानसंनिश्रयेष्वर्हत्प्रत्येकबुद्धा न संदृश्यन्ते तस्मात्ते दूरीभवन्ति चतुराकारगुणपरिनिष्पत्त्यसंभिन्नलक्षणान् निर्वाणधातोरित्युक्तम्।



प्रज्ञाज्ञानविमुक्तीनां दीप्तिस्फरणशुद्धितः।

अभेदतश्च साधर्म्यं प्रभारश्म्यर्कमण्डलैः॥९३॥



यया प्रज्ञया येन ज्ञानेन यया विमुक्त्या स चतुराकारगुणनिष्पत्त्यसंभिन्नलक्षणो निर्वाणधातुः सूच्यते तासां यथाक्रमं त्रिभिरेकेन च कारणेन चतुर्विधमादित्यसाधर्म्य परिदीपितम्। तत्र बुद्धसान्तानिक्या लोकोत्तरनिर्विकल्पायाः परमज्ञेयतत्त्वान्धकारविधमनप्रत्युपस्थानतया प्रज्ञाया दीप्तिसाधर्म्यम्। तत्पृष्ठलब्धस्य सर्वज्ञज्ञानस्य सर्वाकारनिरवशेषज्ञेयवस्तुप्रवृत्ततया रश्मिजालस्फरणसाधर्म्यम्। तदुभयाश्रयस्य चित्तप्रकृतिविमुक्तेरत्यन्तविमलप्रभास्वरतयार्कमण्डलविशुद्धिसाधर्म्यम्। तिसृणामपि धर्मधात्वसंभेदेस्वभावतया तत्त्रयाविनिर्भागसाधर्म्यमिति।



अतोऽनागम्य बुद्धत्वं निर्वाणं नाधिगम्यते॥

न हि शक्यः प्रभारश्मी निर्वृज्य प्रेक्षितुं रविः॥९४॥



यत एवमनादि सांनिध्यस्वभावशुभधर्मोपहिते धातौ तथागतानामविनिर्भागगुणधर्मत्वमतो न तथागतत्वमसङ्गाप्रतिहतप्रज्ञाज्ञानदर्शनमनागम्य सर्वावरणविमुक्तिलक्षणस्य निर्वाणधातोरधिगमः साक्षात्‍करणमुपपद्यते प्रभारश्म्यदर्शिन इव सूर्यमण्डलदर्शनम्। अत एवमाह। न हि भगवन् हीनप्रणीतधर्माणां निर्वाणाधिगमः। समधर्माणां भगवन् निर्वाणाधिगमः। समज्ञानानां समविमुक्तीनां समविमुक्तिज्ञानदर्शनानां भगवन् निर्वाणाधिगमः। तस्माद्‍भगवन् निर्वाणधातुरेकरसः समरस इत्युच्यते। यदुत विद्याविमुक्तिरसेनेति।



जिनगर्भव्यस्थानमित्येवं दशंधोदितम्।

तत्क्लेशकोशगर्भत्वं पुनर्ज्ञेयं निदर्शनैः॥९५॥



इत्येतदपरान्तकोटिसमध्रुवधर्मतासंविद्यमानतामधिकृत्य दशविधेनार्थेन तथागत गर्भव्यवस्थानमुक्तम्। पुनरनादिसांनिध्यासंबद्ध स्वभावक्लेशकोशतामनादिसांनिध्यसंबद्ध स्वभावशुभधर्मतां चाधिकृत्य नवभिरुदाहरणैरपर्यन्तक्लेशकोशकोटीगूढस्तथागतगर्भ इति यथासूत्रमनुगन्तव्यम्। नवोदाहरणानि कतमानि।



बुद्धः कुपद्मे मधु मक्षिकासु

तुषेसु साराण्य शुचौ सुवर्णम्।

निधिः क्षितावल्पफलेऽङ्कुरादि

प्रक्लिन्नवस्त्रेषु जिनात्मभावः॥९६॥



जघन्यनारीजठरे नृपत्वं

यथा भवेन्मृत्सु च रत्नबिम्बम्।

आगन्तुकक्लेशमलावृतेषु

सत्त्वेषु तद्वत् स्थित एष धातुः॥९७॥



पद्मप्राणितुषाशु चिक्षितिफलत्वक्पूतिवस्त्रावर-

स्त्रीदुःखज्वलनाभितप्तपृथिवीधातुप्रकाशा मलाः।

बुद्धक्षौद्रसुसारकाञ्चननिधिन्यग्रोधरत्नाकृति-

द्विपाग्राधिपरत्नबिम्बविमलप्रख्यः स धातुः परः॥९८॥



कुत्सितपद्मकोशसदृशाः क्लेशाः। बुद्धवत्तथागतधातुरिति।

यथा विवर्णाम्बुजगर्भवेष्टितं

तथागतं दीप्तसहस्रलक्षणम्।

नरः समीक्ष्यामलदिव्यलोचनो

विमोचयेदम्बुजपत्त्रकोशतः॥९९॥



विलोक्य तद्वत् सुगतः स्वधर्मता-

मवीचिसंस्थेष्वपि बुद्धचक्षुषा।

विमोचयत्यावरणादनावृतो

ऽपरान्तकोटीस्थितकः कृपात्मकः॥१००

यद्वत् स्याद्विजुगुप्सितं जलरुहं संमिञ्जि तं दिव्यदृक् तद्‍गर्भस्थितमभ्युदीक्ष्य सुगतं पत्राणि संछेदयेत्।



