Digital Sanskrit Buddhist Canon

मनोभूमिद्वितीया

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

manobhūmidvitīyā


 



[मनोभूमिद्वितीया]



 



मनोभूमिः कतमा। सापि पञ्चभिराकारैर्द्रष्टव्या। स्वभावत आश्रयत आलम्बनतः सहायतः कर्मतश्च॥



 



स्वभावः कतमः। यच्चित्तं मनो विज्ञानं॥



चित्तं कतमत्। यत्सर्वबीजोपगतमाश्रयभावोपगतमाश्रयभावनिष्ठमुपादातृविपाकसंगृहीतमालयविज्ञानं॥



 



मनः कतमत्। यत्षण्णामपि विज्ञानकायानामनन्तरनिरुद्धं क्लिष्टं च मनो यन्नित्यमविद्यात्मदृष्ट्यस्मिमानतृष्णालक्षणैश्चतुर्भिः क्लेशैः सम्प्रयुक्तं॥



विज्ञानं कतमत्। यदालम्बनविज्ञप्तौ प्रत्युपस्थितं॥



 



आश्रयः कतमः। समनन्तराश्रयो मनः। बीजाश्रयः पूर्ववदेव। सर्वबीजकमालयविज्ञानं॥



आलम्बनं कतमत्। सर्वधर्म आलम्बनं। केवलं तु वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धोऽसंस्कृतं चानिदर्शनमप्रतिघं च रूपं षडायतनं सर्वबीजानि च॥



 



सहायः कतमः। तद्यथा। मनस्कारः स्पर्शो वेदना संज्ञा चेतना छन्दोऽधिमोक्षः स्मृतिः समाधिः प्रज्ञा श्रद्धा ह्रीरपत्राप्यमलोभोऽद्वेषोऽमोहो वीर्य प्रस्रब्धिरप्रमाद उपेक्षाहिंसा रागः प्रतिघोऽविद्या मानो दृष्टिर्विचिकित्सा क्रोध उपनाहोम्रक्षः प्रदाश ईर्ष्यां मात्सर्य माया शाठ्यं मदो विहिंसाह्रीक्यमनपत्राप्यं स्त्यानमौद्धत्यमाश्रद्ध्यं कौसीद्यं प्रमादो मुषितस्मृतिताधिक्षेपोऽसम्प्रजन्यं कौकृत्यमिद्धं वितर्को विचारश्चेत्येवंभागीयाः सहभूसम्प्रेयुक्ताश्चैतसा धर्माः सहाय इत्युच्यन्ते एकालम्बना अनेकाकाराः सहभुव एकैकवृत्तयः स्वबीजनियताः सम्प्रयुक्ताः साकाराः सालम्बनाः साश्रयाः॥



 



कर्म कतमत्। स्वपरविषयालम्बनविज्ञप्तिः प्रथमं कर्म। पुनः स्वसामान्यलक्षणविज्ञप्तिः। पुनरतीतानागतप्रत्युत्पन्नकालविज्ञप्तिः। पुनः क्षणप्रबन्धविज्ञप्तिः। पुनः प्रवर्तनानुवर्तना शुद्धाशुद्धानां धर्माणां कर्मणां च। पुनरिष्टानिष्टफलपरिग्रह स्तदन्येषां च विज्ञानकायानां तद्धेतुनिष्यन्दसमुत्थापना॥ 



 



अपि खलु सर्वेण सर्वं तदन्येभ्यो विज्ञानकायेभ्यो वैशेषिकं कर्मावलम्बनं विकल्पयत्यालम्बनमुपनिध्याति माद्यत्युन्माद्यति स्वपिति प्रतिबुध्यति मूर्छामापद्यते मूर्छाया व्युत्तिष्ठति कायवाक्कर्म प्रवर्तयति वैराग्यं करोति वैराग्यात्परिहीयते कुशलमूलानि समुच्छिनत्ति कुशलमूलानि प्रतिसन्दधाति च्यवत उत्पद्यते चेति॥



 



कथमालम्बनं विकल्पयति। सप्तविधेन विकल्पेन। स पुनः कतमः। नैमित्तिकोऽनैमित्तिकः स्वरसवाही पर्येषकः प्रत्यवेक्षकः क्लिष्टोऽक्लिष्टो विकल्पः॥



 



नैमित्तिको विकल्पः कतमः। पूर्वानुभूतेष्वर्थेषु यः परिपक्केन्द्रियस्य॥



अनैमित्तिकः कतमः। पूर्वानुसारेणानागतविकल्पो यश्च दह्रस्याव्यवहारकुशलस्य॥



 



स्वरसवाही कतमः। प्रत्युपस्थिते विषये स्वरसेन यो विषयबलादेव वर्तते॥ पर्येषकः कतमः। यो धर्मान्मार्गयतो विचारयतः॥



प्रत्यवेक्षकः कतमः। परिमार्गिते विचारिते व्यवस्थापिते यः प्रत्यवेक्षमाणस्य॥



 



क्लिष्टः कतमः। योऽतीतेऽपेक्षासहगतोऽनागतेऽभिनन्दनासहगतः प्रत्युत्पन्नेऽध्यवसानसहगतः कामसङ्कल्पो व्यापादसङ्कल्पो विहिंसासङ्कल्पोऽन्यतमेनान्यतमेन वा क्लेशोपक्लेशेन यः सम्प्रयुक्तः सङ्कल्पः॥



 



अक्लिष्टः कतमः। यः कुशलोऽव्याकृतश्च नैष्क्रम्यविकल्पोऽव्यापादविकल्पोऽविहिंसाविकल्पोऽन्यतमान्यतमेन वा पुनः श्रद्धादिकेन कुशलेन धर्मेण यः सम्प्रयुक्तो विकल्प ऐर्यापथिकः शैल्पस्थानिको वा निर्माणं निर्मिण्वतो विकल्पः। इयतालम्बनस्य विकल्पना भवति॥



 



कथमालम्बनमुपनिध्याति। योगविहिततोऽयोगविहिततो नैव योगविहिततो नायोगविहिततश्च॥



 



कथं योगविहिततः। यथासद्भूतं न समारोपयति चतुर्विपर्यासैः। अनित्ये नित्यमिति विपर्यासेन। दुःखे सुखमिति विपर्यासेन। अशुचौ शुचीति विपर्यासेन। अनात्मन्यात्मेति विपर्यासेन। नापि सद्भूतमपवदते मिथ्यादृष्ट्या नास्ति दत्तमित्याद्याकारया मिथ्यादृष्ट्या। धर्मस्थितिज्ञाने वा पुनर्यथाभूतं वस्तु प्रेक्षते परिजानाति। सुविशुद्धेन वा पुनर्लोकोत्तरेण ज्ञानेन धर्मान्यथाभूतमभिसम्बुध्यते। एवं योगविहिततः॥



एतद्विपर्ययादयोगविहिततो द्रष्टव्यः॥



कथं नैव योगविहिततो नायोगविहिततः। अव्याकृतां प्रज्ञां निश्रित्य धर्मानुपनिध्यायति।



एवमालम्बनमुपनिध्यायति॥



कथं माद्यति। प्रकृत्या दुर्बलशरीरतयानभ्यस्तमद्यपानतयातितीक्ष्णमद्यपानतयामात्रमद्यपानतया॥



कथमुन्माद्यति। पूर्वकर्माक्षेपतया धातुवैषग्यतयोत्त्रासभयतया मर्माभिघाततया भूतसमावेशतया॥



कथं स्वपिति। प्रकृत्याश्रयदौर्बल्यतया परिश्रमक्लमदोषतया भोजनगौरवतयान्धकारनिमित्तमनसिकारतया सर्वकर्मान्तप्रतिविस्रम्भणतया निद्राभ्यस्ततया परोपसंहारतया च। तद्यथा। संवाह्यमानो वा विद्यया वौषधैर्वा प्रभावेणा पस्वाप्यमानः स्वपिति॥



 



कथं प्रतिबुध्यते। निद्रोपवृंहितस्य तत्पर्यवस्थानासहनतया करणीयस्य तदाभोगस्वपनतया परोपसंहारतया च॥



 



कथं मूर्छामापद्यते। वातपित्तविभ्रमणतया अभिघाततया अतिविरेकतया यदुत पुरीषविरेकेण वा शोणितविरेकेण वा विरिक्तस्य चात्यध्यवसायतया॥



कथं मूर्छाया व्युत्तिष्ठते। तस्यैव मूर्छापर्यवस्थानस्य प्रतिविगमनतया॥



कथं कायवाक्कर्म प्रवर्तयति। कायवाक्कर्मस्थानीयज्ञानपूर्वङ्गमनतया ततश्छन्दजननतया ततो यत्नारम्भणतया ततो यत्नपूर्वककायवाक्कर्मानुकूलवायुप्रवर्तनतया॥



