Digital Sanskrit Buddhist Canon

सवितर्का सविचारा भूमिस्तृतीया

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:


 



[सवितर्का सविचारा भूमिस्तृतीया। अवितर्का विचारमात्रा भूमिश्चतुर्थी। अवितर्काविचारा भूमिश्च पञ्चमी ]



सवितर्का सविचारा भूमिः कतमा। अवितर्का विचारमात्रा भूमिः। कतमा। अवितर्काविचारा भूमिः कतमा। पिण्डोद्दानं।



 



धातुलक्षणयोनिश्च अयोनिः क्लेशपश्चिम।



 



इत्यासां तिसृणां भूमीनां धातुप्रज्ञप्तिव्यवस्थानतोऽपि। लक्षणप्रज्ञप्तिव्यवस्थानतोऽपि। योनिशोमनस्कारप्रज्ञप्तिव्यवस्थानतोऽपि योनिशोमनस्कारप्रज्ञप्तिव्यवस्थानतोऽपि। संक्लेशप्रज्ञप्तिव्यवस्थानतोऽपि व्यवस्थानं वेदितव्यं॥



 



उद्दानं



 



संख्या स्थान परिमाणमायुश्च परिभोगता।



उत्पत्तिरात्मभावश्च हेतुप्रत्ययविस्तरः॥



 



धातुप्रज्ञप्तिव्यवस्थानं कतमत्। तदृष्टाकारं वेदितव्यं। संख्याव्यवस्थानतोऽपि। स्थानान्तरव्यवस्थानतोऽपि सत्त्वपरिमाणव्यवस्थानतोऽपि। तेषामेव सत्त्वानामायुर्व्यवस्थानतोऽपि। तेषामेव सत्त्वानां सम्भोगपरिभोगव्यवस्थानतोऽव्युत्पत्तिव्यवस्थानतोऽव्यात्मभावव्यवस्थानतोऽपि। हेतुप्रत्ययव्यवस्थानतोऽपि॥



 



तत्रेदं संख्याव्यवस्थानं। त्रयो धातवः कामधातू रूपधातुरारूप्यधातुरिति। एते पर्यापन्ना धातवः। अपर्यापन्नश्च सोपायः सत्कायनिरोधोऽनास्रवो धातुर्निष्प्रपञ्चः।



 



तत्र सकले कामधातौ रूपधातौ च प्रथमध्याने ध्यानान्तरिक समापत्त्युपपत्तिकं स्थापयित्वा सवितर्का सविचारा भूमिः समापत्त्युपपत्तिकं ध्यानान्तरिकमवितर्काविचारमात्रा भूमिः। यां भावयित्वैकत्यो महाब्रह्मत्वं प्रतिलभते। द्वितीयं ध्यानमुपादायावशिष्टो रूपधातुः सकलश्चारूप्यधातुरवितर्काविचारा भूमिः। तत्र वितर्कविचारवैराग्ययोगेनावितर्काविचारा भूमिरित्युच्यते। न त्वसमुदाचारेण। तथा हि। काम्येभ्योऽवीतरागस्याप्यवितर्काविचार एकदा मनःप्रचारो भवत्युपदेशमनस्कारविशेषतः वीतरागस्यापि च वितर्कविचारेभ्यो वितर्कविचारसमुदाचारो भवति। तद्यथा व्युत्थितानां। तदुपपन्नानां तत्रानास्रवो धातुर्योऽसंस्कृतः समापत्तिसंगृहीतः। तत्रापि प्रथमं ध्यानं सवितर्का सविचारा भूमिः। वितर्कविचारस्थानीयेषु धर्मेषु तथतामवलम्ब्व तत्समापत्तेर्नो तु विकल्पप्रचारतः। शिष्टं पूर्ववत्॥



 



[कामधातुः]



 



तत्रेदं स्थानान्तरव्यवस्थानं। कामधातुः षट्त्रिंशत्स्थानान्तराणि। अष्टौ महानरकस्थानानि। तद्यथा। सञ्जीवः कालसूत्रं सङ्घातो रौरवो महारौरवस्तापनो महातापनोऽवीचिश्च। तेषामेव महानरकाणां तिर्यग्दशभिर्योजनसहस्रैः परेणाष्टौ शीतनरकस्थानानि। तद्यथा अर्बुदो निरर्बुदोऽटटो हुहुव उत्पलः पद्मो महापद्मः। इतो द्वात्रिंशद्यो जनसहस्रैः सञ्जीवस्ततः परेण चतुःसहस्रयोजनान्तराणि तदन्यानि द्रष्टव्यानि। यथा सञ्जीवमहानरकस्थानमेवं प्रथमशीतनरकस्थानं। ततः परेण द्वियोजनसहस्रान्तरितानि तदन्यानि द्रष्टव्यानि॥



 



प्रेतस्थानान्तरमसुरस्थानान्तरं। तिर्यञ्चो देवमनुष्याश्च सहचरा एव। अतस्तेषां स्थानान्तरं पृथङ् न व्यवस्थाप्यते। चत्वारो द्वीपाः पूर्ववत्। अष्टावन्तरद्वीपाः। षट् कामावचरा देवाः चातुर्महाराजकायिकास्त्रायस्त्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनश्च देवाः। मारभुवनं पुनः परनिर्मितवशवर्तिषु देवेषु पर्यापन्नं न स्थानान्तरविशिष्टं। प्रत्येकनरकाः सामन्तनरकाश्च महानरकशीतनरकसमन्त एव न स्थानान्तरविशिष्टाः मनुष्येष्वप्युपलम्यन्ते। तदेके प्रत्येकनरकाः यथोक्तं स्थविरमहामौद्गल्यायनेन सत्त्वमहं पश्याम्यादीप्तं प्रदीप्तं सम्प्रज्वलितमेकज्वालीभूतमित्येवमादि। इतीमानि षट्त्रिंशत्स्थानान्तराणि कामधातुरित्युच्यते।



 



[रूपधातुः]



 



अष्टादश स्थानान्तराणि रूपधातुः। ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्माणो मृदुमध्याधिमात्रपरिभावितत्वात्प्रथमध्यानस्य। परीत्ताभा अप्रमाणाभा आभास्वरा मृदुमध्याधिमात्रपरिभावितत्वाद्द्वितीयस्य ध्यानस्य। परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना मृदुमध्याधिमात्रपरिभावितत्वात्तृतीयस्य ध्यानस्य। अनभ्रकाः पुण्यप्रसवा बृहत्फला मृदुमध्याधिमात्रपरिभावितत्वाच्चतुर्थस्य ध्यानस्य। असंज्ञिकं बृहत्फलपर्यापन्नत्वान्न स्थानान्तरमार्यासाधारणं। पञ्च शुद्धावासभूमयः अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाश्च मृदुमध्याधिमात्रतराधिमात्रतमपरिभावितत्वाद्व्यवकीर्णभावितस्य चतुर्थस्य ध्यानस्य। शुद्धावासांश्च समतिक्रमय महेश्वरस्थानं यत्र दशभूमिस्था बोधिसत्त्वादशम्या भूमेः परिभावितत्वादुत्पद्यन्ते॥



 



[आरूप्यधातुः]



 



आरूप्यधातुश्चत्वारि स्थानानि। न वा किञ्चित्स्थानान्तरं।



 



[सत्त्वपरिमाणव्यवस्थानं]



 



तत्रेदं सत्त्वपरिमाणव्यवस्थानं। जाम्बुद्वीपकानां तावन्मनुष्याणामनियतमाश्रयपरिमाणं। एकदा महद्भवत्येकदाणुकं। तत्पुनः स्वेन हस्तेनार्धचतुर्थप्रमाणं। पूर्वविदेहा नियताश्रयप्रमाणाः। तेऽपि स्वेन हस्ते नार्धचतुर्थहस्तप्रमाणा महाकायतराश्च। यथा पूर्वविदेहका एवमवरगोदानीयका उत्तरकौरवाश्च महाकायतराश्च॥



 



चातुर्महाराजकायिकानां देवानां चतुर्भागं क्रोशस्य प्रमाणं। त्रयस्त्रिंशानां सातिरेकपादप्रमाणं। शक्रस्य देवेन्द्रस्यार्धक्रोशप्रमाणं यामानामर्धक्रोशं। ततः परेण सर्वेषु तदन्येषु देवनिकायेषु पादपादमधिकं परिमाण द्रष्टव्यं। ब्रह्मकायिकानामर्धयोजनं। ब्रह्मपुरोहितानां योजनं। महाब्रह्मणां द्व्यर्धयोजनं परीत्ताभानां द्वे योजने। ततः परेण तदवशिष्टेषु देवनिकायेषु तद्दिगुणमाश्रयपरिमाणं द्रष्टव्यं स्यापयित्वाऽनभ्रकान्। तत्र पुनर्योजनत्रयं स्थापयितव्यं॥



 



महानरकेषु प्रमाणनियमः। येन प्रगाढतरं पापकमकुशलं कर्म कृतं भवत्युपचितं तस्य महत्तर आश्रयो निर्वर्तते। इतरेषां पुनरन्यथा। यथा महानरकेष्वेवं शीतनरकेषु प्रत्येकनरकेषु सामन्तनरकेषु प्रत्येकनरकेषु तिर्यक्प्रेतेषु। असुराणां त्रयस्त्रिंशद्देवव्यवस्थापनवदाश्रयव्यवस्थानं वेदितव्यं। आरूप्येषु पुनररूपित्वात्परिमाणं नास्ति।



 



[सत्त्वायुर्व्यवस्थानं ]



 



तत्रेदमायुर्व्यवस्थानं। जाम्बूद्वीपकानां तावन्मनुष्याणां त्रिंशद्‍रात्रकेण मासेन द्वादशमासकेन च संवत्सरेणानियतमायुष्प्रमाणं। एकदा परिमाणायुषो भवन्त्येकदाशीतिवर्षसहस्रायुषः। एकदा यावद्दशवर्षायुषः। पूर्वविदेहकाणां नियतमर्धतृतीयानि वर्षशतान्यायुषः। अवरगोदानीयानां पञ्च शतानि। उत्तरकौरवाणां वर्षसहस्रमायुः। यत् खलु मनुष्याणां पञ्चाशद्वर्षाणि तच्चातुर्महाराजकायिकानां देवानामेकंरात्रिन्दिवं। तेन रात्रिन्दिवसेन त्रिंशद्रात्रकेण मासेन द्वादशमासकेन संवत्सरेण दिव्यानि पञ्च वर्षशतान्यायुः। यत्खलु मनुष्याणां वर्षशतं तत्तु त्रयस्त्रिंशानां देवानामेकं रात्रिन्दिवसं। तेन रात्रिन्दिवसेन त्रिंशतैको मासः पूर्ववद्दिव्यं। तदन्येषु देवनिकायेष्वहोरात्रेणापि तद्दिगुणेन तेषां देवानामायुर्यावत्परनिर्मितवशवर्त्तिषु देवेषु॥



 



यल्खलु चातुर्महाराजकायिकानां देवानां कृत्स्नमायुस्तत् सञ्जीवे महानरक एकं रात्रिन्दिवसं। तेन रात्रिन्दिवसेन त्रिंशद्रात्रकेण मासेन द्वादशमासकेन च संवत्सरेण नारकाणि पञ्चवर्षशतान्यायुः। यथा चातुर्महाराजकायिकानामायुषा सञ्जीवे महानरके उपपन्नानामायुरेवं त्रयस्त्रिंशानामायुषा कालसूत्रोपपन्नानामायुः। यामानामायुषा सङ्घातोपपन्नानामायुः। तुषितानामायुषा रौरवोपपन्नानामायुः। परनिर्मितवशवर्तिनामायुषा तपनोपपन्नानामायुर्वेदितव्यं। प्रतापनोपपन्नानां सत्त्वानामन्तरकल्पेनार्धकल्पमायुः। अवीचिकानां सत्त्वानामन्तरकल्पेन कल्पमायुः। यथा त्रयस्त्रिंशानामेवमसुराणां तिर्यक्‍प्रेतानामनियतमायुः। शीतनरकोपपन्नानां सत्त्वानां महानरकोपपन्नेभ्यः सत्त्वेभ्य उत्तरोत्तराणामुपार्धेनायुर्वेदितव्यं।



 



प्रत्येकनरकोपपन्नानां सत्त्वानामप्यनियतमायुः। ब्रह्मकायिकानां सत्त्वानां विंशत्यन्तरकल्पकेन कल्पेन कल्पमायुः। ब्रह्मपुरोहितानां सत्त्वानां चत्वारिंशदन्तरकल्पकेन कल्पेन कल्पमायुः। महाब्रह्मणां षष्ट्यन्तरकल्पकेन कल्पेन कल्पमायुः। परीत्राभानामशीत्यन्तरकल्पकेन कल्पेन द्वौ कल्पौ। तत ऊर्ध्वं तदन्येषु देवनिकायेषु तद्द्विगुणतद्द्विगुणमायुः स्थापयित्वानभ्रकान्। तत्र पुनस्त्रयः कल्पाः स्थापयितव्याः।



 



आकाशानन्त्यायतनोपपन्नानां सत्त्वानां विंशतिः कल्पसहस्राण्यायुः। विज्ञानानन्त्यायतनोपपन्नानां सत्त्वानां चत्वारिंशत्। आकिञ्चन्यायतनोपपन्नानां षष्टिः। नैवसंज्ञानासंज्ञायतनोपपन्नानामशीतिः कल्पसहस्राण्यायुः। उत्तरकुरून्स्थापयित्वा। अस्त्यन्तरे कालक्रिया तत्र मनुष्येषु तिर्यक्प्रेतेषु च किट्टालकायाः सन्तिष्ठन्ते। देवेषु नरकेषु च सहैव विज्ञानेन अकिट्टकायाः सन्तिष्ठन्ते॥



 



[संभोगपरिभोगव्यवस्थानं]



 



तत्र संभोगपरिभोगव्यवस्थानं। यदुत सुखदुःखानुभवतोऽपि। आहारपरिभोगतोऽपि। मैथुनपरिभोगतोऽपि॥



 



तत्र नरकेषु यद्भूयसा सत्त्वाः कारणादुःखं प्रतिसंवेदयन्ति तिर्यक्ष्वन्योन्यभक्षणदुःखं। प्रेतेषु क्षुत्पिपासादुःखं। मनुष्येषु पर्येष्टिव्यसनदुःखं। देवेषु च्यवनपतनदुःखं प्रतिसंवेदयन्ति॥



 



तत्र सञ्जीवे महानरके एवंरूपं कारणादुःखं प्रत्यनुभवन्ति बाहुल्येन। तत्र ते सत्त्वा अन्योन्यं सङ्गम्य कर्माधिपत्यसम्भूतैर्विविधैः प्रहरणैः क्रमसमुत्पन्नैरन्योन्यं विप्रघातिकां कुर्वन्तो निश्चेष्टाः पृथिव्यां प्रपतन्ति। तत आकाशाच्छब्दो निश्चरति सञ्जीवन्तु हन्त सत्त्वा इति। ततः पुनस्ते सत्त्वा व्युत्थाय तेनैव प्रकारेणान्योन्यविप्रघातिकां कुर्वन्ति। ततो निदानं च दीर्घकालं दुःखं प्रत्यनुभवन्ति यावत्तत्पापकमकुशलं कर्म सर्वेण सर्वं परिक्षीणं व्यन्तीकृतं। तस्माच्च पुनः स नरकः सञ्जीव इत्युच्यते॥



 



तत्र कालसूत्रमहानरक एवंरूपं कारणादुःखमनुभवन्ति बाहुल्येन। तत्र ते सत्त्वास्तत्पर्यापन्नैर्यातनापुरुषैः कालकेन सूत्रेण माप्यन्ते। चतुरस्रकमप्यष्टास्रकमप्यनेकविचित्रविभक्तिप्रकारमपि माप्यन्ते। मापिताश्च तथा तथा खन्यन्ते तक्ष्यन्ते सम्प्रतक्ष्यन्ते। ततो निदानं च दीर्घकालं दुःखं प्रत्यनुभवन्ति यावत्तत्पापकमकुशलं कर्म सर्वेण सर्वं न परिक्षीणं भवति व्यन्तीकृतं। तस्माच्च पुनः स नरकः कालसूत्र इत्युच्यते॥



 



तत्र सङ्घाते महानरक एवंरूपं कारणादुःखं प्रत्यनुभवन्ति बाहुल्येन। तत्र ते सत्त्वा यदान्योन्यमैकध्यमभिसंक्षिप्ताः सङ्घातमापन्ना भवन्ति तदा तत्पर्यापन्नैर्यातनापुरुषैर्द्वयोरजमुखयोरायसयोर्महापर्वतयोर्विवरमनुप्रवेश्यन्ते। समनन्तरप्रविष्टाश्च ताभ्यां पर्वताभ्यां प्रपीडयन्ते। तेषां प्रपीडितानां सर्वतोमुखं रुधिरनद्यः प्रस्रवन्ति प्रघरन्ति। यथाजमुखयो रेवं मेषमुखयोर्हयमुखयोर्हस्तिमुखयोः सिंहमुखयोर्व्याघ्रमुखयोः। पुनः सङ्घातमापन्ना आयसे महायन्त्रे प्रक्षिप्य प्रपीड्यन्ते यथेक्षुक्षोदः। तेषां तत्र प्रपीड्यमानानां रुधिरनद्यः प्रस्रवन्ति प्रघरन्ति। पुनः सङ्घातमापन्नानामुपरिष्टादायसी महाशिला प्रततति या तान्सत्त्वानयोमय्यां पृथिव्यां सञ्छिन्दति सम्भिन्दति सङ्कटयति सम्प्रदालयति। तेषां तत्र तत्र सञ्छिद्यमानानां सम्भिद्यमानानां सङ्कुट्यमानानां सम्प्रदाल्यमानानां रुधिरनद्यः प्रस्रवन्ति प्रघरन्ति। ततोनिदानं च दीर्घकालं दुःखं प्रत्यनुभवन्ति यावत्तत्पापकमकुशलं कर्म सर्वेण सर्वं न परिक्षीणं भवति व्यन्तीकृतं। तस्माच्च पुनः स नरकः सङ्घात इत्युच्यते॥



 



तत्र रौरवे महानरक एवंरूपं कारणादुःखं प्रत्यनुभवन्ति बाहुल्येन। तत्र ते सत्त्वा लयनगवेषिण आयसमगारं प्रविशन्ति। तेषां तत्र प्रविष्टानामग्निर्मुच्यते यतस्त आदीप्ताः प्रदीप्ताः सम्प्रज्वलिता ध्यायन्ति। ते तत्र रुवन्त्यार्तस्वरं क्रन्दन्ते ततोनिदानं च दीर्घकालं दुःखं प्रत्यनुभवन्ति यावत्तत्पापकमकुशलं कर्म सर्वेण सर्वं न परिक्षीणं भवति व्यन्तीकृतं। तस्माच्च पुनः स नरको रौरव इत्युच्यते॥



 



तत्र महारौरवे महानरकेऽयं विशेषो यो रौरवेऽगारः स तत्रागार एव विज्ञातव्यः सगर्भस्तु। तस्माच्च पुनः स नरको महारौरव इत्युच्यते॥



 



तत्र तपने महानरक एवंरूपं कारणादुःखं प्रत्यनुभवन्ति बाहुल्येन। तत्पर्यापन्ना यातनापुरुषास्तान्सत्त्वाननेकयोजनायां कफल्यां प्रक्षिप्य तप्तायां प्रतप्तायां सम्प्रज्वलितायामावर्तयन्ति परिवर्तयन्ति तापयन्ति सन्तापयन्ति तद्यथा मत्स्यान्। पुनरयोमयेन शल्येनाधस्ताद्विध्यन्ति। स च शल्यः पृष्ठान्तेन प्रविश्य शिरसा निर्गच्छत्यादीप्तः प्रदीप्तः। तेषां च सत्त्वानां मुखादक्षितारकाभ्यो नासिकाविलेभ्यः सर्वरोमकूपेभ्यो ज्वाला निर्गच्छन्ति। पुनरयोमय्यां पृथिव्यां तप्तायां सन्तप्तायां प्रज्वलितायामुत्तानकान्स्थापयित्वावमूर्धकान् वा तप्तैः सन्तप्तैः सम्प्रज्वलितैरयोघनैस्ताडयन्ति सन्ताडयन्ति सन्दालयन्ति तद्यथा नाम मांसबिल्वं। ततोनिदानं च दीर्घकालं दुःखं प्रत्यनुभवन्ति यावत्पापकमकुशलं कर्म सर्वेण सर्वं न परिक्षीणं भवति व्यन्तीकृतं। तस्माच्च पुनः स नरकस्तपन इत्युच्यते॥



 



तत्र प्रतापने महानरकेऽयं विशेषः। त्रिशूलशल्यं पृष्ठतो निर्गमयन्ति। तस्य चैकशूल एकेन स्कन्धेन निर्गच्छति। द्वितीयो द्वितीयेन तृतीयः शिरसा। तेषां ततोनिदानं मुखेनापि ज्वाला निर्गच्छति। लौहपत्रैश्च तप्तैः सन्तप्तैः सम्प्रज्वलितैः सर्वतः कायं परिवेष्टयन्ति पुनरयोमय्यां महत्यां लोह्यां क्वथितक्षारपूर्णायामादीप्तायां प्रदीप्तायां सम्प्रज्वलितायां ते सत्त्वा ऊर्ध्वपादा अवाङ्मुखाः प्रक्षिप्यन्ते। प्रक्षिप्ताश्चातप्यन्ते सन्तप्यन्ते ऊर्ध्वमपि गच्छन्तोऽधोऽपि गच्छन्तस्तिर्यगपि गच्छन्तो यतश्च सङ्कीर्णत्वङ्मांसशोणिता भवन्त्यस्थिशङ्कलामात्रावशिष्टाः। तदापुनरुत्क्षिप्योत्क्षिप्यायोमय्यां पृथिव्यां प्रतिष्ठाप्यन्ते। ततः सञ्जातत्वङ्मांसशोणिताः पुनरपि प्रक्षिप्यन्ते। शेषं तपनवत्। ततोनिदानं च पुनर्दीर्घकालं दुःखं प्रत्यनुभवन्ति। यावत्तत्पापकमकुशलं कर्म सर्वेण सर्वं न परिक्षीणं भवति व्यन्तीकृतं। तस्माच्च पुनः स नरकः प्रतापन इत्युच्यते॥



 



तत्रावीचौ महानरक एवं रूपं कारणादुःखं प्रत्यनुभवन्ति। तेषां सत्त्वानां पूर्वस्यां दिश्यनेकयोजनशतायाः पृथिव्या आदीप्तायाः प्रदीप्तायाः सम्प्रज्वलिताया अग्निज्वालावेग आगच्छति यतस्तेषां सत्त्वानां त्वचं भित्त्वा मांसं भित्त्वा स्नायुं छित्त्वास्थि भित्त्वास्थिमज्जानं। तद्यथा स्नेहवर्तिं। एवं कृत्स्नमाश्रयं ज्वालाभिर्व्याप्य तिष्ठति। यथा पूर्वस्या दिश एवं दक्षिणस्याः पश्चिमाया उत्तरस्या दिशः। ते च सत्त्वास्ततोनिदानमग्निस्कन्धरूपा एवोपलभ्यन्ते। मिश्रीभूते तस्मिंश्चतुर्दिशागतेऽग्निस्कन्धे ते तत्र वीचिमपि नासादयन्ति दुःखानां वेदनानां नान्यत्र आर्तस्वरं क्रन्दन्तो विज्ञायन्ते सत्त्वा इति। पुनरयोमयैः शूर्पैरयोमयानङ्गारानादीप्तान्सम्प्रज्वलितान्पुनन्ति निपुनन्ति। पुनरयोमय्यां पृथिव्यामयोमयान्महापर्वतानारोहन्त्यप्यवतरन्त्यपि। पुनर्मुखाज्जिह्वा निर्गमय्यायः शङ्कुशतेन वितता भवति। सा तथा वितता विगतवलिका विगतपुटिका च तद्यथार्षभं चर्म। पुनस्तस्यामेवायोमय्यां पृथिव्यामुत्तानकान्स्थापयित्वायोमयेन विष्कम्भनेन मुखं विष्कम्भयित्वा दीप्ताः प्रदीप्ताः सम्प्रज्वलिताः। अयोगुडा मुखेषु क्षिप्यन्ते ये तेषां मुखमपि दहन्ति कण्ठमप्यन्त्रमपि दग्ध्वा च पुनरधोभागेन निर्गच्छन्ति। क्वथितं ताम्रमास्ये प्रक्षिपन्ति। तच्च मुखमपि दग्ध्वा कण्ठमप्यन्त्रमपि दग्ध्वाधोभागेन दग्ध्वाधोभागेन प्रघरति। शेषं प्रतापनवत्। ततोनिदानं पुनर्दीर्घकालं दुःखं प्रत्यनुभवन्ति यावत्तत्पापकमकुशलं कर्म सर्वेण सर्वं न परिक्षीणं भवति व्यन्तीकृतं। तस्माच्च पुनः स नरकोऽवीचिरित्युच्यते यत्र यद्भूयसानन्तर्यकारिणः सत्त्वा उपपद्यन्ते। तत्रेमान्यौदारिकाणि कारणानि परिकीर्तितानि। न च पुनरेषु महानरकेषु तदन्यानि विचित्राकाराणि बहूनि कारणानि नोपलभ्यन्ते॥



 



सामन्तनरकेषु पुनरेवं कारणादुःखं सत्त्वाः प्रत्यनुभवन्ति। सर्व एते महानरकाश्चतुर्दिशं चतुष्कन्धाश्चतुर्द्वारा आयसैः प्राकारैः परिवारिताः। तत्र च चतुर्दिशं चतुर्भिर्द्वारै र्निर्गत्यैकैकस्मिन्द्वारे चत्वार उत्सदा भवन्ति। तद्यथा। जानुमात्रं कुकूलं। यत्ते सत्त्वा लयनगवेषिणोऽन्वाक्रामन्ति। ते तत्र प्रपतिताः सशिरःपादका निमग्नास्तिष्ठन्ति। तत्र च कुणपे गूथमृत्तिके कीटाः प्राणिनो ये तेषां सत्त्वानां त्वचमपि च्छिद्रयन्ति मांसमपि स्नाय्वस्थ्यपि भिन्दन्ति ततोऽस्थिमज्जानमासाद्य विलिखन्ति॥



 



तस्य खलु कुणपस्य गूथमृत्तिकस्य समनन्तरं सन्निहितमेव क्षुरधाराचितः पथो यं ते सत्त्वा लयनगवेषिणोऽन्वाक्रमन्ते। तत्र तेषां निक्षिप्ते पादे सञ्छिद्यते त्वङ्मांसशोणितं। पुनरुत्क्षिप्ते पादे सञ्जायते त्वन्मांसशोणित॥



 



तस्य खलु क्षुरधाराचितस्य पथः समनन्तरं सन्निहितमेवासिपत्रवनं। तत्र ते सत्त्वा अभिगम्य लयनगवेषिणस्तच्छायामासेवन्ति। तत्र तेषामधस्तान्निषण्णानां वृक्षादसयः पतन्ति ये तेषां सत्त्वानामङ्गप्रत्यङ्गानि च्छिन्द्रयन्ति व्यतिभिन्दन्ति। तेषां तत्र पतितानां श्यामशबला नामश्वान आगत्य पृष्ठीवंशानुत्पाट्योत्पाट्य भक्षयन्ति॥



 



तस्य खल्वसिपत्रवनस्य समनन्तरं सन्निहितमेवायःशाल्मलीवनं यत्ते सत्त्वा लयनगवेषिणोऽभिगम्याभिरोहन्ति। तेषां तत्राभिरोहतामधोमुखीभवन्ति कण्टकाः। अवतरतामुर्ध्वीभवन्ति कण्टका ये तेषामङ्गप्रत्यङ्गानि च्छिद्रयन्ति व्यतिभिन्दन्ति। तत्र चायस्तुण्डानाम वायसा ये तेषां सत्त्वानामंसे वा शिरसि वाभिनिपत्यभित्त्वाक्षितारका उत्पाट्योत्पाट्य भक्षयन्ति॥



 



तस्य खल्वयःशाल्मलीवनस्य समनन्तरं सन्निहितमेव वैतरणी नदी पूर्णा क्वथितस्य क्षारोदकस्य यत्र ते सत्त्वा लयनगवेषिणः प्रपतन्ति। त ऊर्ध्वमपि गच्छन्तः खिद्यन्ते पच्यन्ते। अधस्तिर्यगपि गच्छन्तः स्विद्यन्ते पच्यन्ते। तद्यथा नाम मुद्गा वा माषा कोला वा कुलत्था वोदाराग्निसम्प्रदीप्तोदकायां स्थाल्यां प्रक्षिप्ताः। तस्याः खलु नद्या उभयतस्तीरे दण्डहस्ता बडिशहस्ता जालहस्ता सत्त्वा व्यवस्थिता ये तेषां सत्त्वानामुद्गन्तुमपि न प्रयच्छन्ति वडिशोद्धारिकया वा जालोद्धारिकया वा पुनरुद्धृत्योदाराग्निसन्तप्तायां भूमावुत्तानकान्प्रतिष्ठाप्य पृच्छन्ति हभ्मोः सत्त्वाः किमिच्छथ। त एवमाहुः। न जानीमो वयमपि न पश्यामः अपितु बुभुक्षिताः स्मः। ततस्ते सत्त्वास्तेषां सत्त्वानामयोमयेन विष्कम्भनेन मुखं विष्कम्भयित्वायोगुडानुदाराग्निसन्तप्तानास्ये प्रक्षिपन्ति पूर्ववत्। सचेत्पुनरेवं वदन्ति पिपासिताः स्मः। ततस्ते तथैव क्वथितं ताम्रमास्ये प्रक्षिपन्ति। ततोनिदानं च पुनर्दीर्घकालं दुःखं प्रत्यनुभवन्ति। यावत्तन्नरकवेदनीयं पापकमकुशलं कर्म सर्वेण सर्वं न परिक्षीणं भवति व्यन्तीकृतं॥



 



तत्र यश्च क्षुरधाराचितः पथो यच्चासिपत्रवनं यच्चायःशाल्मलीवनं या च वैतरणी नदी अयमेक उत्सद इति कृत्वा चत्वार उत्सदा भवन्ति॥



 



तत्र शीतनरकेषूपपन्नाः सत्त्वा एवंरूपं शीतदुःखं प्रत्यनुभवन्ति। अर्बुदोपपन्नाः सत्त्वास्तद्भूमिकेनोदारेण शीतेन स्पृष्टा अर्बुदवत्सर्वाश्रयेण सङ्कोचमापद्यन्ते। तस्माच्च स नरकोऽर्बुद इत्युच्यते॥



 



तत्र निरर्बुदेऽयं विशेषः। अर्बुदनिर्गतमिवार्बुदं सङ्कोचमापद्यते। तस्माच्च नरको निरर्बुद इत्युच्यते।



 



तत्राटटो हहवो हुहुवो वागभिलापकृतमेतत्तेषां सत्त्वानां नामव्यवस्थानं॥



 



उत्पले पुनः शीतनरके तद्भूमिकेनोदारेण शीतेन स्पृष्टा व्यानीलायमानाः पञ्चधा षड्धा त्वचां स्फोटमापद्यन्ते। तस्माच्च स नरक उत्पल इत्युच्यते।



 



तत्र पद्मेऽयं विशेषः। नीलतां समतिक्रम्य व्यालोहितायमाना दशधा वा भूयो वा त्वचां स्फोटमापद्यन्ते। तस्माच्च स नरकः पद्म इत्युच्यते॥



 



तत्र महापद्मेऽयं विशेषः। भृशतरं व्यालोहितायमाना शतधा वा भूयो वा त्वचां स्फोटमापद्यन्ते। तस्माच्च स महानरको महापद्म इत्युच्यते॥



 



प्रत्येकनरकेषु पुनरुत्पन्नाः सत्त्वा एवंरूपं प्रत्येकं प्रत्येकमात्मभावेषु स्वकर्मोपनिपाति दुःखं प्रत्यनुभवन्ति। तद्यथा लक्ष्मणेन पृष्टो मोद्गल्यायनो विस्तरेणोदाहृतवान्यथासूत्रमेव। तस्माच्च स नरकः प्रत्येकनरक इत्युच्यते॥



 



तत्र तिर्यञ्चोऽन्योन्यं विप्रघातिकां कुर्वन्ति यथा दुर्बलघातिकां। ततोनिदानं च दुःखं प्रत्यनुभवन्ति। अस्वतन्त्राश्च वाध्यन्ते ताड्यन्ते नुद्यन्ते। उपकरणभूताश्च भवन्ति देवमनुष्याणां। ततोनिदानमपि विचित्राणि दुःखानि प्रतिसंवेदयन्ति॥



 



प्रेताः पुन समासतस्त्रिविधा बहिर्भोजनपानकृतावरणा अध्यात्मं भोजनपानकृतावरणा भोजनपानकृतावरणाश्च॥



 



तत्र बहिर्भोजनपानकृतावरणाः कतमे। ये सत्त्वा मात्सर्यस्याधिमात्रमासेवितत्वात्प्रेतायतन उपपन्नाः। ते च भवन्ति क्षुत्पिपासायोगात्संशुष्कत्वङ्मांसशोणिता दग्धस्थूणाकृतयः केशानुकारैर्मुखैः क्षुत्पिपासापरिगतवदनाः संशुष्कमुखा लेलिहमानजिह्वाः सम्भ्रान्तवदनास्तेन तेनान्वाहिण्डन्त्युत्ससरस्तडागेषु। तत्र चापरैरसिहस्तैः पाशहस्तैस्तोमरहस्तैः सत्त्वैस्तेभ्य उत्ससरस्तडागेभ्यो निवार्यन्ते। तच्च पानीयं पूयशोणितं पश्यन्ति। तेन स्वयमेवापातुकामता सन्तिष्ठते। इम एवंरूपाः प्रेता बहिर्धाभोजनपानकृतावरणाः॥



 



अध्यात्मं भोजनपानकृतावरणाः कतमे। तद्यथा सूचीमुखा उल्कामुखा गलगण्डकाश्च महोदराः। तथा हि ते स्वयमेव परैरकृतावरणा लब्ध्वापि भोजनपानं न शक्नुवन्ति भोक्तुं वा पातुं वा। इम एवंरूपाः प्रेता अध्यात्मं भोजनपानकृतावरणाः॥



 



भोजनपानकृतावरणाः कतमे। सन्ति ज्वालामालिनो नाम प्रेता येषां भुक्तं भुक्तं पीतं पीतं सर्वमवदह्यते येनैषां क्षुत्पिपासादुःखं न कदाचिदपैति॥



 



सन्ति च प्रेता अवस्करभक्षा नाम य एकत्येऽमेध्यं भक्षयन्ति प्रस्रावं पिबन्ति। यद्वाशुचि दुर्गन्धमामगन्धं प्रतिकूलं प्रतिक्रुष्टं तच्छक्नुवन्ति भक्षयितुं वा पातुं वा। अप्येके स्वमांसमप्युत्कृत्य भक्षयन्ति। यत्तु भवति शुचि वा प्रणीतं वा तन्न शक्नुवन्ति भोक्तुं वा पातुं वा। इम एवंरूपाः प्रेता भोजनपानकृतावरणा इत्युच्यन्ते॥



 



तत्र मनुष्येषूपपन्नाः सत्त्वा एवंरूपं विघातदुःखं प्रत्यनुभवन्ति। सहजं तावत्क्षुत्पिपासाविघातदुःखं। इच्छाविघातिकं कदशनविघातदुःखं। औपक्रमिकं पर्येष्टिपरिश्रमादिविघातदुःखं ऋतुपरिणामिकं शीतोष्णविघातदुःखं। पारिस्रविकमगाराद्यनावरणकृतं विघातदुःखं। व्यवहारसमुच्छेदिकमन्धकाराद्यावरणकृतं विघातदुःखं। तथा परिभोग जरादुःखं व्याधिदुःखं मरणदुःखं। तथा हि नरकेषु मरणमेव सुखं मन्यते। अतस्तत्र तनू न दुःखं व्यवस्थाप्यते॥



 



देवेषु च मर्मच्छेदो नास्ति। अस्ति च च्यवनपतनदुःखं। यथोक्तं। च्यवमानस्य देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति। असंक्लिष्टानि वासांसि क्लिश्यन्ते। अम्लानपूर्वा माला म्लायन्ति। कक्षाभ्यां स्वेदो मुच्यते। दौर्गन्ध्यं काये च क्रामति। स्व आसने देवो वा देवपुत्रो वा न रमते॥ तस्य तस्मिन्समये परिषण्डे परिगतस्य ता अप्सरसस्तदन्यैर्देवपुत्रैः सार्धं परिचरन्ति। स ता दृष्ट्वा ततो निदानं महद् दुःखदौर्मनस्यं प्रतिसंवेदयते। तथा मद्ग भावकृतमपि दुःखं प्रत्यनुभवति। तत् कस्य हेतोः। तथा हि। तत्र यो विस्तीर्णतरेण पुण्यस्कन्धेन समन्वागतो भवति तस्य दिव्याः पञ्च कामगुणा उदारतराः प्रादुर्भवन्ति। तत्र तदन्येषां निकृष्टपुण्यतराणां देवपुत्राणां दृष्ट्वा मद्गुभावः सन्तिष्ठते। ततो निदानं विपुलं दुःखदौर्मनस्यं प्रतिसंवेदयति। तथा छेदनभेदनप्रवासबाधनघातकदुःखमपि प्रत्यनुभवति। तत्कस्य हेतोः। तथा हि देवासुरे संग्रामे प्रत्युपस्थिते अन्योन्यं देवा असुराश्च प्रतिविरुद्धाश्चतुर्विधान्यस्राण्यादाय सुवर्णमयानि रूप्यमयानि स्फटिकमयानि वैदूर्यमयानि संग्रामे संग्रामयन्ति। तत्र च देवानां वासुराणां वा अङ्गप्रत्यङ्गच्छेदो भवति। कायभेदोऽपि भवति। तेषामङ्गप्रत्यङ्गानि छिन्नानि पुनरपि जायन्ते। भिन्नश्च कायः पुनरपि विरोहति। यदा तु शिरश्छिन्नं भवति तदा वधमनुप्राप्नुवन्ति। तत एकदा देवाः पराजीयन्ते एकदा असुराः यद्भूयसा तु देवा जयन्ति प्रभूतबलतया। तयोर्ये पराजीयन्ते तेषां स्व पुरं प्रविष्टानां निर्वृतिः। न तेऽन्योन्यं पुनर्गम्या भवन्ति। तत्र देवाश्चासुरकन्यानामर्थेऽसुरैः सार्धं प्रतिविरुद्धाः। असुराश्चतुर्विधायाः सुधाया अर्थे देवैः सार्धं प्रतिविरुद्धाः। असुराश्च देवगतिसंगृहीता एव द्रष्टव्याः। ते तु मायाविनो वञ्चनाभिप्राया मायाशाठ्यबहुलाः। अतो न तथा शुक्लधर्माणां भाजनभूतास्तद्यथा देवाः। अत एकदा सूत्रान्तरेषु पृथग्गतिनिर्द्देशेन निर्दिष्टाः। ते सुरा एव समाना न सुरधर्ममादाय वर्तन्ते। तस्मादसुराः॥ बलवत्तरश्च देवपुत्रः कुपितः समानो दुर्बलतरं देवपुत्रं स्वस्माद्भवनात्प्रच्यावयति प्रवासयति। तस्माद्देवास्त्रिविधं दुःखं प्रत्यनुभवन्ति च्यवनपतनदुःखं मद्गुभावदुःखं छेदनभेदनवधप्रवासनदुःखं च॥



 



[रूपारूप्यावचराः ]



 



रूपारूप्यावचराणां सत्त्वानां नास्ति सर्वश एव तद्दुःखं। दुःखाया वेदनाया यस्मात्ते सत्त्वा न भाजनभूताः। अपि तु दौष्ठुल्यदुःखेन तेऽपि दुःखिताः सक्लेशत्वात्सावरणत्वाच्च्युतौ स्थाने वास्वतन्त्रत्वात्। अनास्रवो धातुः सर्वदौष्ठुल्यदुःखसमुच्छिन्नः। तस्मात्परमार्थतस्तदेव सुखं। सर्वमन्यद्दुःखं वेदितव्यं॥



 



तत्र नरकेषु चतुर्विधेष्वपि सुखप्रतिसंवेदना नास्ति। यथा नरकेष्वेवं त्रिविधेषु प्रेतेषु। महर्धिकेषु प्रेतेषु मनुष्येषु च बहिर्मुखनिर्गतमुपकरणसुखं दुःखव्यतिकीर्णव्यतिमिश्रमुपलभ्यते॥



 



तत्र मनुष्येषु चक्रवर्तिसुखमग्र्यं श्रेष्ठं प्रणीतं। चक्रवर्तीपुनर्लोक उत्पद्यमानः सप्तरत्नसमन्वागत उत्पद्यते। यस्येमान्येवंभूतानि सप्तरत्नानि भवन्ति। तद्यथा चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमं॥



 



कथंरूपमस्य तस्मिन्समये चक्ररत्नं सम्भवतीति यथासूत्रमेव सप्तानां रत्नानां प्रादुर्भावो वक्तव्यः॥



 



तत्र चातुर्द्वीपिकस्य कोट्ठराजानः स्वयमेवोपनमन्ति। इमे देवस्य जनपदाः। तान्देव समनुशासतु। वयं देवस्यानुयात्रिका भविष्यामः। तत्र राजा चक्रवर्त्याज्ञापयति। तेन हि यूयं ग्रामण्यः स्वकस्वकविजितानि समनुशासत धर्मेण माधर्मेण। मा च वोऽधर्मचारिणो विषमचारिणो राष्ट्रे वासो रोचेत। त्रिद्वीपिकस्य दूतसम्प्रेषणेनोपनमन्ति। द्विद्वीपिकस्य व्युत्तिष्ठन्ते। आकलिताश्चोपनमन्ति।



 



देवा पुनर्महतीं स्वर्गभूमिं प्रत्यनुभवन्ति वर्णवन्तो रतिबहुलाः स्वेषु विमानेषु चिरस्थितयः। तेऽन्तर्बहिःकायेन शुचयो निरामगन्धाः। तेषां यान्यशुचिद्रव्याणि। तद्यथा रजो मलमस्थिस्नायुशिरावृक्काहृदयादीनि तद्यथा मनुष्याणां। तानि न भवन्ति। चतुर्विधानि च तेषां विमानानि भवन्ति। सुवर्णमयानि रूप्यमयानि स्फटिकमयानि वैदूर्यमयानि। नानाभक्तिविचित्रितानि कूटागाररमणीयानि हर्म्य रमणीयकानि हर्म्यरमणीयकानि वेदिकारमणीयकानि जालवातायनरमणीयकानि नानामणिप्रत्यर्पितान्यामुक्तावभासानि समन्ततो भान्ति॥