रागद्वेषमलादिकोशनिवृतं संबुद्धगर्भं जगत्

कारुण्यादवलोक्य तन्निवरणं निर्हन्ति तद्वन्मुनिः॥१०१॥



क्षुद्रप्राणाकसदृशाः क्लेशाः। क्षौद्रवत्तथागतधातुरिति।



यथा मधु प्राणिगणोपगूढं

विलोक्य विद्वान् पुरुषस्तदर्थी।

समन्ततः प्राणिगणस्य तस्मा-

दुपायतोऽपक्रमणं प्रकुर्यात्॥१०२॥



सर्वज्ञचक्षुर्विदितं महर्षि-

र्मधूपमं धातुमिमं विलोक्य।

तदावृतीनां भ्रमरोपमाना-

मश्लेषमात्यन्तिकमादधाति॥१०३॥



यद्वत् प्राणिसहस्रकोटीनियुतैर्मध्वावृतं स्यान्नरो

मध्वर्थी विनिहत्य तान्मधुकरान्मध्वा यथाकामतः।

कुर्यात्कार्यमनास्रवं मधुनिभं ज्ञानं तथा देहिषु

क्लेशाः क्षुद्रनिभा जिनः पुरुषवत् तद्‍घातने कोविदः॥१०४॥



बहिस्तुषसदृशाः क्लेशाः। अन्तःसारवत्तथा गतधातुरिति।



धान्येषु सारं तुषसंप्रयुक्तं

नृणां न य[द्व]त्परिभोगमेति।

भवन्ति येऽन्नादिभिरर्थिनस्तु

ते तत्तुषेभ्यः परिमोचयन्ति॥१०५॥



सत्त्वेष्वपि क्लेशमलोपसृष्ट-

मेवं न तावत्कुरुते जिनत्वम्।

संबुद्धकार्यं त्रिभवे न याव-

द्विमुच्यते क्लेशमलोपसर्गात्॥१०६॥



यद्वत् कङ्गुकशालिकोद्रवयवव्रीहिष्वमुक्तं तुषात्

सारं खाड्यसुसंस्कृतं न भवति स्वादूपभोज्यं नृणाम्॥

तद्वत् क्लेशतुषादनिःसृतवपुः सत्त्वेषु धर्मेश्वरो

धर्मप्रीतिरसप्रदो न भवति क्लेशक्षुधार्ते जने॥१०७॥



अशुचिसंकारधानसदृशाः क्लेशाः। सुवर्णवत्तथागतधातुरिति।

यथा सुवर्णं व्रजतो नरस्य

च्युतं भवेत्संकरपूतिधाने।

बहूनि तद्वर्षशतानि तस्मिन्

तथैव तिष्ठेदविनाशधर्मि॥१०८॥



तद्देवता दिव्यविशुद्धचक्षु-

र्विलोक्य तत्र प्रवदेन्नरस्य।

सुवर्णमस्मिन्नवमग्ररत्नं

विशोध्य रत्नेन कुरुष्व कार्यम्॥१०९॥



दृष्ट्वा मुनिः सत्त्वगुणं तथैव

क्लेशेष्वमेक्ष्यप्रतिमेषु मग्नम्।

तत्क्लेशपङ्कव्यवदानहेतो-

र्धर्माम्बुवर्षं व्यसृजत् प्रजासु॥११०॥



यद्वत् संकरपूतिधानपतितं चामीकरं देवता

दृष्ट्वा दृश्यतमं नृणामुपदिशेत् संशोधनार्थं मलात्।

तद्वत् क्लेशमहाशुचिप्रपतितं संबुद्धरत्नं जिनः

सत्त्वेषु व्यवलोक्य धर्ममदिश[त्त]च्छुद्धये देहिनाम्॥१११॥



पृथिवीतलसदृशाः क्लेशाः। रत्ननिधान वत्तथागतधातुरिति।

यथा दरिद्रस्य नरस्य वेश्म-

न्यन्तः पृथिव्यां निधिरक्षयः स्यात्।

विद्यान्न चैनं स नरो न चास्मि-

न्नेषोऽहमस्मीति वदेन्निधिस्तम्॥११२॥



तद्वन्मनोऽन्तर्गतमप्य चिन्त्य-

मक्षय्यधर्मामलरत्नकोशम्।

अबुध्यमानानुभवत्यजस्रं

दारिद्रयदुःखं बहुधा प्रजेयम्॥११३॥



यद्वद्रत्ननिधिर्दरिद्रभवनाभ्यन्तर्गतः स्यान्नरं

न ब्रूयादहमस्मि रत्ननिधिरित्येवं न विद्यान्नरः।

तद्वद्धर्मनिधिर्मनोगृहगतः सत्त्वा दरिद्रोपमा-

स्तेषां तत्प्रतिलम्भकारणमृषिर्लोके समुत्पद्यते॥११४॥



त्वक्कोशसदृशाः क्लेशाः। बीजाङ्‍कुरवत्तथागतधातुरिति।

यथाम्रतालादिफले द्रुमाणां

बीजाङ्‍कुरः सन्नविनाशधर्मी।

उप्तः पृथिव्यां सलिलादियोगात्

क्रमादुपैति द्रुमराजभावम्॥११५॥