कथं वैराग्यं करोति। वैराग्यानुकूलेन्द्रियपरिपाकतया परतोऽनुलोमिकाववादलाभतया तदन्तरायविवर्जनतया सम्यगविपरीतमनसिकारभावनतया॥



कथं वैराग्यात्परिहीयते। प्रकृत्या मृद्विन्द्रियतयाभिनवकुशलपक्षस्य तदाकारलिङ्गनिमित्तमनसिकारतया परिहाणाय धर्म समादाय वर्तनतया क्लेशावृततया पापमित्रपरिग्रहणतया च॥



 



कथं कुशलमूलानि समुच्छिनत्ति। तीक्ष्णेन्द्रियस्याधिमात्रं पापाशयाध्याचारधर्मसमन्वागततया तदनुलोममित्रलाभतया तस्य च मिथ्यादृष्टिपर्यवस्थानस्य घनीकरणपर्यन्तोपगमनतया सर्वपापाध्याचारेष्वसंकोचाकौकृत्यप्रतिलाभतया च॥



 



तत्र बीजमपि कुशलमूलं। अलोभादयोऽपि कुशलमूलं। कुशलमूलसमुदाचारविरोधेन सन्तानस्थापनकुशल मूलसमुच्छेदनबीजोद्धरणतया च॥



 



कथं कुशलमूलानि प्रतिसन्दधाति। प्रकृत्या तीक्ष्णेन्द्रियतया मित्र ज्ञातिसहायकानां पुण्यक्रियाभिसंयोगसन्दर्शनतया सत्पुरुषानुपसङ्कम्य सद्धर्मश्रवणतया विचिकित्सोत्पत्तिनिश्चयाधिगमनतया च॥



कथं च्यवते। परिमितायुष्कतया। तत्पुनर्मरणमायुःक्षेपात्पुण्यक्षेपाद्विषमापरिहारतश्च कालेप्यकालेऽपि वेदितव्यं कुशल चित्तस्याप्यकुशलचित्तस्याव्याकृतचित्तस्यापि॥



 



कथमायुःक्षेपात्। यथापीहैकत्यो यथाक्षिप्तमायुः परिपूर्ण क्षपयित्वा च्यवते। सैव पुनः कालच्युतिरित्युच्यते॥



कथं पुण्यक्षेपात्। यथापीहैकत्य उपकरणवैकल्येन च्यवते॥



कथं विषमापरिहारतः। यथोक्तं भगवता॥



नव हेतवो नव प्रत्यया अक्षीणायुषः कालक्रियाया इति।



 



कतमे नव। अमात्राभोजी भवति अपथ्यभोजी अपरिणतभोजी आमं नाद्धरति पक्कं धारयति भैषज्यं न प्रतिषेवते सात्म्यासात्म्यं न जानीते अकालचारी भवति अब्रह्मचारी भवतीति। सैव पुनरकालच्युतिरित्युच्यते॥



 



कथं कुशलचित्तश्च्यवते। यथापीहैकत्यो म्रियमाणः पूर्वान् धर्मान्स्मरति। परेण वा पुनः स्मार्यते। येनास्य तस्मिन्समये कुशलाः श्रद्धादयो धर्माश्चित्ते समुदाचरन्ति। ते पुनर्यावदौदारिकी संज्ञा प्रवर्तते। सूक्ष्मे पुनः संज्ञाप्रचारे कुशलं चित्तं व्यावर्तते। अव्याकृतमेव चित्तं सन्तिष्ठते। तथा हि। स तस्मिन्समये पूर्वाभ्यस्तं च कुशलमाभोगं कर्तुमसमर्थो भवति परैरपि स्मारयितुमशक्यः॥



 



कथमकुशलचित्तश्च्यवते। यथापीहैकत्यो म्रियमाणः स्वयमेव पूर्वाभ्यस्तानकुशलधर्मान्समनुस्मरति। परैर्वा स्मार्यते। तस्य तस्मिन्समये लोभादिसहगता अकुशलधर्माश्चित्ते समुदाचरन्ति यावदौदारिकी संज्ञा .....इति पूर्ववत्सर्वं कुशलवत्।



 



तत्र कुशलचित्तो म्रियमाणः सुखमरणेन म्रियते। तस्य प्रगाढा दुःखा वेदनाः काये नावक्रामन्ति मारणान्तिकाः। अकुशलचित्तो म्रियमाणो दुःखमरणेन म्रियते। प्रगाढाश्चास्य दुःखा वेदनाः कायेऽवक्रामन्ति मारणान्तिकाः। कुशलचित्तस्य पुनर्म्रियमाणस्याव्याकुलं रूपदर्शनं भवति। अकुशलचित्तस्य तु व्याकुलं रूपदर्शनं भवति॥ 



 



कथमव्याकृतचित्तश्चवते। कुशलाकुशलकारी वा तदकारी वा स्वयमसमनुस्मरन्परैर्वास्मार्यमाणो नैव कुशलचित्तो न क्लिष्टचित्तो म्रियमाणः। स नैव सुखमरणेन म्रियते नैव दुःखमरणेन। स च पुनः कुशलाकुशलकारी पुद्गलो म्रियमाणः स्वयं वा पूर्वाभ्यस्तान्कुशलाकुशलान्धर्मान्स्मरति परैर्वा स्मार्यते। तस्य तस्मिन्समये यदभ्यासबाहुल्याद्बलवत्तरं भवति तेन चित्तं नमतेऽन्यतः प्रमुच्यते॥ सचेत्पुनरुभयं सममभ्यस्तं भवति तत्र यदेव तत्प्रथमतः समनुस्मरति समनस्मार्यते वा न पुनर्व्यावर्तते नान्यतश्चित्त परावर्तते। स तस्मिन्समये हेतुद्वयमधिपतीकृत्वा यदुत प्रपञ्चाभिरतिहेतुं च शुभाशुभकर्महेतुं च कालं कुर्वन्नुपयुक्ते तस्मिन्पूर्वकर्माक्षिप्ते फलेऽकुशलकर्मकारीह पूर्वकृतस्याकुशलस्यानिष्टफलस्य कर्मणः पूर्वनिमित्तानि प्रत्यनुभवति। तद्यथा स्वप्न इवानेकविकृत रूपदर्शनमस्य भवति। इदं च सन्धायोक्तं भगवता।



यदस्य पूर्वकं पापकमकुशलं कर्म कृतं भवत्युपचितं तत्तस्य तस्मिन्समये सायाह्नकाल इव पर्वतानां वा पर्वतकूटानां वा छायेवावलम्बतेऽध्यवलम्बतेऽभिलम्बते च। इति॥



 



अयं च पुद्गलो ज्योतिस्तमःपरायणो वेदितव्यः। एतद्विपर्ययेण पुनः पूर्वककुशल कर्मफले वर्त्तमान इह कुशलकारी तमोज्योतिष्परायणो वेदितव्यः। तत्रायं विशेषः। मरणसमयेऽस्य स्वप्न इवाविकृतं मनापविचित्रं रूपदर्शनं प्रादुर्भवति॥



 



तत्राधिमात्राकुशलकारिणस्तद्विकृतनिमित्तदर्शनात्प्रस्वेदश्च जायते। रोमकूपेभ्यो रोमाञ्चश्च भवति। हस्तपादविक्षेपादयश्च भवन्ति। मूत्रपुरीषोत्सर्गश्च भवति। आकाशपरामर्शनमक्षि परिवर्तनं मुखतः फेननिःस्रवण मित्येवंभागीया धर्मा उत्पद्यन्ते॥



स चेत्पुनर्मध्यकारी भवति तस्य केचिद्विकारा भवन्ति केचिन्न भवन्ति। न परिपूर्णाः सर्वे॥



 



सर्वस्य च म्रियमाणस्य विस्पष्टसंज्ञावस्थामप्राप्तस्य दीर्घकालाभ्यस्त आत्मस्नेहः समुदाचरति। ततस्तद्वशादहं न भवामीत्यात्मभावाभिनन्दना भवति। सास्य प्रतिष्ठा भवत्यन्तराभवाभिनिर्वृत्तौ॥



 



[अन्तराभवः]



 



तत्र स्रोतआपन्नस्य सकृदागामिनश्च तस्मिन्समय आत्मस्नेहः समुदाचरति। स च स्रोतआपन्नः सकृदागामी वा तमात्मस्नेहं नितीर्य नितीर्याभिनिगृह्णाति नाधिवासयति। तद्यथा बलवत्तरपुरुषो दुर्बलतरेण पुरुषेण युध्यमानो दुर्बलमभिनिगृह्णाति तद्वदत्रापि नयो द्रष्टव्यः॥



 



अनागमिनां तु स आत्मस्नेहस्तदा नैव समुदाचरति॥



 