 



तथा भोजनवृक्षा यतो भोजनं चतुर्विधा सुधा निर्वर्तते। नीला पीता लोहितावदाता। एवं पानवृक्षा यतो मधुमाधवं पानं निर्वर्तते। यानवृक्षा यतो विचित्राणि यानानि निर्वर्तन्ते रथयुग्मशिविकाप्रभृतीनि॥ वस्त्रवृक्षा यतो विविधानि वस्त्राणि सूक्ष्माणि स्थूलानि सुशुक्लानि नानाविधरङ्गाणि सुवर्ण भक्तिविचित्रितानि प्रादुर्भवन्ति। अलङ्कारवृक्षा यतो विविधा अलङ्कारा निर्वर्तन्ते मणयः केयूराः कुण्डलानि हर्षाः कटका हस्ताभरणानि पादाभरणानि। एवम्भागीया विचित्रा अलङ्कारा विचित्रमणिप्रत्यर्पिताः प्रादुर्भवन्ति॥ गन्धधूपमाल्यवृक्षा यतो विचित्रा गन्धा विविधा धूपा विविधानि माल्यानि। येषां पारियात्रकः कोविदारोऽग्रः श्रेष्ठो वरः प्रणीतः। तस्य पञ्च योजनानि मूलाभिनिवेशः। योजनशतमुच्चः। अशीतियोजनानि शाखापत्रपलाशं स्फरित्वा तिष्ठति। तस्य सर्वपरिफुल्लस्य योजनशतमनुवातं गन्धो वाति। पञ्चाशद्योजनानि प्रतिवातं। तस्य चाधस्ताद्देवास्त्रयस्त्रिंशाश्चतुरो वार्षिकान्मासान् दिव्यैः पञ्चभिः कामगुणैः क्रीडन्ति॥ तथा हास्यनृत्यगीतवादितवृक्षा यतो हास्यनृत्य गीतवादितानां विचित्राणि भाजनानि निर्वर्तन्ते॥ तथा भाण्डोपस्करवृक्षा यतो विचित्रा भाण्डोपस्करा निर्वर्तन्ते। तद्यथा भोजनभाण्डोपस्करः पानभाण्डोपस्करः शयनासनभाण्डोपस्कर इत्येवम्भागीयो भाण्डोपस्करः। तेषां यथेप्सितं यथाकर्म तान्युपकरणान्युपभोक्तुकामानां हस्ते प्रादुर्भवन्ति॥



 



तत्सदृशोविमानविभूतिसुखपरिभोगश्चासुराणामपि वेदितव्यः॥



 



उत्तरेषु पुनः कुरुष्वेवंरूपा एव वृक्षा कल्पवृक्षा इत्युच्यन्ते। यतस्ते वृक्षादेव स्वयं गृह्णन्ति नो तु चिन्तितं हस्ते सन्तिष्टते। अकृष्टोप्तश्च तत्र शालिः। अममाश्च ते सत्त्वा अपरिग्रहा नियतं च विशेषगामिनः॥



 



तत्र च शक्रस्य देवेन्द्रस्य सर्वश्रेष्ठो वैजयन्तः प्रासादो यत्रैकविंशतिर्निर्यूह शतं। निर्यूहे निर्यूहे कूटागारशतं। कूटागारे कूटागारे सप्तावरकाः। अववरकेऽववरके सप्ताप्सरसः। अप्सरसोऽप्सरसः सप्त सप्त परिचारिकाः॥



 



सर्वश्च भूमिभागो देवानां पाणितलसमो नोत्कूलनिकूलः स्पर्शक्षमश्च। निक्षिप्ते पादे स नमति। उत्क्षिप्ते पाद उन्नमति। जानुमात्रं च नित्यकालं मन्दारकैः पुष्पैरवकीर्णस्तिष्ठति। तत्र पुराणानि पुष्पाणि वायुरपहरति। नवानि पुष्पाण्युपसंहरति।



 



तस्याश्च देवपुर्याश्चतुर्दिशं वीथ्योऽभिरूपा दर्शनीया विचित्राः सुमापिताः। चत्वारि च चतुर्दिशं द्वाराणि मापितान्यभिरूपाणि दर्शनीयानि प्रासादिकानि विचित्राभिरूपप्रभूतपक्षाधिष्ठितानि। चत्त्वारि चोद्यानानि चतुर्दिशमेव। तद्यथा चैत्ररथं पारुषकं मिश्रकं नन्दनवनं च। ततः परेण चतस्रः सौभूमयोऽभिरूपा दर्शनीयाः प्रासादिकाः उत्तरपूर्वेण च देवपूर्याः सुधर्मा देवसभा यत्र देवाः प्रविश्यार्थं चिन्तयन्ति तुलयन्त्युपपरीक्षन्ते। तस्य च सामन्तकेन पाण्डुकम्बलशिला श्वेताभिरूपा दर्शनीया प्रासादिका। ते च देवाः स्वयंप्रभाः। तेषां रात्रिनिमित्तानि प्रादुर्भवन्ति। यतस्तेषामेवं भवति प्रत्युपस्थिता रात्रिर्निर्यातो दिवसः। तद्यथालस्यं पञ्चभिः कामगुणैरक्रीडितुकामता स्त्यानमिद्धं। शकुनयश्च न निकूजन्त इत्येवंभागीयानि निमित्तानि॥



 



ते रात्रिं दिवसान्येकान्तसुखसौमनस्यसमर्पिता दिव्यैः पञ्चभिः कामगुणैः रममाणा एकान्तप्रमादवशगा नृत्यशब्दैर्गीतशब्दैर्वादितशब्दैर्नटनर्तकहासकलासकशब्दैः। विचित्रैश्च रूपदर्शनैरेकान्तमनोज्ञैः। विचित्रैश्च गन्धैरेकान्तसुरभिभिः। विचित्रैश्च रसैरेकान्तस्वादुभिः। विचित्रैश्च स्प्रष्टव्यैरप्सरःप्रधानैरेकान्तःसुखस्पर्शैरपहृतमानसाः कालमतिनामयन्ति। इदमेवंरूपं देवाः सुखं प्रत्यनुभवन्ति। न च तेषां व्याधिर्न परिभेदो न जरोपलभ्यते। न च सहजं दुःखं भोजनपानविधातकृतं। नापि तदन्यानि दुःखानि पूर्ववत्तद्यथा मनुष्येषु॥



 



[रूपावचराः]



 



रूपावचरा देवाः प्रथमध्यानभूमिका विवेकजं प्रीतिसुखं प्रत्यनुभवन्ति। द्वितीयध्यानभूमिकाः समाधिजं प्रीतिसुखं प्रत्यनुभवन्ति। तृतीयध्यानभूमिका निष्प्रीतिकं सुखमण्डं प्रत्यनुभवन्ति। चतुर्थध्यानभूमिका उपेक्षास्मृतिपरिशुद्धं शान्तं सुखं प्रत्यनुभवन्त्यानिञ्जयं॥



 



[आरूप्यावचराः]



 



आरूप्योत्पन्नाः शान्तविमोक्षिकं सुखं प्रत्यनुभवन्ति। अपि खलु षड्भिर्विशेषैर्दुःखविशेषो वेदितव्यः सुखविशेषो वा। परिमाणविशेषेण सौकुमार्यविशेषेण प्रत्ययविशेषेण कालविशेषेण चित्तविशेषेण आश्रयविशेषेण च। यथा यथा सुकुमारतरः कायो भवति तथा तथा दुःखविशेषो भवति। यथा यथा सुकुमारतर आश्रयो भवति तथा तथा दुःखविशेषो भवति। यथा यथा प्रत्ययास्तीव्रतराः प्रचुरतरा विचित्रतरा भवन्ति तथा तथा दुःखविशेषो भवति। यथा यथा कालो दीर्घतरो निरन्तरश्च भवति तथा तथा दुःखविशेषो भवति। यथा यथा प्रतिसंख्यानबलिकतरं चित्तं भवति तथा तथा दुःखविशेषो भवति। यथा यथाश्रयो दुःखभाजनभूततरो भवति तथा तथा दुःखविशेषो भवति॥



 



यथा दुःस्वविशेष एवं सुखविशेषोऽपि विस्तरेण यथायोगं वेदितव्यः॥ अपि खलु द्विविधं सुखमनार्यधनजमार्यधनजं च। तत्रानार्यधनजं सुखं यच्चत्वार्युपकरणानि प्रतीत्योत्पद्यते। तुष्ट्युपपकरणं पुष्ट्युपपकरणं शुद्ध्युपपकरणं स्थित्युपकरणं च॥



 



तत्र तुष्ट्युपपकरणं। तद्यथा यानं वस्त्रमलङ्कारो हास्यनृत्यगीतवादितं गन्ध माल्यविलेपनं विचित्रप्रणीतभाण्डोपस्करता आलोकस्त्रीपुरुषपरिचर्या कोशसन्निधिश्च॥



 



तत्र तुष्ट्युपकरणं। तद्यथा आनन्द व्यायामः शिलाचक्रव्यायामो गदाचक्रव्यायाम इत्येवंभागीयं॥



 



तत्र शुद्ध्युपकरणं। तद्यथा दर्भशङ्खबिल्वं पूर्णकुम्भ इत्येवंभागीयं॥



 



तत्र स्थित्युपकरणं भोजनं पानं॥



 



तत्रार्य धनजं सुखं यत्सप्तार्याणि धनानि प्रतीत्योत्पद्यते श्रद्धाधनं शीलधनं ह्रीधनमपत्राप्यधनं श्रुतधनं त्यागधनं प्रज्ञाधनं॥



 



तत्र पञ्चदशभिराकारैरनार्यधनजात्सुखादार्यधनजं सुखं विशिष्यते। कतमैः पञ्चदशभिः। अनार्यधनजं सुखं दुश्चरितसमुत्थानाय भवति। आर्यधनजं तु न तथा। पुनरनार्यधनजं सुखं सावद्यरतिसम्प्रयुक्तं आर्यधनजं त्वनवद्यरतिसम्प्रयुक्तं। पुनरनार्यधनजं सुखं परीत्तमकृत्स्नाश्रयव्यापितया। आर्यधनजमुदारं कृत्स्नाश्रयव्यापितया। पुनरनार्यधनजं न सार्वकालिकं बहिःप्रत्ययाधीनतया। आर्यधनजं तु सार्वकालिकमध्यात्मप्रत्ययाधीनतया। पुनरनार्यधनजं न सार्वभूमिकं कामावचरत्वादेव। आर्यधनजं पुनः सार्वभूमिकं त्रैधातुकावचरमप्रतिसंयुक्तं च॥ पुनरनार्यधनजं नायत्याम् आर्यानार्यधनावाहकं आर्यधनजं त्वायत्यामार्यानार्यधनावाहकं। पुनरनार्यधनजमुपभुज्यमानं परिक्षयं पर्यादानं गच्छति। आर्यधनजं तु निषेव्यमाणं पृथुवृद्धिवैपुल्यतां गच्छति॥ पुनरनार्यधनजं परैराच्छेद्यं राजभिर्वा चौरैर्वा प्रत्यर्थिभिर्वाग्निना वोदकेन वा। आर्यधनजं त्वनाच्छेद्यं॥ पुनरार्यधनजमित आदायागमनीयं। आर्यधनजं पुनरित आदाय गमनीयं। पुनरनार्यधनजं निषेव्यमाणं न तृप्तये भवति। आर्यधनजं तु निषेव्यमाणं निष्ठागमनतस्तृप्तये भवति॥ पुनरनार्यधनजं सभयं सवैरं सोपद्रवं सपरिदाहं। न चायत्यां दुःखप्रहाणाय भवति॥ तत्र सभयमनागताया दुःखोत्पत्तेराशङ्कापदस्थानभूतत्वात्। तत्र सवैरं कलहभण्डनविग्रहविवादस्थानभूतत्वात्। सोपद्रवं व्याधिजरामरणपदस्थानभूतत्वात्। तत्र सपरिदाहं कुष्ठव्याधिकण्डूवदपरिनिष्पन्नसुखतया विपर्यासपदस्थानभूतत्वाच्छोकपरिदेवदुःखदौर्मनस्योपायासपदभूतत्वाच्च। तत्र नायत्यां दुःखप्रहाणाय रागादिक्लेशोपक्लेशपदस्थानभूतत्वात्॥ आर्यधनजं त्वभयमवैरमनुपद्रवमपरिदाहकरमायत्यां दुःखप्रहाणाय। एतद्विपर्ययेण विस्तरेण यथायोगं वेदितव्यं॥ अपि खलु पञ्चभिराकारैर्बाह्यात्कामिनां कामपरिभोगादार्याणां प्रज्ञाजीविनां धर्मपरिभोगो विशिष्यते येनार्यः प्रज्ञाजीव्यनुत्तरां प्रज्ञाजीविकां जीवतीत्युच्यतेऽसंक्लिष्टत्वाद्धर्मपरिभोगस्यात्यन्तिकत्वाद्धर्मपरिभोगस्यैकान्तिकत्वाद्धर्मपरिभोगस्यासाधारणत्वात्तदन्यैः प्रज्ञाजीविभिर्धर्मपरिभोगस्य परिनिष्पन्नसुखत्वान्निहतमारप्रत्यर्थिकत्वाच्च धर्मभोगस्य॥



 



तत्र कामिनां कामसुखंसौमनस्यस्थानीयमनुनयानुगतं दौर्मनस्यस्थानायं प्रतिघानुगतमुपेक्षास्थानीयमप्रतिसंख्यायोपेक्षानुगतं। नतु तथार्यप्रज्ञाजीविनां धर्मपरिभोगः॥



 



पुनरपरं कामिनां कामोपभोगस्य पूर्वा कोटी न प्रज्ञायते। अनित्यतयान्यान्कामांस्त्यजन्त्यन्यान् कामाल्लँभन्ते। एकदा च न लभन्ते। न तु तथार्यप्रज्ञाजीविनां धर्मोपभोगः पुनरपरं कामिनां कामोपभोगे वर्तमानानां तदेव वस्त्वेकत्यानां सौमनस्यस्थानीयं भवति। तदेवैकत्यानां दौर्मनस्यस्थानीयानि वा। पुनः किञ्चित्कालं सौमनस्यस्थानीयानि भवन्ति। किञ्चित्कालं दौर्मनस्यस्थानीयानि। न तु तथार्यप्रज्ञाजीविनां धर्मोपभोगः। पुनरपरं इतो बाह्यानां संत्यक्तकामानां प्रज्ञाजीविनां तेषु तेषु दृष्टिगतेषु स्वविकल्पसमुत्थापितेषु मिथ्याधिमुक्तिपदेषु स्थामशः परामृश्याभिनिविष्टचेतसां सकामसंक्लेशोऽनुषक्त एव भवति। वीतरागाणामपि पुनः प्रत्युदावृत्तिर्भवति। नतु तथार्यप्रज्ञाजीविनां धर्मोपभोगः॥ पुनरपरं धर्मोपभोगिनां तद्वीतरागाणां च लौकिकानामपि परिनिष्पन्नं कामसुखं विवेकसुखं च भवति। मारप्रत्यर्थिकानुगतं च मायोपमं प्रतिश्रुत्कोपमं प्रतिबिम्बोपमं मरीचिकोपमं स्तप्नोपमं मायाकृतालङ्कारोपमं च यत्सुखं तद् बालाः कामोपभोगिनो लौकिकवीतरागाश्चोन्मत्तकोपमाः प्रतिनिषेवन्ते। मत्तकाद्युपमाश्च निर्जितमारसंग्रामाश्च परिभुञ्जते। तस्मादपरिनिष्पन्नश्च भवति अनिहितमारप्रत्यर्थिकश्च। नतु तथार्यप्रज्ञाजीविनां धर्मोपभोगः॥



 



अपि खलु कथं त्रैधातुकावचराणां सत्त्वानामाश्रयो द्रष्टव्यः। तद्यथा सपरिदाहो गण्डो दौष्ठुल्यानुगतत्वात्॥ कथं तस्मिन्नाश्रये सुखवेदनोपनिपातो द्रष्टव्यः। तद्यथा सपरिदाहे गण्डे शीतसंस्पर्शोपनिपातः॥ कथं तस्मिन्नाश्रये दुःखवेदनोपनिपातो द्रष्टव्यः। तद्यथा सपरिदाहे गण्डे क्षारोपनिपातः। कथमस्मिन्नाश्रयेऽदुःखासुखवेदनोपनिपातो द्रष्टव्यः॥ तद्यथा तस्मिन्नेव सपरिदाहे गण्डे शीतक्षारविनिर्मुक्तप्रकृतिपरिदाहः। अत एव भगवता सुखा वेदनापि परिणामदुःखतया दुःखेत्युक्ता। दुःखाः पुनर्दुःखा दुःखतया। अदुःखसुखा वेदना संस्कारदुःखतया दुःखेत्युक्ता॥



 



यदप्युक्तमस्ति सामिषा प्रीतिः। अस्ति निरामिषा निरामिषतरा निरामिषतमा प्रीतिरिति। तदपि यथासूत्रमेव विस्तरेण वेदितव्यं धातुद्वयपतितं॥



 



यत्पुनर्भगवता संज्ञावेदयितनिरोधसुखं सुखानामग्रत्वेन व्यवस्थापितं तद्विहारसुखमभिसन्धाय नो तु वेदयितसुखं॥



 



यदप्युक्तं त्रीणि सुखानि रागविरागो द्वेषविरागो मोहविराग इति। तान्येतानि त्रीणि दुःखान्यनास्रव एव धातावुपलभ्यते॥



 



तस्मादेभिस्त्रिभिस्त्रिभिः सुखैर्नित्यकालं सुख एवानास्रवो धातुः॥



 



[आहारपरिभोगः]



 



तत्रायमाहारपरिभोगः। तद्यथा जातानां भूतानां त्रैधातुकावचराणां सत्त्वानां चतुर्भिराहारैर्यावदायुःस्थितिर्भवति। यावता तत्र त्रिभिराहारैः स्पर्शेन मनःसञ्चेतनया न सर्वेषां त्रैधातुकावचराणां सत्त्वानां स्थितिर्भवति। कवडीकारेण पुनः कामावचराणामेव सत्त्वानां स्थितिर्भवति। यावता तत्र नरकोपपन्नानां सत्त्वानां सूक्ष्मः कावडीकाराहारगर्भो वायुर्वाति। येन तेषां स्थितिर्भवति। यावता तिरश्चां प्रेतानां मनुष्याणां चौदारिक आहारो यं ते कवडीकृत्य भक्षयन्ति। य एव पुनः सूक्ष्मकललादिगतानां सत्त्वानां देवानां च कामावचराणां। तथाहि। तेषां भुक्तमात्र एव कवडीकार आहारः काये सर्वाङ्गेष्वनुविसरञ्जरामापद्यते। न च तेषामुच्चारप्रस्रावः सन्तिष्ठते॥



 



[मैथुनपरिभोगः]



 



तत्रायं मैथुनपरिभोगो नारकाणां सत्त्वानां सर्वेण सर्वं नास्ति। तथा हि ते तीव्रं च दुःखं प्रत्यनुभवन्ति विचित्रञ्च दीर्घं च निरन्तरं च। ततश्च तेषां पुरुषाणां स्त्रीषु स्त्रीच्छन्द एव नोत्पद्यते। स्त्रीणां च पुरुषे पुरुषच्छन्द एव नोत्पद्यते। कुतः पुनरन्योन्यं द्वयसमापत्तिं समापत्स्यन्ते॥ तिर्यक्षु प्रेतेषु मनुष्येषु सुखदुःखव्यतिकीर्णत्वादाश्रयाणामस्ति मैथुनयोगः। ते चान्योऽन्यं स्त्रियश्च पुरुषाश्च द्वयद्वयं समापद्यन्ते। अशुचि च मुञ्चन्ति। देवानां कामावचराणामस्ति मैथुनसंयोगो नो चाशुचिनिर्मोक्षः। निर्गच्छन्वायुरेव निर्गच्छतीन्द्रियद्वारेण। तत्र चातुर्महाराजकायिकानां द्वयद्वयसमापत्त्या दाहो विगच्छति। यथा चातुर्महाराजकायिकानामेवं त्रायस्त्रिंशानां यामानामन्योन्यं परिष्वजनमात्रकेण दाहो विगच्छति। तुषितानामन्योन्यं परिग्रहणमात्रकेण दाहो विगच्छति। निर्माणरतीनामन्योन्यं हसितमात्रकेण दाहो विगच्छति। परनिर्मितवशवर्तिनामन्योन्यं चक्षुषा चक्षुरुपनिध्याय निरीक्षितमात्रकेण दाहो विगच्छति। तत्र त्रिषु



 



[दारपरिग्रह आवाहविवाहश्च]



 



द्वीपेषु जम्बूद्वीपे पूर्वविदेहेऽवरगोदानीये च दारपरिग्रह आवाहविवाहश्च प्रज्ञायते। उत्तरेषु कुरुष्वममत्वादपरिग्रहत्वात्तेषां सत्त्वानां नास्ति दारपरिग्रहो नावाहविवाहः। यथा त्रिषु द्वीपेष्वेवं प्रेतनरकेषु कामावचरेषु च देवेषु। स्थापयित्वा निर्माणरतीन्परनिर्मितवशवर्तिनश्च देवान् कामावचरेषु देवनिकायेषु नाप्सरसां गर्भः सन्तिष्ठते। चातुर्महाराजकायिकानामंसेवोत्सङ्गे वा मातापित्रोः पञ्चवर्षको वा दारक औपपादुकः सम्भवति त्रायस्त्रिंशकानां षड्वर्षको वा यामानां सप्तवर्षको वा तुषितानामष्टवर्षको वा निर्माणरतीनां नववर्षको वा परनिर्मितवशवर्तिनां दशवर्षको वा दारकोऽसेवोत्सङ्गेवौपपादुकः सम्भवति।



 



[उपपत्तिप्रज्ञप्तिव्यवस्थानं]



 



तत्रेदमूपपत्तिप्रज्ञप्तिव्यवस्थानं। तिस्रः कामोपपत्तयः। सन्ति सत्त्वाः प्रत्युपस्थितकामा ये प्रत्युपस्थितैः कामैरैश्वर्यं वशे वर्तयन्ति। ते पुनः कतमे। तद्यथा। सर्वे मनुष्याश्चातुर्महाराजकायिकाश्च देवानुपादाया च तुषितेभ्यः। इयं प्रथमा कामोपपत्तिः॥



 



सन्ति सत्त्वा निर्मितकामा ये निर्माय निर्माय कामाकामानैश्वर्यं वशे वर्तयन्ति। ते पुनः कतमे। तद्यथा देवा निर्माणरतयः। तेषां च निर्माणरतीनां देवानामात्मनिमित्तं कामनिर्माणं समृध्यति। न परनिमित्तं। ततस्ते स्वनिर्मितैरेव कामैरेश्वर्यं वशे वर्तयन्ति। इयं द्वितीया कामोपपत्तिः॥



 



सन्ति सत्त्वा परनिर्मितकामा ये परनिर्मितैरपि कामैरैश्वर्यं वशे वर्तयन्ति। तद्यथा देवाः परनिर्मितवशवर्तिनः। तथा हि तेषां देवानामात्मनिमित्तमपि निर्माणं समृध्यति परनिमित्तमपि। ततस्ते स्वनिर्माणेऽल्पोत्सुकविहारिणः परिनिर्मितैः कामैरैश्वर्यं वशे वर्तयन्ति। येन ते परनिर्मितवशवर्तिन इत्युच्यन्ते। न तु ते परनिर्मितानेव कामान्निषेवन्ति अपि तु स्वनिर्मितानपि। इयं तृतीया कामोपपत्तिः॥



 



[सुखोपपत्तिः]



 



तिस्र इमाः सुखोपपत्तयः। सन्ति सत्त्वा ये विवेकजेन प्रीतिसुखेन काममभिष्वन्दयन्ति। तद्यथा देवाः प्रथमध्यानभूमिकाः। इयं प्रथमा सुखोपपत्तिः॥



 



सन्ति सत्त्वा ये समाधिजेन प्रीतिसुखेन काममभिष्यन्दयन्ति। तद्यथा देवा द्वितीयध्यानभूमिकाः इयं द्वितीया सुखोपपत्तिः॥



 



सन्ति सत्त्वा ये निष्प्रीतिकेन सुखेन काममभिष्यन्दयन्ति तद्यथा देवास्तृतीयध्यानभूमिकाः। इयं तृतीया सुखोपपत्तिः॥



 



केन कारणेन तिस्रः कामोपपत्तयः। तिश्रश्च सुखोपपत्तयो व्यवस्थापिताः॥



 



[तिस्र एषणाः]



 



आह। तिस्र इमा एषणाः कामैषणा भवैषणा ब्रह्मचर्येषणा च। तत्र ये केचिच्छ्रमणा वा ब्राह्मणा वा कामैषणामापद्यन्ते सर्वे ते तिसृणां कामोपपत्तीनामर्थे। नात उत्तरा नाम भूयः। तत्र ये केचिच्छ्रमणा वा ब्राह्मणा वा भवैषणामापद्यन्ते सुखनिमित्तं सर्वे ते यद्भूयसा सुखकामतया तिसृणां सुखोपपत्तीनामर्थे। तनुभ्यस्तनुतरकास्ते येऽदुःखासुखायाः शान्ताया उपपत्तेरर्थे एषणामापद्यन्ते। तस्मात्तत ऊर्ध्वमुपपत्तिर्न व्यवस्थाप्यते। ये केचिच्छ्रमणा वा ब्राह्मणा वा ब्रह्मचर्येषणामापद्यन्ते सर्वे तेऽनास्रवस्य धातोरर्थे। अप्येके मिथ्याब्रह्मचर्यैषणामापद्यन्त आनिञ्जस्यार्थ आकाशानन्त्यायतनस्य विज्ञानानन्त्यायतनस्याकिञ्चन्यायतनस्य नैवसंज्ञानासंज्ञायतनस्यार्थे मिथ्याविमोक्षतः परिकल्पितस्य। सा च सोत्तरा ब्रह्मचर्येषणा वेदितव्या। निरुत्तरा पुनरनास्रवस्य धातोरर्थे॥



 



[आत्मभावव्यवस्थापनं]



 



तत्रात्मभावव्यवस्थापनं। तद्यथा। चत्वारः सत्त्वानामात्मभावप्रतिलम्भास्त्रैधातुके प्रज्ञायन्ते। अस्त्यात्मभावप्रतिलम्भो यत्रात्मसञ्चेतना सङ्क्रामति न परसञ्चेतना। तद्यथा। सन्ति कामधातौ क्रीडाप्रमोषका नाम देवाः। तेऽस्मिन्समयेऽत्यर्थं क्रीडारतिमण्डनस्थानमनुयुक्ता विहरन्ति। तेषां तथा विहरतां स्मृतिः प्रमुष्यते स्मृतिप्रमोषात्तेषां सत्त्वानां तस्मात्स्थानाच्च्युतिर्भवति। तथा सन्ति मनःप्रदूषिका नाम देवा ये तस्मिन्समयेऽन्योन्यं चक्षुषा चक्षुरुपनिध्याय प्रेक्षन्ते। तेषां तथा प्रेक्षमाणानामन्योन्यं मनांसिप्रदुष्यन्ति मनःप्रदोषात्तेषां सत्त्वानां तस्मात्स्थानाच्च्युतिर्भवति॥



 



अस्त्यात्मभावप्रतिलम्भो यत्र परसञ्चेतना क्रामति नात्मसञ्चेतना। तद्यथा कललगतेषु घनगतेषु पेशीगतेष्वर्बुदगतेषु मातुः कुक्षिगतेषु सत्त्वेषु॥



 



अस्त्यात्मभावप्रतिलम्भो यत्रात्मसञ्चेतना क्रामति परसञ्चेतना च। तद्यथा तेष्वेव जातेषु परिपूर्णेन्द्रियेषु परिपक्वेन्द्रियेषु॥



 



अस्त्यात्मभावप्रतिलम्भो यत्र नैवात्मसञ्चेतना क्रामति न परसञ्चेतना। तद्यथा रूप्यारूप्पावचरेषु देवेषु नारकेषु नरकोपमेषु प्रेतेषु तथागतदूते चरमभविके मैत्रीसमापन्ने निरोधसमापन्नेऽन्तराभविके चेत्येवंभागीयेषु सत्त्वेषु॥



 



[हेतुफलव्यवस्थानं]



 



तत्र हेतुफलव्यवस्थानं चतुर्भिराकारर्वेदितव्यं। लक्षणतोऽधिष्ठानतः प्रभेदतो व्यवस्थानतश्च। तत्र हेतुलक्षणं कतमत्। यत्पूर्वं यच्च प्रतिष्ठाय यच्च सङ्गम्य यस्य धर्मस्य प्राप्तिर्वा सिद्धिर्वा निष्पत्तिर्वा क्रिया वा स तस्य हेतुरित्युच्यते।



 



किंपूर्वा कि प्रतिष्ठाय किं सङ्गम्य कस्य धर्मस्योत्पत्तिर्भवति। स्वबीजपूर्वा बीजाश्रयं स्थापयित्वा तदन्यमाश्रयं प्रतिरूपिणमरूपिणं वा कर्म च प्रतिष्ठाय सहायमालम्बनं च सङ्गम्य कामप्रतिसंयुक्तानां रूपप्रतिसंयुक्तानामारूप्यप्रतिसंयुक्तानामप्रतिसंयुक्तानामुत्पादिता भवति। तच्च यथायोगं।



 



किंपूर्वा किं प्रतिष्ठाय किं सङ्गम्य कस्य धर्मस्य प्राप्तिर्भवति। श्रावकप्रत्येकबुद्धतथागतगोत्रपूर्वाध्यात्माङ्गबलं प्रतिष्ठाय बाह्याङ्गबलं सङ्गम्य क्लेशविसंयोगस्य निर्वाणस्य प्राप्तिर्भवति॥



 



तत्रेदमध्यात्माङ्गबलं। तद्यथा योनिशो मनसिकारोऽल्पेच्छतादयश्च। अध्यात्मं कुशला धर्मास्तद्यथा मनुष्यत्वं। आर्यायतने प्रत्याजातिः। इन्द्रियैरविकलता। अपरिवृत्तकर्मान्तता। आयतनगतः प्रसादः। इत्येवंभागीया धर्मा अध्यात्माङ्गबलमित्युच्यते॥



 



तत्रेदं बाह्याङ्गबलं तद्यथा बुद्धानामुत्पादः। सद्धर्मस्य देशना। देशितानां धर्माणामवस्थानं। अवस्थितानां चानुप्रवर्तनं। परतश्च प्रत्यनुकम्पा। इत्येवंभागीया धर्मा बह्याङ्गबलमित्युच्यते॥



 



तत्र किंपूर्वा किं प्रतिष्ठाय किं सङ्गम्य कस्य धर्मस्य सिद्धिर्भवति। ज्ञेयाधिमुक्तिरुचिपूर्वा प्रतिज्ञाहेतूदाहरणं प्रतिष्ठाय प्रतिवादिनमविलोमां च परिषदं सङ्गम्य साध्यस्यार्थस्य सिद्धिर्भवति॥



 



किंपूर्वा किं प्रतिष्ठाय किं सङ्गम्य कस्य धर्मस्य निष्पत्तिर्भवति। शिल्पज्ञानपूर्वा तदनुगं व्यवसायं प्रतिष्ठाय शिल्पकर्मस्थानीयं भाण्डोपस्करं तस्य तस्य शिल्पकर्मस्थानस्य सिद्धिर्भवति॥



 



किंपूर्वा किं प्रतिष्ठाय किं सङ्गम्य कस्य धर्मस्य स्थितिर्भवति तृष्णापूर्वा पुनहारस्थितिकर्माश्रयं प्रतिष्ठाय चतुर आहारान्सङ्गम्य भूतानां सत्त्वानां स्थितिर्भवति। यापन पुष्टिश्च।



 



किंपूर्वा किं प्रतिष्ठाय किं सङ्गम्य कस्य धर्मस्य क्रिया भवति। स्वबीजपूर्वोत्पत्तिं प्रतिष्ठायोत्पत्तिप्रत्ययं सङ्गम्य सकर्मकस्य धर्मस्य स्वक्रिया प्रज्ञायते स्वकर्मकरणं तद्यथा चक्षुषो दर्शनं। एवमवशिष्टानामिन्द्रियाणां स्वकंस्वकं कर्म वेदितव्यं। तथा पृथिवी धारयति। आपः क्लेदयन्ति। अग्निर्दहति। वायुः शोषयतीत्येवंभागीयं बाह्यानामपि भावानां स्वकस्वकं कर्म वेदितव्यं॥



 



[हेतुप्रत्ययफलाधिष्ठानं ]



 



हेतुप्रत्ययफलाधिष्ठानं कतमत्। पञ्चदशेमानि हेतोरधिष्ठानानि। तद्यथा। वाक्। अनुभवः। वासना। साभिनिष्यन्दं बीजं। श्लिष्टनिरोधः। विषयः। इन्द्रियं। क्रिया। पुरुषकारः। तत्त्वदर्शनं। आनुकूल्यं। शक्तिवैचित्र्यं। सामग्री। अन्तरायः। अनन्तरायश्च॥



 



हेतुप्रत्पयफलप्रभेदः कतमः। दश हेतवः। चत्वारः प्रत्ययाः। पञ्च फलानि॥



 



दश हेतवः कतमे। अनुव्यवहारहेतुः। अपेक्षाहेतुः। आक्षेपहेतुः। अभिनिर्वृत्तिहेतुः। परिग्रहहेतुः आवाहकहेतुः। प्रतिनियमहेतुः। सहकारिहेतु। विरोधहेतुः। अविरोधहेतुश्च॥



 



चत्वारः प्रत्ययाः कतमे। हेतुप्रत्ययः। समनन्तरप्रत्ययः। आलम्बनप्रत्ययः। अधिपतिप्रत्ययश्च॥



 



पञ्च फलानि कतमानि। विपाकफलं। निष्यन्दफलं। विसंयोगफल पुरुषकारफलं। अधिपतिफलं च॥



 



[हेतुप्रत्ययव्यवस्थानं]



 



हेतुप्रत्ययव्यवस्थानं कतमत्। तत्र वाचं हेत्वधिष्ठानमधिष्ठायानुव्यवहारहेतुः प्रज्ञायते। तत्कस्य हेतोः। तथाहि। कामप्रतिसंयुक्तेषु धर्मेषु रूपप्रतिसंयुक्तेष्वारूप्यप्रतिसंयुक्तेषु अप्रतिसंयुक्तेषु नामव्यवस्थानपूर्वा संज्ञा प्रवर्तते। संज्ञापूर्वा वाक्प्रवर्तते। वाचा यथादृष्टं यथाश्रुतं यथामतं यथाविज्ञानमनुव्यवह्रियते। तस्माद्वाचमधिष्ठायानुव्यवमहारहेतुः प्रज्ञाप्यते॥



 



तत्रानुभवहेत्वधिष्ठानमधिष्ठायापेक्षाहेतुः प्रज्ञाप्यते। तत्कस्य हेतोः। तथा हि। यः कामप्रतिसंयुक्तेन सुखेनार्थी भवति स तदपेक्ष्य कामानां लाभं पर्येषते संनिचयं वा प्रतिनिषेवणं वा पर्येषते॥ यो रूपारूप्यप्रतिसंयुक्तेन सुखेनार्थी भवति स तदपेक्ष्य तत्प्रत्ययानां लाभं वा प्रतिनिषेवणं वा पर्येषते। यो वा प्रतिसंयुक्तेन सुखेनार्थी भवति स तदपेक्ष्य तत्प्रत्ययानां लाभं वा प्रतिषेवणं वा पर्येषते। यो वा पुनर्दुःखेनानर्थी स तदपेक्ष्य तत्प्रत्ययानां परिहारं तत्प्रहाणप्रत्ययानां लाभं वा प्रतिनिषेवणं वा पर्येषते। तस्मादनुभवमधिष्ठायाक्षेपहेतुः प्रज्ञाप्यते॥



 



तत्र वासनाहेत्वधिष्ठानमधिष्ठायाक्षेपहेतुः प्रज्ञाप्यते। तत्कस्य हेतोः। तथा हि। शुभाशुभकर्मपरिभाविताः संस्कारास्त्रैधातुकेष्टानिष्टगतिष्व् इष्टानिष्टात्मभावानाक्षिपन्ति। बाह्यानां च भावानां तेनैवाधिपत्येन सम्पन्नविपन्नता। तस्मात्संस्काराणां शुभाशुभकर्मवासनामधिष्ठायापेक्षाहेतुः प्रज्ञाप्यते॥



 



तत्र साभिष्यन्दं बीजं हेत्वधिष्ठानमधिष्ठायाभिनिर्वृत्तिहेतुः प्रज्ञाप्यते। तत्कस्य हेतोः। तथा हि। कामप्रतिसंयुक्तानां धर्माणां रूपारूप्यप्रतिसंयुक्तानां स्वकस्वकाद्बीजात्प्रादुर्भावो भवति। तृष्णा पुनर्बीजाभिनिष्यन्द इत्युच्यते। ततस्तयाभिष्यन्दितं बीजमाक्षिप्तानामात्मभावानामभिनिर्वृत्तये भवति। यथोक्तं।



 



कर्महेतुरुपपत्तये। तृष्णाहेतुरभिनिर्वृत्तय इति।



 



तस्मात्साभिष्यन्दं बीजमधिष्ठायाभिनिर्वृत्तिहेतुः प्रज्ञाप्यते॥



 



तत्र श्लिष्टनिरोधं हेत्वधिष्ठानमधिष्ठाय तथा विषयमिन्द्रियं क्रियां पुरुषकारं तत्त्वदर्शनं च हेत्वधिष्ठानमधिष्ठाय परिग्रहहेतुः प्रज्ञाप्यते। तत्कस्य हेतोः। तथा हि। कामप्रतिसंयुक्तेषु धर्मेषु समनन्तरनिरोधपरिगृहीता संस्काराणां प्रवृत्तिर्भवति। विषयपरिगृहीतेन्द्रियपरिगृहीता क्रियापरिगृहीता पुरुषकारपरिगृहीता च। यथा कामप्रतिसंयुक्तानामेवं रूपप्रतिसंयुक्तानामारूप्यप्रतिसंयुक्तानां तत्त्वदर्शनपरिगृहीता वा पुनस्तदन्येषामप्रतिसंयुक्तानां धर्माणां प्रवृत्तिर्भवति। तस्माच्छिष्टनिरोधं विषयमिन्द्रियं क्रियां पुरुषकारं तत्त्वदर्शनं चाधिष्ठाय परिग्रहहेतुः प्रज्ञाप्यते॥



 



तत्रानुकूल्यहेत्वधिष्ठानमधिष्ठायावहकहेतुः प्रज्ञाप्यते। तत्कस्य हेतोः। तथा हि। कामप्रतिसंयुक्ताः कुशला धर्माः कामप्रतिसंयुक्तान्कुशलान् वैशेषिकान्धर्मानावहन्ति। एवं कामप्रतिसंयुक्ता कुशला धर्मा रूपप्रतिसंयुक्तानारूप्यप्रतिसंयुक्तानप्रतिसंयुक्तान्कुशलान्धर्मानावहन्ति। तदनुकूलतया यथा कामप्रतिसंयुक्ता एवं रूपप्रतिसंयुक्ता रूपप्रतिसंयुक्तान्कुशलान्धर्मान् वैशेषिकानारूप्यप्रतिसंयुक्तानप्रतिसंयुक्तान्। यथारूपप्रतिसंयुक्ता एवमारूप्यप्रतिसंयुक्ता आरूप्यप्रतिसंयुक्तान्कुशलान्धर्मान्वैशेषिकान्प्रतिसंयुक्तानप्रतिसंयुक्तांश्च कुशलान्धर्मान् आवहन्ति। यथारूप्यप्रतिसंयुक्ता एवमप्रतिसंयुक्ता अप्रतिसंयुक्तान्कुशलान्धर्मानावहन्ति। अप्यसंस्कृतं साक्षाद्रूपमावहन्ति। तथा कुशलधर्मा अकुशलान्वैशेषिकान्धर्मानावहन्ति। तद्यथा कामरागो द्वेषं मोहं मानं दृष्टिं विचिकित्सां कायदुश्चरितं वाग्दुश्चरितं मनोदुश्चरितं। यथा कामरागौ एवं द्वेषो मोहो मानो दृष्टिर्विचिकित्सा यथायोगं वेदितव्याः। एवमव्याकृता धर्मा कुशलाकुशलाव्याकृतान्धर्मानावहन्ति। तद्यथा कुशलाकुशलाव्याकृतबीजकमालयविज्ञानमावहन्ति। तथा व्याकृता धर्मा अव्याकृतान्वैशेषिकान्धर्मानावहन्ति। तद्यथा कवडीकार आहारो भूतानां सत्त्वानां स्थितये यापनाया ओजसो बलस्य पुष्टेश्चावाहकस्तदनुकूलतया। तस्मादानुकूल्यहेतुमधिष्ठायावाहकहेतुः प्रज्ञाप्यते॥



 



तत्र शक्तिवैचित्र्यं हेत्वधिष्ठानमधिष्ठाय प्रतिनियमहेतुः प्रज्ञाप्यते। तत् कस्य हेतोः। तथा हि। कामप्रतिसंयुक्ता धर्मा विचित्रस्वभावा विचित्रात्स्वभावविशेषाच्छक्तिवैचित्र्यादुत्पद्यन्ते। यथा कामप्रतिसंयुक्ता एवं रूपप्रतिसंयुक्ता आरूप्यप्रतिसंयुक्ता अप्रतिसंयुक्ताः। तस्माच्छक्तिवैचित्र्यमधिष्ठाय प्रतिनियमहेतुः प्रज्ञाप्यते।



 



तत्र सामग्रीहेत्वधिष्ठानमधिष्ठाय सहकारिहेतुः प्रज्ञाप्यते। तत्कस्य हेतोः। तथा हि। स्वामुत्पत्तिसामग्रीमागम्य कामप्रतिसंयुक्तानां धर्माणामुत्पादो भवति। यथा कामप्रतिसंयुक्तानामेवं रूपप्रतिसंयुक्तानामारूप्यप्रतिसंयुक्तानामप्रतिसंयुक्तानां। यथोत्पत्तिसामग्र्येवं प्राप्तिसामग्री सिद्धिसामग्री निष्पत्तिसामग्री क्रियासामग्री। तस्मात्सामग्रीमधिष्ठाय सहकारिहेतुः प्रज्ञाप्यते॥



 