सत्त्वेष्वविद्या दिफलत्वगन्तः-

कोशावनद्धः शुभधर्मधातुः।

उपैति तत्तत्कुशलं प्रतीत्य

क्रमेण तद्वन्मुनिराजभाव॥११६॥



अम्ब्वादित्यागभस्तिवायुपृथिवीकालाम्बरप्रत्ययै-

र्यद्वत् तालफलाम्रकोशविवरादुत्पद्यते पादपः।

सत्त्वक्लेशफलत्वगन्तरगतः संबुद्धबीजाङ्‍कुर-

स्तद्वद्वृद्धिमुपैति धर्मविटपस्तैस्तैः शुभप्रत्ययैः॥११७॥



पूतिवस्त्रसदृशः क्लेशाः। रत्नविग्रहवत्तथागतधातुरिति।



बिम्बं यथा रत्नमयं जिनस्य

दुर्गन्धपूत्यम्बरसंनिरुद्धम्।

दृष्ट्ववोज्झितं वर्त्मनि देवतास्य

मुक्त्यै वदेदध्वगमेतमर्थम्॥११८॥



नानाविधक्लेशमलोपगूढ-

मसङ्गचक्षुः सुगतात्मभावम्।

विलोक्य तिर्यक्ष्वपि अद्विमुक्तिं

प्रत्यभ्युपायं विदधाति तद्वत्॥११९॥



यद्वद्रत्नमयं तथागतवपुर्दुर्गन्धवस्त्रावृतं

वर्त्मन्युज्ज्ञितमेक्ष्य दिव्यनयनो मुक्त्यै नृणां दर्शयेत्।

तद्वत् क्लेशविपूतिवस्त्रनिवृतं संसारवर्त्मोज्ज्ञितं

तिर्यक्षु व्यवलोक्य धातुमवदद्धर्मं विमुक्त्यै जिनः॥१२०॥



आपन्नसत्त्वनारिसदृशाः क्लेशाः। कललमहाभूतगतचक्रवर्तिवत्तथागतधातुरिति।



नारी यथा काचिदनाथभूता

वसेदनाथावसथे विरूपा।

गर्भेण राजश्रियमुद्वहन्ती

न सावबुध्येत नृपं स्वकुक्षौ॥१२१॥



अनाथशालेव भवोपपत्ति-

रन्तर्वतीस्त्रीवदशुद्धसत्त्वाः।

तद्‍गर्भवत्तेष्वमलः स धातु-

र्भवन्ति यस्मिन्सति ते सनाथाः॥१२२॥



यद्वत् स्त्री मलिनाम्वरावृततनुर्बीभत्सरूपान्विता

विन्देद्‍दुःखमनाथवेश्मनि परं गर्भान्तरस्थे नृपे।

तद्वत् क्लेशवशादशान्तमनसो दुःखालयस्था जनाः

सन्नाथेषु च सत्स्वनाथमतयः स्वात्मान्तरस्थेष्वपि॥१२३॥



मृत्पङ्कलेपसदृशाः क्लेशाः। कनकबिम्बवत्तथागतधातुरिति।

हेम्नो यथान्तःक्वथितस्य पूर्णं

बिम्बं बहिर्मृन्मयमेक्ष्य शान्तम्।

अन्तर्विशुद्‍ध्यै कनकस्य तज्ज्ञः

संचोदयेदावरणं बहिर्धा॥१२४॥



प्रभास्वरत्वं प्रकृतेर्मलाना-

मागन्तुकत्वं च सदावलोक्य।

रत्नाकराभं जगदग्रबोधि-

र्विशोधयत्यावरणेभ्य एवम्॥१२५॥



यद्वन्निर्मलदीप्तकाञ्चनमयं बिम्बं मृदन्तर्गतं

स्याच्छान्त तदवेत्य रत्नकुशलः संचोदयेन्मृत्तिकाम्।

तद्वच्छान्तमवेत्य शुद्धकनकप्रख्यं मनः सर्ववि-

द्धर्माख्याननयप्रहारविधितः संचोदयत्यावृतिम्॥१२६॥



उदाहरणानां पिण्डार्थः।



अम्बुजभ्रमरप्राणितुषोच्चारक्षितिष्वथ।

फलत्वक्‍पूतिवस्त्रस्त्रीगर्भमृत्कोशकेष्वपि॥१२७॥



बुद्धवन्मधुवत्सारसुवर्णनिधिवृक्षवत्।

रत्नविग्रहवच्चक्रवर्तिवद्धेमबिम्ब वत्॥१२८॥



सत्त्वधातोरसंबद्धं क्लेशकोशेष्वनादिषु।

चित्तप्रकृतिवैमल्यमनादिमदुदाहृतम्॥१२९॥



समासतोऽनेन तथागतगर्भसूत्रोदाहरणनिर्देशेन कृत्स्नस्य सत्त्वधातोरनादिचित्तसंक्लेशधर्मागन्तुकत्वमनादिचित्तव्यवदानधर्मसहजाविनिर्भागता च परिदीपिता। तत उच्यते। चित्तसंक्लेशात् सत्त्वाः संक्लिष्यन्ते चित्तव्यवदानाद्विशुध्यन्त इति। तत्र कतमश्चित्तसंक्लेशो यमधिकृत्य नवधा पद्मकोशादिदृष्टान्तदेशना।