तत्र मर्मच्छेदो नरकगतिं देवगतिं च स्थापयित्वा तदन्येषु सर्वजन्मायतनेषु भवति। स पुनर्द्विविधः। प्रगाढः प्रतनुकश्च। प्रगाढो दुष्कृतकर्मणां प्रतनुकः सुकृतकर्मणां। उत्तरेषु पुनः कुरुषु सर्वेषां प्रतनुकः। रूपधातोश्चपवतां सकलेन्द्रियाणां कालक्रिया। कामधातोः पुनश्चपवतामेकत्यानां सकलेन्द्रियाणामेकत्यानां विकलेन्द्रियाणां। शुद्धानां पुनर्मुक्तानां मरणं दान्तमरणमुच्यते। अशुद्धानाममुक्तानामदान्तमरणं॥



 



ततश्चुतिकालेऽकुशलकर्मकारिणां तावदूर्ध्वभागाद्विज्ञानमाश्रयं मुञ्चति। उर्ध्वभागो वास्य शीतीभवति। स पुनस्तावन्मुञ्चति यावद्धृदयप्रदेशं॥ सुकृतकारिणां पुनरधोभागाद्विज्ञानमाश्रयं मुञ्चति। अधोभागश्चास्य शीतीभवति तावद्यावद्धृदयप्रदेशं। हृदयदेशाच्च विज्ञानस्य च्युतिर्वेदितव्या। ततः कृत्स्न एवाश्रयः शीतीभवति॥



 



अनन्तर समुत्पन्नत्वाच्च तस्यात्मभावस्नेहस्य पूर्वप्रपञ्चाभिरतिहेतुपरिभावितत्वाच्च शुभाशुभकर्मपरिभावितत्वाच्च तस्याश्रयस्य तद्धेतुद्वयमधिपतिं कृत्वा स्वबीजादन्तराभवस्य तद्देशनिरन्तरस्य प्रादुर्भावो भवति। तुल्यकालनिरोधोत्पादयोगेन तुलाग्रप्रान्तनामोन्नामवत्॥



 



स पुनरन्तराभवः सकलेन्द्रियः। दुष्कृतकर्मकारिणां पुनरन्तराभवस्तद्यथा कृष्णस्य कुतपस्य निर्भासोऽन्धकारतमिस्राया वा रात्र्याः। सुकृतकारिणां पुनस्तद्यथावदातस्य वस्त्रस्य निर्भासः सज्योत्स्नाया वा रात्र्याः। स च विशुद्धस्य दिव्यस्य चक्षुषो गोचरीभवति। तस्मिन्समये स पूर्वक आत्मभावाभिलाषो न पुनः समुदाचरति विज्ञानस्य प्रतिषिद्धत्वात्। विषयप्रपञ्चाभिलाषस्तु समुदाचरति। यत्र चानेनोपपत्तव्यं तदाकृतिरेवान्तराभवो जायते। तस्य च दिव्यचक्षुरिव चक्षुर्न व्याहन्यते यावदुपपत्त्यायतनात्। गतिरपि न विहन्यते यथा ऋद्धिमतो यावदुपपत्त्यायतनादेव। स तेन चक्षुषात्मसभागानान्तराभविकान् सत्त्वान्पश्यति तेषां चोपपत्तिस्थानमात्मनश्च। दुष्कृतकर्मकारिणामधश्चक्षुर्विशुध्यते। अवाङ्मुखश्च गच्छति। ऊर्ध्वं देवगामिनां। मनुष्यगामिनां पुनस्तिर्यक्॥



 



स पुनरन्तराभवः सप्ताहं तिष्ठत्यसत्युपपत्तिप्रत्ययलाभे। सति पुनः प्रत्ययलाभेऽनियमः। अलाभे पुनश्चुत्वा पुनः सप्ताहं तिष्ठति यावत्सप्त सप्ताहानि तिष्ठत्युपपत्तिप्रत्ययमलभमानः। तत ऊर्ध्वमवश्यमुपपत्तिप्रत्ययं लभते। तस्य च सप्ताहच्युतस्य कदाचित्तत्रैवाभिनिर्वृत्तिर्भवति। कदाचिदन्यत्र विसभागे। सचेत्कर्मान्तरक्रिया परिवर्तेत तदन्तराभवबीजं परिवर्तयति॥



 



तस्य पुनः पर्याया अन्तराभव इत्यप्युच्यते मरणभवोत्पत्तिभवयोरन्तराले प्रादुर्भावात्। गन्धर्व इत्युच्यते गन्धेन गमनाद्गन्धेन पुष्टितश्च। मनोमय इत्युच्यते तन्निश्रित्य मनस उपपत्त्यायतनगमनतया। शरीरगत्या च पुनर्नालम्बनगत्या। अभिनिर्वृत्तिरप्युच्यते उपपत्तेराभिमुख्येन निर्वर्तनतया॥



 



स पुनरन्तराभव आरूप्योपपत्त्यायतनं स्थापयित्वा द्रष्टव्यः॥



सचेत्पुनस्तेनाकुशलकर्मकारिणौरभ्रिकभूतेन वा कोक्कुटिकभूतेन वा सौकरिकभूतेन वा इत्यन्यतमान्यतमस्मिन्नसंवरिकनिकाये व्यवस्थितेन नरकसंवर्तनीयं पापकमकुशलं कर्म कृतं भवत्युपचितं स तथाभूतानेव सत्त्वांस्तथा कर्माण्युपपत्त्यायतने पश्यति तांश्चोरभ्रादीन्स्वप्नवत्। स पूर्वाभ्यासाभिरत्या तत्रैवानुधावति। तस्मिंश्चोपपत्तिस्थानरूपे प्रतिहतस्याभवीयते सोऽन्तराभव उपपत्तिभवश्च निर्वर्तते तस्य। तस्माच्च्यवमानस्य यथापूर्व मरणभवे व्याकुलं रूपददर्शनं तथैव भवति। उत्पादनिरोधयोगश्च पूर्ववद् द्रष्टव्यः॥



 



स तत्रोपपादुकः परिपूर्णषडायतनश्च जायते। स एवंचित्त उपसंक्रान्तो भवति। एभिरहं सार्धं क्रीडिष्यामि रमिष्यामि परिचारयिष्यामि शिल्पं शिक्षिष्यामीति। स तत्र विपर्यासाद्विविधैः कर्म कारणैः कार्यते। महापरिदाहं च स्पृशति। अन्यथा पुनस्तादृशं दर्शनं विना तस्य तत्र गमनाभिलाष एव न स्यात्। कुतः पुनर्गमनम्। अतो न गच्छेत्ततश्च नोपपद्यते॥



 



यथा नरक एवं नरकसदृशेषु प्रेतेषूत्पादो द्रष्टव्यः। गलगण्डादिष्वन्येषु पुनस्तिर्यक्प्रेतेषु मनुष्येषु कामावचरेषु रूपावचरेषु च देवनिकायेषूपपद्यमान आत्मसभागानभिप्रमोदमानान्सत्त्वान्पश्यत्युपपत्त्यायतने। ततस्तत्र पूर्ववद्रतिमभिलाषं चोत्पाद्य गच्छति। तत्र चोपपत्त्यायतने प्रतिहतस्य च्युतिरुपपत्तिश्च पूर्ववद्द्रष्टव्या॥



 



[गर्भावक्रान्तिः]



 



तत्र त्रयाणां स्थानानां सम्मुखीभावान्मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति। माता कल्या भवति ऋतुमती। मातापितरौ रक्तौ भवतः सन्निपतितौ। गन्धर्वश्च प्रत्युपस्थितो भवति। सचेत्तत्र त्रिविधोऽन्तरायो न भवति योनिदोषकृतो बीजदोषकृतः कर्मदोषकृतश्च। तत्र कतमे योनिदोषाः। सचेद्योनिर्वातोपस्तब्धा भवति पित्तोपस्तब्धा वा तिलमध्या वा शकटमुखी वा शङ्खमुखी वा सलिङ्गा सवङ्का सदोषा सकषायेत्येवं भागीया योनिदोषा वेदितव्याः॥



 



बीजदोषाः कतमे। सचेत्पितुरशुचिर्मुच्यते न मातुः। मातुर्वा मुच्यते न पितुः। तदुभयोर्वा न मुच्यते। मातुर्वा पूतिको भवति पितुर्वा तदुभयोर्वेत्येवं भागीया बीजदोषा वेदितव्याः॥ 



 



कर्मदोषाः कतमे। सचेन्मात्रा वा पित्रा वा पुत्रसंवर्तनीयं कर्म न कृतं भवत्युपचितमुभाभ्यां वा। पुनस्तेन वा सत्त्वेन मातापितृसंवर्तनीयं कर्म न कृतं भवत्युपचितं। ताभ्यां वा मातापितृभ्यामन्यादृशपुत्रसंवर्तनीयं कर्म कृतं भवत्युपचितं। तेन वा सत्त्वेनान्यादृशमातापितृसंवर्तनीयं कर्म कृतं भवत्युपचितं। महेशाख्यसंवर्तनीयममहेशाख्यसवर्तनीयं वेत्येवंभागीयाः कर्मदोषाः वेदितव्याः। एषां दोषाणामभावात्त्रयाणां च स्थानानां सम्मुखीभावाद्गर्भस्यावक्रान्तिर्भवति॥