तत्रान्तरायहेत्वधिष्ठानमधिष्ठाय विरोधहेतुः प्रज्ञाप्यते। तत्कस्य हेतोः। तथा हि। कामप्रतिसंयुक्तानां धर्माणा मुत्पत्तये स चेदन्तरायः प्रत्युपस्थितो भवति नोत्पद्यन्ते। यथाकामप्रतिसंयुक्तानामेवं रूपप्रतिसंयुक्तानामारूप्यप्रतिसंयुक्तानामप्रतिसंयुक्तानां। यथोत्पत्तय एवं प्राप्तये सिद्धये निष्पत्तये क्रियायै। तस्मादन्तरायमधिष्ठाय विरोधहेतुः प्रज्ञाप्यते॥



 



तत्रानन्तरायं हेत्वधिष्ठानमधिष्ठायाविरोधहेतुः प्रज्ञाप्यते। तत्कस्य हेतोः। तथा हि। कामप्रतिसंयुक्तानां धर्माणामुत्पत्तये स चेदन्तरायः प्रत्युपस्थितो भवति भवत्येषामुत्पादः। कामप्रतिसंयुक्तानामेवं रूपप्रतिसंयुक्तानामारूप्यप्रतिसंयुक्तानां यथोत्पत्तिरेवं प्राप्तिः सिद्धिर्निष्पत्तिः। क्रिया। तस्मादनन्तरायमधिष्ठायाविरोधहेतुः प्रज्ञाप्यते॥



 



तत्र बीजं प्रत्ययाधिष्ठानमधिष्ठाय हेतुप्रत्ययः प्रज्ञाप्यते। श्लिष्टनिरोधं प्रत्ययाधिष्ठानमधिष्ठाय समनन्तरप्रत्ययः प्रज्ञाप्यते॥ विषयं प्रत्ययाधिष्ठानमधिष्ठायालम्बनप्रत्ययः प्रज्ञाप्यते। तदन्यानि प्रत्ययाधिष्ठानान्यधिष्ठायाधिपतिप्रत्ययः प्रज्ञाप्यते॥



 



तत्र वासनामानुकूल्यं च हेत्वधिष्ठानं प्रत्ययाधिष्ठानं चाधिष्ठाय विपाकफलं निष्यन्दफलं च प्रज्ञाप्यते। तत्त्वदर्शनं हेत्वधिष्ठानं प्रत्ययाधिष्ठानं चाधिष्ठाय विसंयोगफलं प्रज्ञाप्यते। पुरुषकारं हेत्वधिष्ठानं प्रत्ययाधिष्ठानं चाधिष्ठाय पुरुषकारफलं प्रज्ञाप्यते। अवशिष्टानि हेत्वधिष्ठानानि प्रत्ययाधिष्ठानानि चाधिष्ठायाधिपतिफलं प्रज्ञाप्यते॥



 



तत्र हितार्थो हेतुः। प्रतिष्ठार्थः प्रत्ययः। निष्पत्त्यर्थः फलार्थः। अपि खलु पञ्चभिराकारैर्हेतुव्यवस्थानं भवति। तद्यथा जनको हेतुः। उपायहेतुः। सहभूतो हेतुः। अनन्तरनिरुद्धः। चिरनिरुद्धश्च॥



 



तत्र जनकोऽभिनिर्वृत्तिहेतुः। अवशिष्टा उपायहेतवः सहभूताः। तद्यथा। एकत्यः परिग्रहहेतुः। तद्यथा चक्षुश्चक्षुर्विज्ञानस्य। एवं श्रोत्रादयस्तदन्येषां विज्ञानानामनन्तरनिरुद्धः। तद्यथा। अभिनिर्वृत्तिहेतुः। चिरनिरुद्धः। तद्यथा। आक्षिप्तो हेतुः॥



 



पुनरपरैः पञ्चभिराकारैर्हेतुव्यवस्थानं भवति। तद्यथा। इष्टो हेतुः। अनिष्टो हेतुः। दृष्टिहेतुः। प्रवृत्तिहेतुः। निवृत्तिहेतुश्च॥



 



पुनरपरैः सप्तभिराकारैर्हेतुव्यवस्थानं भवति। तद्यथा अनित्यो हेतुः। न नित्यो धर्मः कस्यचिद्धेतुर्भवति। उत्पत्तिहेतुर्वा प्राप्तिहेतुर्वा। सिद्धिहेतुर्वा। निष्पत्तिहेतुर्वा। स्थितिहेतुर्वा। क्रियाहेतुर्वा। अनित्योऽपि च धर्मोऽनित्यस्य हेतुर्भवन्परभावस्य हेतुर्भवति उत्तरस्य च स्वभावस्य। नो तु तत्क्षणिकस्य परस्योत्तरस्य च स्वभावस्य हेतुर्भवति। उत्पन्नानिरुद्धो भवति नानुत्पन्ननिरुद्धः। उत्पन्ननिरुद्धोऽपि। भवत्प्रत्ययान्तरं लभमानो भवति नालभमानः। प्रत्ययान्तरमपि लब्ध्वा भवन् विकारमापद्यमानो भवति न विकारमनापन्नः। विकारमापद्यमानोऽपि भवञ्छक्तियुक्ताद्भवति न शक्तिहीनात्। शक्तियुक्तादपि भवन्ननुरूपानुकूलाद्भवति नाननुरूपाननुकूलादित्येभिः सप्तभिराकारैर्हेतुना यथायोगं व्यवस्थानं वेदितव्यं॥



 



तत्र लक्षणप्रज्ञप्तिव्यवस्थानं कतमत्। तत्सप्ताकारं वेदितव्यं। शरीरतोऽपि। आलम्बनतोऽपि। आकारतोऽपि समुत्थानतोऽपि। प्रभेदतोऽपि। विनिश्चयतोऽपि। प्रवृत्तितोऽपि॥ तत्रोद्दानं।



 



शरीरमालम्बनमाकारः समुत्थानं प्रभेदनं।



विनिश्चयः प्रवृत्तिश्च लक्षणस्य समासतः॥



 



वितर्कविचाराणां शरीरं कतमत्। आलम्बनेऽनभ्यूहतश्चेतनशरीरावितर्कविचाराः। आलम्बने पुनरभ्यूहतो ज्ञानशरीरा वितर्कविचारा वेदितव्याः॥



 



तत्र वितर्कविचाराणामालम्बनं कतमत्। नामकायपदकायव्यञ्जनकायाश्रितोऽर्थ आलम्बनं॥



 



वितर्कविचाराणामाकारः कतमः। तस्मिन्नेवालम्बनेऽर्पणानर्पणाकारो वितर्कः॥ तत्रैव पुनः प्रत्यवेक्षणाकारो विचारः॥



 



वितर्कविचाराः किं समुत्थानाः। वाक्समुत्थानाः॥



 



वितर्कविचाराणां प्रभेदः कतमः। सप्तविधः प्रभेदः। नैमित्तिकः पूर्ववद्यावदक्लिष्टश्च॥



 



वितर्कविचाराणां विनिश्चयः कतमः। यो वितर्कविचारः विकल्पोऽपि सः। यो विकल्पो वितर्कविचारोऽपि सः। यस्तावद्वितर्कविचारो विकल्पोऽपि सः। स्यात्तु विकल्पो न वितर्कविचारः। लोकोत्तरज्ञानमपेक्ष्य तदन्ये सर्वे त्रैधातुकावचराश्चित्तचैतसिका धर्मा विकल्पेन न वितर्कविचारः॥



 



वितर्कविचाराणां प्रवृत्तिः कतमा। नारकाणां वितर्कविचाराः किमाकाराः प्रवर्तन्ते किंस्पर्शाः किंसमुदीरिताः किंसम्प्रयुक्ताः किंप्रार्थनाः किंकर्मकाः। यथा नारकाणामेवं तिरश्चां प्रेतानां मनुष्याणां कामावचराणां देवानां प्रथमध्यानभूमिकानां देवानां वितर्कविचाराः किमाकाराः किंस्पर्शाः किंसमुदीरिताः किंसम्प्रयुक्ताः किंप्रार्थनाः किंकर्मकाश्च प्रवर्तन्ते।



 



तत्र नारकाणां वितर्कविचारा एकान्तेन दैन्याकारा अनिष्टविषयसंस्पर्शा दुःखसमुदीरिता दौर्मनस्यसम्प्रयुक्ता दुःखविमोक्षप्रार्थनाश्चित्तसंक्षोभकर्मकाश्च प्रवर्तन्ते॥



 



यथा नारकाणामेवं दुःखितानां प्रेतानां तिरश्चां मनुष्याणां प्रेतसहगतिकानां वितर्कविचारा बाहुल्येन दैन्याकारा अल्पमोदाकाराः। बाहुल्येनानिष्टविषयसंस्पर्शा अल्पेष्टविषयसंस्पर्शाः। बाहुल्येन दुःखसमुदीरिता अल्पसुखसमुदीरिताः। बाहुल्येन दौर्मनस्याल्पसौमनस्यसंप्रयुक्ताः। बाहुल्येन दुःखविमोक्षप्रार्थना अल्पसुखसमवधानप्रार्थनाश्चित्तसंक्षोभकर्मकाश्च प्रवर्तन्ते।



 



देवानां कामावचराणां वितर्कविचारा बाहुल्येनामोदाकारा अल्पं दैन्याकाराः। बाहुल्येनेष्टविषयसंस्पर्शा अल्पमनिष्टविषयसंस्पर्शाः। बाहुल्येन सुखसमुदीरिता अल्पं दुःखसमुदीरिताः। बाहुल्येन सौमनस्यसंप्रयुक्ता अल्पं दौर्मनस्यसंप्रयुक्ताः। बाहुल्येन सुखसमवधानप्रार्थना अल्पं दुःखविमोक्षप्रार्थनाश्चित्तसंक्षोभकर्मकाश्च प्रवर्तन्ते॥



 



प्रथमध्यानभूमिकानां देवानां वितर्कविचारा एकान्तेनामोदाकाराः। एकान्तेनाध्यात्ममिष्टविषयसंस्पर्शाः। एकान्तेन सुखसमुदीरिताः। एकान्तेन सौमनस्यसंप्रयुक्ताः। एकान्तेन सुखावियोगप्रार्थनाश्चिन्तासंक्षोभकर्मकाश्च॥



 



[योनिशो मनस्कारप्रज्ञप्तिः]



 



तत्र योनिशो मनस्कारप्रज्ञप्तिव्यवस्थानं कतमत्। तदुष्टाकारं वेदितव्यम्। अधिष्ठानतोऽपि। वस्तुतोऽपि। पर्येषणतोऽपि। परिभोगतोऽपि। सम्यक्प्रतिपत्तितोऽपि। श्रावकयानसंभारप्रयोगतोऽपि। प्रत्येकबुद्धयानसंभारप्रयोगतोऽपि। पारमितानिर्हारप्रयोगतोऽपि॥ तत्रोद्दानं।



 



अधिष्ठानं च वस्तु च एषणा परिभोगता।



प्रतिपत्तिश्च बोधी द्वे तथा पारमितेन च॥



 



योनिशो मनस्कारप्रयुक्तानां वितर्कविचाराणामधिष्ठानं कतमत्। षडधिष्ठानानि। तद्यथा। निश्चयकालः। निवृत्तिकालः। कर्मकालः। लौकिकवैराग्यकालः। लोकोत्तरवैराग्यकालः। सत्त्वानुग्रहकालश्च॥



 



योनिशो मनस्कारसम्प्रयुक्तानां वस्तु कतमत्। अष्टौ वस्तूनि। दानमयं पुण्यक्रियावस्तु। शीलमयं। भावनामयं। श्रुतमयं। चिन्तामयं। तदन्यद्भावनामयं। प्रतिसंख्यानमयं। सत्त्वानुग्रहमयं च॥



 



योनिशो मनस्कारप्रयुक्तानां वितर्कविचाराणामेषणा कतमा। यथापीहैकत्यो धर्मेणासाहसेन भोगान्पर्येषते नाधर्मेण साहसेन॥



 



परिभोगः कतमः। यथापि स एव तथा भोगान्पर्येष्यारक्तः परिभुङ्क्तेऽसक्तोऽगृद्धोऽग्रथितोऽमूर्च्छितोऽनध्यवसितोऽनध्यवसायमापन्न आदीनवदर्शी निःसरणप्रज्ञ इवभुङ्क्ते॥



 



सम्यक्प्रतिपत्तिः कतमा। यथापीहैकत्यो मातृज्ञः पितृज्ञः श्रामण्यो बाह्मण्यः कुलज्येष्ठापचायकोऽर्थकरः कृत्यकर इहलोके परलोकेऽवद्यदर्शी दानानि ददाति। पुण्यानि करोति। उपवासमुपवसति। शीलं समादाय वर्तते॥



 



श्रावकसंभारप्रयोगं श्रावकभूमौ विस्तरेण वक्ष्यामि। प्रत्येकबुद्धसंभारप्रयोगं प्रत्येकबुद्धभूमौ विस्तरेण वक्ष्यामि। पारमितानिर्हारप्रयोगं बोधिसत्त्वभूमौ विस्तरेण वक्ष्यामि।



 



अपि खलु चत्वारि दानपतेर्लक्षणानि। इच्छा। अपक्षपातः विघातापनयः। सम्यग्ज्ञानं च॥



 



चत्वारि शीलवल्लक्षणानि। इच्छा। सेतुबन्धः असमुदाचारः। सम्यग्ज्ञानं च॥



 



चत्वारि भावकलक्षणानि। आशयविशुद्धिः। उपसंहारविशुद्धिः अधिमुक्तिसमापत्तिविशुद्धिः। ज्ञानविशुद्धिश्च॥



 



षड्विधं पैण्डिल्यं। समादानपैण्डिल्यं। आजीविकपैण्डिल्यं। पतितपैण्डिल्यं। निसर्गपैण्डिल्यं। विषयवैकल्यस्थपैण्डिल्यं। परिगर्धपैण्डिल्यं च॥



 



अष्टविध उपघातः। जिघत्सोपघातः। पिपासोपघातः। कदनोपघातः। परिश्रमोपघातः। शीतोपघातः। उष्णोपघातः। अनावरणोपघातः। आवरणोपघातश्च॥



 



पुनः षड्विध उपघातः। सहजः। इच्छाविघातिकः। औपक्रमिकः। ऋतुपरिणामिकः। पारिस्रविकः। व्यवहारसमुच्छेदिकश्च॥



 



षड्विधोऽनुग्रहः। उपस्तम्भानुग्रहः। उपक्रमानुपघातानुग्रहः। गोपनानुग्रहः। गन्धमाल्यलेपनानुग्रहः संवासानुग्रहश्च॥



 



चत्वार्यमित्रलक्षणानि। कोपाशयानुत्सर्गः। इष्टविप्रतिबन्धावस्थानं। अनिष्टोपसंहारः। अपथ्योपसंहारश्च॥



 



एतद्विपर्ययेण चत्वार्येव मित्रलक्षणानि वेदितव्यानि॥



 



त्रिविध उपसंहारः। उपकरणोपसंहारः। सप्रीतिकसुखोपसंहारः। निष्प्रीतिकसुखोपसंहारः॥



 



अपि खलु चत्वार इमेऽनुवृत्त्यनुगमाः। तद्यथा। अतिथिजनानुवृत्त्युपगमः। परिजनानुवृत्त्युपगमः। गुरुजनानुवृत्त्युपगमः सभ्यजनानुवृत्त्युपगमश्च॥



 



एष खलु चतुर्ष्वनुवृत्त्युपगमेषु चत्वारि स्थानानि निश्चित्य पञ्चविधं फलं वेदितव्यं। तद्यथा अनुग्रहं। अविहेठनां। पूजनां। समसभागानुवर्तनं च। इमानि निश्चित्य महाभोगता। दिग्विदिक्षु यशः। अपरिक्लेशः। निर्वाणप्राप्तिः। सुगतिगमनं च। पुनरिदं पञ्चविधं फलं निर्वर्तते।



 



त्रीणीमानि पण्डितस्य पण्डितलक्षणानि। कुशलसमादानता। कुशलैकान्तिकता। कुशलदृढता च।



पुनस्त्रीणि। अधिशीलसमादानता। अधिचित्तसमादानता। अधिप्रज्ञासमादानता च॥



 



[अयोनिशो मनस्कारप्रज्ञप्तिः]



 



तत्रायोनिशो मनस्कारप्रज्ञप्तिव्यवस्थापनं कतमत्। तत्रोद्दानं।



हेतौ फलमभिव्यक्तिरतीतानागतास्तिता।



आत्मा च शाश्वतं कर्म ईश्चरादिविहिंसता॥



अन्तानन्तं च विक्षेपः अहेतूच्छेदनास्तिता।



अग्रं शुद्धिश्च मङ्गल्यं परवादाश्च षोडश॥



 



[षोडश परवादाः ]



 



षोडश इमे परवादाः। तद्यथा। हेतुफलसद्वादः। अभिव्यक्तिवादः। अतीतानागतद्रव्यसद्वादः। आत्मवादः। शाश्वतवादः। पूर्वकृतहेतुसद्वादः। ईश्वरादि कर्तृकवादः। विहिंसा धर्मवादः। अन्तानन्तिकवादः। अमराविक्षेपवादः। अहेतुवादः। उच्छेदवादः। अग्रवादः। शुद्धिवादः। कौतुक मङ्गलवादश्च॥



 



[हेतुफलसद्वादः]



 



हेतुफलसद्वादः कतमः। यथापीहैकत्यः श्रमणो ब्राह्मणो वा एवंदृष्टिर्भवत्येवंवादी नित्यं नित्यकालं ध्रुवं ध्रुवकालं विद्यत एव हेतौ फलमिति तद्यथा वार्षगण्यः॥



 



ते पुनः केन कारणेन हेतौ फलं पश्यन्ति व्यवस्थापयन्ति परिदीपयन्ति। यदुतागमतो युक्तितश्च॥



 



आगमः कतमः। तत्प्रतियुक्तानुश्रवपरम्परापिटकसम्प्रदानयोगेनैषामागतं भवति विद्यत एव हेतौ फलमिति॥



 



युक्तिः कतमा। यथा स एव श्रमणो वा ब्राह्मणो वा तार्किको भवति मीमांसकस्तर्कपर्यापन्नायां भूमौ स्थितः स्वयं प्रातिभानिक्यां पार्थग्जनिक्यां मीमांसानुचरितायां। तस्यैवं भवति। येभ्यो भावेभ्यो ये भावा उत्पद्यन्ते ते तेषां कारणत्वेन प्रसिद्धाः प्रज्ञाप्यन्ते च। न तदन्ये। तस्य च फलस्यार्थे फलार्थिभिरप्यादीयन्ते न तदन्ये। त एव च तेषु तेषु कृत्येषु विनियुज्यन्ते न तदन्ये। तेभ्यश्च तत्फलमुत्पद्यते न तदन्येभ्यः। अतस्तत्फलं तस्मिंस्तस्मिन्। अन्यथा हि सर्वं सर्वस्य कारणत्वेन व्यवस्थाप्येत। सर्वमुपादीयेत। सर्वं कृत्ये विनियुज्येत। सर्वतः सर्वमुत्पद्येतेति॥



 



प्रज्ञप्तितश्चोपादानतश्च कृत्यविनियोगतश्चोत्पत्तितश्च नित्यकालं हेतौ फलं पश्यन्ति॥



 



स इदं स्याद्वचनीयः कच्चिदिच्छसि हेतुलक्षणं फललक्षणं हेतोर्वा पुनः फललक्षणमभिन्नलक्षणं वा भिन्नलक्षणं वा। स चेदभिन्नलक्षणं। तेन नास्ति हेतुनियमः। फलनियम इति निर्विशिष्टत्वाद्धेतुफलयोर्हेतौ फलं विद्यत इति न युज्यते। सचेद्भिन्नलक्षणं। तेन कच्चिदिच्छसि अनुत्पन्नलक्षणं वोत्पन्नलक्षणं वा। स चेदनुत्पन्नलक्षणं। तेन हेतौ फलमनुत्पन्नमस्तीति न युज्यते॥ स चेदुत्पन्नलक्षणं। तेन हेतौ फलमुत्पद्यत इति न युज्यते। तस्मान्नास्ति हेतौ फलं। हेतौ तु सति प्रत्ययमपेक्ष्योत्पद्यते। तत्र विद्यमानलक्षणो धर्मो विद्यमानलक्षणे धर्मे पञ्चाकारेण लक्षणेन वेदितव्यः। तद्देश उपलभ्यते। तद्यथा। कुम्भे सलिलं। तदाश्रये वोपलभ्यते। तद्यथा चक्षुषि चक्षुर्विज्ञानं। तथैव वा स्वेन लक्षणेनोपलभ्यते। तद्यथा हेतुर्नानुमेयो भवति। स्व च कर्म करोति। विक्रियमाणे च हेतौ विकारमापद्यते विकारप्रत्ययैर्वा। तस्मादपि नित्यकालं ध्रुवकालं विद्यत एव हेतौ फलमिति न युज्यते। अनेनापि पर्यायेणायोगविहित एवैष वाद इत्यविशिष्टलक्षणयोऽपि विशिष्टलक्षणतोऽपि अनुत्पन्नलक्षणतोऽपि उत्पन्नलक्षणतोऽपि न युज्यते॥



 



[अभिव्यक्तिवादः]



 



अभिव्यक्तिवादः कतमः। यथापीहैकत्यः श्रमणो वा ब्राह्मणो वा एवंदृष्टिर्भवत्येवंवादी। विद्यमाना एव भावा अभिव्यज्यन्ते नोत्पद्यन्ते। तद्यथा स एव हेतुफलसद्वादी शब्दलक्षणवादी च॥



 



केन कारणेन हेतुफलसद्वादी हेतौ विद्यमानस्य फलस्याभिव्यक्ति पश्यति। आगमतो युक्तितश्च। आगमः पूर्ववद्द्रष्टव्यः॥



 



युक्तिः कतमा। यथापीहैकत्यः स्वयमेव तार्किको भवति मीमांसक इति। पूर्ववद्विस्तरः। तस्यैवं भवति। नहि हेतौ फलस्य विद्यमानस्योत्पत्तिर्युज्यते। न च न क्रियते प्रयत्नः फलनिष्पत्तये। तच्च किंनिमित्तं क्रियत इति। यावदेवाभिव्यक्त्यर्थ इति। स एवं परिकल्प्याभिव्यक्तिवादी भवति॥



 



तत्र हेतुफलाभिव्यक्तिवादीदं स्याद्वचनीयः। कच्चिदिच्छस्यसत्यावरणकारण आवरणं सति वा। सचेदसति। असत्यावरणकारण आवृतमिति न युज्यते। सचेत्सति। फलसम्बद्धं हेतुं किं नावृणोति। तस्य सत्त्वेऽपि न युज्यते। यथान्धकारं कुण्डे पानीयमावृण्वत्कुण्डमप्यावृणोति। सचेत्पुनर्हेतुरप्यावृत आवरणकारणेन। तेन हेतौ फलं विद्यमानमभिव्यज्यते। न हेतुरिति न युज्यते॥ स इदं स्याद्वचनीयः। किं विद्यमानतावरणकारणमाहोस्वित्फलता। सचेद्विद्यमानतावरणकारणं तेन न नित्यकालमभिव्यक्तिर्विद्यमानस्येति न युज्यते हेतुरपि विद्यते। सचेत्फलता। तेन स एव हेतुर्भवत्येकस्य स एव फलं। तद्यथाङ्करो बीजस्य फलं दण्डादीनां हेतुः। तेन स एवाभिव्यक्तः स एवानभिव्यक्त इति न युज्यते॥



 



तस्मादेवं वचनीयः। कच्चिदिच्छसि तस्माद्धर्मादभिव्यक्तिमनन्यामन्यां वा। सचेदनन्यां। नित्याभिव्यक्तो धर्मोऽभिव्यज्यत इति न युज्यते। सचेदन्यां तेन सा सहेतुका निर्हेतुका वा। स चेन्निर्हेतुका। तेन निर्हेतुकाभिव्यक्तिर्न युज्यते। स चेत्सहेतुका। तेन फल भूतयाभिव्यक्त्यानभिव्यक्ततयाभिव्यक्तिर्न युज्यत इति॥



 



तस्मादावरणकारणासद्भावतोऽपि। आवरणकारणसद्भावतोऽपि। विद्यमानलक्षणतोऽपि। फललक्षणतोऽपि। अभिव्यक्त्यनन्यतोऽपि अभिव्यक्त्यन्यतोऽपि न युज्यते॥



 



तस्माद्यो भावो नास्ति स नास्त्येव तल्लक्षणः। यो भावोऽस्ति सोऽस्त्येव तल्लक्षणः। असतो नास्तित्वमेवानभिव्यक्तिः। सतोऽस्तित्वमेवाभिव्यक्तिः॥



 



सतस्तु यथाऽग्रहणं भवति तल्लक्षणं वक्ष्यामि। विप्रकर्षादपि सतोऽग्रहणं भवति। चतुर्भिरावरणकारणैरावृतत्वादपि। सूक्ष्मादपि चित्तविक्षेपादपि। इन्द्रियोपरमरमोपघातादपि। तत्प्रतिसंयुक्तज्ञानाप्रतिलम्भादपि॥



 



यथा हेतुफलाभिव्यक्तिवाद एवं शब्दाभिव्यक्तिवादोऽप्ययुज्यमानो द्रष्टव्यः। तत्रायं विशेषः। शब्दवादी व्यवस्थितशब्दलक्षणं पश्यति यथैव प्रज्ञप्तं। तस्य व्यवस्थितस्य पुनः पुनरभिधानयोगेनोच्चारणादभिव्यक्तिरिति पश्यति। येनास्यैवं भवति नित्यः शब्द इति तस्मादभिव्यक्तिवादोऽप्ययोगविहितः॥



 



[अतीतानागतद्रव्यसद्वादः]



 



अतीतानागतद्रव्यसद्वादः कतमः। यथापीहैकत्यः श्रमणो वा ब्राह्मणो वा इह धार्मिको वा पुनरयोनिश एवंदृष्टिर्भवत्येवंवादी। अस्त्यतीतं। अस्त्यनागतं। लक्षणेन परिनिष्पन्नं। यथैव प्रत्युत्पन्नं। द्रव्यसत्। न प्रज्ञप्तिसत्॥



 



केन कारणेन स एवंदृष्टिर्भवत्येवंवादी। आगमतो युक्तितश्च॥



 



आगमः कतमः। स पूर्ववद्रष्टव्यः।



 



इह धार्मिको वा पुनः सूत्रान्तानयोनिशः कल्पयति। तद्यथा। सर्वमस्तीति द्वादशायतनानि। द्वादशायतनानि लक्षणतो विद्यन्ते। तद्यथा अस्त्यतीतं कर्मेत्युक्तं भगवता। तद्यथा अस्त्यतीतं रूपमस्त्यनागतं यावद्विज्ञानं॥



 



युक्तिः कतमा। यथापीहैकत्यस्तांकको भवति मीमांसक इति पूर्ववत्। तस्यैवं भवति। यो धर्मो येन लक्षणेन व्यवस्थितः स तेन परिनिष्पन्नः। सचेत्सोऽनागतो न स्यात्तेन तदानुपात्तस्वलक्षणः स्यात्। सचेदतीतो न स्यात्तेन तदा विहीनस्वलक्षणः स्यात्। एवं स सत्यपरिनिष्पन्नस्वलक्षणः स्यात्। तस्मादपरिनिष्पन्नस्वलक्षणः स्यादिति न युज्यते। येन स एवंदृष्टिर्भवत्येवंवादी अस्त्यतीतमपि। अस्त्यनागतमपीति॥



 



स इदं स्याद्वचनीयः। कच्चिदिच्छस्यतीतानागतलक्षणं वर्तमानलक्षणादभिन्नलक्षणं वा भिन्नलक्षणं वा। स चेदभिन्नलक्षणं। त्र्यध्यव्यवस्थानं लक्षणस्य न युज्यते। स चेद्भिन्नलक्षणं परिनिष्पन्नलक्षणं न युज्यते॥



 



स इदं स्याद्वचनीयः। कच्चिदध्वपतितं धर्म नित्यलक्षणमिच्छसि अनित्यलक्षणं वा। स चेन्नित्यलक्षणं त्र्यध्वपतितमिति न युज्यते। स चेदनित्यलक्षणं। तेन त्रिष्वध्वसु तथैव विद्यत इति न युज्यते॥



 



स इदं स्याद्वचनीयः। कच्चिदनागतस्य वर्तमानमध्वानमागतिं वा पश्यसि। च्युत्वा वोपपत्तिं तथैव वा स्थितेऽनागते तं प्रतीत्य वर्तमानोत्पत्तिं। अकर्मकस्य वा सकर्मकत्वं। असम्पूर्णलक्षणस्य वा सम्पूर्णलक्षणत्वं। विलक्षणस्य वा विलक्षणत्वं। अनागतभूतस्य वर्तमानभावः। सचेदागच्छति। तेन देशस्थश्च भवति। वर्तमाननिर्विशिष्टश्च। शाश्वतश्चेति न युज्यते। स चेच्च्युत्वोपपद्यते तेनानागतश्च नोत्पन्नो भवति। अपूर्वश्चोत्पन्नो भवति। अनुत्पन्नश्चच्युतो भवतीति न युज्यते। स चेत्तथैव तत्र स्थितः प्रतीत्योत्पद्यते। न शाश्वतश्च भवति। अपूर्वश्चोत्पन्नो भवति। अनागतश्चोत्पन्नो न भवतीति न युज्यते। सचेदकर्मको वा भूत्वा सकर्मको भवति। तेनाभूत्वा भाव एकत एव यथोक्ता दोषा इति न युज्यते। तच्च कर्म कच्चिदिच्छसि तस्माद्भिन्नलक्षणं अभिन्नलक्षणं वा। सचेद्भिन्नलक्षणं। तस्यानागतलक्षणं नास्तीति न युज्यते। स चेदभिन्नलक्षणं। तेनाकर्मको भूत्वा सकर्मको भवतीति न युज्यते॥



 



यथाकर्मक एवं सम्पूर्णलक्षणो विलक्षणोऽनागतभावलक्षणो वेदितव्यः। तत्रायं विशेषः स्वभावसङ्करदोष इति न युज्यते। यथाऽनागतं वर्तमानं च एवं वर्तमानमतीतं च यथायोगं दोषयुक्तं द्रष्टव्यमेभिरेव कारणैरनेनैवोत्तरमार्गेणेति स्वलक्षणतोऽपि। सामान्यलक्षणतोऽपि। आगतितोऽपि। च्युतितोऽपि। प्रतीत्योत्पत्तितोऽपि। कर्मतोऽपि। सम्पूर्णलक्षणतोऽपि। विलक्षणतोऽपि। अनागतभावतोऽप्यतीतानागतद्रव्यसद्वादो न युज्यते॥



 



एवं व्याकृते च पुनः सत्युत्तरिवदेत्। स चेदतीतानागतं नास्ति। कथमसदालम्बना बुद्धिः प्रवर्तते। सा च पुनः प्रवर्तते। तत्कथमागमविरोधो न भवति। यदुक्तं सर्वमिति यावदेव द्वादशायतनानीति। स इदं स्याद्वचनीयः। कच्चिदिच्छसि नास्तीतिग्राहिकाया बुद्धेर्लोकेऽप्रवृत्तिं वा प्रवृत्तिं वा। सचेदप्रवृत्तिं। तेन या नैरात्म्यग्राहिका शशविषाणवन्ध्यापुत्रादिग्राहिका बुद्धिर्नैवास्तीति न युज्यते। यदप्युक्तं सर्वमस्ति यावदेव द्वादशायतनानीति तदपि सति सल्लक्षणास्तितां सन्धायोक्तं। असति चासल्लक्षणास्तितां। तथाहि सल्लक्षणा अपि धर्माः सल्लक्षणं धारयन्ति। असल्लक्षणा अपि धर्मा असल्लक्षणं धारयन्ति। तस्माद्धर्मा इत्युच्यन्ते। अन्यथा तु सतो ज्ञानादसतश्चाज्ञानाद्योगिनो न निरन्तरज्ञेयधर्मपरीक्षा स्यादिति न युज्यते॥



 



यदप्युक्तमस्त्यतीतं कर्म यतः सत्त्वाः सव्याबद्धा व्याबाधां वेदयन्तीति। तत्रापि तद्वासनायां तदस्तित्वोपचारमभिप्रेत्योक्तं। येषु संस्कारेषु यच्छुभाशुभं कर्मोत्पन्ननिरुद्धं भवति तेन हेतुना तेन प्रत्ययेन विशिष्टा संस्कारसन्ततिः प्रवर्तते सा वासनेत्युच्यते। यस्याः प्रबन्धपतिताया इष्टानिष्टफलं निर्वर्तते इति न युज्यते। ततोऽपि नास्ति दोषः॥



 



यदप्युक्तमस्ति रूपमतीतमस्त्यनागतमस्ति प्रत्युत्पन्नं एवं यावद् विज्ञानमिति। तत्रापि त्रिविधं संस्कारलक्षणं सन्धायोक्तं। हेतुलक्षणं स्वलक्षणं फललक्षणं च। हेतुलक्षणं सन्धायोक्तमस्त्यनागतमिति। स्वलक्षणास्तितां सन्धायोक्तमस्ति प्रत्युत्पन्नमिति। फललक्षणं सन्धायोक्तमस्त्यतीतमिति। अतोऽपि न दोषः॥



 



अपि चैवमयुज्यमाने द्रव्यतोऽतीतानागतलक्षणे द्वादशाकारमनागतलक्षणं वेदितव्यं। हेतुप्रभावितं। अनुत्पन्नशरीरं प्रत्ययापेक्षं। उत्पन्नजातीयं। उत्पत्तिधर्मकमपि। अजातसंक्लेशं। अजातव्यवदानं। प्रार्थनीयमपि। अप्रार्थनीयमपि। परीक्ष्यमपि अपरीक्ष्यमपि।



 



द्वादशाकारमेव प्रत्युत्पन्नलक्षणं। फलप्रभावितं। उत्पन्नशरीरं। समवहितप्रत्ययं। उत्पन्नजातीयं। क्षणिकं। अनुत्पत्तिधर्मकं। समवहितसंक्लेशं। समवहितव्यवदानं। अपेक्षास्थानीयं। अनपेक्षास्थानीयमपि परीक्ष्यं। अपरीक्ष्यमपि।



 



अतीतलक्षणमपि द्वादशाकारं वेदितव्यं। अतीतहेतुकं। अतीतप्रत्ययं। अतीतफलं। विनष्टशरीरं। निरुद्धस्वभावं। अनुत्पत्तिधर्मकं। संशान्तसंक्लेशं। संशान्तव्यवदानं। अपेक्षास्थानीयं। अनपेक्षास्थानीयं। परीक्ष्यं। अपरीक्ष्यं च॥



 



[आत्मवादः]



 



आत्मवादः कतमः। यथापीहैकत्यः श्रमणो वा ब्राह्मण एवंदृष्टिर्भवत्येवंवादी। तद्यथा। इतो बाह्यस्तीर्थ्यः सत्यतः स्थितित आत्मा वा सत्त्वो वा जीवो वा पोषो वा पुद्गलो वेत्यादि। स कस्माद् एवंदृष्टिर्भवत्येवंवादी आगमतो युक्तितश्च॥



 



तत्रागमः पूर्ववत्। युक्तिः कतमा। यथापीहैकत्यस्तार्किको भवति मीमांसक इति पूर्ववत्। द्वाभ्यां कारणाभ्यां। अबुद्धिपूर्वं च सति सत्त्वबुद्धिप्रवृत्त्युपलब्धितः। बुद्धिपूर्वं च चेष्टोपलब्धितः। तस्यैवं भवति। सचेदात्मा न स्यात् पञ्चभिराकारैः पञ्चविधवस्तुदर्शने सत्यात्मबुद्धिर्न प्रवर्तेत। रूपाकृतिं दृष्ट्वारूपबुद्धिरेव प्रवर्तेत न सत्त्वबुद्धिः। सुखदुःखावदीर्णं संस्कारं दृष्ट्वा संज्ञाबुद्धिरेव प्रवर्तेत न सत्त्वपतितोच्छ्रितबुद्धिः। वेदनादिबुद्धिरेव प्रवर्तेत। न सत्त्वपतितोच्छ्रितबुद्धिः। नामिनं नामसम्बद्धं संस्कारं दृष्ट्वा संज्ञाबुद्धिरेव प्रवर्तेत। न क्षत्रियो वा ब्राह्मणो वा वैश्यो वा शुद्रो वा ब्रह्मदत्तो वा गुणमित्रो वेति सत्त्वबुद्धिः। शुभाशुभचेष्टासम्बद्धं संस्कारं दृष्ट्वा संस्कारबुद्धिरेव प्रवर्तेत। न बालपण्डितसत्त्वबुद्धिः। विषये विज्ञानानुवृत्तिं दृष्ट्वा चित्तबुद्धिरेव प्रवर्तेत। नाहं पश्यामीत्येवमादिसत्त्वबुद्धिः। यतश्चैवमबुद्धिपूर्वमेषु पञ्चसु वस्तुषु पञ्चाकारा सत्त्वबुद्धिरेव प्रवर्तते न संस्कारबुद्धिः। तस्मादबुद्धिपूर्वं तावदस्य दृष्ट्वा सत्त्वबुद्धिप्रत्युपलब्धित एवं भवत्यस्त्यात्मेति॥



 



तस्यैवं भवति। सचेदात्मा न स्यान्न संस्कारेषु बुद्धिपूर्वा चेष्टोपलभ्येत। अहं चक्षुषा रूपाणि द्रक्ष्यामि पश्यामि दृष्टवान्। न वा द्रक्ष्यामीत्येवमभिसंस्कारपूर्वंगमं कृत्वा। यथा दर्शन एवं श्रोत्रघ्राणजिह्वाकायमनस्सु वेदितव्यं। एवं कुशलकर्माभिसंस्कारे कुशलकर्मनिर्वृत्तौ अकुशलकर्माभिसंस्कारेऽकुशलकर्मनिर्वृत्तावित्येवमादिका बुद्धिपूर्वा चेष्टा नोपलभ्येत। न चैषा संस्कारमात्रे युज्यते। तस्माद् एवं भवत्यस्त्यात्मेति॥



 



स इदं स्याद्वचनीयः। कच्चिदिच्छसि यदेव पश्यति तत्रैव सत्त्वबुद्धिरुत्पद्यते। आहोस्विदन्यत्पश्यत्यन्यत्र सत्त्वबुद्धिरुत्पद्यते। स चेत्तत्रैव। तेन रूपादिषु सत्त्व इति विपर्यासान्न युज्यतेऽस्त्यात्मेति। स चेदन्यत्र। तेनाकृतिमानात्मेति न युज्यते। पतितोच्छ्रितः। क्षत्रियादिबालपण्डितो रूपादिषु विषयग्राहक आत्मेति न युज्यते॥



 



कच्चिदिच्छसि स्वभावादेव धर्मस्य तद्बद्ब्युत्पत्तिराहोस्वित्परस्वभावादपीति। सचेत्स्वभावादेव। तेन यदेव पश्यति तत्रैव विपर्यस्ता बुद्धिरित्यात्मबुद्धिर्न युज्यते। सचेदन्यस्मादपि तेन सर्वविषयाः सर्वविषयबुद्धेः कारणीभवन्तीति न युज्यते॥



 



कच्चिदिच्छसि असत्त्वसंख्याते सत्त्वसंख्यातबुद्धि। सत्त्वसंख्याते वासत्त्वसंख्यातबुद्धिं। तदन्यसंख्याते पुनस्तदन्यसत्त्वसंख्यातबुद्धिमुत्पद्यमानां वा नो वा। सचेदुत्पद्यते तेनासत्त्वोऽपि सत्त्वः। सत्त्वोऽपि तदन्यसत्त्वो भविष्यतीति न युज्यते। सचेन्नोत्पद्यते। प्रत्यक्षप्रमाणमपवदितं भवतीति न युज्यते॥



 



कच्चिदिच्छसि यासौ सत्त्वबुद्धिः सा प्रत्यक्षार्थग्राहिकानुमानार्थग्राहिका वेति। सचेत्प्रत्यक्षार्थग्राहिका। तेन रूपादयः स्कन्धा एव न सत्त्वः प्रत्यक्ष इति न युज्यते। सचेदानुमानिकार्थग्राहिका तेन बालदारकाणामप्यनभ्यूह्य सहसा प्रवर्तते इति न युज्यते॥



 



स इदं स्याद्वचनीयः। कच्चिदिच्छसि बुद्धिहेतुका वा सत्त्वहेतुका वेति। स चेद्बुद्धिहेतुका। आत्मा चेष्टत इति न युज्यते। स चेदात्महेतुका। बुद्धिपूर्वा चेष्टेति न युज्यते।



 



कच्चिदिच्छसि अनित्यश्चेष्टाहेतुर्नित्यो वेति। सचेदनित्यः। सविकार आत्मा चेष्टत इति न युज्यते। स चेन्नित्यो निर्विकारः। तेन निर्विकारश्चेष्टत इति न युज्यते॥



 



कच्चिदिच्छसि व्यवसायात्मकः सत्त्वश्चेष्टतेऽव्यवसायात्मको वेति। स चेद्व्यवसायात्मकः। तदा सदाचेष्टः पुनश्चेष्टत इति न युज्यते॥ स चेदव्यवसायात्मकः। तेनाव्यवसायात्मकश्चेष्टत इति न युज्यते॥



 



कच्चिदिच्छसि सहेतुकं सत्त्वश्चेष्टते निर्हेतुकं चेष्टते वेति। स चेत्सहेतुकं। सत्त्वस्याप्यन्यश्चेष्टायां प्रेरक इति न युज्यते। सचेन्निर्हेतुकं। सदा सर्वकालं सर्वं चेष्टत इति न युज्यते।



 



कच्चिदिच्छसि सत्त्वः स्वतन्त्रश्चेष्टते परतन्त्रो वेति। स चेत्स्वतन्त्रः। आत्मनो व्याधिं जरां मरणं दुःखं संक्लेशं प्रति चेष्टत इति न युज्यते॥ सचेत्परतन्त्रः। आत्मा चेष्टत इति न युज्यते॥



 



स इदं स्याद्वचनीयः। कच्चित्स्कन्धमात्रे सत्त्वप्रज्ञप्तिमिच्छसि स्कन्धेषु वान्यत्र वा स्कन्धेभ्यः। सचेत्स्कन्धमात्रे। तेन निर्विशिष्टः स्कन्धेभ्यः सत्यतः स्थितितोऽस्त्यात्मेति न युज्यते। सचेत्स्कन्धेषु। स नित्यो वा स्यादनित्यो वा। सचेन्नित्यः। नित्यस्य सुखदुःखाभ्यामनुग्रहोपघातो न युज्यते। अनुग्रहोपघाते वा पुनः सति धर्माधर्मयोः प्रवृत्तिर्न युज्यते। धर्माधर्मयोः प्रवृत्तावसत्यामत्यन्तं देहानुत्पत्तिः। अप्रयत्ने च सदा मुक्त आत्मेति न युज्यते॥ सचेदनित्यः। पृथक्संस्कारेभ्यो भङ्गोत्पत्तिप्रबन्धप्रवृत्तितो नोपलभ्यते इति न युज्यते॥ इह च विनष्टस्यान्यत्राकृताभ्यागमदोष इति न युज्यते। सचेदन्यत्र स्कन्धेभ्यः। तेनासंस्कृतः सत्त्व इति न युज्यते। सचेदस्कन्धकः तेन सदासंक्लिष्टोऽसम्बन्धादात्मेति न युज्यते॥