रागद्विड् मोहतत्तीव्रपर्यवस्थान वासनाः।

दृङ्मार्गभावनाशुद्धशुद्धभूमिगता मलाः॥१३०॥



पद्मकोशादिदृष्टान्तैर्नवधा संप्रकाशिताः।

अपर्यन्तोपसंक्लेशकोशकोट्यस्तु भेदतः॥१३१॥



समासत इमे न व क्लेशाः प्रकृतिपरिशुद्धेऽपि तथागतधातौ पद्मकोशादय इव बुद्धबिम्बादिषु सदागन्तुकतया संविद्यन्ते। कतमे नव। तद्यथा रागानुशयलक्षणः क्लेशः। द्वेषानुशयलक्षणः। मोहानुशयलक्षणः। तीव्ररागद्वेषमोहपर्यवस्थानलक्षणः। अविद्यावासभूमिसंगृहीतः। दर्शनप्रहातव्यः। भावनाप्रहातव्यः। अशुद्धभूमिगतः। शुद्धभूमिगतश्च। तत्र ये लौकिकवीतरागसान्तानिकाः क्लेशा आनिञ्ज्यसंस्कारोपचयहेतवो रूपारूप्यधातुनिर्वर्तका लोकोत्तरज्ञानवध्यास्त उच्यन्ते रागद्वेषमोहानुशयलक्षणा इति। ये रागादिचरितसत्त्वसान्तानिकाः पुण्यापुण्यसंस्कारोपचयहेतवः केवलकामधातुनिर्वर्तका अशुभादिभावज्ञानवध्यास्त उच्यन्ते तीव्ररागद्वेषमोहपर्यवस्थानलक्षणा इति। येऽर्हत्सान्तानिका अनास्रवकर्मप्रवृत्तिहेतवो विमलमनोमयात्मभावनिर्वर्तकास्तथागतबोधिज्ञानवध्यास्त उच्यन्तेऽविद्यावासभूमिसंगृहीता इति। द्विविधः शैक्षः पृथग्जन आर्यश्च। तत्र ये पृथग्जनशैक्षसांतानिकाः प्रथमलोकोत्तरधर्मदर्शनज्ञानवध्यास्त उच्यन्ते दर्शनप्रहातव्या इति। य आर्यपुद्‍गलशैक्षसान्तानिका यथादृष्टलोकोत्तरधर्मभावनाज्ञानवध्यास्त उच्यन्ते भावनाप्रहातव्या इति। येऽनिष्ठागतबोधिसत्त्वसान्तानिकाः सप्तविधज्ञानभूमिविपक्षा अष्टाम्यादिभूमित्रयभावनाज्ञानवध्यास्त उच्यन्तेऽशुद्धभूमिगता इति। ये निष्ठागतबोधिसत्त्वसान्तानिका अष्टम्यादिभूमित्रयभावनाज्ञानविपक्षा वज्रोपमसमाधिज्ञानवध्यास्त उच्यन्ते शुद्धभूमिगता इति। एते



नव रागादयः क्लेशाः संक्षेपेण यथाक्रमम्।

नवभिः पद्मकोशादिदृष्टान्तैः संप्रकाशिताः॥१३२॥



विस्तरेण पुनरेत एव चतुरशीतिसहस्रप्रकारभेदेन तथागतज्ञानवदपर्यन्ता भवन्ति यैरपर्यन्तक्लेशकोशकोटिगूढस्तथागतगर्भ उच्यते।



बालानामर्हतामेभिः शैक्षाणां धीमतां क्रमात्।

मलैश्चतुर्भिरेकेन द्वाभ्यां द्वाभ्यामशुद्धता॥१३३॥



यदुक्तं भगवता। सर्वसत्त्वास्तथागतगर्भ इति। तत्र सर्वसत्त्वाः संक्षेपेणोच्यन्ते चतुर्विधास्तद्यथा पृथग्जना अर्हन्तः शैक्षा बोधिसत्त्वाश्चेति। तत्रैषामनास्रवे धातौ यथाक्रमं चतुर्भिरेकेन द्वाभ्यां द्वाभ्यां च क्लेशमलाभ्यामशुद्धिः परिदीपिता।



कथं पुनरिमे नव रागादयः क्लेशाः पद्मकोशादिसदृशा वेदितव्याः।

कथं च तथागतधातोर्बुद्धबिम्बादिसाधर्म्यमनुगन्तव्यमिति।



तत्पद्‍मं मृदि संभूतं पुरा भूत्वा मनोरमम्।

अरम्यमभवत् पश्चाद्यथा रागरतिस्तथा॥१३४॥



भ्रमराः प्राणीनो यद्वद्दशन्ति कुपिता भृशम्।

दुःख जनयति द्वेषो जायमानस्तथा हृदि॥१३५॥



शाल्यादीनां यथा सारमवच्छन्नं बहिस्तुषैः।

मोहाण्डकोशसंछन्नमेवं सारार्थदर्शनम्॥१३६॥



प्रतिकूलं यथामेध्यमेवं कामा विरागिणाम्।

कामसेवानिमित्तत्वात् पर्युत्थानान्यमेध्यवत्॥१३७॥



वसुधान्तरितं यद्वदज्ञानान्नाप्नुयुर्निधिम्।

स्वयंभूत्वं तथाविद्यावासभूम्यावृता जनाः॥१३८॥



यथा बीजत्वगुच्छित्तिरङ्‍कुरादिक्रमोदयात्।

तथा दर्शनहेयानां व्यावृत्तिस्तत्त्वदर्शनात्॥१३९॥



हतसत्कायसाराणामार्यमार्गानुषङ्गतः।

भावनाज्ञानहेयानां पूतिवस्त्रनिदर्शनम्॥१४०॥



गर्भकोशमलप्रख्याः सप्तभूमिगता मला।

विकोशगर्भवज्ज्ञानमविकल्पं विपाकवत्॥१४१॥



मृत्पङ्कलेपवज्ज्ञेयास्त्रिभूम्यनुगता मलाः।

वज्रोपमसमाधानज्ञानवध्या महात्मनाम्॥१४२॥



एवं पद्मादिभिस्तुल्या नव रागादयो मलाः।

धातोर्बुद्धादिसाधर्म्यं स्वभावत्रयसंग्रहात्॥१४३॥



त्रिविधं स्वभावमधिकृत्य चित्तव्यवदानहेतोस्तथागतगर्भस्य नवधा बुद्धाबिम्बादिसाधर्म्यमनुगन्तव्यम्। त्रिविधः स्वभावः कतमः।