 



सोऽन्तराभवस्थ एव सभागसत्त्वदर्शनक्रीडाद्यभिलाषेण गन्तुकामतामुपपादयत्युपपत्त्यायतने। तस्य मातापितृसम्भूते शुक्रशोणिते विपर्यस्त दर्शनं तदा प्रवर्तते। तत्रायं विपर्यासः। मातरं च पितरं च पश्यत्यन्योन्यं विप्रतिपद्यमानं। न च तत्र मातापित्रोस्तदा विप्रतिपत्तिर्भवति। स विपर्यस्तबुद्धिस्तदा पश्यति मायाकृतमेतत्। तां च विप्रतिपत्तिं दृष्ट्वा तस्य तत्र संराग उत्पद्यते। सचेत्स्त्री भवितुकामो भवति पुरुषे संरागः स वासेच्छोत्पद्यते। सचेत्पुरुषो भवितुकामो भवति तस्य स्त्रियां संरागः संवासेच्छोत्पद्यते। ततस्तत्समीपं च गच्छति। स्त्रियाश्च स्त्र्यपगमनेच्छोत्पद्यते पुरुषस्य च पुरुषापगमनेच्छा। तदुत्पादाच्च पुरुषमेव वा केवलं पश्यति स्त्रियं वा। स च यथा यथा तं देशमुपश्लिष्यते तथा तथास्य तदन्येषामङ्गानां दर्शनमवहीयते। योनिदर्शनं वा पुरुषेन्द्रियदर्शनं वा केवलं प्रत्युपस्थितं भवति। तत्र चास्य प्रतिघातात्। तस्य च्युतिरुपपत्तिश्च पूर्ववद्वेदितव्या॥



 



[प्रतिसन्धिः]



 



सचेदल्पपुण्यो भवति नीचेषु। कुलेषु प्रत्याजायते तस्य च्युतिकाले प्रवेशकाले च कोलाहलशब्दो नडवनगहनादिप्रवेशश्च निमित्तं प्रादुर्भवति॥



 



सचेत्सुकृतकर्मकारी भवत्युच्चेषु कुलेषु प्रत्याजायते। तस्य प्रशान्तमधुरशब्दप्रादुर्भावः प्रासाद विमानादिस्थानारोहणं च निमित्तं प्रादुर्भवति।



 



तत्र संरक्तयोर्मातापित्रोस्तीव्रावस्थागते रागेऽवसाने शुक्रं मुच्यते। तदन्ते चावश्यमुभयोः शुक्रशोणितबिन्दुः प्रादुर्भवति।द्वयोरपि च तौ शुक्रशोणितबिन्दू मातुरेव योनौ मिश्रीभूतौ शरं बद्धा तिष्ठत एकपिण्डीभूतौ तद्यथा पक्कं पयः शीतभावमापद्यमानं। तत्र सर्वबीजकं विपाकसंगृहीतमाश्रयोपादानादालयविज्ञानं सम्मूर्च्छति॥



 



कथं पुनः सम्मूर्च्छति। तेन संजातशरेण शुक्रशोणितपिण्डेन सह तद्विपर्यस्तालम्बनतोऽन्तराभवो निरुध्यते। तन्निरोधसमकालं च तस्यैव सर्वबीजकस्य सामर्थ्यात्तदन्यसूक्ष्मेन्द्रिय महाभूतव्यतिमिश्रोऽन्यस्तत्सभागः शुक्रशोणितपिण्डो जायते सेन्द्रियः। तस्यां चावस्थायां प्रतिष्ठितं विज्ञानं प्रतिसन्धिरित्युच्यते। साचासौ कललावस्था तानि च तस्य कलस्येन्द्रियमहाभूतानि कायेन्द्रियेणैव सहोत्पद्यन्ते। इन्द्रियाधिष्ठानमहाभूतानि च तैरेवेन्द्रियमहाभूतैः कायेन्द्रियेण च सहोत्पद्यन्ते। ततस्तानीन्द्रियमहाकभूतान्युपादाय चक्षुरादीनीन्द्रियाणि क्रमेण निष्पद्यन्ते। इन्द्रियाणां तदधिष्ठानानां च प्रादुर्भावात्कृत्स्न आश्रयो निष्पन्नो भवति प्रतिलब्धः। तत्पुनः कललरूपं तैश्चित्त चैतसिकैर्धर्मैरन्योन्ययोग क्षेमतया सम्मूर्च्छितमित्युच्यते। चित्तवशेन च तन्न परिक्लिद्यते। तस्य चानुग्रहोपघाताच्चित्तचैतसिकानामनुग्रहोपघातः। तस्मात्तदन्योन्ययोगक्षेममित्युच्यते॥



 



यत्र च कललदेशे तद्विज्ञानं सम्मूर्च्छितं सोऽस्य भवति तस्मिन्समये हृदयदेशः। एवं हि तद्विज्ञानं यस्मादेव देशाच्च्यवते तस्मिन्नेव देशे तत्प्रथमतः सम्मूर्छति। तत्पुनः सर्वबीजकं विज्ञानं परिनिर्वाणधर्मकाणां परिपूर्णबीजमपरिनिर्वाणधर्मकाणां पुनस्त्रिविधबोधिबीजविकलं॥



 



यश्च कश्चिदात्मभावोऽभिनिर्वर्तते सर्वोऽसौ सर्वात्मभाव बीजोपगतो वेदितव्यः॥



 



कामावचर आत्मभावे रूपारूप्यावचरस्याप्यस्ति बीजं। एवं रूपावचरेऽपि कामावचरारूप्यावचरस्य आरूप्यावचरे कामावचररूपावचरस्य॥



 



तस्मिंश्च पुनः कलले वर्धमाने समसमं नामरूपयोर्वृद्धिस्तदुभयोर्विस्तीर्णतरतोपगमात्। सा पुनर्वृद्धिर्यावदाश्रयपरिपूरितो द्रष्टव्या। तत्र पृथिवीधातुमुपादाय रूपं वर्धते विस्तीर्णतरतां गच्छति। अब्धातुः पुनस्तदेव संगृह्णाति। तेजोधातुस्तदेव परिपाचयति। वायुधातुरङ्गानि विभजति संनिवेशयति। तस्यां पुनः सर्वबीजकायामात्मभावाभिनिर्वृत्तौ शुभाशुभकर्महेतुत्वेऽपि सति प्रपञ्चाभिरतिरेव कारणं द्रष्टव्यं। कुलबलरूपायुर्भोगादिकस्य तु फलस्य प्राधान्येन शुभाशुभं कर्म कारणं॥



 



तत्र चात्मभावे बालानामहमिति वा ममेति वास्मीति वा भवति। आर्याणां पुनर्दुःखमित्येव भवति। प्रकृत्या च गर्भावस्थायामदुःखा सुखवेदनाप्रतिष्ठितं विज्ञानमुपचीयते। सैव च तत्र वेदना विपाकसंगृहीता। तदन्यत्तु सर्वं वेदितं विपाकजं वा विषयप्रत्ययं वा। तत्र सुखदुःखमेकदा प्रत्ययसंमुखीभाव उत्पद्यते। एकदा नोत्पद्यते॥



 



स च बीजसन्तानप्रबन्धोऽनादिकालिकः। अनादिकालिकत्वेऽपि शुभाशुभकर्मविशेषपरिभावनया पुनः पुनर्विपाकफलपरिग्रहान्नवी भवति। प्रादुर्भूते च फल उपयुक्तफलं भवति तद्बीजं। एवं हि संसारप्रबन्धः प्रवर्तते यावन्न परिनिर्वाति। यानि पुनस्तत्रादत्तफलानि बीजानि तानि कानिचिदुपपद्य वेदनीयानि भवन्ति। कानिचिदपरपर्याये वेदनीयानि। कल्पशतसहस्रैः स्वबीजतश्च पुनस्तेषामात्मभावानां परिपूरिर्भवति॥



 



यदप्यन्यत्फलमुत्पद्यते तदपि स्वबीजादेव। क्षीणायुषश्चात्र तद्बीजं पर्युपयुक्तफलं भवति। शेषाणां पुनरात्मभावानां बीजान्यदत्तफलत्वान्नोपयुक्तफलानि भवन्ति। यस्य च बीजस्य तस्मिन्नात्मभावे फलं प्रतिसंवेद्यमपि प्रत्ययवैकल्यान्न प्रतिसंवेद्यतेऽनियतवेदनीयस्य तदपि बीजं तदवस्थयैवावतिष्ठते। अतः  सर्वात्मभावबीजकत्वात्प्रत्येकं सर्वात्मभावानामेकत्र रज्यमानः सर्वत्र रक्तो वक्तव्यः। एकस्माद्विरज्यमानः सर्वस्माद्विरक्तो वक्तव्यः। तेषु पुनरात्मभावेषु यानि बीजानि क्लेशपक्ष्याणि तत्र दौष्ठुल्यानुशय संज्ञा। यानि च पुनर्विपाकपक्ष्याणि तदन्याव्याकृतपक्ष्याणि च तेषु दौष्ठुल्यसंज्ञैव नानुशयसंज्ञा। यानि पुनः श्रद्धादिकुशलधर्मपक्ष्याणि बीजानि तेषु नैवानुशयसंज्ञा दौष्ठुल्यसंज्ञा। तथा हि। तेषामुत्पादात्कर्मण्य एवाश्रयो भवति नाकर्मण्यः। अतश्च सकलमाश्रयं दौष्ठुल्योपगतत्वाद्दौष्ठुल्यस्वभावात्तथागता दुःखतः प्रज्ञापयन्ति यदुत संस्कारदुःखतया॥ 