 



कच्चिदिच्छसि द्रष्ट्रादिलक्षणो वा तदन्यलक्षणो वा। सचेद्द्रष्ट्रादिलक्षणः। तेन किं दर्शनादिषु द्रष्ट्टत्वाद्युपचारं कृत्वा द्रष्ट्टत्वलक्षण आहोस्वित्पृथक्तेभ्यः। सचेद्दर्शनादिषु उपचारे तेन दर्शनादीन्येव द्रष्ट्टणीत्यात्मा द्रष्टेति न युज्यते। निर्विशिष्ट आत्मा दर्शनादिभिः। स चेदन्यस्तेभ्यः। तेन तद्दर्शनादिकमात्मनः कर्म वा स्यात्करणं वा। सचेत्कर्म। तच्च बीजवत्। तेनानित्यत्वान्न युज्यते। सचेत्कुम्भकारादिसंव्यवहारपुरुषवत्। तेनानित्यश्च सांवृतश्चेति न युज्यते। स कामकारीं च सवार्थेष्विति न युज्यते। सचेत्पृथिवीवत्। तेनानित्यश्च। न च पृथिवीवत्स्पष्टकर्मेति न युज्यते। तथाहि पृथिव्याः कर्म स्पष्टमुपलभ्यते। यदधस्तात्तद्वशान्न पतति। सचेदाकाशवत्। तेन रूपाभावमात्र आकाशप्रज्ञप्तिरिति न युज्यते। सत्यपि च प्रज्ञप्तिसत्त्वे स्पष्टं तत्कर्मोपलभ्यते। न त्वात्मन इति न युज्यते। तथा ह्याकाशस्य स्पष्टं कर्मोपलभ्यते यत्तद्वशादागमनगमनसङ्कोचनप्रसारणादिकर्म प्रवर्तते। तस्मात् कर्मेति न युज्यते। सचेत्करणं दात्रादिवत्। तेन यथा दात्रादन्या छेदनादिक्रिया एवं दर्शनादन्यद्दर्शनाद्यन्तरं नोपलभ्यत इति न युज्यते। सचेदग्निवत्। तेन व्यर्थाग्निकल्पनेति न युज्यते। तथा ह्यग्निरन्तरेणापि दाहकं स्वयमेव दहति। सचेद् द्रष्ट्रादिलक्षणात्तदन्यः। तेन सर्वप्रमाणहीन आत्मेति न युज्यते॥



 



स इदं स्याद्वचनीयः। कच्चिदिच्छसि यत्संक्लेशव्यवदानलक्षणयुक्तं तत्संक्लिश्यते वा व्यवदायते वा। यद्वा तदलक्षणयुक्तं। सचेत्संक्लेशव्यवदानलक्षणयुक्तं तत्संक्लिश्यते वा व्यवदायते वा। तेन येषु संस्कारेप्वीतय उपद्रवा उपसर्गास्तद्ब्युपशमानुग्रहा वोपलभ्यन्ते ते संस्काराः संक्लेशव्यवदानलक्षणयुक्ताः। अतोऽसत्यात्मनि ते संक्लिश्यन्ते व्यवदायन्ते चेति न युज्यते। तद्यथा बाह्यभावा आध्यात्मिकाश्व देहाः। सचेत् तदलक्षणयुक्तं। तेन संक्लेशव्यवदानलक्षणविरहितः संक्लिश्यते व्यवदायते वात्मेति न युज्यते॥



 



स इदं स्याद्वचनीयः। कच्चिदिच्छसि यत्प्रवर्तकलक्षणयुक्तं तत्प्रवर्तते च निवर्तते च। तदलक्षणयुक्तं वा। सचेद्यल्लक्षणयुक्तं। तेन संस्कारेषु पञ्चाकारं प्रवर्तकलक्षणमुपलभ्यते। तथा हि। यद्धेतुमदुत्पादशीलं व्ययशीलमन्योन्यपरम्पराप्रवृत्तं विकारि च तत्प्रवर्तकलक्षणं। तच्च संस्कारेषूपलभ्यते। तद्यथा देहाङ्कुरनदीदीपयानस्रोतस्सु। तेनान्तरेणात्मानं संस्कारा एव प्रवर्तन्ते निवर्तन्ते चेति न युज्यते। सचेत्तदलक्षणयुक्तं। तेन प्रवर्तक लक्षणहीन आत्मा प्रवर्तते निवर्तते चेति न युज्यते॥



 



स इदं स्याद्वचनीयः। कच्चिदिच्छसि यो विषयनिर्जाताभ्यां सुखदुःखाभ्यां विकारमापद्यते। यश्च चेतनया विकारमापद्यते। यश्च क्लेशोपक्लेशैर्विकारमापद्यते। स भोक्ता वा कर्ता वा मोक्ता वेति। यो वा न विकारमापद्यते। सचेद्विकारमापद्यते। तेन संस्कारा एव भोक्तारः कर्तारो मोक्तार इत्यनित्य आत्मा इति न युज्यते। सचेन्न विकारमापद्यते। तेन मोक्ता कर्ता मोक्तात्मेति निर्विकारो न युज्यते॥



 



स इदं स्याद्वचनीयः। कच्चिदिच्छस्यात्मन्येव कर्त्रुपचार आहोस्विदन्यत्राप्यात्मनः। सचेदात्मन्येव। अग्निर्दहति। आभालोकं करोतीति न युज्यते॥ सचेदन्यत्रापि। तेन दर्शनादिष्विन्द्रियेषु कर्त्रुपचार इति व्यर्थात्मकल्पनेति न युज्यते॥



 



स इदं स्याद्वचनीयः। कच्चिदिच्छस्यात्मन्येवात्मोपचार आहोस्विदन्यत्रापीति। स चेदात्मन्येव। तेन संव्यवहारः पुरुषदेहे गुणमित्रो बुद्धदत्त इत्येवमादिः न युज्यते। स चेदन्यत्रापि। तेन संस्कारमात्र आत्मोपचार इति व्यर्थात्मकल्पनेति न युज्यते। तथाहि संव्यवहारः पुरुष एवात्र सत्त्व इति संज्ञायते। स्वयं परेषामपि व्यपदिश्यते॥



 



स इदं स्याद्वचनीयः। कच्चिदिच्छसि येयमात्मदृष्टिरियं कुशला वाकुशला वेति। सचेत्कुशला। तेन मूढतराणां भृशतरोत्पद्यते। अन्तरेणापि प्रयोगमुत्पद्यते। मोक्षोत्त्रासकरी दोषपोषिका चेति न युज्यते। सचेद कुशला। तेन तथा सति अविपर्यंस्तेति न युज्यते। सति च तद्विपर्यासे अस्यात्मेति न युज्यते।



 



कच्चिदिच्छसि नैरात्म्यदृष्टिः कुशला वाकुशला वेति। सचेत्कुशला। तेन सत्यतः स्थितितः सत्यात्मनि नैरात्म्यदृष्टिः कुशलाविपरीतेति न युज्यते॥ सचेदकुशला। तेन सर्वज्ञदेशिता प्रयोगजनिता मोक्षानुत्त्रासकरी शुक्लफला दोषाणां प्रतिपक्षभूतेति न युज्यते॥



 



कच्चिदिच्छसि आत्मैवास्त्यात्मेति मन्यते आत्मदृष्टिर्वा॥ सचेदात्मैव। तेन न कदाचिन्नास्त्यात्मेति बुद्धिः स्यादिति न युज्यते॥ सचेदात्मदृष्टिः। तेनासत्यप्यात्मनि संस्कारमात्र आत्मदर्शनवशादस्त्यात्मेति मन्यत इति न युज्यते। तस्मादस्त्यात्मेति न युज्यते॥



 



एवं लक्षणव्यवस्थया संक्लेशव्यवदानव्यवस्थया प्रवृत्तिनिवृत्तिव्यवस्थया भोक्तृकर्तृमोक्तृद्रष्टृप्रज्ञप्त्यापि आत्मास्तीति न युज्यते॥



 



अपितु पारमार्थिकमात्मलक्षणं वक्ष्यामि। धर्मेष्वात्मप्रज्ञप्तिः। स तेभ्योऽन्यानन्यत्वेनावक्तव्यः। मा भूदस्य द्रव्यसत्त्वमिति। तेषां वा धर्माणामात्मलक्षणत्वं स पुनरनित्यलक्षणः। अध्रुवलक्षणः। अनाश्वासिकलक्षणः। विपरिणामलक्षणः जातिधर्मलक्षणः। जराव्याधिमरणधर्मलक्षणः। धर्ममात्रलक्षणः। दुःखमात्रलक्षणः। तथाह्युक्तंभगवता। इतीमे भिक्षो धर्मा आत्मा। अनित्यस्ते भिक्षो आत्मा अध्रुवोऽनाश्वासिकः। विपरिणामधर्मको भिक्षो आत्मेत्येवमादि॥



 



अपि चतुर्भिः कारणैः संस्कारेषु सत्त्वप्रज्ञप्तिर्वेदितव्या सुखसंव्यवहारार्थं। लोकानुवृत्त्यर्थं। सर्वथा सत्त्ववस्तु नास्तीत्युत्त्रासप्रहाणार्थं। आत्मनि परत्र च व्यपदेशतो गुणसत्त्वदोषसत्त्वसंप्रत्ययोत्पादनार्थं च। तस्मादात्मवादोप्ययोगविहितः॥



 



[शाश्वतवादः]



 



शाश्वतवादः कतमः। यथापीहैकत्यः श्रमणो वा ब्राह्मणो वेति पूर्ववत्। शाश्वत आत्मा लोकश्च। अकृतः अकृतकृतः। अनिर्मितः। अनिर्माणकृतः अवध्यः। कूटस्थायी इषिकास्थायी स्थितः। तद्यथा। शाश्वतवादिनः एकत्यशाश्वतिकाश्च पूर्वान्तकल्पका अपरान्तकल्पका वा संज्ञिवादिनोऽसंज्ञिवादिनो नैवसंज्ञिनासंज्ञिवादिनश्च। एके वा पुनःशाश्वतिकाः। केन कारणेनैवं दृष्टिर्भवत्येवंवादी। शाश्वत आत्मा लोकश्च। तत्कारणं यथासूत्रमेव यथायोगमेव वेदितव्यं॥



 



तत्र पूर्वान्तकल्पकानां मृदुमध्याधिमात्रध्यानसंनिश्रयेण अतीताध्विकं पूर्वान्तं कल्पयतां पूर्वनिवासानुस्मृत्या प्रतीत्यसमुत्पादकुशलानां अतीतसंस्कारेषु स्मृतिमात्रं यथाभूतं संप्रजानतां तद्दृष्टिगतमुत्पद्यते। दिव्यचक्षुस्संनिश्रयं वा पुनर्वर्तमानाध्विकं पूर्वान्तं कल्पयतां क्षणभङ्गानुप्रवृत्तिं संस्काराणां



 



यथाभूतमप्रजानतां विज्ञानस्रोतःप्रबन्धं चास्माल्लोकात्परं लोकमुपलभमानानां तद्दृष्टिगतमुत्पद्यते। ब्रह्मणो वा पुनः स्वमनोरथसिद्धिमुपलभतः महाभूतविपरिणामं विज्ञानविपरिणामं चोपलभमानस्य॥ अपरान्ते वा पुनः संज्ञां वेदनाभेदं च पश्यतो न स्वलक्षणभेदं तद्दृष्टिगतमुत्पद्यते। येनास्यैवं भवति शाश्वत आत्मा लोकश्च॥



 



अणुनित्यत्वग्राहिणो वा पुनर्लौकिकध्यानसंनिश्रयेणैवं पश्यन्ति। यथाभूतं प्रतीत्यसमुत्पादमप्रजानतो भावपूर्वकं भावानां फलप्रचयोदयं। अपचयपूर्वकं च विनाशं कल्पयतो येनैवं भवति। अणुभ्यः स्थूलं द्रव्यमुत्पद्यते। स्थूलं च द्रव्यं विभज्यमानमण्ववस्थमवतिष्ठतीति। अतः स्थूलं द्रव्यमनित्यं। नित्याः परमाणव इति।



 



तत्र पूर्वान्तकल्पकानामपरान्तकल्पकानां च विशेषलक्षणसंगृहीतत्वाच्छाश्वतवादस्यात्मवादे विदूषित आत्मनो विशेषलक्षणवादोऽपि विदूषितो भवति॥



 



अपि च स इदं स्याद्वचनीयः। कच्चिदिच्छसि पूर्वनिवासानुस्मृतिः स्कन्धग्राहिका वात्मग्राहिका वेति। सचेत्स्कन्धप्राहिका। शाश्वत आत्मा लोकश्चेति  न युज्यते। सचेदात्मग्राहिका। तेनामुका नाम तेऽभवन् सत्त्वा यत्राहमभूवमेवंनामैवंजात्य इति विस्तरेण कथनं न युज्यते॥



 



कच्चिदिच्छसि रूपावलम्बने चक्षुर्विज्ञाने संमुखीभूते रूप एव विषये समवहिते तदन्येषु विषयेषु व्यवहितेषु तदन्येषां विज्ञानानां निरोधो वा प्रवृत्तिर्वेति। सचेन् निरोधः। विरुद्धं विज्ञानं निमित्तमिति न युज्यते। सचेत्प्रवृत्तिः। तेनैकेन विषयेण सर्वकालं सर्वविज्ञानप्रवृत्तिरिति न युज्यते।



 



कच्चिदिच्छसि अस्त्यात्मनः संज्ञाकृतो वा वेदनाकृतो वा विकारो न वेति। तेन शाश्वत आत्मा च लोकश्चेति न युज्यते। सचेन्नास्ति। तेनैकत्वसंज्ञी भूत्वा नानात्वसंज्ञी परीत्तसंज्ञी अप्रमाणसंज्ञी भवतीति न युज्यते॥ एकान्तसुखी एकान्तदुःखी सुखदुःखी अदुःखासुखी भवतीति न युज्यते॥



 



[तज्जीवतच्छरीरवादः]



 



तत्र यः कश्चित्सजीवस्तच्छरीरमिति पश्यति स रूपिणमात्मानं पश्यति। योऽन्यो जीवोऽन्यच्छरीरं इति। सोऽरूपिणं। य उभयं कृत्स्नमद्वयमविकलमात्मानं। स रूपिणं चारूपिणं च तद्विपक्षे चैतमेवार्थमन्येन पदव्यञ्जनेनाभिनिविशन्नेव रूपिणमात्मानं नारूपिणं पश्यति॥ सचेत्पुनः रूपिणं वारूपिणं वा परीत्तं पश्यति सोऽन्तवन्तं पश्यति॥ स चेदप्रमाणं पश्यति सोऽनन्तवन्तं पश्यति। सचेत्कृत्स्नं पश्यति। रूपांशेन परीत्तमरूपांशेनाप्रमाणमरूपांशेन वा परीत्तं रूपांशेनाप्रमाणं। सोऽन्तवन्तं चानन्तवन्तं च पश्यति। तद्विपक्षेण वा व्यञ्जननानात्वं नो त्वर्थनानात्वमभिनिविशन्नान्तवन्तं नानन्तवन्तं पश्यति मुक्तो वा पुनरद्वयं पश्यति॥



 



[अणुनित्यत्ववादः]



 



अणुनित्यत्ववादी पुनरिदं स्याद्वचनीयः। कच्चिदिच्छसि अपरीक्षितं वा परमाणुनित्यत्वं परीक्षितं वा। सचेदपरीक्षितं। तेन परीक्षामन्तरेण नित्यत्वनिश्चय इति न युज्यते॥ सचेत्परीक्षितं। तेन सर्वप्रमाणविरुद्धमिति न युज्यते॥



 



कच्चिदिच्छसि सूक्ष्मत्वात्परमाणुनित्यत्वमाहोस्वित्स्थूलफलद्रव्यभिन्नलक्षणत्वात्। सचेत्सूक्ष्मत्वात्। तेन यदपचितं तद् दुर्बलतरमिति नित्यमिति न युज्यते॥ सचेद्भिन्नलक्षणत्वात्। तेन पृथिव्यप्तेजोवायुलक्षणमतिक्रम्यातुल्यजातीयलक्षणा तत्कार्योत्पत्तिरपि न युज्यते। लक्षणान्तरमपि नोपपद्यत इति न युज्यते॥



 



कच्चिदिच्छसि परमाणुभ्यः स्थूलं द्रव्यमभिन्नलक्षणं वा भिन्नलक्षणं वा। सचेदभिन्नलक्षणं। निर्विशिष्टं हेतुना तथैव नित्यं। न चास्ति हेतुनियमो न फलनियम इति न युज्यते॥ सचेदभिन्नलक्षणं। तेन कच्चिदिच्छसि विभक्तेभ्यः परमाणुभ्यो निष्पद्यते संयुक्तेभ्यो वा। सचेद्विभक्तेभ्यः। तेन सदा सर्वकार्योत्पत्तिर्न च हेतुनियमो न च फलनियम इति न युज्यते॥ सचेत्संयुक्तेभ्यः। तेन कच्चिदिच्छसि तस्मादनतिरिच्यमानविग्रहमूर्त्ति वा अतिरिच्यमानविग्रहमूर्त्ति वेति। सचेदनतिरिच्यमानविग्रहमूर्त्ति। तन्मूर्त्तिद्रव्यानिष्पन्नं न मूर्त्त्येव। सचेदनतिरिच्यमानविग्रहमूर्त्ति। तेन परमाणुनिरवयवत्वाद्विभागेऽसति स्थूलमपि द्रव्यं नित्यमिति न युज्यते। अपूर्वपरमाणुप्रादुर्भावे पुनः परमाणुर्नित्य इति न युज्यते॥



 



कच्चिदिच्छसि बीजादिवत्परमाणूनां स्थूलद्रव्यारम्भकत्वं कुम्भकारादिवद्वेति। स चेद्बीजादिवत्। तेन बीजवदनित्य इति न युज्यते। सचेत्कुम्भकारादिवत्। तेन चेतनः परमाणुरिति न युज्यते। सचेन्न बोजादिवन्न कुम्भकारादिवत्। तेन दृष्टान्तो नोपलभ्यत इति न युज्यते॥



 



कच्चिदिच्छसि सत्त्वनैमित्तिकी बाह्यानां भावानामुत्पत्तिर्नवेति। सचेत्सत्त्वनैमित्तिकी। तेन स्थूलं द्रव्यं सत्त्वनैमित्तिकं। सूक्ष्मं द्रव्यं तदाश्रयं न सत्त्वनैमित्तिकमिति न युज्यते। केन तच्छक्तिर्वार्यते। सचेन्न सत्त्वनैमित्तिकी तेन निष्प्रयोजनो बाह्यानां भावानां प्रादुर्भावो न युज्यते॥



 



इति स्कन्धसत्त्वानुस्मरणतोऽपि एकेन विषयेण सर्वविज्ञानस्रोतःप्रवृत्तितोऽपि संज्ञावेदनाभिर्विकारनिर्विकारतोऽपि पूर्वान्तकल्पकानामपरान्तकल्पकानां च शाश्वतवादो न युज्यते॥



 



परीक्षापरीक्षणतोऽपि सामान्यलक्षणतोऽपि मूललक्षणतोऽपि आरम्भतोऽपि मूलप्रयोजनतोऽपि परमाणुनित्यत्ववादोऽपि न युज्यते। तस्मादेषोऽपि वादोऽयोगविहितः॥



 



अपितु नित्यलक्षणं वक्ष्यामि। यत्सर्वदा निर्विकारलक्षणं। सर्वथा निर्विकारलक्षणं। स्वयंनिर्विकारलक्षणं। परतो निर्विकारलक्षणमजन्मवच्च। इदं शाश्वतलक्षणं वेदितव्यं।



 



[पूर्वकृतहेतुवादः]



 



पूर्वकृतहेतुवादः कतमः। यथापीहैकत्यः श्रमणो वा ब्राह्मणो वेति विस्तरेण यथासूत्रं। यत्किञ्चिदयं पुरुषपुद्गलः प्रतिसंवेदयत इति दुःखमित्यभि। प्रायः पूर्वकृतहेतुकमिति पापकहेतुकमित्यभिप्रायः। पौराणानां कर्मणां तपसा व्यन्तीभावादिति दृष्टधर्मिकेण कष्टेनेत्यभिप्रायः। नवानां च



 



कर्मणामकरणसमुद्धातादित्यकुशलानामित्यभिप्रायः। एवमायत्यामनास्रव इति॥ एकान्तकुशलता आयत्यामनास्रव इत्युच्यते। अनास्रवात्कर्मक्षय इति पापस्येत्यभिप्रायः। कर्मक्षयाद्दःखक्षय इति पूर्वकृतहेतुकस्य च दृष्टधर्मौपक्रमिकस्य चेत्यभिप्रायः। दुःखक्षयाद्दःखस्यान्तक्रिया भवतीति अन्यजन्मप्राबन्धिकस्येत्यभिप्रायः। तद्यथा निर्ग्रन्थाः॥



 



केन कारणेनैवंदृष्टिर्भवत्येवंवादी। आगमतो युक्तितश्च॥



 



आगमः पूर्ववत्। युक्तिः कतमा। यथापीहैकत्यस्तार्किको भवतीति पूर्ववत्। दृष्टे धर्मे पुरुषकारस्य व्यभिचारदर्शनतः। तथा हि। स पश्यति लोके सम्यक्प्रयोगवतामपि दुःखमुत्पद्यमानं। मिथ्याप्रयोगवतामपि सुखमुत्पद्यमानं। तस्यैवं भवति सचेत्पुरुषकारहेतुकं स्यात्।  तदेतद्विपर्ययात्स्यात्।यस्मात्तन्मे तद्विपर्ययाद्भवति तस्मात्पूर्वहेतुकमेतदिति येनैवंदृष्टिर्भवत्येवंवादी।



 



स इदं स्याद्वचनीयः। कच्चिदिच्छसि यत्तद्दृष्टधर्मौपक्रमिकं दुःखं तत्पूर्वकृतहेतुकं वा दृष्टधर्मोपक्रमहेतुकं वेति। सचेत्पूर्वकृतहेतुकं। तेन पौराणानां कर्मणां तपसा व्यन्तीभावात्प्रत्युत्पन्नानां वा



 



करणसमुद्धातादेवमायत्यामनवस्रव इति विस्तरेण न युज्यते। सचेद्दृष्टधर्मोपक्रमहेतुकं। यत्किञ्चिदयं पुरुषपुद्गलः प्रतिसंवेदयते सर्वं तत्पूर्वकृतहेतुकमिति न युज्यते इत्यौपक्रमिकस्य दुःखस्य पूर्वकृतहेतुकतापि पुरुषकारहेतुकतापि न युज्यते। तस्मादेषोऽपि वादोऽयोगविहितः॥



 



अपि त्वस्त्येकान्तेन पूर्वकृतहेतुकं दुःखं। यथापीहैकत्यः स्वकर्माधिपत्येनापायेषु वोत्पद्यते नीचेषु वा कृच्छ्रेषु वा कुलेषु। अस्ति व्यामिश्रहेतुकं दुःखं। तद्यथा। राजानं मिथ्या सेवतो यन्निष्फलहेतुकं दुःखं। यथा राजानं सेवत एवं



 



व्यवहारकर्मान्तान् कुर्वतः कृषिकर्मान्तान् स्तेयकर्मान्तान्। परापकारेषु वा प्रवर्तमानस्य। सुपुण्यस्य समृध्यत्यपुण्यस्य विफलीभवति पुरुषकारः। एकान्तेन पुरुषकारहेतुकं। तद्यथा नवमन्यभवाक्षेपकं कर्म। सद्धर्मं शृण्वतो धर्मानभिमुखमभिसम्बुध्यतः ईर्यापथं कल्पयतः शिल्पकर्मस्थानानि शिक्षतः। इत्येवं भागीयाः पुरुषकारहेतुकाः॥



 



[ईश्वरादिकर्तृवादः]



 



ईश्वरादिकर्त्तृवादः कतमः। यथापीहैकत्यः श्रमणो वा ब्राह्मणो वेति विस्तरेण पूर्ववत्। यत्किञ्चिदयं पुरुषपुद्गलः प्रतिसंवेदयते सर्व तदीश्वरनिर्माणहेतुकं वा पुरुषान्तरनिर्माणहेतुकं वेत्येवमादि। तद्यथा ईश्वरादिविषयहेतुवादिनः। केन कारणेनैवं दृष्टिर्भवत्येवंवादी। आगमतो युक्तितश्च। आगमः पूर्ववत्। युक्तिः कतमा। यथापीहैकत्यस्तार्किको भवतीति पूर्ववत्। हेतौ च फले च कामकारप्रवृत्तिदर्शनतः। तथा हि। सत्त्वा हेतुकाले च शुभे प्रवर्त्स्याम इत्यकामकाः पापेऽपि प्रवर्तन्ते। फलकाले च सुगतौ स्वर्गलोके देवेषूपपत्स्यामः इत्यपायेषूपपद्यन्ते। सुखमुपभोक्ष्याम इति दुःखमेवोपभुञ्जते। येनैषामेवं भवति अस्ति स कश्चित्कर्ता स्रष्टा निर्माता पितृभूतो भावानामीश्वरस्तदन्यो वेति॥



 



स इदं स्याद्वचनीयः। उद्दानं



सामर्थ्यासम्भवादन्तर्भावाभावविरोधतः



सनिष्प्रयोजनत्वेऽपि हेतुत्वे दोषसम्भवात्॥



 



यत्तदीश्वरस्य निर्माणसामर्थ्यं तत्कच्चिदिच्छसि कर्मयोगहेतुकं वाहेतुकं वेति। सचेत्कर्मयोगहेतुकं तत्कर्मयोगहेतुकं जगदिति न युज्यते॥ सचेदहेतुकं। तेन तदहेतुकं जगदिति न युज्यते॥



 



कच्चिदिच्छसि ईश्वरो जगत्यन्तर्भूतोऽनन्तर्भूतो वेति। सचेदन्तर्भूतः। जगत्समानधर्मा जगत्सृजतीति न युज्यते॥ सचेदनन्तर्भूतः। तेन मुक्तो जगत्सृजतीति न युज्यते।



 



कच्चिदिच्छसि सप्रयोजनं वा सृजत्यप्रयोजनं वेति। सचेत्सप्रयोजनं तेन तस्मिन्प्रयोजनेऽनीश्वरो जगदीश्वर इति न युज्यते। सचेन्निष्प्रयोजनं। तेन नास्ति च प्रयोजनं सृजतीति च न युज्यते॥



 



कच्चिदिच्छसि ईश्वरहेतुकः सर्गस्तदन्योपादानहेतुको वेति। सचेदीश्वरहेतुक एव। तेन यदेश्वरस्तदा सर्गः। यदासर्गस्तदेश्वर इतीश्वरहेतुकः सर्ग इति न युज्यते। स चेत्तदन्योपादानहेतुकः। तेन तदिच्छाहेतुको वा स्यादिच्छां वा स्थापयित्वा तदन्योपादानहेतुकः। सचेत्तदिच्छाहेतुकः। सापीच्छा किमीश्वरहेतुकैव तदन्योपादानहेतुका वा। सचेदीश्वरहेतुकैव। यदेश्वरस्तदेच्छा यदेच्छा तदेश्वर इति नित्यं सर्गेण भवितव्यं। स चेदन्योपादानहेतुका। तच्च नोपलभ्यते। तत्र च नेश्वरो जगदीश्वर इति न युज्यते॥



 



इति सामर्थ्यतोऽपि। अन्तर्भावानन्तर्भावतोऽपि सप्रयोजननिष्प्रयोजनतोऽपि हेतुभावतोऽपि न युज्यते। तस्मादयोगविहित एषोऽपि वादः॥



 



[हिंसाधर्मवादः]



 



हिंसाधर्मवादः कतमः। यथापीहेकत्य इति विस्तरेण पूर्ववत्। यज्ञेषु मन्त्रविधिपूर्वकः प्राणातिपातः। यश्च जुहोति यश्च हूयते ये च तत्सहायास्तेषां सर्वेषां स्वर्गमनाय भवतीति। केन कारणेनैवंदृष्टिर्भवत्येवंवादी भवतीति। उत्संस्थवाद एष शठविठपितो नतु युक्तिमभिसमीक्ष्य व्यवस्थापितः। कलियुगे प्रत्युपस्थिते ब्राह्मणैः पौराणं ब्राह्मणधर्ममतिक्रम्य मांसं भक्षयितुकामैरेतत्प्रत्युपकल्पितं॥



 



अपितु स इदं स्याद्वचनीयः कच्चिदिच्छसि योऽसौ मन्त्रविधिः स धर्मस्वभावो वाधर्मस्वभावो वेति। सचेद्धर्मस्वभावः। तेनान्तरेणापि प्राणातिपातं स्वमिष्टं न निर्वर्तयति। अधर्मधर्मी करोतोति न युज्यते। सचेदधर्मस्वभावः। तेन स्वयमनिष्टफलो धर्मोऽन्यमनिष्टफलं व्यावर्तयतीति न युज्यते।



 



एवं व्यावृत्ते च पुनः सत्युत्तरि वदेत्। तद्यथा नाम विषं मन्त्रविधिपरिगृहीतं न विनिपातयति। तद्वदिहापि मन्त्रविधिर्द्रष्टव्य इति॥



 



स इदं स्याद्वचनीयः। कच्चिदिच्छसि यथा मन्त्रविधिर्बाह्यं विषं प्रशमयति एवमाध्यात्मिकं रागद्वेषमोहविषमिति। सचेत्तथैव शमयति। स च प्रशमो न कुत्रचित्कदाचित्कस्यचित्तथोपलभ्यत इति न युज्यते॥ सचेन्न प्रशमयति। तेन यथा मन्त्रविधिर्बाह्यं विषं प्रशमयति तथाधर्ममिति न युज्यते॥



 



कच्चिदिच्छसि मन्त्रविधिः सर्वत्रगोऽसर्वत्रगो वेति। स चेत्सर्वत्रगः। इष्टः स्वजन आदितो न हूयत इति न युज्यते। अथ सर्वत्रगः। तेन शक्तिरस्य व्यभिचरतीति न युज्यते॥



 



कच्चिदिच्छसि मन्त्रविधिर्हेतुमेव व्यावर्तयितुं समर्थ आहोस्वित्फलमपि। स चेद्धेतुमेव। तेन फलशक्तिहीन इति न युज्यते। सचेत्फलमपि। तेन पशुरपि पशुकायं हित्वा देवकायं गृह्णातीति न युज्यते।



 



कच्चिदिच्छसि योऽसौ मन्त्राणां प्रणेता स शक्तः कारुणिको वा। शक्तोऽकारुणिको वेति। सचेच्छक्तः कारुणिकः। तदान्तरेण प्राणातिपातं सर्वं लोकं स्वर्गं नयतीति न युज्यते। सचेदशक्तोऽकारुणिकः। तेन मन्त्रस्तस्य समृध्यतीति न युज्यते॥



 



इति हि हेतुतोऽपि दृष्टान्ततो व्यभिचारतोऽपि फलशक्तिहानितोऽपि मन्त्रप्रणेतृतोऽपि न युज्यते। तस्मादेषोऽपि वादोऽयोगविहितः॥



 



यच्च न धर्माय कल्पते तस्य लक्षणं वक्ष्यामि। यत्परव्याबाधकं कर्म न च दृष्टं दोषप्रतिक्रियं तत्तावन्न धर्माय कल्पते। यच्च सर्वपाषण्डिकेषु सिद्धानिष्टफलं। यच्च सर्वज्ञैरेकांशेन भाषितं मकुशलमिति स्वयमनीप्सितं च यत्। क्लिष्टेन च चेतसा यत्समुत्थापितं। विद्यादिमङ्गलोपेतं च यत् तदपि न धर्माय भवति॥



 



[अन्तानन्तिकवादः]



अन्तानन्तिकवादः कतमः। तद्यथापीहैकत्यः श्रमणो वा ब्राह्मणो वा लौकिकध्यानसंनिश्रयेणान्तसंज्ञी लोकस्य विहरत्यनन्तकसंज्ञी उभयसंज्ञी नोभयसंज्ञी। यथासूत्रमेव विस्तरेण। एवंदृष्टिर्भवत्येवंवादी अन्तवाल्लोँको यावन्नैवान्तवान् नानन्त इति। अत्र कारणमुक्तरूपमेव वेदितव्यं। पुद्गलश्च॥



 



तत्रोच्छेदपर्यवसानतो लोकस्यान्तं समन्वेषमाणो यदा संवर्तकल्पं समनुस्मरति तदान्तकसंज्ञी भवति। यदा विवर्तकल्पं तदानन्तकसंज्ञी। देशवैपुल्यपर्यवसानतो वा पुनः समन्वेषमाणो यदाधोऽवीचेः परेण नोपलभते। ऊर्ध्वं च चतुर्थध्यानात्परेण नोपलभते। तिर्यक् सर्वत्र परेणोपलभते। तदोर्ध्वमधश्चान्तकसंज्ञी तिर्यगनन्तसंज्ञी। तद्विपक्षेण वा पुनर्व्यञ्जनविशेषाभिनिवेशो न त्वर्थाभिनिवेशो नैवान्तकसंज्ञी नाप्यनन्तकसंज्ञी॥



 



स इदं स्याद्वचनीयः। किमिच्छसि ततः संवर्तकल्पादर्वागस्ति लोकप्रवृत्तिर्नवेति। सचेदस्ति। अन्तवाल्लोँक इति न युज्यते॥ सचेन्नास्ति। तेन लोकेस्थितोऽन्तं लोकस्यानुस्मरतीति न युज्यते।



 



इत्यर्वाग्भावतोऽपि न युज्यते। तस्मादेषोऽपि वादोऽयोगविहितः॥



 



[अमराविक्षेपवादः]



 



अमराविक्षेपवादः कतमः। यथापीहैकत्य। .....मन्दमोमुह एव। तत्र प्रथमो मृषावादभयभीतोऽज्ञानभयभीतश्च स्पष्टं न व्याकरोति न जानामीति। द्वितीयः पर्यनुयोगभयभीतो मृषावादभयभीतो मिथ्यादृष्टिभयभीतः स्पष्टं न व्याकरोत्यधिगतवानस्मीति। तृतीयो मिथ्यादृष्टिभयभीतः पर्यनुयोगभयभीतः स्पष्टं न व्याकरोत्यहमधिगतवानस्मीति। ते तत्राप्यन्येनान्यं प्रतिसंहरन्तो वाचा विक्षेपमापद्यन्ते। चतुर्थः पर्यनुयोगभयभीत एवं सर्वेण सर्वमभ्युदयमार्गो निःश्रेयसमार्ग इति व्यञ्जनमात्रकुशलोऽपि स्पष्टं न व्याकरोति मोमुहोऽस्मीति। स परमेव संपृच्छति। तदनुविधानतो वाचा विक्षेपमापद्यते। तेषां वादानां कारणमप्युक्तरूपं। पुद्गलोऽप्युत्तरमपि यथासूत्रमेव। यत एव भीतास्तत्र परा विहरन्तीति। यत्र पुनरेषामेवं भवति। एवमागते प्रतिवादिनि तत्र शाठ्येन प्रतिपत्तव्यमिति। इदमत्र दृष्टिगतं वेदितव्यं। तस्मादेषोऽपि वादोऽयोगविहितः॥



 



[अहेतुकवादः]



 



अहेतुकवादः कतमः। सोऽपि ध्यानसंनिश्रयेण तर्कसंनिश्रयेण च द्विविधो यथासूत्रमेव वेदितव्यः। केन कारणेन तर्कसंनिश्रयेणैवं पश्यत्यहेतुकमुत्पन्न आत्मा लोकश्च समासेन। अनभिसन्धिपूर्वकमाध्यात्मिकबाह्यानां भावानामपरिमाणं वैचित्र्यमुपलभ्य हेतूनां चैकदा वैचित्र्यमुपलभ्य अकस्मादेकदा वायवो वान्ति एकदा न वान्ति। अकस्मादेकदा नद्यः स्यन्दन्ति एकदा न स्यन्दन्ति। अकस्मादेके वृक्षाः पुष्पन्ति फलन्ति एकदा न पुष्पन्ति न फलन्तीत्येवमादि॥



 



स एवं स्याद्वचनीयः। किमभावं वानुस्मरस्यात्मानं वा। सचेदभावं। अभावमसंस्तुतमपरिचितं समनुस्मरसि चेति न युज्यते। सचेदात्मानं। तेनाहं पूर्वं नाभूवं पश्चात्समुत्पन्न इति न युज्यते॥



 



इत्यभावानुस्मरणतोप्यात्मानुस्मरणतोप्याध्यात्मिकबाह्यानां भावानां निर्हेतुकवैचित्र्यतोऽपि सहेतुकवैचित्र्यतोऽपि न युज्यते। तस्मादेषोऽपि वादोऽयोगविहितः॥



 



[उच्छेदवादः]



 



उच्छेदवादः कतमः। यथापीहैकत्यः श्रमणो वा ब्राह्मणो वैवंदृष्टिर्भवत्येवंवादी यावदात्मारूप्यौदारिकश्चातुर्महाभूतिकस्तिष्ठति ध्रियते यापयति तावत्सरोगः सगण्डः सशल्यः सज्वरः सपरितापः। यतश्चात्मोच्छिद्यते विनश्यति न भवति परं मरणादियतात्मा समुच्छिन्नो भवति। एवं दिव्यः कामावचरो दिव्यो रूपावचरोऽरूप्याकाशानन्त्यायतनोपगो यावन्नेवसंज्ञानासंज्ञायतनोपगः। यथासूत्रमेव विस्तरः। तद्यथा सप्तोच्छेदवादिनः॥



 



केन कारणेनैवंदृष्टिर्भवत्येवंवादी। आगमतो युक्तितश्च। आगमः पूर्ववत्। युक्तिः कतमा।यथापीहैकत्यस्तार्किको भवति पूर्ववत्। तस्यैवं भवति।सचेदात्मा परं मरणात्स्यादकृताभ्यागमदोषः कर्मणां भवेत्। सचेदात्मा सर्वेण सर्वं न स्यात्। तेनोपभोगोऽपि कर्मफलानां न भवेत्। उभयथायुज्यमानतां पश्यन्नेवंदृष्टिर्भवत्येवंवादी आत्मोच्छिद्यते विनश्यति न भवति परं मरणादिति। तद्यथा कपालानि भिन्नान्यप्रतिसन्धिकानि भवन्ति। अश्मा वा भिन्नोऽप्रतिसन्धिको भवति। तद्वदत्रापि नयो द्रण्टब्यः॥



 



स इदं स्याद्वचनीयः। कच्चिदिच्छसि स्कन्धा वा समुच्छिद्यन्ते। आत्मा वा समुच्छिद्यते। सचेत्स्कन्धाः। तेन स्कन्धा अनित्याः हेतुफलपरम्पराः प्रवृत्ताः समुच्छिद्यन्ते चेति न युज्यते॥ सचेदात्मा समुच्छिद्यते रूप्पौदारिकश्चातुर्महाभूतिकः सरोगः सगण्डः सशल्यः सज्वरः सपरितापो दिव्यः कामावचरो दिव्यो रूपावचरो रूप्याकाशानन्त्यायतनोपगो यावन्नैवसंज्ञानासंज्ञायतनोपगं इति। एवं स्कन्धसमुच्छेदतोऽपि न युज्यते। तस्मादेषोऽपि वादोऽयोगविहितः॥



 



[नास्तिकवादः]



 



नास्तिकवादः कतमः। यथापीहैकत्यः श्रमणो वा ब्राह्मणो वैवंदृष्टिर्भवत्येवंवादी। नास्ति दत्तं नास्तीष्टमिति विस्तरेण यावन्न लोकेऽर्हन्निति। एवंदृष्टिर्भवत्येवंवादी। सर्वं सर्वलक्षणेन नास्तीति।



 



केन कारणेनैवंदृष्टिर्भवत्येवंवादी। आगमतो युक्तितश्च। आगमः पूर्ववत्। युक्तिः कतमा। यथापीहैकत्यस्तार्किको भवतीति पूर्ववत्। स लौकिकध्यानसंनिश्रयेण कृत्स्नमायुरेकत्यं पश्यति दानपतिं। पश्यति चैनं च्युतं कालगतं नीचेषु कुलेषु प्रत्याजायमानं। दरिद्रेषु दीनेषु निर्धनेषु। तस्यैवं भवति। नास्ति दत्तं। नास्तीष्टं। नास्ति हुतं। पुनः पश्यत्येकत्यं सुचरितचारिणं वा दुश्चरितचारिणं वा। पश्यति चैनं च्युतं कालगतमपाय दुर्गतिविनिपाते नरकेषूपपद्यमानं। सुगतौ वा स्वर्गलोके देवेषूपपद्यमानं। तस्यैवं भवति। नास्ति सुचरितं। नास्ति दुश्चरितं। नास्ति सुचरितदुश्चरितानां कर्मणां फलं विपाकः। पुनः पश्यत्येकत्यं क्षत्रियं ब्राह्मणजातावुपपद्यमानं। वैश्यजातौ शूद्रजातौ। ब्राह्मणं वा क्षत्रियजातौ वैश्यजातौ शुद्रजातौ। एवं वैश्यं शूद्रं। तस्यैवं भवति। नास्त्ययं लोकः परलोकात्क्षत्रियादीनां क्षत्रियादित्वाय। नास्ति परलोकोऽस्माल्लोकात्क्षत्रियादीनां क्षत्रियादित्वाय। वीतरागं पुनः पश्यत्यधोभूमावुपपद्यमानं। मातरं वा पुनः पश्यति दुहितृभावायोपपद्यमानां। दुहितरं वा पुनर्मातृभावाय। पितरं पुत्रभावाय। पुत्रमेव वा पुनः पितृभावाय। तस्य मातापित्रनियमं दृष्ट्वा भवति नास्ति माता। नास्ति पिता। एकत्यस्य वा पुद्गलस्योपपत्तिं समन्वेषमाणो न पश्यति। स च पुद्गलोऽसंज्ञिकेषु वोपपन्नो भवत्यारूप्येषु वा। परिनिर्वृतो वा। तस्यैवं भवति। नास्ति सत्त्व उपपादुकस्तदायतनमप्रजानतः अर्हत्त्वाभिमानिको वा पुनः स्वयमात्मनः उपपत्तिं पश्यति च्यवमानः। तस्यैवं भवति। न सन्ति लोकेऽर्हन्त इति विस्तरेण। केन कारणेनैवंदृष्टिर्भवत्येवंवादी नास्ति सर्वं सर्वलक्षणेनेति। ये ते तथागतभाषिताः सूत्रान्ता गम्भीरा गम्भीराभासा निरभिलप्यधर्मतामारभ्य। नान्यथाभूतमप्रजानतः। अयोनिशश्च धर्मलक्षणं व्यवस्थापयतो नास्तिदृष्टिरुत्पद्यते। येनास्यैवं भवति नास्ति सर्वं सर्वलक्षणेनेति॥