स्वभावो धर्मकायोऽस्य तथता गोत्रमित्यपि।

त्रिभिरेकेन स ज्ञेयः पञ्चभिश्च निदर्शनैः॥१४४॥



त्रिभिर्बुद्धबिम्बमधुसारदृष्टान्तैर्धर्मकायस्वभावः स धातुरवगन्तव्यः।

एकेन सुवर्णदृष्टान्तेन तथतास्वभावः। पञ्चभिर्निधितरुत्नविग्रहचक्रवर्तिकनकबिम्बदृष्टान्तैस्त्रिविधबुद्धकायोत्पत्तिगोत्रस्वभाव इति। तत्र धर्म कायः कतमः।



धर्मकायो द्विधा ज्ञेयो धर्मधातुः सुनिर्मलः।

तन्निष्यन्दश्च गाम्भीर्यवैचित्र्यनयदेशना॥१४५॥



द्विविधो बुद्धानां धर्मकायोऽनुगन्तव्यः। सुविशुद्ध्श्च धर्मधातोरविकल्पज्ञानगोचरविषयः। स च तथागतानां प्रत्यात्ममधिगमधर्ममधिकृत्य वेदितव्यः। तत्प्राप्तिहेतुश्च सुविशुद्धधर्मधातुनिष्यन्दो यथावैनयिकपरसत्त्वेषु विज्ञप्तिप्रभवः। स च देशनाधर्ममधिकृत्य वेदितव्यः। देशना पुनर्द्विविधा सूक्ष्मौदारिकधर्मव्यवस्थाननयभेदात्। यदुत गम्भीरबोधिसत्त्वपिटकधर्मव्यवस्थान नयदेशना च परमार्थसत्यमधिकृत्य विचित्रसूत्रगेयव्याकरणगाथोदाननिदानादिविविधधर्मव्यवस्थाननयदेशना च संवृतिसत्यमधिकृत्य।



लोकोत्तरत्वाल्लोकेऽस्य दृष्टान्तानुपलब्धितः।

धातोस्तथागतेनैव सादृश्यमुपपपादितम्॥१४६॥



मध्वेकरसवत् सूक्ष्मगम्भीरनयदेशना।

नानाण्डसारवज्ज्ञेया विचित्रनयदेशना॥१४७॥



इत्येवमेभिस्त्रिभिर्बुद्धबिम्बमधुसारदृष्टान्तैस्तथागतधर्मकायेन निरवशेषसत्त्वधातुपरिस्फरणार्थमधिकृत्य तथागतस्येमे गर्भाः सर्वसत्त्वा इतिपरिदीपितम्। न हि स कश्चित्सत्त्वः सत्त्वधातौ सविद्यते यस्तथागतधर्मकायाद्वहिराकाशधातोरिव रूपम्। एवं ह्याह।



यथाम्बरं सर्वगतं सद मतं

तथैव तत्सर्वगतं सदा मतम्।

यथाम्बरं रूपगतेषु सर्वगं

तथैव तत्सत्त्वगणेषु सर्वगमिति॥



प्रकृतेरविकारित्वात् कल्याणत्वाद्विशुद्धितः।

हेममण्डलकौपम्यं तथतायामुदाहृतम्॥१४८॥



यच्चित्तमपर्यन्तक्लेशदुःखधर्मानुगतमपि प्रकृतिप्रभास्वरतया विकारानुदाहृतेरतः कल्याणसुवर्णवदनन्यथाभावार्थेन तथतेत्युच्यते। स च

सर्वेषामपि मिथ्यात्वनियतसंतानानां सत्त्वानां प्रकृतिनिर्विशिष्टानां सर्वागन्तुकमलविशुद्धिमागतस्तथागत इति संख्यां गच्छति। एवमेकेन सुवर्णदृष्टान्तेन तथताव्यतिभेदार्थमधिकृत्य तथागतस्तथतैषां गर्भः सर्वसत्त्वानामिति परिदीपितम्। चित्तप्रकृतिविशुद्‍ध्यद्वयधर्मतामुपादाय यथोक्तं भगवता। तत्रमञ्जुश्रीस्तथागत आत्मोपादानमूलपरिज्ञातावी। आत्मंविशुद्‍ध्या सर्वसत्त्वविशुद्धिमनुगतः। या चात्मविशुद्धिर्या च सत्त्वविशुद्धिरद्वयैषाद्वैधिकारो ति। एवं ह्याह।