 



बीजपर्यायाः पुनर्धातुर्गोत्रं प्रकृतिर्हेतुः सत्कायः प्रपञ्च आलय उपादानं दुःखं सत्कायदृष्ट्यधिष्ठानमस्मिमानाधिष्ठानं चेत्येवम्भागीयाः पर्याया वेदितव्याः॥



 



परिनिर्वाणकाले पुनर्विशुद्धानां योगिनां परिवृत्ताश्रयाणां सर्वक्लिष्टधर्मनिर्बीज आश्रयः परिवर्तते। सर्वकुशलाव्याकृतधर्मबीजेषु च प्रत्ययान् विकलीकरोति। अध्यात्मप्रत्ययदर्शितां च प्रतिलभते॥



 



[गर्भावस्था]



 



स पुनर्गर्भोऽष्टत्रिंशता सप्ताहैः सर्वाङ्गप्रत्यङ्गोपेतो भवति। ततः परं चतुरहेण जायते। यथोक्तं भगवता गर्भावक्रान्तिसूत्रे।



 



स पुनः सम्पूर्णो भवति नवभिर्मासैः परेण वा पुनरिति।



 



अष्टभिः पुनर्मासैः सम्पूर्णो नोत्तमसम्पूर्णः। षड्भिः सप्तभिर्वा मासैरसम्पूर्ण एव विकलो वा।



 



तस्यां पुनः षडायतनावस्थायां मातुरभ्यन्तरजातौदरिको रसोयेनास्य पुष्टिर्भवति। कललाद्यासु पुनः सूक्ष्मतरास्ववस्थासु सूक्ष्मेण रसेन पुष्टिर्वेदितव्या॥



 



स च गर्भोऽष्टावस्थः। अष्टावस्थाः कतमाः। कललावस्था अर्बुदावस्था पेश्यवस्था घनावस्था प्रशाखावस्था केशरोमनखावस्था इन्द्रियावस्था व्यञ्जनावस्था च।



 



तत्र शरोपनिवद्धमन्तर्द्रवं कललं। सान्तर्बहिः शरीभूतं दधीयमानमप्राप्तं च मांसावस्थमर्बुदं। मांसीभूतं शिथिलं च पेशी। घनीभूतमामर्शक्षमं घनः। तत एव चाधिमांसयोगेनाङ्गप्रत्यङ्गनिमित्त प्रादुर्भावः प्रशाखा। ततः केशरोमनखप्रादुर्भावस्तदवस्थैव। ततश्चक्षुरादीनामिन्द्रियाणामभिनिर्वृत्तिरिन्द्रियावस्था । ततस्तदधिष्ठानाभिव्यक्तिर्व्यञ्जनावस्था॥



 



ततः पूर्वकर्मवशान्मात्रा च विषमापरिहणा द्विषमापरिहारजैश्च गर्भे तदनुकूलैर्वायुभिः केशवैकृत्यं वर्णवैकृत्यं त्वग्वैकृत्यमङ्गवैकृत्यं च जायते॥



 



कथं केशवैकृत्यं जायते। पूर्वं तावदनेन तत्संवर्णनीयं पापकमकुशलं कर्म कृतं भवति। माता वास्य क्षारलवणरसप्रायमन्नपानं बाहुल्येन निषेवते येन मन्दकेशरोमतागर्भस्य भवति॥



 



कथं वर्णवैकृत्यं भवति। कर्म पूर्ववद्धेतुः। प्रत्युत्पन्नः प्रत्ययो मातात्युष्णातपादिनिषेविणी भवति। तेनास्य कृष्णश्याम वर्णता जायते। अतिशीतलगर्भगृहनिवेशिनी वा भवति। तेनास्य शुक्लवर्णता भवति। अत्युष्णाभ्यवहारिणी वा पुनर्भवति। येनास्य लोहितवर्णता जायते॥



 



कथं त्वग्वैकृत्यं भवति। कर्म पूर्ववत्तद्धेतुः। वर्तमानः प्रत्ययो मातात्यर्थं मैथुनधर्मनिषेविणी भवति। येनास्य दद्रुलता वा कच्छुलता वा कुष्ठलता वा त्वग्दोषा जायन्ते॥



 



कथमङ्गवैकृत्यं भवति। कर्म पूर्ववत्तद्धेतुः। वर्तमानः प्रत्ययो माता धावनप्लवनलङ्घनादीनीर्यापथानध्यापद्यते येनास्य विषमापरिहारादङ्गवैकृत्यं जायते इन्द्रियवैकल्यं वा भवेत्॥



 



[सचेत्]पुनस्त्री भवति स पृष्ठवंशं निश्रित्योरः संपुरस्कृत्य वामे पार्श्वे मातुरवतिष्ठते। सचेत्पुमान् भवति स उरो निश्रित्य पृष्ठवंशं संपुरस्कृत्य दक्षिणे पार्श्वे मातुरवतिष्ठते॥



 



सम्पूर्णे च पुनस्तस्मिन्गर्भे मातुरधिमात्रं गर्भमसहमानाया अध्यात्मभवा वाताः प्रादुर्भवन्ति येऽस्य रुजं जनयन्ति। तस्य च कर्मविपाकजा उपपत्त्यंशिका वायवो जायन्ते। ते गर्भमूर्ध्वपादमवशिरस्कं कुर्वन्ति। ततः स गर्भः कोशपरिवेष्टित एव निष्क्रामति। निष्क्रामतः पुनः स कोशः कुक्षौ भवति। योनिद्वारनिर्गमसमकालं च पुनर्जातावस्थेत्युच्यते। स जातः क्रमेणौपपत्यंशिकं च स्पर्शं स्पृशति। तद्यथा। चक्षुःसंस्पर्शं प्रज्ञप्तिं चानुपतति यदुत लोकयात्राव्यवहारानुशिक्षमाणतया। कुलं वाध्यावसति। यदुत वृद्धेरन्वयादिन्द्रियाणां परिपाकात्। कर्माणि च करोति यदुत लौकिकानि शिल्पकर्मस्थानानि। विषयांश्चोपभुङ्क्ते यदुत रूपादीनिष्टानिष्टान्। स दुःखं च प्रतिसंवेदयते यदुत पूर्वकर्मप्रत्ययं वा वर्तमानप्रत्ययं वा। यथा प्रत्ययहार्यश्च भवति यदुत पञ्चगतिगमनप्रत्ययैर्वा निर्वाणगमनप्रत्ययैर्वा॥  



 



येषां च सत्त्वानां यस्मिन्सत्त्वनिकाय आत्मभावस्य प्रादुर्भावो भवति तत्र या सत्त्वसभागता सा तेषां सत्त्वानां चतुर्भिः प्रत्ययैः प्रत्ययकार्यं करोति। बीजधर्मोपसंहारेणाहारोपचयेन रक्षाविधानेन कायवाक्कर्माभिसंस्कारानुशिक्षणतया च। तद्यथा। मातापितरौ तत्प्रथमतः शुक्रशोणितमुपसंहरतः। ततो जातं विदित्वा तदुपमेनाहारेण स्तन्येन चापाययन्ति पोषयन्ति संवर्धयन्ति। ततस्तत्र तत्रानुविचरन्तमकालचर्याया विषमचर्याया आरक्षाविधानं कुर्वन्ति। ततः संलापव्यवहारमनुशिक्षयन्ति वृद्धेरन्वयादिन्द्रियाणां परिपाकात्। तेप्यन्येषाम् अनुशिक्षयन्ति। एवममी सत्त्वा अनादिकालं सुखदुःखे प्रत्यनुभवन्ति। नो तु सुखदुःखव्यतिक्रममवाप्नुवन्ति यावन्न बुद्धानां बोधिमागम्य परतो घोषान्वयादध्यात्मं च योनिशो मनसि कारादास्रवक्षयमनुप्राप्नुवन्ति। तदिदं सुदुर्बुधं पदं यदुत



 



न मे क्वचन कश्चन किश्चनास्ति। नाप्यहं क्वचन कस्यचित्किञ्चिदिति।



 



एवं तावदाध्यात्मिकानां भावानां च्युत्युपपादो भवति॥



 