 



स इदं स्याद्वचनीयः। कच्चिदिच्छसि अस्त्युपपद्य वेदनीयं कर्म अपरपर्यायवेदनीयं। आहोस्वित्सर्वमेवोपपद्य वेदनीयं। स चेदस्ति। तेन नास्ति दत्तं नास्तीष्टं। नास्ति हुतं। नास्ति सुचरितं। नास्ति दुश्चरितं। नास्ति सुचरितदुश्चरितकर्मणां फलविपाकः। नास्त्ययं लोकः। न परलोक इति युज्यते। स चेन्नास्त्यपरपर्यायवेदनीयं। तेन योऽप्यन्यः शुभाशुभकर्माभिसंस्कारः स सकृदुपपद्यं शुभाशुभकर्मणां विपाकं प्रतिसंवेदयत इति न युज्यते॥



 



कच्चिदिच्छसि या यं जनयति माता वा सा तस्य न वेति। यो यस्य बीजात्संभवति पिता वा स तस्य न वेति। सचेन्माता वा पिता वा। नास्ति माता नास्ति पितेति न युज्यते। सचेन्न माता न पिता तेन जनयति। तद्बीजाच्च सम्भवति। स च माता पितेति न युज्यते॥ यदा माता पिता भवति। तदा न दुहिता न पुत्रः। यदा दुहिता पुत्रो भवति तदा न माता न पिता।



 



कच्चिदिच्छसि अस्ति तदायतनं यत्रोपपद्यमानः सत्त्वो न दृश्यते दिव्येन चक्षुषा नास्ति वेति। सचेदस्ति। तेन नास्ति सत्त्व उपपादुक इति न युज्यते॥ सचेन्नास्ति। तेन संज्ञावैराग्यं रूपवैराग्यं त्रैधातुकवैराग्यमपोदितं भवतीति न युज्यते॥



 



कच्चिदिच्छसि अस्त्यर्हत्त्वाभिमानी न वेति। सचेदस्ति। न सन्ति लोकेऽर्हन्त इति न युज्यते। सचेन्नास्ति। तेन योऽपि कश्चिदयोनिशो वृत्तो विपरीतं मन्यते सोऽप्यर्हन्निति न युज्यते॥



 



स  इदं स्याद्वचनीयः। कच्चिदिच्छसि अस्ति परिनिष्पन्नलक्षणो धर्मः परतन्त्रलक्षणः परिकल्पितलक्षणो नास्ति वा। सचेदस्ति। तेन सर्वं सर्वेण लक्षणेन नास्तीति न युज्यते॥ सचेन्नास्ति। तेन नास्ति विपर्यासो नास्ति संक्लेशो नास्ति व्यवदानमिति न युज्यते॥



 



इत्युपपद्या परपर्याय वेदनीयतोऽपि अव्यभिचारतोऽपि उपपत्त्यायतनसद्भावतोऽपि अभिमानसद्भावतोऽपि त्रिलक्षणतोऽपि न युज्यते। तस्मादेषोऽपि वादोऽयोगविहितः॥



 



[अग्रवादः]



 



अग्रवादः कतमः। यथापीहैकत्यः श्रमणो वा ब्राह्मणो वैवंदृष्टिर्भवत्येवंवादी। ब्राह्मणोऽग्रो वर्णो हीनोऽन्यो वर्णः। ब्राह्मणः शुक्लो वर्णः। कृष्णोऽन्यो वर्णः। ब्राह्मणाः शुध्यन्ते नाब्राह्मणाः। ब्राह्मणा ब्रह्मणः पुत्रा औरसा मुखतो जाता ब्रह्मजा ब्रह्मनिर्गता ब्रह्मपार्षदा इति। तद्यथा कलियुगिका ब्राह्मणाः। केन कारणेनैवंदृष्टिर्भवत्येवंवादी। आगमतो युक्तितश्च। आगमः पूर्ववत्। युक्तिः कतमा। यथापीहैकत्यस्तार्किको भवतीति विस्तरः। जातिब्राह्मणानां प्रकृतिशीलतां चोपलभ्य लाभसत्कारतां चोपादाय॥



 



स इदं स्याद्वचनीयः। कच्चिदिच्छसि तदन्यानेव वर्णान्मातृजान् योनिसम्भवान्। आहोस्विद्ब्राह्मणवर्णमपि। सचेदन्यानेव। तेन प्रत्यक्षं योनिजा तता मातृसम्भवता ब्राह्मणवर्णस्यापोदिता भवतीति न युज्यते॥ सचेद्ब्राह्मणवर्णोऽपि तादृशो भवतीति तेन ब्राह्मणा अग्रो वर्णो हीनोऽन्यो वर्ण इति न युज्यते॥ यथा योनिजं मातृसम्भूतमेवमकुशलकारिणं कुशलकारिणं च कायवाङ्मनोदुश्चरितकारिणं कायवाङ्मनःसुचरितकारिणं दृष्टधार्मिकमनिष्टफलं प्रत्यनुभवन्तमिष्टं वा पुनः साम्परायिकं। अपायेषूपपद्यमानं सुगतौ स्वर्गलोके देवेषूपपद्यमानं त्रयाणां वा स्थानानां सम्मुखीभावाद यतो वा मातुः कुक्षावुपपद्यमानं लौकिकशिल्पस्थान-कर्मस्थानं कुशलमकुशलं वा राजानं तद्भृत्यं वा दक्षमुत्थनसम्पन्नं वा राजसंग्राह्यं वा उपस्थानायासंग्राह्यं वा व्याधिधर्मकं वा जराधर्मकं वा मरणधर्मकं वा ब्राह्मान् विहारान्भावयित्वा ब्रह्मलोक उपपद्यमानं वा बोधिपक्ष्यधर्मान् भावयन्तं वाभावयन्तं वा श्रावकबोधिं प्रत्येक बुद्ध बोधिमनुत्तरसम्यक्सम्बोधिमभिसम्बुध्यमानं वानभिसम्बुध्यमानं वा तादृशं च।



 



कच्चिदिच्छसि योनित एव यो विशिष्टः स वर आहोस्विच्छ्रु तेन शीलेन वा पुनः। सचेद्योनित एव। तेन यज्ञे यः श्रुतप्रधानः शीलप्रधानः स प्रमाणं परिग्राह्य इति न युज्यते॥ सचेच्छ्रुतेन वा शीलेन वा तेन ब्राह्मणा अग्रो वर्णो हीनोऽन्यो वर्ण इति न युज्यते॥



 



इति योनितोऽपि कर्मतोऽप्युपपत्तितोऽपि शिल्पकर्मस्थानतोऽप्याधिपत्यतोऽपि तत्सम्परिग्रहतोऽपि ब्राह्मविहारतोऽपि बोधिपक्ष्यभावनातोऽबोद्ध्यधिगमतोऽपि न युज्यते॥ तस्मादेषोऽपि वादोऽयोगविहितः॥



 



[शुद्धिवादः]



 



शुद्धिवादः कतमः। यथापीहैकत्यः श्रमणो वा ब्राह्मणो वैवंदृष्टिर्भवत्येवंवादी यतश्चात्मा मुक्तिं चित्तवशितां चानुप्राप्तो योगवशितां चानुप्राप्तो दिव्यैः पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडति रमते परिचारयति। स दृष्टधर्मनिर्वाणप्राप्तिशुद्ध्या शुद्धो भवति। यतश्च विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्क सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसम्पद्य विहरति। यावच्चतुर्थं ध्यानमुपसम्पद्य विहरति। स परमदृष्टधर्मनिर्वाणप्राप्तिशुद्ध्या शुद्धो भवति। यथापि तदेवंदृष्टिर्भवत्येवंवादी सर्वपापान्यस्यापहरति यो नद्यां सुन्दरिकायां स्नाति। यथा सुन्दरिकायामेवं बाहुदायां गयायां सरस्वत्यां नद्यां गङ्गायां। स तत्रोदकस्नानेन शुद्धं मन्यते।



 



यथापीहैकत्यः कुक्कुरव्रतेन शुद्धिं मन्यते गोव्रतेन नकुलव्रतेन नग्नब्रतेन भस्मव्रतेन कष्टव्रतेन निष्ठाव्रतेनेत्येवंभागीयैर्व्रतसमादानैः शुद्धं मन्यते। तद्यथा दृष्टधर्मनिर्वाणवादिन उदकशुद्ध्यादिवादिनश्च॥



 



केन कारणेन स एवंदृष्टिर्भवत्येवंवादी। आगमतो युक्तितश्च। आगमः पूर्ववत्। युक्तिः कतमा। यथापीहैकत्यस्तार्किको भवतीति विस्तरः॥ स सर्वत्र ईशित्ववशित्वप्राप्तः कामेश्वरो भवति योगेश्वरः। तच्चेशित्ववशित्वं यथाभूतं न प्रजानाति। यथापीहैकत्य आत्मनिग्रहेणात्मनः पापविमोक्षं पश्यति कृतापराधो वापराधविमोक्षं॥



 



स इदं स्याद्वचनीयः। कच्चिदिच्छसि योऽसौ पञ्चभिः कामगुणैः क्रीडति स कामवीतरागो वावीतरागो वेति। स चेद्वीतरागः क्रीडति रमते परिचारयतीति न युज्यते। स चेदवीतरागो मुक्तः शुद्ध इति न युज्यते॥



 



कच्चिदिच्छसि योऽसौ चतुर्थध्यानमुपसम्पद्य विहरति स सर्ववीतरागो वासर्ववीतरागो वा। सचेत् सर्ववीतरागः यावच्चतुर्थं ध्यानमुपसम्पद्य विहरतीति न युज्यते। सचेन्न सर्ववीतरागः। मुक्तः शुद्ध इति न युज्यते॥



 



स इदं स्याद्वचनीयः। किमाध्यात्मिकी वा शुद्धिर्वाह्या वेति। सचेदाध्यात्मिकी। तेन तीर्थस्नानेन विशुध्यत इति न युज्यते। सचेद्वाह्या। तेन तथैव सरागः सद्वेषः समोहः। बाह्यं मलमपकर्षणेन शुध्यति॥



 



कच्चिदिच्छसि शुचिवस्तूपादानतो वा शुद्धिमशुचिवस्तूपादानतो वेति। सचेच्छुचि वस्तूपादानतः। तेन कुक्कुरादयोऽशुचिसम्मता लोक इति तदुपादानेन शुद्धिर्न युज्यते। सचेदशुचिवस्तूपादानतः। तेन प्रकूत्या शुचि वस्तु शुद्धये संवर्तत इति न युज्यते॥



 



कच्चिदिच्छसि सति कुक्कुरादिव्रतोपादाने कायदुश्चरितादिमिथ्याप्रतिपत्तिः शुद्धये संवर्तते कायसुचरितादिसम्यक्प्रतिपत्तिर्वेति। सचेन्मिथ्याप्रतिपत्तिः। तेन मिथ्या च प्रतिपद्यते शुद्ध्यते चेति न युज्यते। स चेत्सम्यक्प्रतिपत्तिः। तेन कुक्कुरादि व्रतमपार्थकमिति तेन शुद्धिरिति न युज्यते॥



 



इति वीतरागतोऽपि अवीतरागतोऽपि आध्यात्मिकबाह्यतोऽपि अशुचिशुच्युपादानतोऽपि मिथ्यासम्यक्प्रतिपत्तितोऽपि न युज्यते॥ तस्मादेषोऽपि वादोऽयोगविहितः॥  



 



[कौतुकमङ्गलवादः]



 



कौतुकमङ्गलवादः कतमः। यथापीहैकत्यः श्रमणो ब्राह्मणो वैवंदृष्टिर्भवत्येवंवादी आदित्यचन्द्रग्रहतिथिवैगुण्येन मनोरथानामसिद्धिर्भवति। तदानुगुण्येन च मनोरथसिद्धिः। स तदर्थं चादित्यादिपूजां प्रकल्पयति। होमजापादर्शपूर्णकुम्भबिल्वफल शङ्खादीन् प्रत्युपस्थापयति। तद्यथा गाणितिकाः।



 



केन कारणेनैवंदृष्टिर्भवत्येवंवादी। आगमतो युक्तितश्च। आगमः पूर्ववत्। युक्तिः कतमा। यथापीहैकत्यस्तार्किको भवतीति पूर्ववत्। स च लाभी भवति लौकिकानां ध्यानानां। अर्हत्सम्मतश्च भवति महाजनकायस्य। स आत्मनः सम्पत्तिकामैः समृद्धिकामैस्तत्र प्रश्नं पृष्टः प्रतीत्यसमुत्पन्नां कर्मगतिं यथाभूतमप्रजान्नन्येनादित्यचन्द्रग्रहनक्षत्रतिथिसमुदाचारेण शुभाशुभानां कर्मणां सत्त्वेषु फलं विपच्यमानं पश्यति। तत्कृतमेव तत्कामानां सत्त्वानां परिदीपयति व्यवस्थापयति॥



 



स इदं स्याद्वचनीयः। कच्चिदिच्छसि। आदित्यचन्द्रग्रहनक्षत्रतिथिकृता वा सम्पत्तिविपत्तिर्वा आहोस्विच्छुभाशुभकर्मकृतेति। स चेदादित्यादिकृता। तेन पुण्यकर्मणामपुण्यकर्मणां च यावज्जीवमनुवर्तनीया सम्पत्तिर्विपत्तिश्च संदृश्यत इति न युज्यते। सचेच्छुभाशुभकर्मकृता। तेनादित्यादिकृतेति न युज्यते॥



 



इत्यादित्यादिविहितोऽपि शुभाशुभविहितोऽपि न युज्यते॥ तस्मादेषोऽपि वादोऽयोगविहितः॥



 



इतीमे षोडश परवादा अभिनिर्हारया परीक्ष्यायुक्त्योपपरीक्षिताः सर्वथा न युज्यन्ते॥



 



[संक्लेशप्रज्ञप्तिः]



 



तत्र संक्लेशप्रज्ञप्तिव्यवस्थानं कतमत्। तत्रिभिः संक्लेशैर्वेदितव्यं। ते पुनः कतमे। क्लेशसंक्लेशः कर्मसंक्लेशो जन्मसंक्लेशश्च। क्लेशसंक्लेशः कतमः। उद्दानं।



 



स्वभावश्च प्रमेतेदश्च हेत्ववस्थामुखैरपि।



गुरुतार्थविपर्यासः पर्यायो दोष एव च॥



 



क्लेशसंक्लेशस्य स्वभावोऽपि वेदितव्यः प्रभेदोऽपि। हेतुरपि अवस्थापि। मुखमपि। अधिमात्रतापि। विपर्याससंग्रहोऽपि। पर्यायोऽपि। आदीनवोऽपि वेदितव्यः॥



 



क्लेशानां स्वभावः कतमः। यो धर्म उत्पद्यमानः स्वयं चाप्रशान्तलक्षण उत्पद्यते। तस्य चोत्पादप्रशान्त्यैव संस्कारसन्ततिः प्रवर्तते। अयं क्लेशस्य समस्तः स्वभावो वेदितव्यः॥



 



क्लेशानां प्रभेदः कतमः। स्यादेकविधः क्लेशसंक्लेशार्थेन। स्याद्द्विविधो दर्शनप्रहातव्यो भावप्रहातव्यश्च॥ स्यात्त्रिविधः कामप्रतिसंयुक्तो रूपप्रतिसंयुक्त आरूप्यप्रतिसंयुक्तश्च। स्याच्चतुर्विधः कामप्रतिसंयुक्तो व्याकृतोऽव्याकृतश्च। रूपप्रतिसंयुक्तोऽव्याकृतः। आरूप्यप्रतिसंयुक्तोऽव्याकृतश्च॥ स्यात्पञ्चविधो दुःखदर्शनप्रहातव्यः समुदयदर्शनप्रहातव्यो निरोधदर्शनप्रहातव्यो मार्गदर्शनप्रहातव्यो भावनादर्शनप्रहातव्यश्च॥ स्यात्षड्विधो रागः प्रतिघो मानोऽविद्या दृष्टिर्विचिकित्सा च॥ स्यात्सप्तविधः सप्तानुशयाः कामरागानुशयः प्रतिघानुशयो भवरागानुशयो मानानुशयोऽविद्यानुशयो दृष्ट्यनुशयो विचिकित्सानुशयश्च॥ स्यादष्टविधो रागः प्रतिघो मानोऽविद्या विचिकित्सा दृष्टिर्द्वौ च परामर्शौ॥ स्यान्नवविधो नव संयोजनानि। अनुनयसंयोजनं प्रतिघसंयोजनं मानसंयोजनमविद्यासंयोजनं दृष्टिसंयोजनं परामर्शसंयोजनं विचिकित्सासंयोजन मीर्ष्यासंयोजनं मात्सर्यसंयोजनं च॥ स्याद्दशविधः सत्कायदृष्टिरन्तग्राहदृष्टिर्मिथ्या दृष्टिपरामर्शः शीलपरामर्शो रागः प्रतिघो मानोऽविद्या विचिकित्सा च॥ स्यादष्टाविंशत्युत्तरं क्लेशशतमेषामेव दशानां क्लेशानां द्वादशाकारसत्यविप्रतिपत्तिव्यवस्थानतः।



 



द्वादशाकारं सत्यं कतमत्। कामावचरं दुःखसत्यं समुदयसत्यं। रूपावचरं दुःखसत्यं समुदयसत्यं आरूप्यावचरं दुःखसत्यं॥ कामावचराधिपतितत्परिज्ञाफलं तत्परिज्ञाप्रभावितं निरोधसत्यं मार्गसत्यं। रूपावचराधिपतितत्परिज्ञाफलं तत्परिज्ञाप्रभावितं निरोधसत्यं मार्गसत्यं। आरूप्यावचराधिपतितत्परिज्ञाफलं तत्परिज्ञाप्रभावितं निरोधसत्यं मार्गसत्यं॥



 



तत्र कामावचरे दुःखसत्ये समुदयसत्ये कामावचराधिपतेये निरोधसत्ये मार्गसत्ये सर्वे दशक्लेशा विप्रतिपन्नाः। रूपावचरे दुःखसत्ये समुदयसत्ये तदाधिपतेये निरोधसत्ये मार्गसत्ये प्रतिघवर्जास्त एव दश क्लेशा विप्रतिपन्नाः। यथा रूपावचर एवमारूप्यावचरे॥



 



कामावचरप्रतिपक्षे भावनायां षट् क्लेशा विप्रतिपन्ना मिथ्यादृष्टिं दृष्टिपरामर्शं शीलव्रतपरामर्शं विचिकित्सां च स्थापयित्वा॥



 



रूपावचरप्रतिपक्षे भावनायां पञ्च क्लेशा विप्रतिपन्ना एभ्य एव षड्भ्यः प्रतिघं स्थापयित्वा॥



 



यथा रूपावचरप्रतिप्रक्ष एवमारूप्यावचरप्रतिपक्षे। यथा विप्रतिपन्ना एवमावरणं॥



 



तत्र सत्कायदृष्टिः कतमा। असत्पुरुषसेवामागम्यासद्धर्मश्रवणमयोनिशो मनस्कारं नैसर्गिकं वा पुनः स्मृतिसम्प्रमोषं पञ्चोपादानस्कन्धानात्मनो वात्मीयतो वा समनुपश्यतो या निर्धारिता क्लिष्टा प्रज्ञा॥



 



अन्तग्राहदृष्टिः कतमा। असत्पुरुषसंसेवामागम्यासद्धर्म श्रवणमयोनिशो मनस्कारं नैसर्गिकं वा पुनस्मृतिसम्प्रमोषं पञ्चोपादानस्कन्धानात्मतो गृहीत्वा शाश्वततो वोच्छेदतो वा समनुपश्यतो या निर्धारिताऽनिर्धारिता वा क्लिष्टा प्रज्ञा॥



 



मिथ्यादृष्टिः कतमा। असत्पुरुषसेवामागम्यासद्धर्मश्रवणमयोनिशो मनस्कारं हेतुं वापवदतः फलं वा क्रियां वा सद्भावं वस्तु नाशयतो या निर्धारितैव क्लिष्टा प्रज्ञा॥



 



दृष्टिपरामर्शः कतमः। असत्पुरुष सेवामागम्यासद्धर्मश्रवणमयोनिशो मनस्कारं सत्कायदृष्टिमन्तग्राहदृष्टिं साश्रयां सालम्बनां सनिदानां सहभूसम्प्रयोगां परदृष्टिमुपनिधायाग्रतः श्रेष्ठतो विशिष्टतः परमतश्च समनुपश्यतो या निर्धारितैव क्लिष्टा प्रज्ञा॥



 



शीलव्रतपरामर्शः कतमः॥ असत्पुरुषसंसेवामागम्यासद्धर्मश्रवणमयोनिशो मनस्कारं। यत्तामेव दृष्टिं तद्दृष्ट्यनुचरं शीलं वा व्रतं वा साश्रयं सालम्बनं सनिदानं ससहभूसम्प्रयोगं शुद्धितो मुक्तितो नैर्याणिकतश्च समनुपश्यतो या निर्धारितैव क्लिष्टा प्रज्ञा॥



 



रागः कतमः। असत्पुरुषसेवामागम्यासद्धर्मश्रवणमयोनिशोमनस्कारं नैसर्गिकं वा स्मृतिसम्प्रमोषं बहिर्धाध्यात्मं वा निर्धारितमिष्टविषयाद्यवसानं॥



 



प्रतिघः कतमः असत्पुरुषसेवामागम्यासद्धर्मश्रवणमयोनिशोमनस्कारं नैसर्गिकं वा स्मृतिसम्प्रमोषं। याध्यात्मं बहिर्धाध्यात्मं वा निर्धारितोऽनिर्धारितो वानिष्टविषयप्रतिघातः।



 



मानः कतमः। असत्पुरुषसेवामागम्यासद्धर्मश्रवणमयोनिशो मनस्कारं। नैसर्गिकं वा स्मृतिसम्प्रमोषमागम्य याध्यात्मं बहिर्धा वा निर्धारिताऽनिर्धारिता वा उच्चनीचतायां हीनप्रणीततायां च चित्तस्य उन्नतिः॥



 



अविद्या कतमा। असत्पुरुषं स्मृतिसम्प्रमोषं यज्ज्ञेये वस्तुनि निर्धारितं वानिर्धारितं वा क्लिष्टमज्ञानं॥



 



विचिकित्सा कतमा। असत्पुरुषं मनस्कारं या ज्ञेये वस्तुनि निर्धारितैव संशय मतिः।



 



क्लेशानां हेतुः कतमः। षड् हेतवः। आश्रयतोऽपि क्लेश उत्पद्यते। आलम्बनतोऽपि संसर्गतोऽपि देशनतोऽपि अभ्यासतोऽपि मनसिकारतोऽपि॥



 



तत्राश्रयतो योऽनुशयादुत्पद्यते। तत्रालम्बनतो यः क्लेशस्थानीये विषय आभासगतः। तत्र संसर्गतो योऽसत्पुरुषाणामनुशिक्षमाणस्य। तत्र देशनतो योऽसद्धर्मश्रवणतः। तत्राभ्यासतो यः पूर्वसंस्तवबलाधानतः। तत्र मनसिकारतो योऽयोनिशो मनसि कुर्वत उत्पद्यते॥



 



कति क्लेशावस्थाः समासतः सप्त। अनुशयावस्था पर्यवस्थानावस्था परिकल्पितावस्था सहजावस्था मृद्ववस्था मध्यावस्थाधिमात्रावस्था॥



 



तत्र द्वाभ्यां कारणाभ्यां क्लेशानुशयोऽनुशेते। बीजानुबन्धतस्तदधिपतिवस्तुतश्च॥



 



कतिभिर्मुखैः क्लेशः संक्लेशयति। समासतो द्वाभ्यां। पर्यवस्थानमुखेनानुशयमुखेन च।



 



कथं पर्यवस्थानमुखेन। पञ्चभिः प्रकारैः। अप्रशान्तविहारतः कुशलान्तरायतः। आपायिकदुश्चरितसमुत्थापनतो दृष्टधार्मिक जातिपरिग्रहतो जात्यादिदुःखनिर्वर्तनतश्च॥



 



कथमनुशयमुखेन संक्लेशयति। पर्यवस्थानसन्निश्रयदानतो जात्यादिदुःखनिर्वर्तनतश्च॥



 



अपि खलु सप्तभिर्मुखैः सर्वक्लेशा दर्शनभावनाविबन्धकरा आवरणभूता वेदितव्याः। तद्यथा मिथ्यावगमनतः अनवगमनतः अवगमानवगमनतः मिथ्यावगमप्रतिपत्तितः तन्निदानपदस्थानतः तदुत्त्राससंजननतः निसर्गसमुदाचारतश्च॥



 



कथं क्लेशोऽधिमात्रलक्षणस्तीव्रलक्षणो गुरुकलक्षणो वेदितव्यः। समासतः षड्विधाकारैरापत्तित उपपत्तितः सन्तानतो वस्तुतः कर्मसमुत्थानतः पर्यन्ततश्च।



 



तत्रापत्तितो येन क्लेशपर्यवस्थानेन निरवशेषामापत्तिमापद्यते। तत्रोपपत्तितो यः कामावचर आपायिको वा। तत्र सन्तानतो यो रागादिचरितानां परिपक्वेन्द्रियाणां यूनामपरिनिर्वाणकधर्माणां च। तत्र वस्तुतो यो गुरुक्षेत्रालम्बनतो गुणक्षेत्रालम्बनतोऽगम्यक्षेत्रालम्बनतश्च। तत्र कर्मसमुत्थानतो येन क्लेशपर्यवस्थानेनाभिभूतः पर्याप्तः कायवाक्कर्म समुत्थापयति। तत्र पर्यन्ततो यः स्वभावेनैवाधिमात्रप्रकारसंगृहीतः। तत्र प्रथमतो मृदुना प्रतिपक्षेण प्रहीयते।



 



[विपर्यासः]



 



सप्तेमे विपर्यासाः। तद्यथा। संज्ञाविपर्यासो दृष्टिविपर्यासश्चित्तविपर्यासोऽनित्येऽनित्यमिति विपर्यासो दुःखे सुखमितिविपर्यासोऽशुचौ शुचीति विपर्यासोऽनात्मन्यात्मेतिविपर्यासः।



 



संज्ञाविपर्यासः कतमः। योऽनित्ये नित्यमिति दुःखे सुखमिति अशचौ शुचीति अनात्मन्यात्मेति संज्ञापरिकल्पः॥



 



दृष्टिविपर्यासः कतमः। य स्तत्रैव तथा संज्ञापरिकल्पिते क्षान्ती रुचिर्व्यवस्थापनाभिनिवेशः॥



 



चित्तविपर्यासः कतमः। यस्तत्रैव तथाभिनिविष्टे रागादिसंक्लेशः॥



 



तत्र क्लेशास्त्रिभिराकारैर्वेदितव्याः। अस्ति क्लेशो विपर्यासमूलः। अस्ति विपर्यासः। अस्ति विपर्यासनिष्यन्दः॥



 



तत्र विपर्यासमूलमविद्या। विपर्यासनिष्यन्दः सत्कायदृष्टिरन्तग्राहकदृष्टेरेकदेशो दृष्टिपरामर्शः शीलव्रतपरामर्शो रागश्च। विपर्यासनिष्यन्दो मिथ्यादृष्टिरन्तग्राहदृष्टेरेकदेशः प्रतिघो मानो विचिकित्सा च॥



 



तत्र सत्कायदृष्टिरनांत्मन्यात्मेति विपर्यासः। अन्तग्राहदृष्टेरेकदेशोऽनित्ये नित्यमिति विपर्यासः। दृष्टिपरामर्शोऽशुचौ शुचीति परामर्शः। शीलव्रतपरामर्शो दुःखे सुखमिति विपर्यासः राग उभयथा अप्यशुचौ शुचीति विपर्यासः। अपि दुःखे सुखमिति विपर्यासः॥



 



[पर्यायः]



 



क्लेशानां पर्यायः कतमः। बहवः पर्यायाः। तद्यथा। संयोजनानि बन्धनान्यनुशया उपक्लेशाः पर्यवस्थानानि ओघा उपादानानि ग्रन्था नीवरणानि खिला मला निघ्राः शल्यानि किञ्चना मूलानि दुश्चरितान्यास्रवा विघाताः परिदाहा उपायासा रणा अग्नयोज्वरा वनस्था विनिबन्धाश्चेत्येवंभागीयाः क्लेशपर्यायाः॥



 



तत्र दुःखसंयोजनात्संयोजनानि। कुशलचर्यायामकामकारित्वाद्वन्धनानि। सर्वलौकिकोत्कर्षबीजानुगम्यत्वादनुशयाः। विपर्यासैश्चित्तोपक्लेशकत्वादुपक्लेशाः। अभीक्ष्णं समुदाचारित्वात्पर्यवस्थानानि। दुर्गाधत्वादनुस्रोतो महारित्वाच्च ओघाः। मिथ्याप्रतिपत्त्युपायवात्द्योगाः। आत्मभावप्रबन्धोपादायकत्वादुपादानानि। दुर्मोचकत्वाद् ग्रन्थाः। तत्त्वार्थावच्छादकत्वान्नीवरणानि। कुशलपुष्पाक्षेत्रभूतत्वात्खिलाः। स्वभावसंक्लिष्टत्वान्मलाः। नित्यघातत्वान्निघाः। अप्रशान्तलक्षणत्वाद्दूरान्तर्गतत्वाच्च शल्यानि उपधिपरिग्रहकारकत्वात्किञ्चनाः। अकुशलाश्रयभूतत्वान्मूलानि। मिथ्याप्रतिपत्तिस्वभावत्वाद्दुश्चरितानि। चित्तविक्षेपकत्वादास्रवाः। भोगैरतृप्तिकारकत्वाद्विघाताः। इच्छाविघातकारकत्वात्परिदाहाः। विपत्त्याहारकत्वादुपायासाः। कलहभण्डन विग्रहविवादहेतुभूतत्वाद् रणाः। उपचितोपचितस्य कुशलमूलफलेन्धनस्य दाहकत्वादग्नयः। महाव्याधिभूतत्वाज्ज्वराः। विचित्राभाववृक्षसंसाधकत्वाद्वनथाः। कामगुणसक्तिकत्वाल्लोकोत्तरधर्मप्रत्यन्तरायकत्वाद्विनिबन्धाः।



 



एते सर्वक्लेशानां पर्यायाः। प्राधान्यात्तु भगवता तस्मिंस्तस्मिंन्स्पर्याये ते ते क्लेशाः स्थापिताः॥



 



संयोजनानीति नव संयोजनानि। अनुनयसंयोजनं विस्तरेण पूर्ववत्॥ बन्धनानीति त्रीणि बन्धनानि रागद्वेषमोहाः॥



 



अनुशया इति सप्तानुशयाः। कामरागानुशयो विस्तरेण पूर्ववत्॥ उपक्लेशा इति त्रय उपक्लेशा रागद्वेषमोहाः॥



 



पर्यवस्थानानीत्यष्टौ पर्यवस्थानानि। आह्रीक्यमनपत्राप्यं स्त्यानमिद्धमौद्धत्यं कौकृत्यमीर्ष्या मात्सर्यं॥



 



ओघा इति चत्वार ओघाः कामौघो भवौघो दृष्ट्योघोऽविद्यौघः॥



यथौघा एवं योगाः॥



 



उपादानानीति चत्वार्युपादानानि। कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानं आत्मवादोपादानं॥



 



ग्रन्था इति चत्वारो ग्रन्थाः। अभिध्याकायग्रन्थो व्यापादशीलव्रतपरामर्श सत्याभिनिवेशकायग्रन्थाः॥



 



नीवरणानीति पञ्च नीवरणानि। कामच्छन्दनीवरणं। व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सानीवरणानि॥



 



खिलानीति त्रीणि खिलानि रागद्वेषमोहाः॥



 



यथा खिलान्येवं मला निधानि शल्यानि किञ्चन दुश्चरितानि च॥



मूलानीति त्रीणि मूलानि। लोभोऽकुशलमूलं। द्वेषो मोहोऽकुशलमूलं।



आस्रवा इति त्रय आस्रवाः। कामास्रवो भवास्रवोऽविद्यास्रवः॥



विघाता इति त्रयो विघाता रागद्वेषमोहाः॥



 



यथा विघाता एवं परिदाहा उपायासा रणा अग्नयो ज्वरा वनथाः।



 



विनिबन्धा इति पञ्च विनिबन्धा कायापेक्षा कामापेक्षा संसृष्टविहारिता आनुलोमिककथावैकल्यं अल्पावर मात्रसन्तुष्टिश्च॥



 



क्लेशानामादीनवः कतमः। अनेकाकार आदीनवो वेदितव्यः। तद्यथा क्लेश उत्पद्यमान आदित एव चित्तं संक्लेशयति आलम्बने विपर्यासं करोति। नैष्यन्दिकीं संस्कारसन्ततिं प्रवर्तयति। आत्मव्याबाधाय संवर्तते। परव्याबाधाय उभयव्याबाधाय। दृष्टधर्मिकमवद्यं प्रसवति साम्परायिकं तज्जं चैतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयते। जन्मादिकं दुःखं निर्वर्तयति। निर्वाणाद्दूरीकरोति। सन्ततिं कुशलेभ्यो धर्मेभ्यः परिहापयति। भोगज्यानिं निगच्छति। मङ्गुरनुदग्रोऽविशारदः पर्षदमुपसंक्रामति। दिग्विदिक्षुपापकोऽवर्णकीर्त्तिश्लोको निश्चरति। गर्ह्यो भवति सतां। विप्रतिसारी कालं करोति। कायस्य च भेदादपायदुर्गतिविनिपातनरकेषूपपद्यते स्वकं चार्थं नाप्नोति॥



 



[कर्मसंक्लेशः]



 



कर्मसंक्लेशः कतमः। उद्दानं।



 



स्वभावश्च प्रभेदश्च हेत्ववस्थामुखैरपि।



गुरुताथ विपर्यासः पर्यायो दोष एव च॥



 



कर्मणां स्वभावोऽपि वेदितव्यः प्रभेदोऽपि हेतुरप्पवस्थापि मुखमप्यधिमात्रतापि विपर्यासोऽपि पर्यायोप्यादीनवोऽपि वेदितव्यः॥



 



कर्मस्वभावः कतमः। यो धर्म उत्पद्यमानो अभिसंस्कारलक्षणश्चोत्पद्यते तस्य चोत्पादात्कायाभिसंस्कारो वागभिसंस्कारस्तदुत्तरकालं प्रवर्तते। अयमुच्यते कर्म स्वभावः॥



 



कर्मप्रभेदः कतमः। द्वाभ्यामाकाराभ्यां द्रष्टव्यः। पुद्गललक्षणप्रभेदतः। धर्म लक्षणप्रभेदतश्च। ते पुनरकुशलाः कुशलाश्च दश कर्मपथाः। प्राणातिपातः प्राणातिपातविरतिश्च। अदत्तादानमदत्तादानविरतिश्च। काममिथ्याचारः काममिथ्याचारविरतिश्च। मृषावादो मृषावादविरतिश्च। पैशुन्यं पैशुन्यविरतिश्च। पारुष्यं पारुष्यविरतिश्च। संभिन्नप्रलापः संभिन्नप्रलापविरतिश्च। अभिध्याभिध्याविरतिश्च। व्यापादो व्यापादविरतिश्च। मिथ्यादृष्टिर्मिथ्यादृष्टिविरतिश्च॥



 



तत्र पुद्गललक्षणव्यवस्थानं यथोक्तं यथा प्राणातिपातिकः खलु भवति विस्तरेण यथासूत्रं तत्र प्राणातिपातिकः खलु भवतीत्युद्देशपदमिदं। रौद्रो वधहिंसाचित्तप्रत्युपस्थानात्। रुधिरपाणिस्तद्वधसम्पादनात्कायविकारापत्तेः। हतप्रहतनिविष्टो जीविताद् व्यवरोप्याङ्गशो विभज्याजीवकल्पनात्। अलज्जात्मनोऽवद्योत्पादनात्। अकृपापन्नः परेषामनिष्टोपसंहारमुपादाय॥



 



सन्ति निर्ग्रन्था नाम प्रव्रजिताः। त एवमाहुः। योजनशतस्यार्वाग्ये प्राणिनस्तेभ्यः संवृता वा भवन्त्यसंवृता वेति। तत्प्रतिपक्षेण सर्वसत्त्वेष्वित्याहुः। त एव पुनरेवमाहुर्यथा वृक्षादयो बाह्यभावाः प्राणिभूता इति। तत्प्रतिपक्षेणाहुः प्राणिभूतेष्विति। इति सत्पुण्यविरतिप्रतिपक्षश्च ख्यापितो भवति असत्पुण्यविरतिप्रतिपक्षश्च ख्यापितो भवति॥



 



एभिर्यथानिर्दिष्टैः पदैरभिसंस्कारवधः परिदीपितोऽन्ततः पिपीलकमपि प्राणिनमुपादाय। तेन पदेनापरिहारवधः परिदीपितो भवति॥



 



प्राणातिपातादप्रतिविरतो भवतीति। सति प्रत्यये व्युत्थानावकाशः परिदीपितो यावदविरतस्तावत् प्राणातिपातिक इति समासार्थः॥



 



पुनः सर्वैरेभिः पदैः प्राणातिपातिकं लिङ्गं प्राणातिपातक्रिया प्राणातिपातनिदानं प्राणातिपातवस्तुक्रियाप्रभेदश्च परिदीपितो भवति॥



 



अपरः समासार्थः। प्राणातिपातं कुर्वन्यथाभूतो भवति। यथा च प्राणिनं घातयति। यच्च प्राणिनं घातयतः प्राणातिपातिकत्वमस्य भवति तदेतत्परिदीपितमिति। प्राणातिपातिकपुद्गललक्षणं चैतत्परिदीपितं न प्राणातिपातलक्षणं॥



 



अदत्तादायिकः खलु भवतीत्युद्देशपदं। अपरेषामिति परपरिगृहीतं धनधान्यादि वस्तु। तदेव यद्ग्रामे स्थापितं सञ्चारितं वारण्यगतं वेति। यदरण्ये जातं वा संक्षिप्तं वा सञ्चारितं वा तदेव स्तेयसंख्यातमिति। यददत्तमत्यक्तममुक्तमाददानीति स्वीकरोति। अदत्तादायो कदाचिदुपकरणवैकल्येन स्वीकरणतः। अदत्तरत इति तच्चौर्यकर्म समादाय वर्तनतः। अदत्तात्यक्लामुक्तप्रतिकाङ्क्षीति पराहृतस्वीकरणाभिलाषतः। तत्र यद्दायकेन स्वामिना न पूर्वं दत्तं दानयोगेन तददत्तमित्युच्यते। यत्स्वामिना प्रतिग्राहकं प्रत्यपरित्यक्तं तदत्यक्तमित्युच्यते। यत्स्वामिनैव सर्वजनतां प्रति यथाकामोपादानपरिभोगायानिसृष्टं तदमुक्तमित्युच्यते। स्तेनञ्चात्मानं परिहरति अदत्तादायितयादत्तरततया च। लोलुपं परिहरति अदत्तात्यक्तामुक्तप्रतिकाङ्क्षणतया अशुद्धं परिहरति। अधिकरणपराजयाशुद्धतया। अशुचिं परिहरति अपराजितस्यापि तद्दोषमलिनतया। सावद्यं परिहरति दृष्टधर्मसाम्परायिकानिष्टफलहेतुपरिग्रहतया। अदत्तादानात्प्रतिविरतो भवतीति प्राणातिपातवदस्यापि विभागो द्रष्टव्यः। तदन्येषु च कर्मपथेषु समासार्थः॥



 



पुनर्यतः अदत्तादायी भवति यत्रस्थं यथाभूतोपायोऽपहरन् ततश्चापहाराद्यं दोषमवाप्नोत्ययं पिण्डार्थः॥



 



इदमप्यदत्तादायिकलक्षणं नादत्तादानलक्षणं वेदितव्यं। तथा परिशिष्टेष्वपि॥



 



काममिथ्याचारिकः खलु भवतीत्युद्देशपदं। यास्ता मातापित्रादिरक्षिता इति।



 



यथापि तन्मातापितरौ स्वां दुहितं पतिपरिणयननिमित्तं तदन्येन सह मैथुनतो गोपयति रक्षति कालेन कालमवलोकयति। उपरते वा पुनस्तस्मिन् सम्बन्धेन भ्रात्रा वा भगिन्या वा रक्षिता भवति। तस्मिन्वासति ज्ञातिरक्षिता भवति। तस्मिन्नसति स्वयमेव कुलेऽप्रतिरूपमेतदिति विदित्वा स्वयमात्मानं रक्षति। श्वश्रूश्वशुराभ्यां वा रक्षिता भवति स्वपुत्रनिमित्तं। सदण्डा राजयुक्तकुलदण्डानीति रक्षितत्वात्। सावरणा द्वारपालरक्षितत्वात्। सा खल्वेषा परिणीतायास्त्रिविधारक्षा परिदीपिता भवति समासतः गुरुस्निग्धजनावलोकनारक्षा राजयुक्तकुलारक्षा द्वारपालारक्षा च॥



 



परभार्या भवति। सैव परिणीता परपरिगृहीता। सैवापरिणीताप्यरक्षिता। त्रिभिररक्षैतद्रूपासु। सहसेति। भ्रान्तिं जनयित्वा। बलेनेति पश्यतां सर्वेषां मातापित्रादीनां प्रसह्यानिच्छन्तीमनुस्कन्द्येति। आक्रमणेनेति अनिच्छन्तीमपश्यतां चोरयन्ति।



 



कामेषु चारित्रमापद्यत इति द्वयद्वयसमापत्तिरिह कामोऽभिप्रेतः। मिथ्याचारित्रमापद्यत इति अनङ्गादेशाकालेषु ये स्वस्यामपि भार्यायां सावद्या भवन्ति इति समासार्थः॥



 



पुनर्यां गच्छतो यथागच्छतः काममिथ्याचारो भवति तदेतत्परिदीपितं॥



 