सर्वेषामविशिष्टापि तथता शुद्धिमागता।

तथागतत्वं तस्माच्च तद्‍गर्भाः सर्वदेहिन इति॥



गोत्रं तद् द्विविधं ज्ञेयं निधानफलवृक्षवत्।

अनादिप्रकृतिस्थं च समुदानीतमुत्तरम्॥१४९॥



बुद्धकायत्रयावाप्तिरस्माद्‍गोत्रद्वयान्मता।

प्रथमात्प्रथमः कायो द्विती याद्द्वौ तु पश्चिमौ॥१५०॥



रत्नविग्रहवज्ज्ञेयः कायः स्वाभाविकः शुभः।

अकृत्रिमत्वात् प्रकृतेर्गुणरत्नाश्रयत्वतः॥१५१॥



महाधर्माधिराजत्वात् साम्भोगश्चक्रवर्तिवत्।

प्रतिबिम्बस्वभावत्वान्निर्माणं हेमबिम्बवत्॥१५२॥



इत्येवमेभिरवशिष्टैः पञ्चभिर्निधितरुरत्नविग्रहचक्रवर्तिकनकबिम्बदृष्टान्तैस्त्रि विधबुद्धकायोत्पत्तिगोत्रस्वभावार्थमधिकृत्य तथागतधातुरेषां गर्भः सर्वसत्त्वानामिति परिदीपितम्। त्रिविधबुद्धकायप्रभावितत्वं हि तथागतत्वम्। अतस्तत्प्राप्तये हेतुस्तथागतधातुरिति। हेत्वर्थोऽत्र धात्वर्थः। यत आह। तत्र च सत्त्वे सत्त्वे तथागतधातुरुत्पन्नो गर्भगतः संविद्यते न च ते सत्त्वा बुध्यन्ते इति। एवं ह्याह।



अनादिकालिको धातुः सर्वधर्मसमाश्रयः।

तस्मिन् सति गतिः सर्वा निर्वाणाधिगमोऽपि च॥



तत्र कथमनादिकालिकः। यत्तथागतगर्भमेवाधिकृत्य भगवता पूर्व कोटिर्न प्रज्ञायत इति देशितं प्रज्ञप्तम्। धातुरिति। यदाह। योऽयं भगवंस्तथागतगर्भो लोकोत्तरगर्भः प्रकृतिपरिशुद्धगर्भ इति। सर्वधर्मसमाश्रय इति। यदाह। तस्माद्‍भगवंस्तथागतगर्भो निश्रय आधारः प्रतिष्ठासंबद्धानामविनिर्भागानाममुक्तज्ञानानामसंस्कृतानां धर्माणाम्। असंबद्धानामपि भगवन् विनिर्भागधर्माणां मुक्तज्ञानानां संस्कृतानां धर्माणां निश्रय आधारः प्रतिष्ठा तथागतगर्भ इति। तस्मिन् सति गतिः सर्वेति। यदाह। सति भगवंस्तथागर्भे संसार इति परिकल्पमस्य वचनायेति। निर्वाणाधिगमोऽपि चेति। यदाह। तथागतगर्भश्चेद् भगवन्न स्यान्न स्याद्‍दुःखेऽपि निर्विन्न निर्वाणेच्छा प्रार्थना प्रणिधिर्वेति विस्तरः।



स खल्वेष तथागतगर्भो धर्मकायांविप्रलम्भस्तथतासंभिन्नलक्षणो नियतगोत्रस्वभावः सर्वदा च सर्वत्र च निरवशेषयोगेन सत्त्वधाताविति द्रष्टव्यं धर्मतां प्रमाणीकृत्य। यथोक्तम्। एषा कुलपुत्र धर्माणां धर्मता। उत्पादाद्वा तथागतानामनुत्पादाद्वा सदैवैते सत्त्वास्तथागतगर्भा इति। यैव चासौ धर्मता सैवात्र युक्तिर्योग उपायः पर्यायः। एवमेव तत्स्यात्। अन्यथा नैव तत्स्यादिति। सर्वत्र धर्मतैव प्रतिशरणम्। धर्मतैव युक्तिश्चित्तनिध्यापनाय चित्तसंज्ञापनाय। सा न चिन्तयितव्या न विकल्पयितव्याधिमोक्तव्येति।



श्रद्धयैवानुगन्तव्यं परमार्थे स्वयंभुवाम्।

न ह्यचक्षुः प्रभादीप्तमीक्षते सूर्यमण्डलम्॥१५३॥



समासत इमे चत्वारः पुद्‍गलास्तथागतगर्भदर्शनं प्रत्यचक्षुष्मन्तो व्यवस्थिताः। कतमे चत्वारः। यदुत पृथग्जनः श्रावकः प्रत्येकबुद्धो नवयानसंप्रस्थितश्च बोधिसत्त्वः। यथोक्तम्। अगोचरोऽयं भगवंस्तथागतगर्भः सत्कायदृष्टिपतितानां विपर्यासाभिरतानां शून्यताविक्षिप्तचित्तानामिति। तत्र सत्कायदृष्टिपतिता उच्यन्ते बालपृथग्जनाः। तथा हि तेऽत्यन्तसास्रवस्कन्धादीन्धर्मानात्मत आत्मीयतश्चोपगम्याहकारममकाराभिनिविष्टाः सत्कायनिरोधमनास्रवधातुमधिमोक्तुमपि नालम्। कुतः पुनः सर्वज्ञविषयं तथागतगर्भमवभोत्स्यन्त इति। नेदं स्थानं विद्यते। तत्र विपर्यासाभिरता उच्यन्ते श्रावकप्रत्येकबुद्धाः। तत्कस्मात्। तेऽपि हि नित्ये तथागतगर्भे सत्युत्तरिभावयितव्ये तन्नित्यसंज्ञाभावनाविपर्ययेणानित्यसंज्ञाभावनाभिरताः। सुखे तथागतगर्भे सत्युत्तरिभावयितव्ये तत्सुखसंज्ञाभावनाविपर्ययेण दुःखसंज्ञाभावनाभिरताः। आत्मनि तथागतगर्भे सत्युत्तरिभावयितव्ये तदात्मसंज्ञाभावनाविपर्ययेणानात्मसंज्ञाभावनाभिरताः। शुभे तथागतगर्भेः सत्युत्तरिभावयितव्ये तच्छुभसंज्ञाभावनाविपर्ययेणाशुभसंज्ञाभावना भिरताः। एवमनेन पर्यायेण सर्वश्रावकप्रत्येकबुद्धानामपि धर्मकायप्राप्तिविधुरमार्गाभिरतत्वादगोचरः स परमनित्यसुखात्मशुभलक्षणो धातुरित्युक्तम्। यथा च स विपयासाभिरतानामनित्यदुःखानात्माशुभसंज्ञानामगोचरस्तथा विस्तरेण महापरिनिर्वाणसूत्रे भगवता वापीतोयमणिदृष्टान्तेन प्रसाधितः।