[संवर्तविवर्त्तौ]



 



कथं पुनर्बाह्यानां भावानां संवर्तविवर्तो भवति। संवर्तविवर्तसंवर्तनीयेन कर्मणा। सचेत्संवर्तसंवर्तनीयं कर्म प्रत्युपस्थितं भवति ततो बाह्येन संवर्तप्रत्ययेन तेषां संवर्तो भवति। नो तु यथाध्यात्मिकानामायुःक्षेपात्। तत्कस्य हेतोः। तथा हि। बाह्यभावा रूपिण औदारिकाश्चातुर्महाभूतिका स्थावरसन्ततयश्च न तु तथाध्यात्मिकाः। तेषां च भाजनानां यद्विवर्तसंवर्तनीयं कर्म तन्नियतं कल्पाक्षेपकं। न तत ऊर्ध्वं नार्वाक्॥



 



यत्पुनः सत्त्वसंङ्ख्यातं तस्य नास्ति कालनियमः। तथा हि। ते विचित्रकर्माभिसंस्काराः। तस्मात् तेषां परेणापि कल्पाद्भवति ततश्चार्वान्यावद्दश संवत्सरादिति॥



 



स पुनः संवर्तस्त्रिविधो वेदितव्यः। तेजःसंवर्तन्यवीचिमुपादाय यावद्ब्रह्मलोकात्संवर्तते। अप्संवर्तनी सकलं द्वितीयं ध्यानं संवर्तते। वायुसंवर्तनी यावत्सकलं तृतीयं ध्यानं संवर्तते। चतुर्थे पुनर्ध्याने तेषां चतुर्थध्यानभूमिकानां देवानां सहैव विमानैरुत्पत्तिः। सहैव विमानैः प्रच्युतिर्भवति। तस्मात्तेषां नास्ति संवर्तो। नास्ति संवर्तकारणं। त्रीणि संवर्तनीशीर्षाणि। द्वितीयं ध्यानं तृतीयं ध्यानं चतुर्थ ध्यानं॥



 



स पुनरयं लोको विंशतिमन्तरकल्पान् संवर्तते। विंशतिमन्तरकल्पान् संवृत्तस्तिष्ठति। विशतिमन्तरकल्पान्विवर्तते। विंशतिमन्तरकल्पान् विवृत्तस्तिष्ठति। ते भवन्त्यशीतिरन्तरकल्पाः। स एच महाकल्पः संख्याप्रज्ञप्तितः। तत्र ब्रह्मलोके कल्पमायुः। स च सर्वपश्चात्संवर्तते। सर्वप्रथमं पुनः स एव विवर्तते॥  



 



तस्य च कल्पस्यान्यथा व्यवस्थानं द्रष्टव्यं। ब्रह्मकायिकानां विंशतिरन्तरकल्पाः कल्प इति कृत्वायुषो व्यवस्थानं। ब्रह्मपुरोहितानां चत्वारिंशदन्तरकल्पाः कल्प इति कृत्वा युषो व्यवस्थानं। महाब्रह्मणां षष्टिरन्तरकल्पाः कल्प इति कृत्वायुषो व्यवस्थानं॥



 



तेजःसंवर्तनी कतमा भवति। स समयो यदापरिमितायुषः सत्त्वा आयुषा हीयमाना यावदशीतिवर्षसहस्रायुषो भवन्ति। ते पुनरकुशलानां धर्माणां समादानहेतोर्हीयमाना यावद्दशवर्षायुषो भवन्ति। ते पुनः संवेगप्राप्तानां कुशलानां धर्माणां समादानहेतोरायुषा वर्धमानाः पुनर्यावदशीतिवर्षसहस्रायुषो भवन्तीति यश्चायमपकर्षो यश्चायमुत्कर्षस्तद्द्वयम् अभिसमस्यान्तरकल्प इत्युच्यते। संख्याव्यवस्थानतः। तस्य पुनरन्तरकल्पस्य त्रिभिर्नियाणं भवति दुर्भिक्षेण रोगेण शस्त्रेण च। तत्पुनर्दुभिक्षं यदा त्रिंशद्वर्षायुषो मनुष्या भवन्ति। एवंरूपं च पुनः पुनः प्रज्ञायते यज्जीर्णास्थ्यपि क्वाथयित्वा यात्रां कल्पयति। यच्च तत्र कदाचित् कथञ्चिद्यवकलं वा तण्डुलकलं वा कोल कुलत्थतिलकलं वाधिगच्छति तं मणिरत्नमिव समुद्गे प्रक्षिप्य विकर्षति। ते च सत्त्वा यद्भूयसा निस्थामाः पृथिव्यामुत्तानका निपतिता उत्थातुमपि न शक्नुवन्ति। एवंरूपेण दुर्भिक्षेण यद्भूयसा सत्त्वाः कालं कुर्वन्ति॥



 



तत्पुनदुर्भिक्षं परं सप्तवर्षाणि सप्तमासान्सप्ताहोरात्राणि भवति। ततः परेण निर्यातं वक्तव्यं। ते च सत्त्वाः सङ्गम्य समागम्य मृदुकं संवेगं लभन्ते। तेषां तेन हेतुना तेन प्रत्ययेनायुषश्चाहानिर्भवति दुर्भिक्षस्य च व्यावृत्तिः॥



 



यदा पुनर्विंशतिवर्षायुषो मनुष्या भवन्ति। तस्यैव संवेगस्य पुनर्विगमाद्धीयमानास्तदा बहव ईतय उपद्रवा उपायासा भवन्ति। ते व्याधिबहुला यद्भूयसा कालं कुर्वन्ति। स पुनस्तेषां रोगः परं सप्तमासान्सप्त चाहोरात्राणि भवति। ततः परेण निर्यातो वक्तव्यः। ततस्ते सत्त्वा मध्यसंवेगाः। तेन हेतुना तेन प्रत्ययेन पुनरायुषा न हीयन्ते। ते च रोगा न प्रवर्तन्ते॥



 



यदा पुनर्मनुष्या दशवर्षायुषो भवन्ति। तस्यैव संवेगस्य विगमादायुषा हीयमानास्तदा तेषामन्योन्यं सत्त्वं दृष्ट्वा तीव्रं वधकचित्तं प्रत्युपस्थितं भवति। ततस्ते यदेव तृणं वा शर्करां वा कठल्लं वा गृह्णन्ति तानि भवन्ति तीक्ष्णानि शस्त्राणि सुनिशितानि। यैस्तेऽन्योन्यं विप्रघातिकां कुर्वन्ति। तच्च परं सप्तदिवसानि भवन्ति। ततः परेण निर्यातो वक्तव्यः॥



 



तेषां च सत्त्वानां तदा परमास्तिस्रो विपत्तयो भवन्ति। तद्यथा। आयुर्विपत्तिराश्रयविपत्तिरुपकरणविपत्तिश्च। तत्रायुर्विपत्तिः परं दशवर्षाणि। तत्राश्रयविपत्तिः परं वितस्तिर्मुष्टिश्चाश्रयस्य परिमाणं भवति। तत्रोपकरणविपत्तिः। कोद्रवोभोजनानां मग्र्यो भवति। केशकम्बलो वस्त्राणामग्र्यो भवति। शस्त्रमलङ्काराणामग्र्यं भवति। पञ्चरसाः सर्वेण सर्वमन्तर्धीयन्ते। सर्पीरसो मधुरसस्तैलरस इक्षुविकाररसो लवणरसश्च। ततस्ते सत्त्वाः अधिमात्रसंवेगा। न पुनः संवेगात्परिहीयन्ते। तांश्चायुषः परिहाणीयानकुशलान्धर्मात्परिहायायुर्वीर्यकारकान्कुशलान्धर्मान्समादाय वर्तन्ते। अन्योन्यं सङ्गम्य समागम्य पुनरप्यायुषा वर्धन्ते। वर्णेन बलेन सुखेनैश्वर्याधिपत्येन च वर्धन्ते। यावदशीतिवर्षसहस्रायुषो भवन्ति।



 



एवं विंशतिरपकर्षा विंशतिरुत्कर्षाः। चत्त्वारिंशदपकर्षोक्तर्षा यदा निर्याता भवन्ति तदा सर्वपश्चिम उत्कर्षे नरकेभ्यः सत्त्वाश्च्यवन्ते नोपपद्यन्ते। सकलच्युतौ च तेषां संवृत्तो लोको वक्तव्यो यदुत नरकसंवर्तन्या। यथा नरकसंवर्तन्यैव तिर्यक्संवर्तन्या प्रेतसंवर्तन्या॥ 



 



मनुष्येषु पुनरन्यतमः सत्त्वो धर्मताप्रतिलम्भिको यावद्द्वितीयं ध्यानमुपसम्पद्य विहरति। तस्यानुशिक्षमाणा अन्येऽपि सत्त्वा धर्मताप्रतिलम्भिका यावद्वितीयं ध्यानमुपसम्पद्य विहरन्ति। त इतश्च्युता आभास्वरे देवनिकाय उपपद्यन्ते। तदा चायं लोकः संवृत्तो वक्तव्यो यदुत मनुष्यसंवर्तन्या। यथा च मनुष्यसंवर्तन्या एवं देवसंवर्तन्या॥