मृषावादिकः खलु भवतीत्युद्देशपदं। अपृथच्छेण्यः परिषद् तासां समवायश्चातुर्दिशस्य जनकायस्य त्रिभिर्व्यवहारैरनुभूतं यत्तज्ज्ञानं। दृष्टेनानुभूतं दृष्टमेव। आत्महेतोरिति भयहेतोर्वामिषकिञ्चित्कहेतोर्वा। यथात्महेतोरेवं परहेतोः रुभय हेतोः। भयहेतोरिति बधबन्धनज्यानिगर्हणादिभयात्। आमिषकिञ्चित्कहेतोरिति धनधान्यहिरण्यादिनिमित्तं मृषावाचं भाषत इति विनिधाय रुचिं दृष्टिं भाषणात्। समासार्थः पुनरधिकरणतोऽन्यथा भाषणतो निदानतः संज्ञाविवादतश्च मृषावादो वेदितव्यः॥



 



पैशुनिकः खलु भवतीत्युद्देशपदं भेदाभिप्रायत्वाद्विभेदकः। एषां श्रुत्वा तेषामारोचयति। तेषां वा श्रुत्वैषामारोचयतीति। यथाश्रुतभेदानुकूलं वचनं। समग्राणां भेत्ता भवति विप्रीतिसंजननतया। भिन्नानां चानुप्रदानात् प्रीतिः सम्भवति। गोपनतया व्यग्रारामो भवति विप्रीतिसंजनने क्लिष्टचित्ततया। व्यग्ररतः प्रीतिसम्भवविलोपने क्लिष्टचित्ततया व्यग्रकरणीं वाचं भाषतेऽश्रुत्वा वा परप्रयोजनतया वा। समासार्थः पुनर्भेदाभिप्रायता अभिन्नभेदप्रयोगता भिन्नभेदप्रयोगता भेदक्लिष्टचित्तता परप्रयोजनता च परिदीपिता भवति॥



 



पारुषिकः खलु भवतीत्युद्देशपदं। तत्र शीलाङ्गपरिगृहीतत्वाद् वाङ्नेलेत्युच्यते। मधुरश्लक्ष्णपदव्यञ्जनत्वात्कर्णसुखा। अध्याशयप्रयोजितत्वाद् अकृत्रिमत्वादशाठ्योपहतत्वाद् हृदयङ्गमेत्युच्यते। असमारोपितत्वात् कालमात्रार्थोपसंहितात्वाच्च प्रेमणी। निर्वाणपुराधिकृतत्वापौरी। मधुरपदव्यञ्जनत्वाद्वल्गुः। सुनिरुक्तपदव्यञ्जनत्वाद्विस्पष्टा। गमकत्वाद्विज्ञेया। धर्म्यत्वाच्छ्रवणीया। निरामिषचित्तत्वादनिश्रिता। परिमितत्वादप्रतिकूला। प्रबद्धत्वाद्विशदत्वाच्चापर्यादत्ता॥



 



सा खल्वेषा नेलामुपादाय यावदपर्यादत्तान्ता त्रिविधा वेदितव्या। शीलसंवरसंगृहीतैकेनाकारेण संमोदिका। पश्चिमा पुनरधिकारसम्पन्ना प्रथमाकारेण। द्वाभ्यां व्यञ्जनसम्पन्ना। परिशिष्टैः प्रयोगंसम्पन्ना वेदितव्या। अनागतमध्वानमुपादायाभिप्रेतत्वात्कान्ता। अतीतमध्वानमुपादायाभिप्रेतत्वात् प्रिया। वर्तमानमध्वानमुपादाय वस्तुतोऽनुभवतश्चाभिप्रेतत्वात् प्रिया मनापा च वेदितव्या। या सम्मोदिका सा बहुजनस्येष्टा कान्ता प्रिया मनापा च। या धर्मदेशिका सा समाहिता। या शीलाङ्गपरिगृहीता सा विप्रतिसाध्यानुपूर्व्या समाधिसंवर्तनी॥



 



तत्र आदशा-दीप्ताया पराभिद्रोहिणी द्वेषविषमोक्षणात्। कर्कशा या परं प्रतिकटुका दुःखसंस्पर्शात्। शिष्टं शुक्लपक्षविपर्ययेण वेदितव्या॥



 



संभिन्नप्रलापिकः खलु भवतीत्युद्देशपदं। पञ्चविधा चोदना। अधिकृत्य मिथ्या चोदना कालेऽकाले वादितयाऽकालवादी। अभूतवादितयाभूतवादी। अनर्थोपसंहितवादितयानर्थवादी। परुषवादितयाधर्मवादी। द्वेषान्तरवादितया निशम्यवादी। मिथ्याधर्मदेशनाकालेऽचिन्तयित्वा सम्यगुपनिध्याय देशनया निशम्य वाचं भाषिता भवति॥



 



परिभूय शृण्वते देशना परकाले न पूर्वेणापरसम्बद्धार्थतया प्रकीर्णा। अयुक्तिपतितहेत्वपदेशतया न सापदेशा। अननुश्लिष्टदृष्टान्तोपसंहारतया न सावदाना। हास्यगीतादिक्रीडाकाले नटनर्तक हासकलासकादिप्रेक्षाकालेऽनर्थसंहिता॥ समासार्थः पुनर्यथा निर्दिष्टकालत्रये संभिन्नप्रलाप एव परिदीपितः॥



 



अभिघ्यालुः खलु भवतीत्युद्देशपदं। परस्वे रागमधिपतिं कृत्वा स्वीकरणनिश्चयोत्पत्त्यधिवासनतया तीव्रसंरागः। वित्तं यद्व्यावहारि धनजातं। उपकरणं यत्पारभोगिकं। तदुभयमभिसमस्तं द्रष्टव्यं। यत्परेषां तन्मम स्यादित्यभिध्यायाः प्रवृत्त्याकार एष परिदीपितः समासतोऽभिध्यास्वभावत आलम्बनत आकारतश्च वेदितव्यः॥



 



व्यापन्नचित्तः खलु भवतीत्युद्देशपदं। परसत्त्वेषु व्यापादमधिपतिं कृत्वोपघातनिश्चयोत्पत्त्यधिवासनतया प्रदुष्टमनःसङ्कल्पः। हन्यन्तामित्याश्रयबन्धविपत्तिकामता। वध्यन्तामित्याश्रयवधकामता। जीयन्तामिति परभोगविपत्तिकामता। अनयेन व्यसनमापद्यतामिति स्वयमेव भोगविपत्तिकामता। समासार्थः पूर्ववद्द्रष्टव्यः॥



 



मिथ्यादृष्टिकः खलु भवतीत्युद्देशपदं। एवंदृष्टिरित्यात्मनो विवक्षितार्थक्षान्तिरुचिपरिदीपनमेतत्। एवंवादीति परेषां विवक्षितार्थग्रहणपरिदीपनमेतत्। त्रिविधाभिप्रायस्य दानस्यापवादाद्भोगाभिप्रायस्य शुद्ध्यभिप्रायस्य देवतापूजाभिप्रायस्य नास्ति दत्तं नास्तीष्टं नास्ति हुतमित्याह। हुतमग्निदेवतापूजाभिप्रायस्य द्रष्टव्यं। सविपक्षप्रतिपक्षस्य शीलमयस्य भावनामयस्य कुशलस्यापवादाद्दानमयविपक्षस्य च। नास्ति सुचरितं नास्ति दुश्चरितमित्याह। तस्य त्रिविधस्य सविपक्षप्रतिपक्षस्य कुशलस्यापवादान्नास्ति सुकृतदुष्कृत कर्मणां फलविपाक इत्याह। प्रवृत्त्यधिष्ठानप्रत्ययापवादान्नास्त्ययं लोको नास्ति परलोक इत्याह।



तत्फलप्रत्ययापवादात्तद्बीजप्रत्ययापवादाच्च नास्ति माता नास्ति पितेत्याह। प्रवृत्तिपुरुषापवादान्नास्ति सत्त्व उपपादुक इत्याह। प्रवृत्तिप्रतिपक्षिकनिवृत्त्यपवादान्न सन्ति लोकेऽर्हन्त इति विस्तरेणाह। तत्र प्रत्यात्मं संक्लेशसमपगमात् सम्यग्गताः। सत्त्वेषु मिथ्याप्रतिपत्तिविवर्जितप्रतिपत्तेः सम्यक्प्रतिपन्नाः। हेतुकाल इति इमं कालं। फलकाल इति परकालं। स्वस्येति स्वपुरुषकारत्वात् स्वयमभिज्ञाय इति। षष्ठ्या साक्षात्कृत्य इति। दर्शनमार्गेण। भावनामार्गेणोपसम्पाद्य इति स्वयं च ज्ञानात्परेषां चारोपणात्स्वस्याधिगमस्य प्रवेदयन्ते इति क्षीणा मे जातिरित्येवमादि पूर्ववद्विभागो वेदितव्यः। तत्रायं समासार्थः। हेत्वपवादः फलापवादः क्रियापवादः सद्वस्त्वपवादश्च परिदीपितः॥ तत्र क्रिया बीजोपनिक्षेपणक्रिया धारणाक्रिया आगमनगमनक्रिया उपपत्तिसंवर्तनीयकर्मक्रिया॥



 



अपरः पिण्डार्थपर्यायः। सहेतुफलायाः सप्रत्ययप्रवृत्तिपुरुषायाः प्रवृत्तेरपवादः। तत्प्रतिपक्षिकायाश्च निवृत्तेरपवादः परिदीपितः। तत्र प्रवृत्त्यपवादे हेत्वपवादो द्रष्टव्यो न स्वलक्षणापवादः। निवृत्त्यपवादे पुनर्गुणापवादो द्रष्टव्यो न पुद्गलवाद इति॥



 



तत्र शुक्लपक्ष एतद्विपर्ययेण सर्वो वेदितव्यः। यत्तु विशेषणं तद्वक्ष्यामि। काममिथ्याचारमुपादाय ब्रह्मचारीत्युद्देशपदं। तदेतत्तिसृभिः परिशुद्धिभिः शुद्धं वेदितव्यं। कालशुद्ध्या परसम्भावनाशुद्ध्या प्रतिपत्तिशुद्ध्या च। यावज्जीवं चरणाद् आराच्चारो भवति। एषा च कालशुद्धिः। अधिकरणशुद्धितः शुद्धः। अव्यतिक्रमणतः शुचिः। इयं च परसम्भावनाशुद्धिः॥



 



तत्र स्याच्छुद्धो न शुचिरिति चतुष्कोटिकः। तत्र प्रथमा कोटिरध्यापन्नस्याधिकरणे जयः। द्वितीया कोटिरनध्यापन्नस्याधिकरणे पराजयः। तृतीया कोटिरनध्यापन्नस्याधिकरणे जयः। चतुर्थी कोटिरध्यापन्नस्याधिकरणे पराजयः॥



 



तत्र मातृग्रामस्य कायसंसर्गास्वीकरणान्निरामगन्धः। द्वयद्वयसमापदनाद्विरतो मैथुनात्। तदन्येन हस्तसंसर्गादिकेनोपायेन शुक्रशोणितविमोक्षणादप्रणिधाय च ब्रह्मचर्याभ्युपगमाद्विरतो ग्रामधर्मात्। इयं च प्रतिपत्तिसम्पदित्युच्यते॥



 



समासार्थोऽत्रैवान्तर्भूतो द्रष्टव्यः॥



 



मृषावादमारभ्य श्रद्धेयो भवति प्रत्ययितत्वात्। प्रत्ययितो विश्वास्यतया। तत्र तत्राधिकरणे प्रामाणिकत्वेन स्थाप्यते तथा च विश्वास मापन्नेष्वविसंवादनादनभिद्रोहणादविसंवादकः॥



 



समासतस्त्रिविध उपग्रहः परिदीपितो भवति। आशयोपग्रहो विनियोगोपग्रहः क्रियोपग्रहश्च॥



 



[धर्मलक्षणव्यवस्थानं ]



 



तत्र धर्मलक्षणव्यवस्थानं। प्राणातिपातः कतमः। वधाभिप्रायस्य क्लिष्टचेतसः परप्राणिनि तत्रैव वधप्रयोगे वधनिष्ठायां यत्कायकर्म॥



 



अदत्तादानं कतमत्। अपहाराभिप्रायस्य क्लिष्टचेतसः परपरिगृहीते वस्तुनि तत्रैवाहारप्रयोगे तत्रैवापहारनिष्ठायां यत्कायकर्म॥



 



काममिथ्याचारः कतमः। सेवाभिप्रायस्य क्लिष्टचेतसः अगम्यानङ्गादेशाकालेषु तत्रैव काममिथ्याचारप्रयोगः काममिथ्याचारनिष्ठायां च यत् काय कर्म॥



 



मृषावादः कतमः। विनिधाय संज्ञां वक्तु कामस्य क्लिष्टचेतसः परसत्त्वे तत्रैव कूटसाक्षिप्रयोगे कूटसाक्षिनिष्ठायां च यद्वाक्कर्म।



 



पैशुन्यं कतमत्। भेदाभिप्रायस्य क्लिष्टचेतसः परसत्त्वेषु तत्रैव भेदप्रयोगे भेदनिष्ठायां च यद्वाक्कर्म।



 



पारुष्यं कतमत्। परुषं वक्तुकामस्य क्लिष्टचेतसः परसत्त्वेषु तत्रैव परुषवचनप्रयोगे परुषवचननिष्ठायां च यद्वाक्कर्म॥



 



संभिन्नप्रलापः कतमः। प्रलपितुकामस्य क्लिष्टचेतसोऽबद्धप्रलापप्रयोगेऽबद्धप्रलापनिष्ठायां च यद्वाक्कर्म॥



 



अभिध्या कतमा। परस्वीकरणाभिप्रायस्य क्लिष्टचेतसः परस्वीकरणाभिप्राये निश्चयप्रयोगे तन्निष्ठायां च यन्मनस्कर्म॥



 



व्यापादः कतमः। परव्यापादाभिप्रायस्य क्लिष्टचेतसः परव्यापादाभिप्रायनिश्चयप्रयोगे तन्निष्ठायां च यन्मनस्कर्म॥



 



मिथ्यादृष्टिः कतमा। अपवादाभिप्रायस्य क्लिष्टचेतसोऽपवादाभिप्रायनिश्चयप्रयोगे तन्निष्ठायां च यन्मनस्कर्म॥ 



 



प्राणातिपातविरतिः कतमा। प्राणातिपात आदीनवाभिप्रायस्य कुशलचेतसस्तत्संयमप्रयोगे तत् संयमनिष्ठायां च यत्कायकर्म॥



 



यथा प्राणातिपातविरतिरेवमदत्तादानकाममिथ्याचारमृषावादपैशुन्यपारुध्यसंभिन्नप्रलापाभिध्याव्यापादमिथ्यादृष्टिविरतयो विदेतव्याः। तत्रायं विशेषः। अदत्तादान आदीनवाभिप्रायस्य यावन्मिथ्यादृष्टावादीनवाभिप्रायस्य कुशलचेतस तत्संयमप्रयोगे तत्संयमनिष्ठायां च यन्मनस्कर्म॥



 



तत्र दश समानानि त्रीणि भवन्ति। कायकर्म वाक्कर्म मनस्कर्म। त्रीणि समानानि दश भवन्ति॥



 



कर्मणां हेतुः कतमः। स द्वादशाकारो वेदितव्यः। लोभो द्वेषो मोहः आत्मा पर परानुवृत्तिरामिषभयमपकारनिमित्तं क्रीडारतिधर्मसंज्ञा मिथ्यादृष्टिश्च॥



 



कर्मावस्था कतमा। समासतः पञ्चाकारा वेदितव्या। मृद्ववस्था मध्यावस्थाधिमात्रावस्थोत्पत्त्यवस्था वासनावस्था च। तत्र मृदुना कुशलेन कर्मणा तिर्यक्षूत्पद्यते। मध्येन प्रेतेषु। अधिमात्रेण नरकेषु। मृदुना कुशलेन मनुष्येषूत्पद्यते मध्येन कामावचरेषु देवेषु। अधिमात्रेण रूप्यारूप्येषु



 



मृद्ववस्थमकुशलं कर्म कतमत्। यन्मृदुलोभद्वेषमोहनिदानं। मध्यावस्थं यन्मध्यलोभद्वेषमोहनिदानं। अधिमात्रावस्थं यदधिमात्रलोभद्वेषमोहनिदानं। कुशलं वा पुनरलोभाद्वेषामोहनिदानं तथैव यथायोगं द्रष्टव्यं। उत्पत्त्यवस्थं यदुत्पन्नानिरुद्धं संमुखीभूतं। वासनावस्थं यदुत्पन्ननिरुद्धं विमुखीभूतं॥



 



कर्मणां मुखं कतमत्। तत्समासतो द्विविधं। फलदानमुखमुपघातानुग्रहमुखं च॥ फलदानमुखं कतमत्। तत्पञ्चाकारं वेदितव्यं। विपाकफलतो निष्यन्दफलतोऽधिपतिफलतो दृष्टधर्मफलतः पराधिपतिफलतश्च।



 



तत्र विपाकफलतः प्राणातिपात आत्मचित्ते भाविते बहुलीकृते नरकेषु विपाको विपच्यते। यथा प्राणातिपात एवमवशिष्टेष्वकुशलेषु कर्मपथेषु। इदमेषां विपाकफलं॥



 



तत्र निष्यन्दफलतः। सचेन्मनुष्याणां सभागतायामल्पायुष्को भवति। सम्भोगविपन्नो भवति। अगुप्तद्वारो भवति। अभ्याख्यानबहुलीभवति। विभिन्नमित्रो भवति। अमनोज्ञशब्दश्रोता भवति। अनादेयवाक्यो भवति। तीव्ररोगो भवति। तीव्रद्वेषो भवति। तीव्रमोहो भवति। इदमेषां निष्यन्दफलं॥



 



तत्राधिपतिफलतः। अकुशलानां कर्मणामासेवितत्वाद् भावितत्वाद्बहुलीकृतत्वात्तेनाधिपतिना बाह्या भावा अल्पौजस्कफला भवन्ति असम्पन्नफलाः पूतिफलाः परिवृत्तफलाः शीर्णफला अस्वादुफला असदाफला अल्पकफला अपथ्यफला अफलाश्च। एतद्विपर्ययेण कुशलकर्म द्रष्टव्यं॥



 



तत्र दृष्टधर्मफलतः। द्वाभ्यां कारणाभ्यां कर्म दृष्टफलं भवत्यकुशलं वा कुशलं वा। आशयतो वस्तुतश्च। तत्राशयोऽष्टाकारो वेदितव्यः॥ तद्यथा अपेक्षाशयो निरपेक्षाशयोऽपकाराशयः करुणाशय आघाताशयः प्रसादाशयः कृतघ्नाशयः कृतज्ञाशयश्च॥



 



तत्रापेक्षाशयतोऽपि कर्माकुशलं दृष्टधर्मवेदनीयं। यथापीहैकत्योऽधिमात्रां कायनिरपेक्षतां भोगनिरपेक्षतां भवनिरपेक्षतामभिसंस्करोति॥



 



तत्र निरपेक्षाशयतोऽपि कर्म कुशलं दृष्टधर्मवेदनीयं भवति। यथापीहैकत्योऽधिमात्रां कायनिरपेक्षतां भोगनिरपेक्षतां भवनिरपेक्षतामभिसंस्करोति॥



 



तत्रापकाराशयतोऽपि कर्माकुशलं दृष्टधर्मवेदनीयं भवति। यथापीहैकत्यः परसत्त्वेषु परपुद्गलेष्वधिमात्रमपकाराशयमभिसंस्करोति॥



 



तत्र करुणाशयतोऽपि कर्म कुशलं दृष्टधर्मवेदनीयं भवति। यथापीहैकत्यः परसत्त्वेषु परपुद्गलेष्वधिमात्रं करुणाशयमभिसंस्करोति॥



 



तत्राधाताशयतोऽपि कर्माकुशलं दृष्टधर्मवेदनीयं भवति। यथापीहैकत्यो बुद्धे वा धर्मे वा सङ्घे वान्यतमान्यतमस्मिन्वा गुरुस्थानीये वस्तुन्यधिमात्रमाघाताशयं प्रतिघाताशयमभिसंस्करोति॥



 



तत्र प्रसादाशयतोऽपि कर्म कुशलं दृष्टधर्मवेदनीयं भवति। यथापीहैकत्यो बुद्धे वा धर्मे वा सङ्घे बाधिमात्रं प्रसादाशयमधिभुक्त्याशयमभिसंस्करोति॥



 



तत्र कृतघ्नाशयतोऽपि कर्माकुशलं दृष्टधर्मवेदनीयं भवति। यथापीहैकत्यो मातरि वा पितरि वान्यतमान्यतमस्मिन्वोपकारवस्तुन्यधिमात्रं कृतघ्नाशयमभिद्रोहाशयं रौद्राशयमभिसंस्करोति॥



 



तत्र कृतज्ञाशयतोऽपि कर्म कुशलं दृष्टधर्मवेदनीयं भवति। यथापीहैकत्यो मातरि पितरि वान्यतमान्यतमस्मिन्वोपकारवस्तुन्यधिमात्रं कृतज्ञाशयं प्रत्युपकाराशयमधिमात्र मभिसंस्करोति॥



 



तत्र वस्तुतोऽकुशलं कर्मानन्तर्येष्मानन्तर्यभावेषु च दृष्टधर्मवेदनीयं भवति। पञ्चानन्तर्याणि कर्माणि। तद्यथा मातृवधः पितृवधोऽर्हद्वधः सङ्घभेदस्तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादनं च॥



 



आनन्तर्यसभागानि पुनः। यथापीहैकत्योऽर्हन्तं वा गच्छति मातरं वा। चरमभविकाय वा बोधिसत्त्वाय प्रहरति। देवतायतनेषु वा चत्वरेषु वा शृङ्गाटकेषु वा पशुवधमनुप्रवर्तयति। विश्वस्तं वा परमविश्वासप्राप्तं मित्रं वा सुहृदं वा वयस्यकं वा द्रुह्यतिव्पंसयति विप्रवासयति। दुःखितं वा पुनर्निष्किञ्चनमनाथमप्रतिशरणं शरणागतमप्रदानेनोप गृह्योत्तरत्राभिद्रुह्यति पीडायै प्रतिपद्यते। सङ्कायद्वारं वापहरति। चैत्यभेदं वा करोति। इत्येवंभागीयं कर्मानन्तर्यसमागमित्युच्यते॥



 



कुशलं वा पुनर्वस्तुतो दृष्टधर्मवेदनीयं भवति। यथापीहैकत्यो मातरमश्राद्धां श्रद्धासम्पदि समादापयति विनयति निवेशयति प्रतिष्ठापयति। यथाश्राद्धां श्रद्धासम्पद्येवं दुःशीलां शीलसम्पदि। मत्सरिणीं योगसम्पदि दुष्प्रज्ञां प्रज्ञासम्पदि। यथा मातरमेवं पितरं। मैत्र्याः समापत्तेर्व्युत्थितं पिण्डकेन प्रतिपादयति। कार्यकारान्वा प्रयुंक्ते। एवं करुणायानिरोधसमापत्तेः स्रोतआपत्तिफलाद्‍व्युत्थितमर्हत्वफलाच्च पिण्डकेन प्रतिपादयति कारान्वा प्रयुंक्ते। तथा साक्षाद्बुद्धे भगवति कारान्प्रयुंक्ते। यथा बुद्धे भगवत्येवं शैक्षाशैक्षसङ्घे॥



 



एष्वेव वा पुनर्वस्तुषु विपर्ययेणाकुशलमपि कर्म दृष्ठधर्मवेदनीयं भवत्यपकारनैमित्तिकं॥



 



तत्र पराधिपतिफलतः कर्म दृष्टधर्मवेदनीयं भवति। यथापि तद्यस्मिन्ग्रामक्षेत्रे तथागतो विहरति। तत्र नेतय उपद्रवा वोपसर्गा उत्पद्यन्ते। अनीतिकोऽनुपद्रवोऽनुपसर्गो जनकायः सुखस्पर्शं विहरति। यदुत बुद्धानुभावेन। यथा बुद्धा एवं चक्रवर्तिनो मैत्रविहारिणश्च बोधिसत्त्वाः। तथा बोधिसत्त्वः करुणाशयो दरिद्रान् दुःखितान् दैवोपहतान् सत्त्वानभिसमीक्ष्यान्नेन पानेन धनेन धान्येन कोशेन सन्तर्पयति। ते च तेन प्रत्ययेन सुखस्पर्शं विहरन्ति। इदमप्येवंभागीयं पराधिपतिकं दृष्टधर्मवेदनीयं कर्म वेदितव्यं॥



 



तत्रोपघातानुग्रहः। अष्टाभिरुपघातमुखैः सत्त्वेषु दशाकुशलाः कर्मपथा व्यवस्थापिताः। अष्टावुपघातमुखानि कतमानि। प्राणोपघातो भोगोपघातो दारोपघातः कूटसाक्ष्युपघातः सहायोपघातो दोषसमाख्यानोपघातः प्रसादोपसंहारोपघातो भयोपसंहारोपघातश्च। एतद्विपर्ययेण कुशलानां कर्मपथानां मुखानि द्रष्टव्यानि॥



 



कर्मणामधिभात्रता तीव्रता गुरुता कतमा। सा षड्भिराकारैर्द्रष्टव्या। अभिसंस्कारतोऽभ्यासतः स्वभावतो वस्तुतो विपक्षैकान्ततो विपक्षोपघाततश्च। तत्राभिसंस्कारतः। यथापीहैकत्यस्तीव्रेण लोभद्वेषमोहपर्यवसानेन तीव्रेण वालोभाद्वेषामोहाभिसंस्कारेण कर्म समुत्थापयति। तत्राभ्यासतः। यथापीहैकत्येन कुशलमकुशलं वा कर्म दीर्घरात्रमासेवितं भवति भावितं बहुलीकृतं॥ तत्र स्वभावतः। तद्यथा संभिन्नप्रलापात्पारुष्यं महासावद्यतरं पारुष्यात्पैशुन्यं महासावद्यतरं। पैशुन्यान्मृषावादो महासावद्यतरः। मृषावादात्काममिथ्याचारो महासावद्यतरः काममिथ्याचाराददत्तादानं महासावद्यतरं। अदत्तादानात्प्राणातिपातो महासावद्यतरः। अभिध्याया व्यापादो सावद्यतरः। व्यापादान्मिथ्यादृष्टिर्महासावद्यतरा। दानमयाच्छीलमयमनवद्यतरं। शीलमयाद्भावनामयं श्रुतमयाच्चिन्तामयं॥



 



तत्र वस्तुतः। यथापीहैकत्यो बुद्धे वा धर्मे वा सङ्घे वान्यतमान्यतमस्मिन्वा गुरुस्थानीये वस्तुनि गुरुकवस्तुकमेवापकारं वोपकारं वा प्रयुङ्क्ते॥



 



तत्र विपक्षैकान्ततः। यथापीहैकत्य एकांशेनैवाकुशलं कर्म समादाय वर्तते यावज्जीवं। नो त्वेकदा कुशलं॥ तत्र विपक्षोप घाततः। यथापीहैकत्योऽकुशलं कर्म विपक्षभूतं प्रहाय कुशलं कर्म विशोधयति॥



 



[कर्मणां विपर्यासः]



 



कर्मणां विपर्यासः कतमः। स त्रिविधो द्रष्टव्यः। क्रियाविपर्यासो ग्राहविपर्यासो रतिविपर्यासश्च॥



 



तत्र क्रियाविपर्यासः। यथापीहैकत्योऽन्यस्य प्राणिनो वधाय चेतयते। अन्यं घातयति। तत्र चास्ति प्राणातिपातो नो तु प्राणातिपातिकमवद्यम् अपि तु प्राणातिपातजातीयं प्राणातिपातसदृशमनुसभागमवद्यं प्रसवति। नो चेदन्यं प्राणिनं घातयति अपित्वप्राणिभूते वस्तुनि प्रहृत्य प्राणी मे घातित इति मन्यते। तत्र नास्ति प्राणातिपातो नास्ति प्राणातिपातिकमवद्यमपितु प्राणातिपातजातीयं प्राणातिपातसदृशमनुसभागमवद्यं प्रसवति॥



 



यथा प्राणातिपात एवमदत्तादानादिषु कर्मपथेषु क्रियाविपर्यासो यथायोगं वेदितव्यः॥



 



तत्र ग्राहविपर्यासः। यथापीहैकत्य एवंदृष्टिरेवंवादी भवति। नास्ति दत्तं नास्तीष्टमिति विस्तरेण मिथ्यादृष्टिर्वक्तव्या। तस्यैवं भवति। नास्ति घ्नतो वा घातयतो वा अदत्तमाददानस्य कामेषु मिथ्याचरतो मृषावाचं भाषमाणस्य पैशुन्यमाचरतः परुषां वाचं भाषमाणस्य संभिन्नं प्रलपतो दानानि वापुनर्ददत उपवासमुपवसतः पुण्यानि कुर्वतः शीलं समादाय वर्तमानस्य नास्त्यतो निदानं पापं वा पुण्यं वेति। यथापीहैकत्य एवंदृष्टिरेवंवादी। ब्राह्मणद्विषो ब्रह्मद्विषो देवद्विषो हन्तव्याः। हत्वा च पुनस्ततोनिदानं पुण्यमेव भवति न पापं। तेषु चादत्तादानं काममिथ्याचारो मृषावादः पैशुन्यं पारुष्यं संभिन्नप्रलापः पुण्यायैव भवति नापुण्याय॥



 



तत्र रतिविपर्यासः। यथापीहैकत्योऽकुशलान् कर्मपथान् समादाय वर्तमानोऽत्यन्तं रमते। तैश्च क्रीडाधर्ममापद्यते॥



 



कर्मणां पर्यायः कतमः। अस्ति कर्म कृतमस्त्यकृतं। अस्त्युपचितम् अस्त्यनुपचितं। अस्ति साञ्चेतनीयमस्त्यसाञ्चेतनीयं। एवं नियतविपाकमनियतविपाकं। विपक्वविपाकमविपक्वविपाकं। कुशलमकुशलमव्याकृतं। संवरसंगृहीतमसंवरसंगृहीतं। नैव संवरनासंवरसंगृहीतं। दानमयं शीलमयं भावनामयं। पुण्यमपुण्यमानिञ्ज्यं। सुखवेदनीयं दुःखवेदनीयमदुःखासुखावेदनीयं दृष्टधर्मवेदनीयमुपपद्यवेदनीयं परपर्याय वेदनीयं। अतीतमनागतं प्रत्युत्पन्नं। कामप्रतिसंयुक्तं रूपप्रतिसंयुक्तमारूप्यप्रतिसंयुक्तं। शैक्षमशैक्षं। नैव शैक्षं नाशैक्षं। दर्शनप्रहातव्यं भावनाप्रहातव्यमप्रहातव्यं। कृष्णं कृष्णविपाकं। शुक्लं शुक्लविपाकं। कृष्णशुक्लं कृष्णशुक्लविपाकं। अकृष्णमशुक्लविपाकं। कर्म कर्मक्षयाय संवर्तते। वङ्ककर्म दोषकर्म कषायकर्म शुचिकर्म मुनिकर्म चेति॥



 



कृतं कर्म कतमत्। यच्चेतितं चेतयित्वा पुनः कायेन वाचा समुत्थापितं। अकृतं कर्म यदचेतितमचेतयित्वा पुनर्न कायेन न वाचा समुत्थापितं॥



 



उपचितं कर्म कतमत्। दशविधं कर्म स्थापयित्वा। तद्यथा स्वप्नकृतमज्ञानकृतमसञ्चित्यकृतमतीव्रानतितीक्ष्णकृतं भ्रान्तिकृतं स्मृतिसम्प्रमोषकृतमनिच्छाकृतं प्रकृत्यव्याकृतं विप्रतिसारोपहतं प्रतिपक्षोपहतं च। इत्येतद्दशविधं कर्म स्थापयित्वा यदन्यत्कर्म॥



 



अनुपचितं कर्म दशविधं यथानिर्दिष्टमेव॥



 



संचेतनीयं कर्म यत्संचिन्त्य कृतमुपचितं वा॥



 



असंचेतनीयं कर्म यदसंचिन्त्य कृतं॥



 



नियतवेदनीयं कर्म यत्संचिन्त्य कृतमुपचितं च॥



 



अनियतवेदनीयं कर्म यत्संचिन्यकृतं नोपचितं॥



विपक्वविपाकं कर्म यद्दत्तफलं॥



अविपक्वविपाकं कर्म यददत्तफलं॥



कुशलं कर्म यदलोभाद्वेषामोहनिदानं॥



अकुशलं कर्म यल्लोभद्वेषमोहनिदानं॥



अव्याकृतं कर्म यन्नैव लोभद्वेषमोहनिदानं नालोभाद्वेषामोहनिदानं॥



 



संवरसंगृहीतं कर्म यत्प्रातिमोक्षसंवरसंगृहीतं वा ध्यानसमापत्तिप्रहाणसंवरसंगृहीतं वानास्रवसंवरसंगृहीतं वा॥



 



असंवरसंगृहीतं कर्म यद्द्वादशस्वासंवरिकनिकायेषु। द्वादशासंवरिकनिकायाः। तद्यथा। औरभ्रिकाः कौक्कुटिकाः सौकरिकाः श्वशाकुन्तिकाः शशवागुरिकाश्चौरा वध्यघाता बन्धनपालकाः सूचकाः कारणाकारापका नागबन्धका नागमण्डलिकाश्च॥ 



 



नैवसंवरनासंवरसंगृहीतं कर्म। त्रिविधं च संवरं स्थापयित्वा आसंवरिकनैकायिकं च कर्म स्थापयित्वा तदन्यनैकायिकं यत्कुशलाकुशलाव्याकृतं कर्म दानमयं निदानतः समुत्थानतः स्वभावतोऽधिष्ठानतश्च वेदितव्यं। तत्र निदानतोऽलोभाद्वेषामोहनिदानं। समुत्थानतः देयवस्तु परित्यागाय कायवाक्कर्मसमुत्थापिका चेतना अलोभाद्वेषामोहसहगता। स्वभावतो यत्समुत्थापितं देयवस्तुपरित्यागे कायवाक्कर्म। तत्राधिष्ठानतो देयं वस्तु प्रतिग्राहकश्चाधिष्ठानं। यथा दानमयमेवं शीलमयं भावनामयं यथायोगं वेदितव्यं॥



 



तत्र शीलमयस्य निदानं समुत्थानं च तुल्यं। स्वभावः संवरसंगृहीतं कायकर्म वाक्कर्म। अधिष्ठानं सत्त्वासत्त्वसंख्यातं वस्तु। भावनामयस्य निदानं समाधिनिदानमलोभाद्वेषामोहसमुत्थानं। तत्सहगतः समाधिः निर्हारिका चेतना स्वभावः समाधिरधिष्ठानं दशसु दिक्षु अदुःखासुखिकः सत्त्वधातुः। दानपतिलिङ्गानि शीलवल्लिङ्गानि भावकलिङ्गानि पूर्ववत्सर्वं वेदितव्यं॥



 



पुण्यं कर्म यत्सुगतिवैपाक्यं पञ्चगतिवेदनीयं च कुशलं। अपुण्यं कर्म यदपायवैपाक्यं पञ्चगतिवेदनीयं चाकुशलं। आनिञ्ज्यं कर्म यद्रूपारूप्यवैपाक्यं रूप्यारूप्यवेदनीयं च कुशलं च कर्म। सुखवेदनीयं कर्म यत्पुण्यंनिध्यानवेदनीयं चानिञ्ज्यं। दुःखवेदनीयं कर्म यदपुण्यं। अदुःखासुखवेदनीयं कर्म यत्सर्वत्रालयविज्ञानवैपाक्यं कर्म। चतुर्थाच्च ध्यानादूर्ध्वमानिञ्ज्यं। दृष्टधर्मवेदनीयं कर्म यदृष्टधर्मफलं। उपपद्यवेदनीयं कर्म यदनन्तरजन्मफलं। अपरपर्यायवेदनीयं कर्म यत्तदूर्ध्वजन्मफलं। अतीतं कर्म यद्वासनावस्थं दत्तफलमदत्तफलं वा। अनागतं कर्म यदनिर्वृत्तं वर्तमानं कर्म यदभिसंस्कृतमभिसञ्चितमनुपरतं। कामप्रतिसंयुक्तं कर्म यत्कामधातुवैपाक्यं कामधातुपर्यापन्नं। रूपप्रतिसंयुक्तं कर्म रूपधातुवैपाक्यं रुपधातुपर्यापन्नं। आरूप्यप्रतिसंयुक्तं यदारूप्यधातुवैपाक्यमारूप्यधातुपर्यापन्नं। शैक्षं कर्म पृथग्जनापृथग्जनशैक्षसन्तानिकं कुशलं। अशैक्षं कर्म यदशैक्षसन्तानिकं कुशलं। नैव शैक्षनाशैक्षं कर्म तदुभयं स्थापयित्वा तदन्यसन्तानिकं यत् कुशलाकुशलाव्याकृतं। दर्शनप्रहातव्यं कर्म यदपायप्रतिसंवेदनीयमकुशलं। भावना प्रहातव्यं कर्म यत्सुगतिप्रतिसंवेदनीयं कुशलाकुशलाव्याकृतं। अप्रहातव्यं कर्म यल्लौकिकं लोकोत्तरमनास्रवं। कृष्णं कृष्णविपाकं कर्म यदपुण्यं। शुक्लं शुक्लविपाकं कर्म यदानिञ्ज्यं। कृष्णशुक्लं कृष्णशुक्लविपाकं कर्म यत्पुण्यमकुशलमप्रतिद्वन्द्वतया। तथाह्यप्रहीणेऽपुण्ये पुण्यकर्मव्यवस्थानं क्रियते। अकृष्णमशुक्लमविपाकं कर्म कर्मक्षयाय संवर्तते। यल्लोकोत्तरमनास्रवं कर्म त्रयाणामपि कर्मणां प्रहाणाय प्रतिपक्षत्वाद् वङ्ककृर्म यदितो बाह्यानां तीर्थ्यानां कुशलाकुशलं। दोषकर्म यत्तावद्वंककर्म। दोषकर्मापि तत्। अपि च। दोषकर्म यदिह धार्मिकाणां पृथग्जनानां शासने विपरीतदर्शिनां स्वयं दृष्टिपरामर्शस्थायिनां मिथ्यानिश्चितानां यत्कुशलाकुशलं कर्म। कषायकर्म यत्तावद्वङ्ककर्म दोषकर्म कषायकर्मापि तत्। अपि खलु कषायकर्म यदिह धार्मिकाणां पृथग्जनानां शासनेऽनिश्चितानां सन्दिग्धबुद्धीनां यत्कुशलाकुशलं कर्म। शुचिकर्म यदिह धार्मिकाणां पृथग्जनानां शासने सम्यङ्निश्चितानामसन्दिग्धबुद्धीनां कुशलं कर्म। मुनिकर्म यदिह धार्मिकाणामपृथग्जनानामार्याणां शैक्षाशैक्षं कुशलं कर्म।



 



अपरः पर्यायः बाह्यकानामेव तीर्थ्यानां त्रीण्यपि। तत्र मिथ्याप्रतिपत्त्यर्थेन वङ्क। तदाश्रितगुणाभिनिर्हारप्रतिबन्धनार्थेन दोषः। तथैव विप्रतिबन्धनार्थेन कषायो वेदितव्यः। 



 



[आदीनवः]



 



कर्मणामादीनवः कतमः। समासतः सप्ताकार आदीनवो वेदितव्यः। यथापि प्राणातिपातिकः प्राणातिपाताधिकरणहेतोरात्मव्याबाधाय चेतयते परव्याबाधायोभयव्याबाधाय दृष्टधार्मिकमवद्यं प्रसवति साम्परायिकं। दृष्टधर्मसाम्परायिकं तज्जं चैतसिकदुःखदौर्मनस्यं प्रतिसंवेदयते। कथमात्मव्याबाधाय चेतयते। प्राणिव्याबाधाय प्रयुक्तस्ततो निदानं वधं बन्धनं वा ज्यानिं वा गर्हणां वा प्राप्नोति। नो तु शक्नोति परं व्याबाधितुं। कथं परव्याबाधाय। तथैव प्रयुक्तः परं व्याबाधते। नो तु ततोनिदानं वधं वा यावद्गर्हणां वा निगच्छति। कथमुभयव्याबाधाय। यत्तथैव प्रयुक्तः परं च व्याबाधते तन्निदानं च परतो वधं वा यावद्गर्हणां वा निगच्छति। कथं दृष्टधर्मधर्मिकमवद्यं प्रसवति। यथात्मव्याबाधाय चेतयते। कथं साम्परायिकमवद्यं प्रसवति। यथा परव्याबाधाय चेतयते। कथं तज्जं चैतसिकदुःखदौर्मनस्यं प्रतिसंवेदयते प्राणिव्याबाधाय प्रयुङ्क्ते। सचेत्षडाकारमादीनवं न निगच्छति। न चास्य प्राणातिपातः सम्पद्यते यथेप्सितः सः। इच्छामूल निदानं तज्जं चैतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयते॥



 



अपि खलु दशादीनवा दौःशील्ये यथासूत्रमेवं विस्तरेण वेदितव्याः। चतुर्णां पुनरकुशलानां कर्मपथानां सुरामैरेयस्य पञ्चमस्योपासकशिक्षासम्बन्धेनादीनवा उक्ता भगवता तेऽपि विस्तरेण वेदितव्याः। तद्यथा नन्दिकसूत्रे।



 



[जन्मसंक्लेशः]



 



जन्मसंक्लेशः कतमः। स चतुर्विधैराकारैर्द्रष्टव्यः। प्रभेदतोऽपि व्यसनतोऽप्यनियमतोऽपि प्रवृत्तितोऽपि॥



 



[प्रभेदाः]



 



तत्र जन्मनः प्रभेदः धातुप्रभेदतोऽपि गतिप्रभेदतोऽपि स्थानान्तरप्रभेदतोऽप्यभिजातिप्रभेदतोऽप्यात्मभावलोकप्रभेदतोऽपि वेदितव्यः॥



 



तत्र धातुप्रभेदतः। कामावचरं रूपावचरमारूप्यावचरं जन्म॥



गतिप्रभेदतः पञ्चसु गतिषु पञ्चविधं जन्म॥



 



स्थानान्तरप्रभेदतः कामधातौ षट्त्रिंशत्सु स्थानान्तरेषु। रूपधातावष्टादशसु। आरूप्यधातौ चतुर्षु स्थानान्तरेषु जन्म। तदभिसमस्याष्टपञ्चाशज्जन्मानि भवन्ति॥



 