तद्यथापि नाम भिक्षवो ग्रीष्मकाले वर्तमाने सलिलबन्धनं बद्ध्‍वा स्वैः स्वैर्मण्डनकोपर्भोगैर्जनाः सलिले क्रीडेयुः। अथ तत्रैको जात्यं वैडूर्यमणिमन्तरुदके स्थापयेत्। ततस्तस्य वैडूर्यस्यार्थे सर्वे ते मण्डनकानि त्यक्त्वा निमज्जेयुः। अथ यत्तत्रास्ति शर्करं कठल्यं वा तत्ते मणिरिति मन्यमाना गृहीत्वा मया लब्धो मणिरित्युत्सृज्योत्सृज्य वापीतिरे स्थित्वा नायं मणिरिति संज्ञां प्रवर्तेयुः। तच्च वाप्युदकं मणिप्रभावेन तत्प्रभेव भ्राजेत। एवं तेषां तदुदकं भ्राजमानं दृष्ट्वाहो मणिरिति गुणसंज्ञा प्रवर्तेत। अथ तत्रैक उपायकुशलो मेधावी मणिं तत्त्वतः प्रतिलभेत। एवमेव भिक्षवो युष्माभिः सर्वमनित्यं सर्व दुःखं सर्वमनात्मकं सर्वमशुभ मिति सर्वग्रहणेन भावितभावितं बहुलीकृतबहुलीकृतं धर्मतत्त्वम जानद्भिस्तत्सर्व घटितं निरर्थकम्। तस्माद् भिक्षवो वापीशर्करकठल्यव्यवस्थिता इव मा भूता उपायकुशला यूयं भवत। यद्यद् भिक्षवो युष्माभिः सर्वमनित्यं सर्व दुःखं सर्वमनात्मकं सर्वमशुभमिति सर्वग्रहणेन भावितभावितं बहुलीकृतबहुलीकृतं तत्र तत्रैव नित्यसुखशभात्मकानि सन्तीति विस्तरेण परमधर्मतत्त्वव्यवस्थानमारभ्य विपर्यासभूतनिर्देशो यथासूत्रमनुगन्तव्यः।



तत्र शून्यताविक्षिप्तचित्ता उच्यन्ते नवयान संप्रस्थिता बोधिसत्त्वस्तथागतगर्भशून्यतार्थनयविप्रनष्टाः। ये भावविनाशाय शून्यताविमोक्षमुखमिच्छन्ति सत एव धर्मस्योत्तरकालमुच्छेदो विनाशः परिनिर्वाणमिति। ये वा पुनः शून्यतोपलम्भेन शून्यतां प्रतिसरन्ति शून्यता नाम रूपादिव्यतिरेकेण कश्चिद्‍भा वोऽस्ति यमधिगमिष्यामो भावयिष्याम इति। तत्र कतमः स तथागतगर्भशून्यतार्थनय उच्यते।