 



यदा च पञ्चगतिके लोकसन्निवेश एकोऽपि सत्त्वो न प्रज्ञायते तदोपकरण सम्भवोऽपि न प्रज्ञायते। यदोपकरणसम्भवोऽपि न प्रज्ञायते तदा वृष्टिरपि न प्रज्ञायते। देवे खल्ववर्षति येऽस्यां महापृथिव्यां तृणौषधिवनस्पतयस्त उच्छुष्यन्ते। इदमेव च सूर्यमण्डलं सन्तापकतरं भवत्यकालवृष्टिपरिगृहीतं। षट्प्रकारदाह्यवस्त्वधिकारतश्चापरेषा सूर्यमण्डलानां प्रादुर्भावो भवति यदुत सत्त्वानामेव संवर्तनीकर्माधिपत्यतः। तानि पुनः सूर्यमण्डलान्यस्मात्सूर्यमण्डलाच्चतुर्गुणसंतापानि प्रभावतः। ते पुनः सप्त भूत्वा सप्त गुणं तापयन्ति।



 



षड्वस्तूनि कतमानि। कु...(?)महा...द्रा (?)येषां द्वितीयेन सूर्यमण्डलेन शोषः। कुनद्यो महानद्यो यासां तृतीयेन सूर्यमण्डलेन शोषः। अनवतप्तं महासरो यस्य चतुर्थेन सूर्यमण्डलेन शोषः। महासमुद्रोऽस्य पञ्चमेन सूर्यमण्डलेनशोषः। षष्ठस्य चैकदेशेन शोषः। सुमेरुर्महापृथिवी च ययोः षष्ठेनैव सप्तमेन च सूर्यमण्डलेन सारतरविग्रहतया दाहः। तत एव चार्चिर्वायुना प्रेरिता यावद्ब्रह्मलोकं दहन्ती परैति॥



 



तान्येतानि भवन्ति पुनस्त्रीणि वस्तूनि। अप्सम्भवं वस्तु तृणादयो येषां प्रथमेनैव शोषः। तदेवाब्वस्तु यस्यापरैः पञ्चभिः शोषः। स्थावरं सारविग्रहं वस्तु यस्य द्वाभ्यां दाहः॥



 



तस्य खलु लोकसन्निवेशस्यैवं दग्धस्य ध्मातस्य यथासूत्रमेव विस्तरेण मसिरपि न प्रज्ञायते छारिकापि न प्रज्ञायते। इयता लोकः संवृत्तो भवति यदुत भाजनसंवर्तन्या। विशतिश्चान्तरकल्पा अतिवृत्ताः। तथा संवृत्तश्च लोको विंशत्यन्तरकल्पांस्तिष्ठति॥



 



अप्संवर्तनी कतमा। यतश्च सप्त तेजःसंवर्तन्यः समतिक्रान्ता भवन्ति ततो द्वितीये ध्याने सहजोऽब्धातुः सम्भवति यस्तं भाजनलोकं लवणमिवाब्धातुर्विलोपयति। स चाब्धातुस्तेनैव भाजनलोकेन सहान्तर्धीयते। अन्तर्हितश्च पुनस्तथैव विंशतिमन्तरकल्पांस्तिष्ठति॥



 



वायुसंवर्तनी कतमा। यतश्च सप्ताप्संवर्तन्योऽतिवृत्ता भवन्ति ततः पुनरेका तेजःसंवर्तनी भवति। तदनन्तरं तृतीये ध्याने सहजो वायुधातुः सम्भवति। यस्तं भाजनलोकं वायुनेवाङ्गं शोषयन्नन्तर्धापयति। स च वायुस्तेनैव सहान्तर्धीयते। तथा हि दृश्यते। एकत्यस्य वायुधातौ प्रकुपिते यावदस्थ्यपि कार्श्यमापद्यते। संवृत्तश्च तथैव विंशातमन्तरकल्पांस्तिष्ठति॥



 



एवं हि लोकस्य संवर्तो भवति॥



 



[विवर्तः]



 



विवर्तः कतमः। तेषामेव विंशतीनामन्तरकल्पानामत्ययात्पुनर्विवर्तकर्माधिपत्यात्सत्त्वानां विवर्तकल्पसमारम्भो वेदितव्यः। तत्र तत्प्रथमत आकाशे तृतीयं ध्यानं विवर्तते। यदुत भाजनविवृत्त्या। यथा तृतीयं ध्यानमेवं द्वितीयं। एवं प्रथमं। तत्र तृतीयात्संवर्तशीर्षात्सत्त्वा आयुःक्षयात्पुण्यक्षयाच्च्युत्वा तृतीये ध्यान उपपद्यन्ते। एवं सर्वत्र। एवं द्वितीयात्संवर्तनीशीर्षाद्दितीये ध्याने। एवं सर्वत्र॥



 



प्रथमात्पुनः संवर्तनीशीर्षादन्यतमः सत्त्व आयुःक्षयाद्यावत्पुण्यक्षयाच्च्युत्वा प्रथमध्यान उपपद्यते। यदुतब्रह्मलोके। स तत्र भवति ब्रह्मा महाब्रह्मा। तस्यैकाकिन उत्कण्ठोत्पद्यते। अरतिः सञ्जायते। अहो वतान्येपि सत्त्वा इहोपपद्येरन्। तस्य च चित्ताभिसंस्कारादन्येऽपि सत्त्वा आयुःक्षयाद्यावत्पुण्यक्षयाद् द्वितीयाद् ध्यानाच्च्युत्त्वा प्रथम एव ध्यान उपपद्यन्ते। एवमेतानि त्रीणि ध्यानानि विवृत्तानि भवन्ति। यदुत सत्त्वविवर्तन्यापि। ततश्चतुर्णां कामावचराणां देवनिकायानामाकाशे विमानानि प्रादुर्भवन्ति। सर्वेषां च तेषामाकाशविमानानां निर्माणवत्सम्भवो द्रष्टव्यः। तेषु चाभास्वराद्देवनिकायात्सत्त्वाश्च्युत्वोपपद्यन्ते पूर्ववत्।



 



ततः पश्चादिह त्रिसाहस्रमहासाहस्र लोकधातु प्रमाणं वायुमण्डलमभिनिर्वर्तते त्रिसाहस्रमहासाहस्रस्य लोकस्य प्रतिष्ठाभूतमवैमानिकानां सत्त्वानां च। तत्पुनर्द्विविधम्। उत्तानशयं पार्श्वशयं च। येन तासामरं तिर्यग्विमानः अधश्चायतनं (?)। ततस्तस्योपरि तत्कर्माधिपत्येन काञ्चनगर्भा मेघाः सम्भवन्ति। यतो वृष्टिः सञ्जायते। ताश्चापो वायुमण्डले सन्तिष्ठन्ते। ततो वायवः सम्भूयापः संमूर्छयन्ति कठिनीकुर्वन्ति। सा भवति काञ्चनमयी पृथिव्यूर्ध्वञ्चाधश्चोदकविमर्द क्षमत्वात्॥



 



तस्यां विवृत्तायां पुनस्तस्योपरि तत्कर्माधिपत्यादेव नानाधातुगर्भो मेघः सम्भवति। यतो वृष्टिः सञ्जायते। ताश्चापः काञ्चनमय्यां पृथिव्यां सन्तिष्ठन्ते। तथैव च पुनर्वायवः संमूर्छयांन्त कठिनीकुर्वन्ति। तत्र च यः शुभोऽग्रः श्रेष्ठः प्रणीतो धातुस्ततो वायुसंहार वशेन सुमेरुः सञ्जायते चतूरत्नमयः सुवर्णमयो रूप्यमयः स्फटिकमयो वैदूर्यमयः॥ 



 



यः पुनस्तत्र मध्यो धातुस्तस्मात्सप्त काञ्चनपर्वता अभिनिर्वर्तन्ते। तद्यथा युगन्धरो विनतकोऽश्वकर्णगिरिः सुदर्शनः खदिरक ईषाधरो निमिन्धरश्च। ते पुनरनुपरिपाटिकया सुमेरुं परिवार्य स्थिताः॥



 



सुमेरोः पुनः परिमाणमशीति। योजनसहस्राण्युच्छ्रायेण तथा विस्तारेण। अशीतिरेवाप्सु निमग्नः। तस्य चार्धेन प्रमाणेन युगन्धरः। तत उत्तरोत्तरार्धप्रमाणतया तदन्येषां काञ्चनपर्वतानां विनतकादीनां निमिन्धरपर्यवसानानां प्रमाणं वेदितव्यं। तेषामेव च पर्वतानां यानि कूटानि तत्प्रकारप्रभेदसाधर्म्येण तेषामपि तानि नामानि द्रष्टव्यानि॥