अभिजातिप्रभेदतः कामधातौ मनुष्येषु कृष्णाभिजातिकं जन्म। यथापीहैकत्यश्चण्डालकुलेषु वा पुक्कसकुलेषु वा रथकारकुलेषु वा वेणुकारकुलेषु वा इति यानि वा पुनरन्यानि नीचानि अधमानि कृच्छ्राणि कृच्छ्रवृत्तीनि परीत्तानि परीत्तान्नपानभोजनानि इत्येवंरूपेषु कुलेष्वभिजातो भवति। त एव मनुष्यदुर्भगा इत्युच्यन्ते।



 



शुक्लाभिजातिकं जन्म। यथापीहैकत्यः क्षत्रियमहाशालकुलेषु ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु वा इति यानि वा पुनरन्यानि कुलान्याढ्यानि महाधनानि महाभोगानि प्रभूतवित्तोपकरणानि प्रभूतक्षेत्र स्वापतेयानि प्रभूतधनधान्यकोशकोष्ठागारसन्निचयानि इत्येवंरूपेषु कुलेष्वभिजातो भवति। त एव मनुष्यसुभगा इत्युच्यन्ते॥



 



नैवाकृष्णाशुक्लाभिजातिकं जन्म। यथापीहैकत्यस्तदुभयविवर्जितेषु मध्येषु कुलेष्वभिजातो भवति। कामावचरेषु वा त्रिविधं जन्म। आसुरं जन्म। भूमिभागसंनिश्रितं जन्म। आकाशविमानसंनिश्रितं जन्म। रूपधातौ त्रिविधं जन्म। पृथग्जनानां ससंज्ञकं जन्म। असंज्ञकं जन्म। शुद्धावासजन्म च। आरूप्यधातौ त्रिविधं जन्म। अप्रमाणसंज्ञिषु अकिञ्चनसंज्ञिषु नैवसंज्ञानासंज्ञिषु च देवेषु जन्म॥



 



तत्रात्मभावलोकप्रभेदतः। दशसु दिक्ष्वपरिमाणेषु लोकधातुष्यपरिमाणानां सत्त्वानामपरिमाणं जन्म वेदितव्यं॥



 



[व्यसनं]



 



तत्र व्यसनतः। यथोक्तं भगवता। यच्चतुर्षु महासमुद्रेषूदकमतो बहुतरं युष्माकं दीर्घमध्वानं संधावतां संसरतां रुधिरं प्रस्यन्दितं प्रघारितं। तत्कस्य हेतोः। दीर्घरात्रं यूयं हस्तिनां सभागतायामुपपन्ना अश्वानामुष्ट्राणां गर्दभानामजामहिषवराहकुर्कुराणां सभागतायामुपपन्नाः। तत्र युष्माभिर्बहून्यङ्गप्रत्यङ्गच्छेदनान्यनुभूतानि यत्र युष्माकं प्रभूतं रुधिरं प्रस्यन्दितं प्रघारितं। यथा हस्त्यादीनां सभागतायामेवं मनुष्याणां। तत्र युष्माभिः प्रभूतानि मातृव्यसनानि पितृव्यसनानि भ्रातृव्यसनानि भगिनीव्यसनानि ज्ञातिक्षयो धनक्षयो भोगक्षयश्चानुभूतः। तत्र युष्माकं प्रभूतमश्रु प्रस्यन्दितं प्रघारितं। तद्यथा रुधिरमश्रु च एवं मातुःस्तन्यपानं द्रष्टव्यं। इत्येवंभागीयो जन्मनो व्यसनप्रभेदो वेदितव्यः।



 



[अनियमः]



 



तत्रानियमतः। यथोक्तं भगवता तद्यथा यदस्या पृथिव्यां तृणकाष्ठशाखापत्र...तश्चतुरङ्गुलमात्राः कठिकाः कृत्वा मातापितृपरम्परायामुपस्थापये रियं मे माता। तस्या अपि मे मातुरियं माता। अयं मे पिता। तस्यापि मे पितुरयं पितेति क्षिप्रतरं खलु ताश्चतुरङ्गुलमात्राः कठिका अनेनोपक्रमेण परिक्षयं पर्यादान गच्छेयुः। नत्वेवाहं मातॄणां मातृपर्यन्ततां वदामि। पितॄणां च पितृपर्यन्ततां। यच्चोक्तं यं यूयं सत्त्वं पश्यत दुःखितं परमेण दुःखदौर्मनस्येन समन्वागतं यूयं तत्रावगच्छथ अस्माभिरप्येवंरूपाणि दुःखान्यनुभूतानि। यथा दुःखान्येवं सुखानि। यथोक्तं नाहं तं पृथिवीप्रदेशं सुलभरूपं पश्यामि यत्र यूयं दीर्घस्याध्वनोऽत्ययान्न जातगतमृतपूर्वाः। नाहं तं सत्त्वं सुलभरूपं पश्यामि यो युष्माकं दीघ स्याध्वनोऽत्ययात्र माता वाभूत् पिता वा भ्राता वा भगिनी वाचार्यो वोपाध्यायो वा गुरुर्वा गुरुस्थानीयो वेति। यथाचोक्तं। एकपुद्गलस्यैकेन कल्पेन भवेदस्थ्नामस्थिराशिः। तद्यथा विपुलपार्श्वः पर्वतः स चेत्संहतो भवेत्। संहतानि न विनश्येयुर्नच पूतीभवेयुः।



 



[प्रवृत्तिः]



 



तत्र जन्मनः प्रवृत्तिः कतमा। यथात्मभावानां प्रतीत्यसमुत्पादो भवति सैषां प्रवृत्तिरित्युच्यते।



 



[प्रतीत्यसमुत्पादः]



प्रतीत्यसमुत्पादः कतमः। उद्दानं।



 



शरीरमुखमर्थश्च विभङ्गक्रममचोदना।



निरुक्तिः प्रत्ययत्वं च प्रत्ययत्वप्रभेदतः।



सूत्रान्तसंग्रहश्चेति विचित्रः पश्चिमो भवेत्॥



 



शरीरं कतमत्। समासतस्त्रिभिराकारैः प्रतीत्यसमुत्पादस्य व्यवस्थानं भवति। यथा पूर्वान्तान्मध्यान्ते सम्भवति। यथा च मध्यान्तादपरान्ते सम्भवति। यथा च मध्यान्ते सम्भूतो वर्तते व्यवदानाय च परैति॥



 



कथं पूर्वान्तान्मध्यान्ते सम्भवति सम्भूतश्च मध्यान्ते वर्तते। यथापीहैकत्येन पूर्वमविदुषाविद्यागतेनाविद्याप्रत्ययं पुण्यापुण्यानिञ्ज्यं कायवाङ्मनःकर्म कृतं भवत्युपचितं। तत्कर्मोपभोगं चास्य विज्ञानमामरणसमयादनुवृत्तं भवति प्रतिसन्धिविज्ञानहेतुभूतं। अध्यात्मबहिर्धा तृष्णा चास्य विज्ञानस्य फलाभिनिर्वृत्तिकाले सहायभावेन प्रत्युपस्थिता भवति। स कालं कृत्वा पूर्वान्ताद्वर्तमानेऽध्वन्यात्मभावमभिनिर्वर्तयत्यनुपूर्वेण मातुः कुक्षौ हेतुविज्ञानं प्रतिसन्धिफलविज्ञानं यावदेव कललत्वादिभिरवस्थाविशेषैरुत्तरोत्तरैस्तस्य गर्भगतस्य नामरूपस्य यावज्जीर्णात्वाय। समनन्तर प्रतिसन्धिबन्धाच्च तस्य विज्ञानस्य यत्तदुत्पत्तिसंवर्तनीयं कर्म तद्दत्तफलं भवति विपाकतः। तद्विपाकविज्ञानं तदेव नामरूपं प्रतिष्ठाय वर्तते। तच्च षट्ष्वाश्रयेषु प्रतिष्ठितं वर्तते। येनोच्यते नामरूपप्रत्ययं विज्ञानमिति। सहभूतं चेन्द्रियरूपं समनन्तरविरुद्धं च नाम षण्णां विज्ञानानां यथायोगमाश्रयो यदाश्रित्य यावज्जीवं विज्ञानस्य प्रवृत्तिर्भवति। पञ्चानां रूपिणामिन्द्रियाणां इन्द्रियमहाभूतानि। इन्द्रियाधिष्ठानं च महाभूतजनितं रूपं। यच्च नाम येनोपादत्तानीन्द्रियाणि सन्तानपतितं प्रवाहेण प्रवर्तते। तदुभयमभिसमस्याश्रयो भवत्यनुप्रवृत्तये। एवं हि विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं च विज्ञानं। वर्तमानेऽध्वनि योगे वर्तते यावदायुः। एवं हि पूर्वान्तान्मध्यान्ते संस्काराणां प्रतीत्यसमुत्पादसम्भवो भवति। सम्भूतानां च मध्यान्ते प्रवृत्तिः।



 



तत्र जरायुजायां यौनावयं प्रवृत्तिक्रमः। अण्डजसंस्वेदजायां मातुः कुक्षिवर्जितमन्यद्वेदितव्यं। रूपिषु सत्त्वेषु कामावचरेषु रूपावचरेषु औपपादुकायां योनौ पूर्णेन्द्रियः प्रादुर्भवतीत्ययं विशेषः। आरूप्येषु पुनर्नामाश्रितं रूपं जीवाश्रितं च विज्ञानं विज्ञानाश्रितं नामरूपबीजं च प्रवर्तते। यतः पुनर्बीजात्समुच्छिन्नस्यापि रूपस्यायत्यां प्रादुर्भावो भवत्ययमत्रापि विशेषः। पुण्येन च कर्मणा कामावचरेषु देवमनुष्येषूत्पद्यते। अपुण्येनापायेषु। आनिञ्ज्येन रूपारूप्येषु॥



 



कथं मध्यान्तादपरान्ते संस्काराणां प्रतीत्यसमुत्पादसम्भवो भवति कथं चासम्भवः। असम्भवाच्च व्यवदानं। स तथा मध्यान्ते सम्भूतः पुद्गलो द्विविधं पूर्वकर्मफलं प्रत्यनुभवति। आध्यात्मिकं च विपाकफलं विषमनिर्जातं च वेदितमधिपतिफलं। सोऽसद्धर्मश्रवणं वागम्य पूर्वाभ्यासं वा द्विविधेऽपि फले संमूढो भवति। सोऽध्यात्मं विपाकफले संमूढः पुनर्भावाभिनिर्वृत्तिं दुःखतो यथाभूतं न जानाति। स पूर्वान्तिकीं चापरान्तिकीं चाविद्यामधिपतिं कृत्वा पूर्ववत्। संस्कारान् करोत्युपचिनोति। तस्य तद्विज्ञानमभिनवं कर्म कुर्वतस्तत्कर्मोपगं भवति दृष्ट एव धर्मे। एवमविद्याप्रत्यया उत्पद्यन्ते संस्कारप्रत्ययं च विज्ञानं। तच्च विज्ञानं दृष्टे धर्मे हेतुभूतमायत्यामभिनिर्वृत्तिविज्ञानफलपरिग्रहात्। सर्वं च विज्ञानमधिकृत्य षड्विज्ञानकाया इत्युच्यन्ते। तच्च विज्ञानमायत्यां पौनर्भविकनामरूपबीजोपगतं। तदपि नामरूपबीजमायतिपौनर्भविकषडायतनबीजोपगतं। तच्च षडायतनबीजमायति पौनर्भविकस्पर्शबीजोपगतं। तच्च स्पर्शबीजमायतिपौनर्भविकवेदितबीजोपगतं। अयं तावत् पुनर्भवस्य मध्यान्ते आक्षेपको हेतुर्वेदितव्यो येन विज्ञानाद्यो वेदितपर्यवसानः कृत्स्न एवात्मभाव आक्षिप्तो भवति॥



 



सपूर्वकेण विपाकफलसम्मोहेनैव पुनर्भवमाक्षिप्य द्वितीयेन विषयनिर्जातफलसम्मोहेन विषयवेदनालम्बनां तृष्णामुत्पादयति यथा तृष्णया कामपर्येषणां वापद्यमानो भवपर्येषणां वा कामोपादानं वोपाददाति दृष्टिशीलव्रतो पादानं वा। उपात्ते चोपादाने तृष्णोपादानसहितसङ्गतः पूर्वक आक्षेपको हेतुर्भव इत्युच्यते। उपपत्त्यभिनिर्वृत्तिहेतुसंगृहीतस्य च भवस्यानन्तरं कालं कृतवतो यथाक्षिप्तेनाक्षेपहेतुना विज्ञानादीनां संस्काराणां वेदितपर्यन्तानां प्रादुर्भावो भवत्यनुक्रमशो वा सकृद्वा। एवं दृष्टे धर्मे अविद्यासंस्पर्शजा वेदितप्रत्यया तृष्णा। तृष्णाप्रत्ययमुपादानं। उपादानप्रत्ययो भवः। भवप्रत्यया जातिः। जातिप्रत्ययाश्च जराव्याधिमरणादयो दुःखविशेषाः संमुखीभवन्ति। क्वचिदुपपत्त्यायतने क्वचिद्बीजानुषङ्गतो वेदितव्यः। एवं मध्यान्ते अविद्याप्रत्ययान् संस्कारान् वेदनाप्रत्ययां च तृष्णां प्रतीत्यापरान्ते संस्काराणां समुदयो भवति। सचेत्पुनः परतो घोष पूर्वसंस्कारं वा दृष्टे धर्मे आगम्य योनिशो द्विविधान्फलभूतान्संस्कारान्मनसि करोति तेषां च हेतुं तेषां च निरोधं तेषां च निरोधगामिनीं प्रतिपदं। योनिशो मनस्कारान्वयाच्च सम्यग्दृष्टिमुत्पादयति। विशुद्धं च सत्येषु क्रमेण शैक्षाशैक्षं ज्ञानदर्शनं प्रतिलभते। स तेन ज्ञानदर्शनेनाशेषां तां चाविद्यां प्रजहाति तां च तृष्णां। तस्याश्च प्रहाणाद्यत्तदालम्बनं यथाभूतमप्रजानतोऽविद्यासंस्पर्शं वेदितव्यं। तत्प्रहीणं भवति। तस्य प्रहाणादविद्याविरागात्प्रज्ञाविमुक्तिः साक्षात्कृता भवति दृष्ट एव धर्मे। या चाविद्यासंस्पर्शजा वेदितसम्प्रयुक्ते चित्ते सम्प्रयुक्ता तृष्णा रागश्च तस्य तस्माच्चित्ताद्विसंयोगाद् रागविरहाच्चेतोविमुक्तिः साक्षात्कृता भवति। तस्याविद्यानिरोधाद्ये ते तस्यामप्रहीणायामविद्यायां संस्कारविज्ञानादयो वेदनापर्यन्ता अपरान्तमारभ्य ते नोत्पद्यन्ते। अनुत्पत्तिधर्माणश्च भवन्ति। तस्मादविद्यानिरोधात्संस्कारनिरोधोऽनुपूर्वेण यावद्विपाकस्पर्शनिरोधाद्विपाकजवेदनानिरोधो भवतीत्युच्यते। दृष्टे धर्मेऽविद्यानिरोधादविद्यासंस्पर्शनिरोधः। अविद्यासंस्पर्शनिरोधादविद्यासंस्पर्शजवेदितनिरोधात्तृष्णा निरोधः। तृष्णानिरोधात्पूर्ववदनुत्पत्तिधर्मतयोपादानादय उपायासपर्यवसानाः संस्कारा निरुद्धा इत्युच्यन्ते। एवमेषां दृष्टधर्मे संस्काराणामप्रवृत्तिर्भवति। अप्रवृत्तेश्च दृष्टे धर्मे सोपधिशेषे निर्वाणधातौ निर्वाणप्राप्तिर्भवति। तस्य तस्मिन्समये विज्ञानप्रत्ययं च नामरूपं नामरूपप्रत्ययं च विज्ञानं परिशिष्टं भवति परिशुद्धं पर्यवदानं। तस्य यावत्सविज्ञानकः कायोऽवतिष्ठते तावद्विसंयुक्तो वेदनां वेदयति न संयुक्तः। स चास्य स विज्ञानकः कायो यावत्पूर्वकर्माक्षिप्तमायुस्तावदवतिष्ठते। यदा चास्यायुषः क्षयाद्विज्ञानमुपात्तं कायं विजहाति तस्य जीवितेन्द्रियं चोर्ध्वमस्माज्जीवितेन्द्रियादशेषं पर्यादीयते नोत्तरत्र विपच्यते। तच्च विज्ञानं सह सर्ववेदितैरिह च स्वस्वनिरोधादन्यत्र च पूर्वमेव हेतुनिरोधादप्रतिसन्धितोऽपरिशेषं निरुद्धं भवति। अयं च निरुपधिशेषो निर्वाणधातुरत्यन्तशान्तं पदं यस्यार्थे निर्वाणोपगं निर्वाणपर्यवसानं भगवतोऽन्तिके उशन्ति ब्रह्मचर्यं॥



 



तदिदं त्रिभिराकारैः प्रतीत्यसमुत्पादस्य व्यवस्थानं विस्तरेण प्रत्युक्तं भवति। पूर्वान्तान्मध्यान्ते प्रवृत्तितो मध्यान्तादपरान्ते प्रवृत्तितो मध्यान्ते च प्रवृतिविशुद्धितः। इतीदं प्रतीत्यसमुत्पादस्य शरीरं॥



 



[मुखं]



 



मुखं कतमत्। अष्टाभिर्मुखैः प्रतीत्यसमुत्पादः प्रवर्तते। अध्यात्मं विज्ञानोत्पत्तिमुखेन। बहिर्धा सस्यनिष्पत्तिमुखेन। सत्त्वलोकच्युत्युत्पत्तिमुखेन भाजनलोकसंवर्तविवर्तमुखेन आहारोपस्तम्भमुखेन कर्मस्वकतामधिपतिं कृत्वा इष्टानिष्टकर्मतदनुरूप फलोपभोगमुखेन प्रभावमुखेन व्यवदानमुखेन च।



 



[अर्थः]



प्रतीत्यसमुत्पादार्थः कतमः। निःसत्त्वार्थः प्रतीत्यसमुत्पादार्थः। सति निःसत्त्वेऽनित्यार्थः। सत्यनित्यत्त्वे इत्वरप्रत्युपस्थापनार्थः। सतीत्वरप्रत्युपस्थाने परतन्त्रार्थः। सति परतन्त्रे निरीहार्थः। सति निरीहार्थे हेतुफलप्रबन्धानुपच्छेदार्थः। सति [हेतुफल]प्रबन्धानुपच्छेदे अनुरूपहेतुफलप्रवर्तनार्थः। सत्यनुरूपहेतुफलप्रवर्तने कर्मस्वभावार्थः प्रतीत्यसमुत्पादार्थः।



 



कस्यार्थस्य परिदीपनार्थं प्रतीत्यसमुत्पादव्यवस्थानं। हेतुप्रत्ययपरिगृहीत स्वसंक्लेशव्यवदानार्थस्य परिदीपनार्थं॥



 



[विभागः]



 



विभागः कतमः। यत्पूर्वान्तेऽज्ञानमिति विस्तरेण सूत्रं। तत्र पूर्वान्तेऽज्ञानं कतमत्। अतीतानसंस्कारानयोनिशः कल्पयतः किं कन्वहमभूवमतीतेऽध्वन्याहोस्विन्नाहमभूवमतीतेऽध्वनि। को न्वहमभूवं। कथं वाभूवमिति यदज्ञानं।



 



अपरान्तेऽज्ञानं कतमत्। अनागतान्संस्कारानयोनिशः कल्पयतः किं न्वहं भविष्याम्यनागतेऽध्वन्याहोस्विन्नाहं भविष्याम्यनागतेऽध्वनि। किं भविष्यामि कथं भविष्यामीत्यज्ञानं। पूर्वान्तापरान्तेऽज्ञानं कतमत्। अध्यात्ममयोनिशः कथंकथीभवतः के सन्तः के भविष्यामः। अयं सत्त्वः कुत आगतः। इतश्चुतः कुत्र गामी भविष्यतीति यदज्ञानं। अध्यात्ममज्ञानं कतमत्। प्रत्यात्मिकान्संस्कारानयोनिश आत्मना मनसि कुर्वतो यदज्ञानम्। बहिर्धा ज्ञानं कतमत्। बाह्यान् सत्त्वसंख्यातान्संस्कारानात्मीयतोऽयोनिशो मनसि कुर्वतो यदज्ञानं। अध्यात्मबहिर्धाऽज्ञानं कतमत्। पारसान्तानिकान्संस्कारान्मित्रामित्रोदासीनतोऽयोनिशः कल्पयतो यदज्ञानं। कर्मण्यज्ञानं कतमत्। कर्मकर्तारमयोनिशः कल्पयतो यदज्ञानं। विपाकेऽज्ञानं कतमत्। विपाकफलसंगृहीतान्संस्कारान्वेदकतोऽयोनिशः कल्पयतो यदज्ञानं। कर्मविपाकेऽज्ञानं कतमत्। वितथं कर्म तत्फलं चायोनिशः कल्पयतो यदज्ञानं। बुद्धेऽज्ञानं कतमत्। बुद्धानां बोधिममनसि कुर्वतो वा मिथ्या वा मनसि कुर्वतः प्रमाद्यतो वा काङ्क्षतो वापवदतो वा यदज्ञानं। धर्मेऽज्ञानं कतमत्। धर्मस्य स्वाख्यातताममनसि कुर्वतो वा मिथ्या वा मनसि कुर्वतः प्रमाद्यतो वा काङ्क्षतो वापवदतो वा यदज्ञानं। सङ्घेऽज्ञानं कतमत्। सङ्घस्य सुप्रतिपत्तिममनसि कुर्वतो वा मिथ्या वा मनसि कुर्वतः प्रमाद्यतो वा काङ्क्षतो वापवदतो वा यदज्ञानं। दुःखेऽज्ञानं कतमत्। दुःखं दुःखतोऽमनसि कुर्वतो वा मिथ्या वा मनसि कुर्वतः प्रमाद्यतो वा काङ्क्षतो वापवदतो वा यदज्ञानां यथा दुःखे एवं समुदये निरोधे मार्गे अज्ञानानि द्रष्टव्यानि॥



 



हेतावज्ञानं कतमत्। अहेतुकं वा कल्पयतो विषमहेतुं वा ईश्वरप्रकृतिपुरुषान्तरादिकं वायोनिशः कल्पयतो यदज्ञानं। यथा हेतावेवं हेतुसमुत्पन्नेषु संस्कारेषु॥



 



ते पुनः कुशला अनवद्यत्वात्। अकुशलाः सावद्यत्वात्। सेवितव्या हितत्वात्। असेवितव्या अहितत्वात्। सावद्याः कृष्णत्वात्। अनवद्याः शुक्लत्वात्। सप्रतिभागा व्यामिश्रत्वात्॥



 



षट्सु स्पर्शायतनेषु यथाभूतसंप्रतिवेधेऽज्ञानं कतमत्। अधिगमे विपर्यस्तचेतस आभिमानिकस्य यदज्ञानं। तदेतदभिसमस्य विंशत्याकारमज्ञानं भवति। पुनरन्यत्सप्तविधमज्ञानं। अध्वसंमोहो वस्तुसंमोहः सङ्क्रान्तिसंमोहः अग्रसंमोहस्तत्त्वसंमोहः संक्लेशव्यवदानसंमोहोऽभिमानसंमोहश्च॥



 



यच्च विंशतिविधमज्ञानं यच्च सप्तविधमज्ञानं तत्र केन कस्य संग्रहो द्रष्टव्यः। त्रिभिः प्रथमैरज्ञानैः प्रथमस्यैकस्य संग्रहः। पुनस्त्रिभिरनु द्वितीयस्य। पुनस्त्रिभिरनु चतुर्थस्य। पुनश्चतुर्भिरनु पञ्चमस्य। पुनः षड्भिरनु षष्ठस्य। पश्चिमेनैकेन सप्तमस्य॥



 



पुनरन्यत्पञ्चाकारमज्ञानं। अर्थसंमोहो दृष्टिसंमोहः प्रमादसंमोहस्तत्त्वार्थसंमोहोऽभिमानसंमोहश्च। यच्चैकान्तविंशतिविधमज्ञानं यच्च पञ्चविधं कतमेन कस्य संग्रहो द्रष्टव्यः। दृष्टिसम्मोहेन पूर्वकाणां षण्णां। हेतुसमुत्पन्नेषु च धर्मेष्वज्ञानस्य संग्रहो द्रष्टव्यः। प्रमादसंमोहेन कर्मणि विपाके तदुभये चाज्ञानस्य संग्रहः। तत्त्वार्थसंमोहेन बुद्धादिषु मार्गसत्यपर्यवसानेषु अज्ञानस्य संग्रहः। अभिमानसंमोहेन पश्चिमस्य संग्रहः। अर्थसंमोहेन पुनः सर्वेषां संग्रहो द्रष्टव्यः॥



 



अज्ञानमदर्शनमनभिसमयस्तमःसंमोहोऽविद्या इतीमे षडविद्यापर्यायाः सप्तविधे संमोहवस्तुनि यथाक्रमं द्रष्टव्याः। पश्चिमे तत्त्वसंमोहवस्तुनि। एवं वस्तु कृत्वापि पश्चिमोऽविद्यान्धकारपर्यायस्तत्र द्रष्टव्यः॥



 



अपरः पर्यायः। श्रुतमय्याश्चिन्तामय्या भावनामय्याश्च प्रज्ञाया विपक्षेण त्रयः पर्याया यथाक्रमं योज्यन्ते। तस्या एव विपक्षभूताया मृदुमध्याधिमात्रत्वादपरे पुनस्त्रयः पर्याया इति विपक्षप्रभेदतश्च स्वभावप्रभेदतश्च षट् पर्यायाः॥



 



कायसंस्काराः कतमे। कायकर्म कामावचरं रूपावचरं पुण्यापुण्यसंख्यातमध ऊर्ध्वं पुनरानिञ्ज्यसंख्यातं। वाक्संस्काराः कतमे। वाक्कर्म। शेषं पूर्ववद्द्रष्टव्यं। मनः संस्काराः कतमे। मनस्कर्म। तत् कामधातौ पुण्यापुण्यं नानेञ्ज्यं द्वयोरुपरिमयोर्धात्वोरानिञ्ज्यमेव च॥



 



चक्षुर्विज्ञानं कतमत्। आयत्यां चक्षुरिन्द्रियाश्रया या रूपप्रतिविज्ञप्तिर्यत्पुण्यापुण्यानेञ्ज्यं परिभावितबीजभूतं विज्ञानं यच्च तद्बीजसमुद्भूतं। यथा चक्षुर्विज्ञानमेवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानानि द्रष्टव्यानि। आश्रयविषयकृतश्चैष प्रतिविज्ञप्तिविशेषो द्रष्टव्यः। तत्पुनः कामावचरं षड्विधं। रूपावचरं चतुर्विधं। आरूप्यावचरमेकविधमेव॥



 



वेदनास्कन्धः कतमः। अनुभवजातिः सर्वा। स च त्रैधातुकावचरः। संज्ञास्कन्धः कतमः। संजाननाजातिः सर्वा। संस्कारकन्धः कतमः। चित्ताभिसंस्कारमनस्कर्मजातिः। विज्ञानस्कन्धः कतमः। विजाननाजातिः सर्वा। एतेऽपि स्कन्धास्त्रैधातुकावचरा द्रष्टव्याः॥



 



चत्वारि महाभूतानि कतमानि। पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुः। तेऽपि धातुद्वये। चत्वारि महाभूतान्युपादाय। रूपं कतमत्। दशरूपीण्यायतनानि। धर्मायतनपर्यापन्नं च रूपं दश कामावचराणि प्रज्ञप्तिपतितं च धर्मायतनरूपं अष्टौ रूपावचराणि धर्मायतनपर्यापन्नं च। सर्व तदपि द्विविधं। विज्ञानबीजपरिगृहीतबीजभूतं च तदनिर्वर्त्तितफलभूतं च॥



 



चक्षुरायतनं कतमत्। चक्षुर्विज्ञानसंनिश्रयो रूपप्रसादो येन रूपाणि पश्यत्पश्यति द्रक्ष्यति वा। यथा चक्षुरायतनमेवं श्रोत्रघ्राणजिह्वाकायमनआयतनानि यथायोगं द्रष्टव्यानि। सर्वेषां च कालत्रयनिर्देशेन कर्म निर्देष्टव्यं। तदपि द्विविधं नामरूपपरिगृहीतबीजभूतं तदभिनिर्वर्तितफलभूतं च कामावचरं। रूपावचराणि पञ्च। षष्ठं त्रैधातुकावचरं॥



 



चक्षुःसंस्पर्शः कतमः। त्रिकसमवायजा विषयशुभं प्रतिविषय लक्षणनिर्देशोऽवगन्तव्यः। ते पुनर्द्विविधाः। षडायतनबीजपरिगृहीतबीजभूताश्च तदभिनिर्वर्त्तितफलभूताश्च। कामावचराः सर्वे। रूपावचराश्चत्वारः। आरूप्यावचर एकः॥



 



सुखा वेदना कतमा। यत्सुखस्थानीयमिन्द्रिय विषयं प्रतीत्योत्पद्यते सातं वेदयितं वेदनागतं। दुःखा वेदना कतमा। यद्दुःखस्थानीयं द्वयं प्रतीत्योत्पद्यतेऽसातं वेदयितं। अदुःखासुखा वेदना कतमा। यददुःखासुखस्थानीयं द्वयं प्रतीत्योत्पद्यते नैव सातं नासातं वेदयितं वेदनागतं। तिस्रः कामचर्याः। द्वे रूपावचर्ये तृतीयाद् यावद्ध्यानात्। अदुःखासुखा चतुर्थाद्ध्यानादूर्ध्वं यावन्नैवसंज्ञानासंज्ञायतनात् ता अपि वेदना द्विविधाः स्पर्शबीजपरिगृहीतबीजभूतास्तदभिनिर्वर्तितफलभूताश्च॥



 



कामतृष्णा कतमा। कामावचरान् संस्कारान्प्रतीत्य कामावचरेषु क्लिष्टा प्रार्थना यथा कामधातौ दुःखमभिनिर्वर्तयति। रूपतृष्णा कतमा। या रूपावचरान्संस्कारान्प्रतीत्य रूपावचरेषु संस्कारेषु क्लिष्टा प्रार्थना यथा रूपधातौ दुःखमभिनिर्वर्तयति। आरूप्यावचरा तृष्णा कतमा। यारूप्यावचरान्संस्कारान्प्रतीत्यारूप्यावचरेषु संस्कारेषु क्लिष्टा प्रार्थना यया रूपधातौ दुःखमभिनिर्वर्तयति॥



 



कामोपादानं कतमत्। यः कामेषु च्छन्दरागः। दृष्ट्युपादानं कतमत्। सत्कायदृष्टिं स्थापयित्वा तदन्यासु दृष्टिषु च्छन्दरागः। शीलव्रतोपादानं कतमत्। शीलव्रतमिथ्याप्रणिहिते यश्छन्दरागः। आत्मोपादानं कतमत्। सत्कायदृष्टौ यश्छन्दरागः। प्रथमेन कामधातावेव दुःखमभिनिर्वर्तयति। अवशिष्टैः पुनस्त्रैधातुके॥



 



कामभवः कतमः। कामावचरपूर्वकालभवः कर्मभवो मरणभवोऽन्तराभव उपाधिभवो नरकतिर्यक्प्रेतदेवमनुष्यभवाश्च काममव इत्युच्यते। स पुनः पूर्वकृतसंस्कारक्लेशपरिग्रहप्रभावितः॥ रूपभवः कतमः॥ नरकतिर्यक्प्रेत मनुष्यभवान् स्थापयित्वा तदन्यो रूपभवो द्रष्टव्यः॥ आरूप्यभवः कतमः। अन्तराभवं स्थापयित्वा तदन्यभवसंगृहीत आरूप्यभवो द्रष्टव्यः॥ किमधिकृत्य सप्त भवा व्यवस्थापिता नरकतिर्यक्प्रेतदेवमनुष्य कर्मान्तराभवाः। त्रीणि कृत्यान्यधिकृत्य। आक्षेपको भव एकः। भवसंप्रापको भव एकः। फलोपभोजका भवाः पञ्च॥



 



जातिः कतमा। या जरायुजायामण्डजायां च योनौ तत्प्रथमाभिनिर्वृत्तिः। संजातिः कतमा। या तत्रैव आत्मभावपरिपूरिरनिःसृतस्य। भवक्रान्तिः कतमा। या तस्मान्निःसृतिः। अभिनिःसृतिः कतमा। या निःसृतस्य वृद्धिः। प्रादुर्भावः कतमः। संखेदजौपपादुकायां यौनौ सकृदेव सम्भवः। स्कन्धप्रतिलाभः कतमः। य आस्वेव योनिष्ववस्थासु च पञ्चानामुपादानस्कन्धानां सम्भवः॥



 



धातुप्रतिलम्भः कतमः। या तेषामेव स्कन्धानां हेतुप्रत्ययपरिगृहीतता। आयतनप्रतिलम्भः कतमः। या तेषामेव स्कन्धानां तदन्यप्रत्ययपरिगृहीतता। स्कन्धाभिनिर्वृत्तिः कतमा। या तेषामेव स्कन्धानामाहारकृता पुष्टिरुपचयः। प्रतिदिनजीवितेन्द्रियप्रादुर्भावः कतमः। यत्तेषामेव स्कन्धाना मायुःशेषवशादवस्थानं॥



 



अस्याः पुनर्जातेः समासार्थः कतमः। यश्च जातेः स्वभावः यत्र च जायते यैश्च हेतुप्रत्ययैः परिगृहीतः येन चोपस्तम्मेनाहृतेन सहजेन च ध्रियत इत्ययं समासार्थः।



 



स्खालित्यं कतमत्। यदाश्रयदौर्बल्यात्तत्कम्पता। पालित्यं कतमत्। यत्केशवैवर्ण्यं। वलीप्रचुरता कतमा। यस्त्वक्सङ्कोचः। जीर्णता कतमा। या कामभोगाप्रतिबलता तेजोविहानिश्च। मग्नता कतमा। या व्यवसायकरणाप्रतिबलता प्रकृत्यनारोग्यतामुपादाय। तिलकाचितगात्रता कतमा। यत्कालपिण्डोत्सदत्त्वं अविरूप्यविप्रतिबन्धेन तत्र कुब्जगोपानसीवङ्कता। खुरुखुरुप्रश्वासकायता कतमा। या गमनेर्यापथप्रभाविता कायसंस्थानता तदुद्भवा च गाढश्वसनकामनता। पुरतः प्राग्भारकायता कतमा। निषद्येर्यापथावस्थितस्य यावनतकायप्रतिबलता। दण्डविष्कम्भनता कतमा। स्थानेर्यापथावस्थितस्य या दण्डबलाधानविहरणता। धनुत्वं कतमत् स्वप्नेर्यापथावस्थितस्य या गाढाभीक्ष्णस्वप्नता। मन्दत्वं कतमत्। या तत्रैव सुप्रतिबोद्धुमप्रतिबलता। हानिः कतमा। या स्मृतिबुद्ध्योः। परिहाणिः कतमा। या स्मृतिबुद्ध्योर्मान्द्यात्कुशलधर्मसमुदानयना प्रतिबलता। इन्द्रियाणां परिणामः कतमः। या प्रकृतिमन्दता। परिभेदः कतमः। या तेषामेव विषयाप्रचुरता। संस्काराणां पुराणीभावः कतमः। या एषामेव पश्चिमा दशासन्नमरणतामुपादाय। जर्जरीभावः कतमः। या आयुःपरिसमाप्तेराश्रयस्य भङ्गाभिमुखता कृत्यविनियोगासमर्थतामुपादाय। जरायाः पुनः समासार्थः कतमः। आश्रयविपरिणामः केशविपरिणामः पुष्टिविपरिणामस्तेजोबलविपरिणाम आरोग्यविपरिणामो वर्णविपरिणाम ईर्यापथविपरिणामोऽरूपीन्द्रियविपरिणामो रूपीन्द्रियविपरिणामो दशातिवृत्तिरायुःसंक्षेप समासार्थों द्रष्टव्यः॥



 



ते ते सत्त्वाः कतमे। नारकादयः। सत्त्वनिकाया कतमे। सर्वे त एव। च्युतिः कतमा। येषां सत्त्वानां मर्मच्छेदमन्तरेण मरणं। च्यवनता कतमा। येषां सत्त्वानां सह मर्मच्छेदेन मरणं। भेदः कतमः। या विज्ञानस्याश्रयादपक्रान्तिः। अन्तर्धानिः कतमा। यो रूपिणामिन्द्रियाणां निरोधः। आयुषो हानिः कतमा। या हिक्काश्वासावस्था। ऊष्मणो हानिः कतमा। या निश्चेष्टावस्था। स्कन्धानां निक्षेपो जीवितेन्द्रियस्य निरोधः कतमः। यत्कालमरणं। मरणं कतमत्। या कालच्युतिस्तत्प्रत्ययैः। कालक्रिया कतमा। यासन्ना चिरमृतावस्था। अपरः पर्यायो मारणं मारकर्म कालक्रियेत्युच्यते। मारणस्य पुनः समासार्थः कतमः। या च च्युतिः। यस्य च धर्मस्य च्युतिः। यथा च च्युतिः च्युतस्य च तदूर्ध्वं यः कालः। इत्ययं समासार्थः। इत्ययं प्रतीत्यसमुत्पादविभङ्गस्य विभङ्गो द्रष्टव्यः॥



 



[क्रमः]



 



केन कारणेनाविद्यादीनां भवाङ्गानामेवंरूपः क्रमनिर्देशः कृतः। पूर्वं तावज्ज्ञेये वस्तुनि सम्मोहः। सम्मूढस्य तत्रैव मिथ्याभिसंस्कारः। मिथ्याभिसंस्काराच्चित्ते विपर्यासः। चित्तविपर्यासात्प्रतिसन्धिबन्धः। प्रतिसन्धिबन्धादिन्द्रियपरिपूरिः। इन्द्रियपरिपूरेर्द्वाभ्यां विषयपरिभोगः। विषयपरिभोगादध्यवसानं तत्प्रार्थना च। प्रार्थनया पर्येषमाणस्य क्लेशोपचयः। क्लेशोपचयात्पौनर्भविकमिष्टानिष्टकर्मसमुत्थानं। कर्मोपचयसमुत्थानात्पञ्चगतिके संसारेऽभिनिर्वृत्तिदुःखं। अभिनिर्वृत्तिदुःखकृतं च जरामरणादिदुःखमात्मभावपरिणामनैमित्तिकं जरामरणदुःखं। विषयपरिणामनैमित्तिकं शोकपरिदेवदुःखदौर्मनस्यायासदुःखं। तस्मादनुक्रमश एतानि द्वादशाङ्गानि निर्दिष्टानि भगवता॥



 



अपरोऽनुक्रमपर्यायो द्विविधप्रत्ययं प्रतीत्यसमुत्पादमारभ्य आत्मभावप्रत्ययं विषयोपभोगप्रत्ययं च। आत्मभावप्रत्ययः षड्भिरङ्गैः संगृहीतः। विषयोपभोगप्रत्ययोऽपि षड्भिरेव। पूर्वमात्मभावे आत्मग्राहादिभिः संमूढः। ततः कर्मणां दुःखफलविपाकमजानानः कर्म करोति। कृत्वा च तदेवमनुवितर्कयति। कर्मणा तद्विज्ञानसहायेन त्रिविधमायत्यां दुःखमभिनिर्वर्तयति इन्द्रियनिर्वृत्तिसंगृहीतं तत्परिपूरिसंगृहीतं विषयपरिभोगसंगृहीतं च। स्पर्शावसानं नामरूपं च दृष्ट एव च धर्मे स्पर्शप्रत्ययायां वेदनायां तृष्णामुत्पाद्य विषयप्रत्ययां पर्येषणामापद्यते। व्यवसायमापद्यते। व्यवसायमुखेन लाभसंस्कारमुखेन शीलव्रतमुखेन मोक्षमुखेन कामपर्येषणामात्मभावपर्येषणां मोक्षपर्येषणां विषयपरिभोगप्रत्ययपर्येषणां मिथ्यापर्येषणामापद्यमानः क्लेशांश्च तत्पूर्वकाणि कर्माणि कृत्वा पञ्चगतिके संसारे जायते जीर्यति म्रियते च॥



 



अपरोऽनुक्रमपर्यायः। त्रयः सत्त्वराशयः। लोकोत्तरा विशुद्धिकामा विषयपरमाश्च। तत्र प्रथमाः प्रतीत्यसमुत्पादं निरोधयन्ति शुक्लपक्षेण न वर्धयन्ति। द्वितीयाः सत्त्वाः सत्यानि यथाभूतमजानाना उपस्थितस्मृतयः पुण्यमानेञ्ज्यं च सास्रवं भावनामयं कर्म कृत्वानुपस्थितया वा पुनः स्मृत्या पुण्यं विप्रतिसारपरिभावितेन वाविप्रतिसारप्रामोद्यपरिभावितेन वा चेतसा बहुलं विहरन्ति। ते पूर्ववद्धीनमध्यविशिष्टा उपपत्त्यायतनेऽनुपूर्वेण त्रिप्रकारमायत्यां दुःखमभिनिर्वर्तयन्ति। तृतीयानां सत्त्वानां प्रत्युत्पन्नविषयपरिभोगजे वेदिते वर्तमानानां पूर्ववदपराणि षडङ्गानि क्रमशो द्रष्टव्यानि तृष्णाद्यानि जरामरणावसानानि॥



 



केन कारणेन प्रतिलोमानुपूर्व्या जरामरणमिदं कृत्वा प्रतीत्यसमुत्पादो देश्यते सत्यनयदेशनामधिकृत्य। तथाहि। जातिजरामरणं दुःखसत्यप्रविभक्तं। यदुक्तं भगवता न च नामरूपनिरोधपूर्वङ्गमा धर्मा इति। केन कारणेन अविद्यानिरोधपूर्वङ्गमा नोक्ताः विमुक्तिचेतसां तत्प्रज्ञप्तेः। ...त्वात् तेषां हि दृष्टे धर्मे बीजभूतं वेदनावसानं निरुद्धं भवति। दृष्टे च धर्मे वेदनां वेदयमानस्य तृष्णानुशयसमुद्धातादप्रवृत्तेर्निरुद्धा भवति। तन्निरोधात्तत्पूर्वङ्गमानि निरुद्धानि भवन्ति। इत्येवंभागीयः प्रतीत्यसमुत्पादस्य क्रमहेतुर्द्रष्टव्यः॥



 



[निरुक्तिः]



 