नापनेयमतः किंचिदुपनेयं न किंचन।

द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते॥१५४॥



शून्य आगन्तुकैर्धातुः सविनिर्भागलक्षणैः।

अशून्योऽनुत्तरैर्धर्मैरविनिर्भागलक्षणैः॥१५५॥



किमनेन परिदीपितम्। यतो न किंचिदपनेयमस्त्यतः प्रकृतिपरिशुद्धात् तथागतधातोः संक्लेशनिमित्तमागन्तुकमलशून्यताप्रकृतित्वादस्य। नाप्यत्रकिंचिदुपनेयमस्ति व्यवदाननिमित्तमविनिर्भागशुद्धधर्मप्रकृतित्वात्। तत उच्यते। शून्यस्तथागतगर्भो विनिर्भागैर्मुक्तज्ञैः सर्वक्लेशकोशैः। अशून्यो गङ्गानदीवालिकाव्यतिवृत्तैरविनिर्भागैरमुक्तज्ञैरचिन्त्यैर्बुद्धधर्मैरिति। एवं यद्यत्र नास्ति तत्तेन शून्यमिति समनुपश्यति। यत्पुनरत्रावशिष्टं भवति तत्सदिहास्तीति यथाभूतं प्रजानाति। समारोपापवादान्तपरिवर्जनादपर्यन्तं शून्यतालक्षणमनेन श्लोकद्वयेन परिदीपितम्। तत्र येषामितः शून्यतार्थनयाद्वहिश्चित्तं विक्षिप्यते विसरति न समाधीयते नैकाग्रीभवति तेन ते शून्यताविक्षिप्तचित्ता उच्यन्ते। न हि परमार्थशून्यताज्ञानमुखमन्तरेण शक्यतेऽविकल्पो धातुरधिगन्तुं साक्षात्कर्तुम्। इदं च संधायोक्तम्। तथागतगर्भज्ञानमेव तथागतानां शून्यताज्ञानम्। तथागतगर्भश्च सर्वश्रावकप्रत्येकबुद्धैरदृष्टपूर्वोऽनधिगतपूर्व इति विस्तरः। स खल्वेष तथागतगर्भो यथा धर्मधातुगर्भस्तथा सत्कायदृष्टिपतितानामगोचर इत्युक्तं दृष्टिप्रतिपक्षत्वाद्धर्मधातोः। यथा धर्मकायो लोकोत्तरधर्म गर्भस्तथा विपर्यासाभिरतानामगोचर इत्युक्तमनित्यादिलोकधर्मप्रतिपक्षेण लोकोत्तरधर्मपरिदीपनात्। यथा प्रकृतिपरिशुद्धधर्मगर्भस्तथ शून्यताविक्षिप्तानामगोचर इत्युक्तमागन्तुकमलशून्यताप्रकृतित्वाद्विशुद्धिगुणधर्माणामविनिर्भागलोकोत्तरधर्मकायप्रभावितानामिति। तत्र यदेकनयधर्मधात्वसंभेदज्ञानमुखमागम्य लोकोत्तरधर्मकायप्रकृतिपरिशुद्धिव्यवलोकनमिदमत्र यथाभूतज्ञानदर्शनमभिप्रेतं येन दशभूमिस्थिता बोधिसत्त्वास्तथागतगर्भमीषत्पश्यन्तीत्युक्तम्। एवं ह्याह।



छिद्राभ्रे नभसीव भास्कर इह त्वं शुद्धबुद्धीक्षणै-

रार्येरप्यवलोक्यसे न सकलः प्रादेशिकीबुद्धिभिः।

ज्ञेयानन्तनभस्तलप्रविसृतं ते धर्मकायं तु ते

साकल्येन विलोकयन्ति भगवन् येषामनन्ता मतिरिति॥



यद्येवमसङ्गनिष्ठाभूमिप्रतिष्ठितानामपि परमार्याणामसर्वविषय एष दुर्दृशो धातुः। तत्किमनेन बालपृथग्जनमारभ्य देशितेनेति। देशनाप्रयोजनसंग्रहे श्लोकौ। एकेन प्रश्नो द्वितीयेन व्याकरणम्।



शून्यं सर्वं सर्वथा तत्र तत्र

ज्ञेयं मेघस्वप्नमायाकृताभम्।

इत्युक्त्‍वैवं बुद्धधातुः पुनः किं

सत्त्वे सत्त्वेऽस्तीति बुद्धैरिहोक्तम्॥१५६॥



लीनं चित्तं हीनसत्त्वेष्ववज्ञा-

भूतग्राहो भूतधर्मापवादः।

आत्मस्नेहश्चाधिकः पञ्च दोषा

येषां तेषां तत्प्रहाणार्थमुक्तम्॥१५७॥



अस्य खलु श्लोकद्वयस्यार्थः समासेन दशभिः श्लोकैर्वेदितव्यः।

विविक्तं संस्कृतं सर्वप्रकारं भूतकोटिषु।

क्लेशकर्मविपाकार्थं मेघादिवदुदाहृतम्॥१५८॥



क्लेशा मेघोपमाः कृत्यक्रिया स्वप्नोपभोगवत्।

मायानिर्मितवत् स्कन्धा विपाकाः क्लेशकर्मणाम्॥१५९॥



पूर्वमेवं व्यवस्थाप्य तन्त्रे पुनरिहोत्तरे।

पञ्चदोषप्रहाणाय धात्वस्तित्वं प्रकाशितम्॥१६०॥



तथा ह्यश्रवणादस्य बोधौ चित्तं न जायते।

केषांचिन्नीचचित्तानामात्मावज्ञानदोषतः॥१६१॥



बोधिचित्तोदयेऽप्यस्य श्रेयानस्मीति मन्यतः

बोध्यनुत्पन्नचित्तेषु हीनसंज्ञा प्रवर्तते॥१६२॥



तस्यैवंमतिनः सम्यग्ज्ञानं नोत्पद्यते ततः।

अभूतं परिगृह्णाति भूतमर्थं न विन्दते॥१६३॥



अभूतं सत्त्वदोषास्ते कृत्रिमागन्तुकत्वतः।

भूतं तद्दोषनैरात्म्यं शुद्धिप्रकृतयो गुणाः॥१६४॥



गृह्णन् दोषानसद्‍भूतान् भूतानपवदनु गुणान्।

मैत्रीं न लभते धीमान् सत्त्वात्मसमदर्शिकाम्॥१६५॥



तच्छ्रवाज्जायते त्वस्य प्रोत्साहः शास्तृगौरवम्।

प्रज्ञा ज्ञानं महामैत्री पञ्चधर्मोदयात्ततः॥१६६॥



निरवज्ञः समप्रेक्षी निर्दोषो गुणवानसौ।

आत्मसत्त्वसमस्नेहः क्षिप्रमाप्नोति बुद्धताम्॥१६७॥



इति रत्नगोत्रविभागे महायानोत्तरतन्त्रशास्त्रे तथागतगर्भाधिकारः प्रथम परिच्छेदः श्लोकार्थसंग्रहव्याख्यानतः समाप्तः॥१॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project