केन कारणेन प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पाद इत्युच्यते। प्रतिगत्य गतिषु संयुक्तानां क्लेशैरुत्पादः प्रतीत्यसमुत्पाद इत्यक्षरनिर्वचनं। पुनः प्रत्ययत उत्पादः प्रतीत्यसमुत्पादः। क्षणिकार्थमधिकृत्य। पुनः प्रत्ययादतीतादत्यक्तात्स्वसन्ततावुत्पादः प्रतीत्यसमुत्पादः। अस्मिन्सतीदं भवत्यस्योत्पादादिदमुत्पद्यते नान्यथा इत्येतमर्थमधिकृत्यैतन्निर्वचनं द्रष्टव्यं। पुनः प्रतिगत्य प्रतिगत्य सन्तत्योत्पादः प्रतीत्यसमुत्पादः। विनश्य विनश्येत्यर्थः। पुनः प्रत्ययीभावं गत्वाऽतीतेऽध्वनि सन्तत्योत्पादः प्रतीत्यसमुत्पादः। उक्तं भगवता प्रत्यवगम्य समुत्पादं देशयिष्यामीति। प्रत्यवगम्येत्यभिसम्बुध्येत्यर्थः। ततः सैव संज्ञा निरुढा प्रतीत्यसमुत्पाद इति॥



 



[प्रत्ययः]



 



अविद्यासंस्काराणां कतिभिः प्रत्ययैः प्रत्ययत्वं भवति। रूपिणामधिपतिप्रत्ययेन। अरूपिणां तु त्रिभिः समनन्तरालम्बनाधिपतिप्रत्ययैः। एवमवशिष्टानामङ्गानां प्रत्ययत्वं यथायोगं द्रष्टर्व्यं। रूपिणि रूपिणामेकेनाधिपतिप्रत्ययेन। अरूपिणां द्वाभ्यामालम्बनप्रत्ययेन च। अरूपिणि रूपिणामेकेन। अरूपिणि त्वरूपिणां त्रिभिः समनन्तरालम्बनाधिपतिप्रत्ययैः॥



 



केन कारणेन हेतुप्रत्ययेन न प्रत्ययान्येतान्यङ्गानि। स्वभावबीजप्रत्ययप्रभावितत्वाद्धेतुप्रत्ययस्य। यदि हेतुप्रत्ययेन न प्रत्ययानि तत्केन कारणेन हेतुफलभावेन प्रतीत्यसमुत्पादो निर्दिश्यते। अधिपतिप्रत्यय संगृहीतमावाहकहेतुमधिकृत्य आक्षेपहेतुमभिनिर्वृत्तिहेतुं च। कत्यङ्गान्याक्षेपहेतुसंगृहीतानि। अविद्यामुपादाय यावद्वेदना। कत्यङ्गान्यभिनिर्वृत्तिहेतु सङ्गृहीतानि। तृष्णामुपादाय यावद्भवः। कत्यङ्गान्याक्षेपाभिनिर्वृत्तिहेत्वोः फलसंगृहीतानि। दृष्टे च धर्मे सम्पराये च विज्ञानादीनि वेदनावसानानि जातिजरामरणावसानि॥



 



[प्रत्ययप्रभेदः]



 



यदा योनिशोमनस्कारहेतुका विद्योक्ता केन कारणेन स प्रतीत्यसमुत्पादनिर्देश आदितो न निर्दिष्टः। अप्रहाणहेतुत्वात् संक्लेशहेतुत्वात्। तथाहि। नामूढस्य स मनस्कार उत्पद्यते। संक्लेशहेतुश्च प्रतीत्यसमुत्पादः। अविद्या च स्वभावसंक्लिष्टा अयोनिशो मनस्कारश्च स्वभावसंक्लिष्टः। मनो विद्यां संक्लेशयति। अपि त्वविद्यावशेन संक्लिश्यते। कर्मक्लेशप्रभावितं च जन्म। तत्र कर्मणो हेतुरादिरविद्या प्रतीत्यसमुत्पादस्य। तस्मादस्य योनिशो मनस्कारो नोक्तः॥



 



केन कारणेन स्वभावः स्वभावस्य प्रत्ययत्वेन नोक्तः। नहि स्वभावः प्रत्ययान्तरमलभमानः स्वभावस्य संक्लेशतः पोषको वा भावको वा भवति। तस्मान्नोक्तः॥



 



केन कारणेन पुण्यानेञ्ज्याः संस्कारा प्रतिसंख्याय मनुकृता अविद्याप्रत्यया इत्युच्यन्ते। साङ्केतिकदुःखहेतुमजानानस्य तत्प्रत्यया अपुण्याः। पारमार्थिकं दुःखहेतुमजानानस्य तत्प्रत्ययाः पुण्यानेञ्ज्याः। तस्मात्तेऽप्यविद्याप्रत्यया उच्यन्ते॥ यदा लोभद्वेषमोहनिदानं कर्मोक्तं तत्केन कारणेन मोहनिदानमेवोच्यते। पुण्यापुण्यानेञ्ज्यकर्मनिदानाधिकारतः। अपुण्यमेव तु कर्मलोभमोहनिदानं॥ यदा चेतनासमुत्थापितत्वात्कायवाक्कर्मणः संस्कारप्रत्यया अभिसंस्कारा केन कारणेनाविद्याप्रत्यया एवोच्यन्ते। सकलसंस्कारसमुत्थानप्रत्ययाधिकारात् क्लिष्टकुशलचेतनोत्पत्तिप्रत्ययत्वाधिकाराच्च॥ यदा विज्ञानं नामरूपप्रत्ययमपि केन कारणेनास्मिन्नर्थे संस्कारप्रत्ययमेवोच्यते। संस्कारा विज्ञानस्य संक्लेशकाः पुनर्भवाक्षेपका अभिनिर्वर्तकाश्च। न तु नामरूपमाश्रयालम्बनत उत्पत्तिप्रत्ययमात्रत्वात्॥ यदा नामरूपं महाभूतान्युपादाय स्पर्शमपि केन कारणेन विज्ञानप्रत्ययमेवोच्यते। विज्ञानस्य तदभिनवोत्पत्तिहेतुत्वान्महाभूतानि स्पर्शश्च केवलमुत्पन्नस्य प्रतिष्ठाहेतुर्भवत्युत्पत्तिकाले च यदा षड् धातून्प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिरुक्ता केन कारणेन विज्ञानधातुरेवोक्तः। सति हि विज्ञानधातौ नियतं मातुः कुक्षौ शुक्रशोणितमहाभूतकुक्षि च्छिद्रावैकल्यात्प्रधानो विज्ञानधातुरिति कृत्वा सर्वयोनिभवोत्पत्त्यधिकाराच्च॥ यदा षडायतनमाहारप्रत्ययमपि केन कारणेन नामरूपप्रत्ययमेवेहोक्तं। तदुत्पत्तिकारणत्वान्नामरूपस्य। उत्पन्नस्य च स्थित्युपस्तम्भमात्रकारणमाहारः। यदा त्रिकसमवायप्रत्ययः स्पर्शः केन कारणेन षडायतनप्रत्यय एवोक्तः। सति षडायतने तदन्यद्वयावैकल्यात्षडायतनप्रधानं प्रधानमिति कृत्वा द्वयसंग्रहाच्च षडायतनस्य॥



 



यदात्मोपक्रमिकाः परोपक्रमिका ऋतुविपरिणामिका पूर्वकर्माहृताश्च वेदना उपलभ्यन्ते केन कारणेनेह स्पर्शप्रत्यया एव परिदीपिताः। समासन्नकारणत्वात्स्पर्शस्य। स्पर्शाहारकत्वाच्च तदन्येषां प्रत्ययानां ता अपि वेदनाः। स्पर्शसम्भवा नान्तरेण स्पर्शमिति कृत्वा। यदा तृष्णाविद्याप्रत्ययाप्युक्ता तत्स्थानीयविषयप्रत्यया च केन कारणेनेह वेदनाप्रत्ययैवोक्ता। यस्माद्वेदनावशाद्विषयसंयोगप्रार्थना प्रवर्तते तदुपमे विषये मोहवशात्तु केवलं तासां वेदनानां समुदयास्तङ्गादीन्यथाभूतमप्रजानन्तस्ततश्चित्तं न निवारयन्ति॥



 



यदानुशयादप्रहीणान्तस्थानीयेभ्यश्च धर्मस्य उपादानस्य प्रभवो भवति केन कारणेनेह तृष्णाप्रत्ययमेवोपादानमुच्यते। यस्मात्प्रार्थनाजातः पर्येष्टिमापद्यमानोऽनुशयं च प्रबोधयति तत्स्थानीयांश्च धर्मानाकर्षयति। यदापूर्वमेवाविद्याप्रत्ययः कर्मभव उक्तः,केन कारणेन उपादानप्रत्ययो भव उच्यते। उपादानबलेन यस्मात्तदेव कर्म तस्मिंस्तस्मिन्नुपपत्त्यायतने विज्ञाननामरूपाद्याकर्षण समर्थं भवति। यदा शुक्रशोणितादिप्रत्ययापि जातिः केन कारणेन भवप्रत्ययैवोक्ता। भवे सति नियतं तदन्यप्रत्ययावैकल्यसद्भावात् स एव प्रधानः प्रत्यय इति कृत्वा। यदा अध्वविषमापरिहारपराक्रमणादिभिरपि प्रत्ययैर्जरामरणमुपलभ्यते। केन कारणेनेह जातिप्रत्ययमेवोच्यते। जातिमूलत्वात्तेषामपि प्रत्ययानां तत्प्रत्ययवैकल्येऽपि च जातिजरामरणस्य जातिकृतत्वात्॥



 



एषां द्वादशानामङ्गानां कत्यङ्गानि क्लेशवर्त्म। कति कर्मवर्त्म। कति दुःखवर्त्म। त्रीणि क्लेशवर्त्म। द्वे कर्मवर्त्म अवशिष्टानि दुःखवर्त्म॥



 



कति हेतुभूतान्येव। आद्यमेकं। कति फलभूतान्येव। पश्चिममेकं। कति हेतुफलभूतानि। अवशिष्टानि॥



 



पुनरस्य च प्रश्नस्यान्यो विसर्जनपर्यायः। त्रीणि हेतुफलभूतान्येव। द्वे फलभूते एव। अवशिष्टानि हेतुफलभूतानि द्रष्टव्यानि॥



 



कति प्रत्येकलक्षणानि। कति संसृष्टलक्षणानि। त्रीणि प्रत्येकलक्षणानि। संस्कारादीन्यङ्गानि संसृष्टलक्षणानि॥



 



केन कारणेन संस्कारा भवश्च संसृष्टलक्षणं। द्विधानिर्दिष्टं। इष्टानिष्टफलदानतो गतिनिर्वर्तनसामर्थ्यभेदाच्च॥



 



केन कारणेन विज्ञाननामरूपषडायतनैकदेशसंसृष्टलक्षणं त्रिधा निर्दिष्टं। संक्लेशकालाधिकारात्। निषेककालाधिकारात्। प्रवृत्तिकालाधिकारतश्च॥



 



केन कारणेन विज्ञानादीनि वेदनावसानानि जातिजरामरणानि च द्विधाख्यातानि। पृथग्दुःखवस्तुलक्षणविख्यापनार्थमाक्षेपाभिनिर्वृत्तिप्रभेदप्रदीपनार्थं च॥



 



प्रतीत्यसमुत्पादे कतमः प्रतिगमार्थः। यदुत्पन्नानामनवस्थानार्थः। प्रतिविगमार्थः। कतमः सङ्गमार्थः। यः सामग्रीसमवधानार्थः। प्रत्ययानां कतम उत्पादार्थः। यः प्रत्ययसामग्रीपरिगृहीतानां नवनवप्रभवार्थः। कतमः प्रतीत्यसमुत्पादः। कतमा प्रतीत्यसमुत्पन्नताया उत्पत्तिधर्मता। संस्काराणामयं प्रतीत्यसमुत्पादः। या पुनरुत्पन्नतैव सा प्रतीत्यसमुत्पन्नतेत्युच्यते। कत्यङ्गानि दुःखप्रत्ययसंगृहीतानि दृष्टधार्मिकदुःखाय च। द्वे जातिर्जरामरणं च। कति दुःखसत्यसंगृहीतान्येवायत्यामेव च दुःखाय। विज्ञानादीनि वेदनावसानानि बीजभूतानि। कति समुदयसत्यसंगृहीतानि। अवशिष्टानि॥



 



अविद्या संस्काराणां किं सहभावेन प्रत्ययः अथानन्तरनिरुद्धः प्रत्ययः। अथ चिरनिरुद्धः प्रत्ययः। त्रिधा प्रत्ययो द्रष्टव्यः। सहभावेन संस्कारस्थानीयेषु धर्मेष्वावरणप्रत्ययः। यदर्थं संस्कारानुत्थापयति तदज्ञानतः। संजननप्रत्ययोऽनन्तरनिरुद्धः कुदृष्टिप्रमादसहगतेनाज्ञानेन। आयत्यां तदुत्पत्त्यनुकूलं सन्तत्यवस्थापनाच्चिरनिरुद्धोऽप्याक्षेपप्रत्ययो द्रष्टव्यः।



 



संस्कारा विज्ञानस्य कथं त्रिप्रकारप्रत्ययतया द्रष्टव्याः। बीजभाव परिभावनया सहभावप्रत्ययः। तदूर्ध्वं तद्वशवर्तनतया संजननप्रत्ययोऽनन्तरनिरुद्धः आयत्यां फलाभि निर्वर्तिताक्षेपतया आक्षेपप्रत्ययः॥



 



यथा संस्कारा विज्ञानस्य प्रत्ययः। एवं विज्ञानं नामरूपस्य। नामरूपं षडायतनस्य। षडायतनं स्पर्शस्य स्पर्शो वेदनानाम्। वेदना तृष्णायाः।



 



कथं त्रिप्रकारप्रत्ययतया द्रष्टव्याः। सहभावतोऽध्यवसानप्रत्ययतया द्रष्टव्याः। तदनन्तरं तद्वशेन पर्येष्ट्यादि क्रियानुप्रवर्तनतया संजननप्रत्ययः। आयत्यां तद्दुर्विमोच्य सन्तत्यवस्थानाच्चिरनिरुद्धोऽप्यावेद्य प्रत्ययः॥



 



तृष्णोपादानस्य कथं त्रिप्रकारप्रत्ययतया प्रत्ययः। छन्दरागसहगतत्वात्तदुपादानीयेषु धर्मेषु रुचिनिवेशनप्रत्ययत्वात्सहभावप्रत्ययः। तदनन्तरं तद्वशवर्तनात्संजननप्रत्ययः। तद्दुर्विमोच्य सन्तत्यवस्थापनाच्चिररुद्धोऽप्याबाधप्रत्ययः॥



 



उपादानं भवस्य कथं त्रिप्रकारप्रत्ययतया प्रत्ययः। सहभावतस्तस्य कर्मणस्तद्गत्यावर्जनतया सहभावप्रत्ययः। तद्बलेन तस्मिन्नुपपत्त्यायतने तद्विज्ञानाद्याकर्षणप्रत्ययतया अनन्तरनिरुद्धः संजननप्रत्ययः। धातुनिर्वर्तनसामर्थ्यप्रत्ययतया आबेधप्रत्ययश्चिरनिरुद्धोऽपि॥



 



भवो जातेः कथं त्रिप्रकारप्रत्ययतया प्रत्ययः। सहभावप्रत्ययो बीजभावपरिभावनतया। अनन्तरं तद्वशानुवर्तनतया संजननप्रत्ययश्चिरनिरुद्धोऽपि तत्फलनिर्वृत्याबेधप्रत्त्ययः। यथा भवो जातेरेवं जातिर्जरामरणस्य प्रत्ययत्वेन द्रष्टव्या। भवस्य द्विधा व्यवस्थानं। प्रधानाङ्गतस्तथोपादानपरिगृहीतस्य कर्मणो यथापूर्वनिर्दिष्टं सकलाङ्गतः कर्मणो विज्ञानादीनां च वेदनावसानानां बीजभूतानामुपादानपरिगृहीतानां भवतो व्यवस्थानं द्रष्टव्यं।



 



किमेषां भवाङ्गानामेतदेव कर्म यदुत संस्कारादीनां जरामरणावसानानामनुपूर्वप्रत्ययत्वमथान्यदपि किञ्चित्। एतच्च स्वे स्वे गोचरे च सर्वेषां यथायोगं वृत्तिर्द्वितीयं कर्म द्रष्टव्यं। किमविद्या केवलानां संस्काराणां प्रत्ययो यथान्येषामप्यङ्गानां। अविद्या यावज्जरामरणस्यापि प्रत्ययः समासन्नप्रत्ययार्थेन पुनः संस्काराणामेव निर्दिष्टा॥



 



एवमवशिष्टाङ्गानि यथायोगं द्रष्टव्यानि॥



 



न तु पुनरधराणामङ्गानामुपरिमेषु प्रत्ययत्वं। केन कारणेन। यथोपरिमप्रहाणायोपरिमप्रहाणे यत्रः क्रियते तत्प्रहाणेऽधरिमप्रहाणमिति कृत्वा नैवमुपरिमप्रहाणायाधरिमप्रहाणे। तस्मात्तावन्त्येव तत्प्रत्ययानि द्रष्टव्यानि।



 



कथमस्मिन्सतीदं भवतीत्युच्यते। अप्रहीणात्प्रत्ययात् तदन्योत्पादार्थेन। कथमस्योत्पादादिदमुत्पद्यत इत्युच्यते। अनित्यात्प्रत्ययात्तदन्योत्पादार्थेन।



 



केन कारणेन जात्यां सत्यां जरामरणं भवति। जातिप्रत्ययं च जरामरणमित्युच्यते। यावदविद्यासंस्काराश्च अनेनैव व्यपदेशेन निरीहात्प्रत्ययात्तदन्योत्पादार्थेन॥



 



केन कारणेन जात्यां सत्यां जरामरणं नान्यत्र जातिप्रत्ययं जरामरणमुच्यते। एवं यावदविद्या संस्काराश्च। अनेनैव व्यपदेशेन स्वसान्तानिकात्प्रत्ययात् स्वसन्तान एव तदन्योत्पादार्थेन॥



 



ये धर्मा अविद्याप्रत्ययेन संस्कारा अपि ते। ये वा संस्कारा अविद्याप्रत्यया अपि ते स्युः। संस्कारा नाविद्याप्रत्यया अनास्रवा अनिवृताव्याकृताश्च कायवाङ्मनःसंस्काराः स्युरविद्याप्रत्यया न संस्काराः। संस्कारसंगृहीतं भवाङ्गं स्थापयित्वा यानि तदन्यानि भवाङ्गानि। अविद्याप्रत्ययाश्च भवन्ति पुण्याऽपुण्यानेज्याः कायवाङ्मनःसंस्काराः एतानाकारान् स्थापयित्वा च चतुर्थी कोटिः। इतीयं चतुष्कोटिका। यत्संस्कारप्रत्ययं विज्ञानमपि तत्। यद्वा विज्ञानं संस्कारप्रत्ययमपि तत्स्यात्। संस्कारप्रत्ययं न विज्ञानं। विज्ञानं स्थापयित्वा तदन्यानि भवाङ्गानि। विज्ञानं न संस्कारप्रत्ययं यदनास्रवमनिवृताव्याकृतं च। विपाकजं स्थापयित्वा। विज्ञानं च संस्कारप्रत्ययं च यत्पौनर्भविकं बीजभूतं फलभूतं वा। एतानाकारान् स्थापयित्वा चतुर्थी कोटिः॥



 



अनेनानुसारेण यथायोगं यावत्स्पर्शप्रत्ययाद्वेदिताच्चतुष्कोटिका द्रष्टव्या॥ या वेदनाप्रत्यया सर्वा सा तृष्णा। या तृष्णा सर्वा सा वेदनाप्रत्यया। अत्रापि चातुष्कोटिकः स्यात्। तृष्णा न वेदनाप्रत्यया। उत्तरे विमोक्षे या प्रार्थना यां च तृष्णां कुशलं निश्रित्य तृष्णां प्रजहाति। वेदनाप्रत्यया वेदनाप्रत्यया न तृष्णा। विद्यासंस्पर्शजां वेदनां प्रतीत्य ये तदन्ये धर्मा उत्पद्यन्ते। यानि च तदन्यानि भवाङ्गानि। वेदनाप्रत्यया च तृष्णा च क्लिष्टा तृष्णा अविद्यासंस्पर्शजवेदितप्रत्यया॥ एतानाकारान्स्थापयित्वा चतुर्थी कोटिः॥



 



यत्तृष्णाप्रत्ययं तत्सर्वं तदुपादानं। यद्वा उपादानं सर्वतृष्णाप्रत्ययं। अत्र पश्चात्पदकं द्रष्टव्यं यत्तावदुपादानं सर्वं तत्तृष्णाप्रत्ययं स्यात्तु तृष्णाप्रत्ययं नोपादानं। उपादानं स्थापयित्वा तदन्यानि भवाङ्गानि। ये च कुशलां तृष्णां प्रतीत्य आरब्धवीर्यादयः कुशला धर्मा उत्पद्यन्ते॥



 



य उपादानप्रत्ययः सर्वः स भवः। यो वा भवः सर्वः स उपादानप्रत्ययः। यस्तावद्भवः सर्वोऽसावुपादानप्रत्ययः। स्यात्तूपादानप्रत्ययो न भवः। भवं स्थापयित्वा तदन्यानि भवाङ्गानि॥



 



या या भवप्रत्यया सर्वा सा जातिः। या वा जातिः सर्वा सा भवप्रत्यया। या तावज्जातिः सर्वा सा भवप्रत्यया। स्यात्तु भवप्रत्यया न जातिः। जातिं स्थापयित्वा यज्जरामरणं पश्चिमं भवाङ्गं।



 



यज्जातिप्रत्ययं सर्वं तज्जरामरणं। यद्वा जरामरणं सर्वंतज्जातिप्रत्ययं। यत्तावज्जातिमरणं सर्वं तज्जराप्रत्ययं। स्यात्तु जातिप्रत्ययं न जरामरणं। व्याधिरप्रियसंयोगः प्रियविनाभाव इच्छाविघातस्तत्समुत्थिताश्च शोकपरिदेवदुःखदौर्मनस्योपायासाः॥



 



एषां भवाङ्गानां कति सम्यग्दृष्टिसंगृहीतस्य मार्गस्याङ्गानि प्राधान्येन विबन्धभूतानि। अविद्या तत्समुत्थिताश्च मनःसंस्कारा भवैकदेशश्च विबन्धभूतः॥



 



यथा सम्यग्दृष्टेरेवं सम्यक्संकल्पस्य सम्यग्व्यायामस्य सम्यग्व्यायामस्य सम्यग्वाक्कर्मान्ताजीवानां कायवाक्संस्कारा भवैकदेशश्च विबन्धभूतः। सम्यक्स्मृतेः सम्यक्समाधेश्चावशिष्टानि विबन्धभूतानि द्रष्टव्यानि॥



 



एषां भवाङ्गानां कत्यङ्गान्येकान्तेन संक्लेशपक्ष्याणि कति संक्लेशव्यवदानपक्ष्याणि। चत्वार्येकान्तेन संक्लेशपक्ष्याणि। तदन्यानि संक्लेशव्यवदानपक्ष्याणि। जातिर्यापायेष्वक्षणेषु वा तदन्येषु वा सा संक्लेशपक्ष्या। या पुनर्देवमनुष्येष्वक्षणविवर्जितेषु जातिः सा संक्लेशव्यवदानपक्ष्या द्रष्टव्या। शेषाणि त्वङ्गानि यथायोगं तदुभयपक्ष्याणि द्रष्टव्यानि॥



 



कतमस्यामविद्यायामसत्यां संस्कारा न भवन्ति। कतमस्या अविद्याया निरोधात्संस्कारनिरोधः। त्रिप्रकारपर्यवस्थानसमुत्थानानुशयस्थायिन्या अविद्याया निरोध इति। अविद्यानिरोधादविद्यानिरोधे तन्निरोधाच्च तन्निरोधे सति ततः संस्कारनिरोधः॥



 



कतमेषु संस्कारेष्वसत्सु विज्ञानं न भवति। कतम संस्कारनिरोधाद्विज्ञाननिरोधः। ये संस्काराः स्वसन्ताने कृतनिरोधा अनुत्पादितप्रतिपक्षाश्च। अपिच मनःसंस्कारेषु सत्सु कायवाक्संस्काराः। ततस्तस्मिन्सति तद्भावे तत्प्रत्ययं विज्ञानं। तस्मिन्नसति तदभावे तत्साकल्यनिरोधाद्विज्ञाननिरोधो द्रष्टव्यः॥



 



कतमस्मिन् विज्ञानेऽसति नामरूपं न भवति। कतमविज्ञाननिरोधाच्च पुनः नामरूपनिरोधः। बीजभूते विज्ञानेऽसति फलभूतं विज्ञानं न भवति। तदुभयनिरोधात्पुनस्तदुभयनामरूपनिरोधः॥



 



यथा विज्ञाननामरूपयोर्नयस्तथा यथायोगमवशिष्टानामङ्गानां द्रष्टव्यो यावद् वेदनावसानात्। यथाऽविद्याप्रत्ययानां संस्काराणामेवं तृष्णाप्रत्ययस्योपादानस्य उपादानप्रत्ययस्य च भवस्य द्रष्टव्यः॥



 



यथा संस्कारप्रत्ययस्य विज्ञानस्यैवं भवप्रत्ययाया जातेर्द्रष्टव्यः। यथा विज्ञानप्रत्ययानां नामरूपादीनां तथा जातिप्रत्ययस्य जरामरणस्य॥



 



कतमस्यां वेदनायामसत्यां तृष्णा न भवति। कतमवेदनानिरोधाच्च पुनस्तृष्णानिरोधः। यथा संस्कारप्रत्ययस्य विज्ञानस्य तथास्यापि नयो द्रष्टव्यः॥



 



योऽसावष्टमुखः प्रतीत्यसमुत्पाद उक्तस्तेषां कति मुखानि द्वादशाङ्गप्रतीत्यसमुत्पादप्रभावितानि। कति न। त्रीणि मुखानि तत्प्रभावितानि। द्वे एकदेशप्रभाविते। एकं सकलाङ्गप्रभावितं। अवशिष्टानि न प्रभावितानि। विज्ञानोत्पत्तिमुखं कर्मस्वकतामुखं चैकदेशप्रभाविते। सत्त्वलोकप्रवृत्तिमुखं पुनः सकलाङ्गप्रभावितं॥ प्रतीत्यसमुत्पादमजानानस्य कत्यादीनवा द्रष्टव्याः॥ पञ्च। आत्मदृष्टिर्भवति। पूर्वान्तसहगतानि दृष्टिगतान्युत्पादयति। यथा पूर्वान्तसहगतान्येवमपरान्तसहगतानि पूर्वान्तापरान्तसहगतानि स्थामशः परामर्शस्थायी सोपादानः सपरितापनः। न दृष्टे धर्मे परिनिर्वात्ययं पञ्चम आदीनवः॥ जानानस्य कत्यनुशंसा द्रष्टव्याः। एतद्विपर्ययेण पञ्चैवानुशंसा द्रष्टव्याः। एषां द्वादशानामङ्गानां कत्यङ्गानि द्रव्यमस्ति। आह नव। कति न द्रव्यमस्ति। यान्यवशिष्टानि। कत्येकद्रव्यस्वभावानि। पञ्च। कति नानाद्रव्यस्वभावानि। अवशिष्टानि। कति ज्ञेयावरणानि। एकं। कति दुःखनिर्वर्तकानि। पञ्च। कति दुःखगर्भाणि। पञ्चैव। कति दुःखान्येव। द्वे। कति हेतुभावनिर्देश्यानि। कति फलभावनिर्देश्यानि। कति हेतुफलव्यामिश्रभावनिर्देश्यानि। षट् प्रथमानि अविद्यामुपादाय यावत्स्पर्शात्। तृष्णोपादानभवाश्च हेतुभावनिर्देश्याः। पश्चिमे द्वे फलभावनिर्देश्ये। वेदनाव्यामिश्रनिर्देश्या साम्परायिकी च स्पर्शप्रत्यया हेतुभूता दृष्टधार्मिकी च। तृष्णायाः प्रत्ययात् फलभूता। ते चोमे स्पर्शप्रत्यये कृत्वा व्यामिश्रे निर्दिश्येते॥



 



कत्यङ्गानि इष्टानिष्टफलनिर्वर्तकानि। कत्यङ्गान्यात्मभावफलनिर्वर्तकानि। पूर्वकाणि षट्पूर्वफलनिर्वर्तकानि। पश्चिमकानि त्रीणि पश्चिमफलनिर्वर्तकानि एकं तदुभयफलनिर्वर्तकं॥



 



कति सुखवेदनासहगतानि। द्वे अङ्गे स्थापयित्वा तदन्यानि। कति दुःखवेदनासहगतानि। तान्येव। स्थापितं चैकमङ्गं। कत्यदुःखसुखवेदनासहगतानि। सुखवदत्रापि नयो द्रष्टव्यः॥ कत्यवेदनासहगतानि। एकमङ्गं यत्स्थापितं॥



 



कत्यङ्गानि विपरिणामदुःखतया संगृहीतानि। सुखवेदनासहगतानि यच्चावेदनासहगतमङ्गं तस्य च प्रदेशः॥ कति दुःखदुःखतया संगृहीतानि। यानि दुःखसहगतानि यच्चावेदनासहगतमङ्गं तस्य च प्रदेशः॥ कति संस्कारदुःखतया संगृहीतानि। यानि तावद्विपरिणामदुःखदुःखतया संगृहीतानि संस्कारदुःखतयापि तानि। स्यात्तु संस्कारदुःखतया संगृहीतानि न तदन्याभ्यां दुःखताभ्यां। यान्यदुःखासुखसहगतानि यच्चावेदनासहगतमङ्गं तस्य च प्रदेशः॥ किं सर्वोपपत्तिसमापत्तिषु सर्वाण्यङ्गान्युपलभ्यन्ते समुदाचारतः। आह नोपलभ्यन्ते। असंज्ञिकं निरोधसमापत्त्यसंज्ञिसमापत्त्योश्च रूपीण्युपलभ्यन्ते नारूपीणि आरूप्येषूपपन्नस्य पुनररूपीण्युपलभ्यन्ते न रूपीणि॥



 



स्यादङ्गानि निश्रित्याङ्गविवेकं प्रतिलभेत। आह। स्यादेकदेशतत्कालविवेकं न सकलाङ्गप्रत्यङ्गविवेकः। ऊर्ध्वभूमिकान्यङ्गानि निश्रित्याधोभूमिकानां॥



 



कति क्लिष्टान्यङ्गानि कत्यक्लिष्टानि। त्रीणि क्लिष्टानि अवशिष्टानि द्विविधानि। अक्लिष्टानां तु कुशलानिवृताव्याकृतभेदेन द्विधाभेदो द्रष्टव्यः॥



 



कति कामप्रतिसंयुक्तानि। सर्वाणि समग्राणि समुदितानि। कति रूपप्रतिसंयुक्तानि। सर्वेषामेकदेशः। कथं तत्र जरा द्रष्टव्या। यः संस्काराणां शैक्षाणि-नाशैक्षाणि। संवाणि। पुराणीभावो जर्जरीभावः॥ यथा रूपप्रतिसंयुक्तान्येवमारूप्यप्रतिसंयुक्तानि। कति शैक्षाणि। न कानिचित्॥ कत्यशैक्षाणि। न कानिचित्॥ कति नैव शैक्षाणि नाशैक्षाणि। सर्वाणि॥



 



यान्यङ्गानि कुशलसास्रवाणि तानि किं न शैक्षाणि। प्रवृत्तिपतितत्वात् न युज्यते। शैक्षस्य तु कुशलसास्रवा धर्माः प्रवृतिवैरोधिका विद्याप्रत्ययाश्च। कति स्रोतआपन्नस्य प्रहीणानि वक्तव्यानि। सर्वेषामेकदेशो नतु साकल्येन किञ्चित्॥



 



यथा स्रोतआपन्नस्यैवं सकृदागामिनः॥ कत्यङ्गान्यनागामिनः प्रहीणानि वक्तव्यानि। सर्वाणि कामावचराणि। रूपारूप्यावचराणां त्वनियमः॥



 



कत्यङ्गान्यर्हतः प्रहीणानि वक्तव्यानि। सर्वाणि त्रैधातुकावचराणि॥



 



[सूत्रान्तसंग्रहः]



 



कतिभिर्निर्देशैः प्रतीत्यसमुत्पादो निर्दिश्यते तेषु तेषु सूत्रान्तेषु। समासतः षड्भिः। अनुलोमनिर्देशेन प्रतिलोमनिर्देशेन एकदेशाङ्गनिर्देशेन सकलाङ्गनिर्देशेन कृष्णपक्षनिर्देशेन शुक्लपक्षनिर्देशेन॥



 



गम्भीरः प्रतीत्यसमुत्पाद उक्तो भगवता। कथं गम्भीरो वेदितव्यः। दशभिराकारैः प्रतीत्यसमुत्पादस्य गम्भीरार्थो द्रष्टव्यः। यदुतानित्यार्थं दुःखार्थं शून्यार्थं नैरात्म्यार्थं चारभ्य। तत्रानित्यार्थमारभ्य स्वबीजाच्च जायन्ते। परप्रत्ययं चापेक्ष्य परप्रत्ययतश्च जायन्ते। स्वबीजं चापेक्ष्य स्वबीजात्परप्रत्ययतश्च जायन्ते। न च बीजप्रत्यययोस्तज्जननं प्रति काचिदीहा वा चेष्टा वा व्यापारो वा विद्यते। नच बीजप्रत्यययोरीहा वा चेष्टा वा व्यापारो वा विद्यते। नच पुनस्तयोर्हेतुत्वसामर्थ्यं न विद्यते। अनादिप्रतिषिद्धलक्षणानि चाङ्गानि प्रतिक्षणं च नव-नव-लक्षणानि प्रवर्तन्ते। क्षणभङ्गुरश्च प्रतीत्यसमुत्पादः। अवस्थितप्रकारतया च ख्याति।



 



तत्र दुःखार्थमारभ्य दुःखैकरसलक्षणानि चाङ्गानि त्रिप्रकारतया च ख्यान्ति। तत्र शून्यार्थमारभ्य सत्त्वकारकदुःखविरहितानि चाङ्गानि तदविरहितानीव च ख्यान्ति निर्दिश्यन्ते च॥



 



तत्र नैरात्म्यमारभ्यास्वतन्त्रनैरात्म्यलक्षणानि चाङ्गानि आत्मलक्षणतश्च ख्यान्ति। निरभिलप्यस्वभावतश्च परमार्थतः। अभिलापतश्च स्वभावोऽस्य निर्दिश्यते॥



 



कतिभिर्ज्ञानैः प्रतीत्यसमुत्पादो ज्ञातव्यः। द्वाभ्यां धर्मस्थितिज्ञानेन तत्त्वज्ञानेन च। कथं धर्मस्थितिज्ञानेन। यथा भगवता प्रज्ञप्तः प्रकाशितस्तथा ज्ञातव्यः। कथं तत्त्वज्ञानेन। यथा शैक्षा दृष्टपदाः पश्यन्ति गम्भीरार्थेन। यदुक्तं। न हैव मया प्रतीत्यसमुत्पादः कृतो नाप्यन्यैरपि तूत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवेयं धर्मता धर्मस्थितिधर्मधातुरिति। कतमा धर्मता कतमा धर्मस्थितिः कतमो धर्मधातुः। यानादिकालप्रसिद्धता सा धर्मता। यथा प्रसिद्धस्य युक्तेः पदव्यञ्जनैर्व्यवस्थापनाधर्मस्थितिः। तस्याः स्थितेः सा धर्मता हेतुः। तस्माद्धेतुरित्युच्यते॥



 



यदुक्तं जातिश्चेन्न स्यादपि नु कस्यचित्कस्मिंश्चिदेव जातिः स्यात्। सर्वशो वा जात्यामसत्यां जातिप्रत्ययं जरामरणं प्रज्ञायेतेति। केन कारणेनेह स्वभावप्रत्ययः स्वभाव उक्तः। सबीजफल-जात्यधिकाराद् विज्ञानादीनि वेदनावसानान्यङ्गानि तदप्यर्थतो जातिः। यस्मिंश्च सति पश्चात्तान्येव फलभूतानि भवप्रत्यया जातिरित्युच्यते॥



 



एवं शिष्टान्यङ्गानि यथानिर्दिष्टानि यथायोगं द्रष्टव्यानि॥



 



यथा सर्वेषामङ्गानां नान्योन्यप्रत्ययत्वमुक्तं केन कारणेन नामरूपविज्ञानयोरन्योन्यप्रत्ययत्वं व्यवस्थाप्यते। विज्ञानस्य दृष्टे धर्मे नामरूपप्रत्ययत्वात्। नापरूपस्य पुनः सम्पराये विज्ञानप्रत्ययत्वात्। तथाहि। मातृकुक्षौ प्रतिसन्धिकाले अन्योन्यप्रत्ययत्वाद्विज्ञानप्रत्ययैर्मातुः कुक्षौ शुक्रशोणितरूपं नाम परिगृहीतं कललत्वाय सम्मूर्छते। तन्नामप्रत्ययञ्च पुनस्तद्विज्ञानं तत्र प्रतिष्ठां लभते॥



 



केन कारणेन बोधिसत्त्वस्य कृष्णपक्षं व्यवलोकयतो विज्ञानात्प्रत्युदावर्तते मानसं न त्वन्येभ्योऽङ्गेभ्यः। यस्मादेतद्द्यमन्योन्यप्रत्ययं। तस्य यथा विज्ञानप्रत्ययं नामरूपप्रत्ययं विज्ञानं व्यवलोकयतो विज्ञानात्प्रत्युदावृत्तं। तदन्येषु त्वङ्गेषु न तथा प्रत्युदावृत्तं। तत्रैकत्रान्योन्यप्रत्ययत्व संदर्शनतया तत्प्रत्युदावृत्तमित्युच्यते। निवृत्तिपक्षे तु नामरूपे न पौनर्भविकस्य विज्ञानस्य निवृत्तिहेतुर्येन परः प्रत्यवेक्षितवान्॥



 



केन कारणेन स्वयंकृतानि न परकृतानि नोभयकृतानि नाप्यहेतुसमुत्पन्नान्येतान्यङ्गान्युच्यन्ते। उत्पत्त्युत्तरसत्त्वात्। प्रत्ययस्य च निरीहत्वात्। प्रत्ययसामर्थ्य सद्भावाच्च॥



 



किं प्रतीत्यसमुत्पादे दुःखाङ्कुरस्थानीयं किं दुःखाङ्कुरपरिपालनस्थानीयं। किं दुःखवृक्षस्थानीयं। अविद्यासंस्कारप्रत्यया विज्ञानादयो वेदनावसाना अङ्कुरस्थानीयाः। तृष्णादयो वेदनाप्रत्यया भवावसानाः परिपालनस्थानीया द्रष्टव्याः। जातिर्जरामरणं च दुःखवृक्षस्थानीयं द्रष्टव्यं। कत्यङ्गानि वर्तिस्थानीयानि द्रष्टव्यानि। विज्ञानादीनि वेदनावसानानि। कत्यङ्गानि स्नेहस्थानीयानि। अविद्या संस्काराः तृष्णा उपादानं भवश्च। कत्यङ्गानि ज्वालास्थानीयानि द्रष्टव्यानि। जातिर्जरा मरणं च।



 



केन कारणेन कृष्णपक्षनिर्देशतः प्रतीत्यसमुत्पाद आचय इत्युच्यते। केवलं दुःखस्कन्धावसानफलत्वात्,सर्वेषामङ्गानां प्रत्ययं च तच्च तदन्याङ्गानुगमनात्तदन्येषामङ्गानां॥



 



केन कारणेन शुक्लपक्षनिर्देशतः। प्रतीत्यसमुत्पादोऽपचय इत्युच्यते। उत्तरोत्तरप्रहाणपरिहाणतः। केवलं दुःखस्कन्धापचयहेतुत्वाच्च सर्वेषां॥



 



कत्यङ्गानि सहेतुका धर्मा इत्युच्यन्ते। प्रथमानि सप्त कत्यङ्गानि सहेतुकं दुःखमित्युच्यन्ते। तदन्यानि पञ्च। कतीनामङ्गानां निरोध आस्रवक्षयप्रभावितः। त्रयाणां। कतीनामङ्गानां निरोधः प्रत्यय क्षयप्रभावितः। तेषामेव त्रयाणां तदन्यांगप्रत्ययभूतत्वात्। कतीनामंगानां निरोधः वेदनाक्षयप्रभावितः प्रहीणेषु क्लेशेषु स्कन्धनिरोधकाल इहैव सर्ववेदितोपरमादेकस्य॥



 



केन कारणेन सप्तसप्ततिर्विज्ञानानि प्रतीत्यसमुत्पादमधिष्ठाय व्यवस्थाप्यन्ते। सहेतुकसंक्लेशज्ञानोद्भावनार्थं च स्वसन्ततौ स्वयंकृतक्लेशोद्भावनार्थं च पूर्वान्तादङ्गानामनादिकालत्वोद्भावनार्थं च अपरान्तादङ्गानां संक्लेशनिवृत्त्यवकाशोद्भावनार्थं च। अङ्गासंगृहीतसास्रवप्रज्ञापरिज्ञोद्भावनार्थं च। एकैकस्मिन्नङ्गे सप्तैतानि कारणान्यधिकृत्य सप्तसप्ततिर्विज्ञानानि द्रष्टव्यानि॥



 



केन कारणेन चतुश्चत्वारिंशज्ज्ञानानि व्यवस्थाप्यन्ते। एकैकस्मिन्नङ्गे चतुरार्यसत्यपरीक्षामधिकृत्य चतुश्चत्वारिंशद्भवन्ति॥



 



तत्र कामधातौ जातो भूतः कामावचरेणाश्रयेणोर्ध्वभूमिकं चक्षुः श्रोत्रं चाभिनिर्हरति। तेन चाधोभूमिकानि च रूपाणि पश्यति। शब्दांश्च शृणोति। त्रैधातुकावचरं पुनर्मनस्तेनैवाश्रयेण संमुखीकरोत्यपर्यापन्नं च रूपारूप्यधातौ जातोऽधोभूमिकवर्ज्यं सर्वं संमुखीकरोति यथैव कामधातौः॥



 



अस्य खलु त्रिविधस्य संक्लेशस्य क्लेशसंक्लेशस्य कर्मसंक्लेशस्य जन्मसंक्लेशस्य च प्रहाणाय षड्विधोऽभिसमयो वेदितव्यः। तद्यथा। चिन्ताभिसमयः श्रद्धाभिसमयः शीलाभिसमयोऽभिसमयज्ञानसत्याभिसमयोऽभिसमान्तिकज्ञानसत्याभिसमयो निष्ठाभिसमयश्च॥



 



योगाचारभूमौ सवितर्का सविचारा अवितर्का विचारमात्रा अवितर्काविचारा भूमिः समाप्ता॥ 



 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project