 



हीनात्पुनर्धातोश्चतुर्षु सुमेरुपार्श्वेषु बहिः काञ्चनपर्वतानां चत्वारो द्वीपा अन्तर्द्वीपाश्चाष्टौ चक्रवाडश्च पर्वतो निमिन्धरस्य पर्वतस्यार्धप्रमाणेन। तेन च चातुर्द्वीपिकं चक्रीकृतं। असुरभवनानि चाधस्तात् सुमेरोरुदक सन्निहितानि। हिमवांश्च पर्वतोऽनवतप्तस्य सरसः सामन्तेन। ततश्चाधस्तादष्टौ नरकस्थानानि। महानरकाणां प्रत्येकनरकाणां च। नरकाणां सामन्त नरकाणां च। एकत्यानां च तिरश्चां प्रेतानां॥



 



ते पुनश्चत्वारो द्वीपाः। तद्यथा जम्बूद्वीपो पूर्वविदेहोऽवरगोदानीय उत्तरकुरुश्च। तत्र जम्बूद्वीपः शकटाकारः। अर्धचन्द्राकारः पूर्वविदेहः। परिमण्डलो गोदानीयः। चतुरश्चश्चोत्तरकुरुः॥



 



अर्धसप्तमानि योजनसहस्राणि परिमाणेन जम्बूद्वीपः। सप्तयोजनसहस्राणि परिमाणेन पूर्वविदेहः। अर्धाष्टमानि योजनसहस्राणि परिमाणेनावरगोदानीयः। अष्टौ योजनसहस्राणि परिमाणेनोत्तरकुरुः॥



 



तेषां पुनः सप्तानां काञ्चनपर्वतानामन्तराले यदुदकं तदष्टाङ्गोपेतं। स चाभ्यन्तरः समुद्रः। तत्र नागानां भवनानि॥



 



अष्टाविमे नागाः कल्पस्था धरणिन्धराः। नन्द उपनन्दोऽश्वतरो मुचिलिन्दो मनस्वी धृतराष्ट्रो महाकाल एलपत्रश्च॥



 



ते देवासुरं संग्राममनुभवन्त्यपि प्रत्यनुभवन्त्यपि॥



 



शक्रस्य देवेन्द्रस्य बलं चत्वारि नागकुलानि। अण्डजो नागो जरायुजः संस्वेदज औपपादुकश्च। चत्वारः सुपर्णिनः। अण्डजो जरायुजः संस्वेदज औपपादुकश्च॥



 



तस्माच्चाभ्यन्तरात्समुद्राद्यद्बाह्यमुदकं स बाह्यः समुद्रः। तस्य च सुमेरोर्मूलतश्चतस्रः परिषण्डाः। प्रथमा परिषण्डा षोडशयोजनसहस्रपरिमाणा सुमेरोर्निर्गता। तस्यार्धार्धः शेषाणां परिमाणं यथाक्रमं। प्रथमायां करोटपाणयो द्वितीयायां रुधिरपाणयस्तृतीयायां सदामदाश्चतुर्थ्यां मालाधराः। उपरिमेरुतले चतुर्षु कोणेषु चत्वारः कूटाः पञ्चयोजनशतोच्छ्रायाः। तेषु वज्रपाणयो यक्षाः प्रतिवसन्ति॥



 



युगन्धरस्य च चतुर्षु पार्श्वेषु महाराजानां राजधान्यः। पूर्वपश्चिमदक्षिणोत्तरेषु यथाक्रमं धृतराष्ट्रविरूढकविरूपाक्षवैश्रवणानां। सर्वेषु काञ्चनपर्वतेषु तेषां महाराजानां ग्रामनिगमजनपदाः॥



 



हिमवतः पर्वतराज्ञः सामन्तकेन सुरपार्श्वो नाम काञ्चनमयः प्राग्भारः पञ्चाशद्योजनायामस्तावद्विस्तार एव। सुप्रतिष्ठस्य नागराजस्य सोऽधिवासः। स च शक्रस्य देवेन्द्रस्य सङ्ग्रामावचरः। तत्र च सुप्रतिष्ठितो नाम वृक्षराजः सप्ततालपंक्तिपरिवारः। मन्दाकिनी च पुष्करिणी शतपरिवारा तस्यैव सुप्रतिष्ठितस्य क्रीडाभूमिः। यत्रासौ कामरूपी भूत्वा तस्याः पुष्करिण्या बसमृणालान्यावृह्य परिभुंक्ते। स च पञ्चहस्तिनीशतपरिवारः॥



 



तस्यैव सामन्तकेनानवतप्तं महासरः पञ्चाशद्योजनगम्भीरं पञ्चाशद्योजनविस्तारं सुवर्णवालुकास्तृतमष्टाङ्गोपेतपानीयसम्पन्नमभिरूपं दर्शनीयं प्रासादिकं। यतश्चतस्रो महानद्यः  सम्भेदं गच्छन्ति। तद्यथा गङ्गा सिन्धुः सीता वक्षुश्च।



 



तस्मिंश्च सुमेरुतले देवपुरी सन्निविष्टा दशयोजनसहस्रपरिमाणा दैर्ध्येण वैपुल्येन च। अन्यत्र तेषां देवानां ग्रामनिगमजनपदाः। तस्य सुमेरोश्चत्वारि मुखानि। जम्बूद्वीपादयश्चत्वारो द्वीपाः। ते तस्य भवन्ति चत्वारः पार्श्वाः। यो जम्बूद्वीपमुखः पार्श्वः स वैदूर्यमयः। यः पूर्वविदेहमुखः स रूप्यमयः। योऽवरगोदानीयमुख स सुवर्णमयः। य उत्तरकुरुमुखः स स्फटिकमयः॥



 



जम्बूद्वीपस्य च सामन्तकेन चक्रवर्तिपथः सुवर्णमयः चतुर्महाराजकायिकसत्त्व...महासमुद्रनिमग्नस्तिष्ठति। चक्रवर्तिराजस्य प्रादुर्भावाज्जानुमात्रं महासमुद्रात्पानीयं शुष्यति॥



 



अनवतप्तस्य सरसो दक्षिणभागेन महाजम्बूर्यस्य नाम्नायं जम्बूद्वीपः। तस्योत्तरभागेन महती कूटशल्मली। यत्र चत्वारः सुपर्णिनः प्रतिवसन्ति॥



 



तेषां चतुर्णां द्वीपानामेकैकस्य द्वीपस्य द्वावन्तरद्वीपौ। एकश्चात्र राक्षसद्वीपः॥



 



एवमभिनिर्वृत्ते भाजनलोक आभास्वराद्देवनिकायात्सत्त्वाश्च्युत्वेहोत्पद्यन्ते। पूर्ववदेव प्रथमकल्पसंवेदनीयेन कर्मणा। तच्च परमग्र्यां श्रेष्ठं कामावचरं कर्म। तदैव च तस्य कर्मणः फलाभिनिर्वृत्तिर्नान्यदा। ते च सत्त्वास्तस्मिन्समये प्रथमकल्पका इत्युच्यन्ते। ते च भवन्ति रूपिणो मनोमया इत्यनुसूत्रमेव सर्व। न च तस्मिन्समये गृहागारग्रामसन्निवेशो भवति। समतला केवलं सर्वा मही भवति॥



 



ततस्तेषां सत्त्वानां भूमिरसः प्रादुर्भवति। एवं क्रमेण पर्पटकं वनलता अकृष्टोप्तशालिरकणोऽतुषः। ततः कणश्च तुषश्च तण्डुलफलं पर्यवनहति। ततः षण्डावषण्डे तिष्ठते शालिः। ततस्ते सत्त्वास्तत्परिग्रहे सन्दृश्यन्ते। ततस्तेषां सत्त्वानां रसादिपरिभोगाद्दौर्वर्ण्यं प्रादुर्भवति। प्रभावश्चान्तर्धीयते। यश्च प्रभूततरं भुङ्क्ते स दुर्वर्णतरो भवति गुरुककायतरः। ततः सत्त्वः सत्त्वमवमन्यते। तेषामकुशलानां धर्मानां समुदाचारहेतोरुत्तरोत्तररसाद्यन्तर्धानं भवति। यथासूत्रमेव विस्तरेण। ततोऽन्योन्यं चक्षुषा चक्षुरुपनिध्याय प्रेक्षन्ते। ततः संरज्यन्ते। ततः स्त्रीपुरुषसंवर्तनीयेन कर्मणैकत्यानां स्त्रीन्द्रियं प्रादुर्भवति एकत्यानां पुरुषेन्द्रियं। ततो विप्रतिपद्येते द्वयद्वयसमापत्तितः। ततो विजुगुप्स्यन्ते परैः। ततस्तन्निमित्तमगाराणि मापयन्ति। शालिपरिग्रहनैमित्तिकं च क्षेत्रपरिग्रहमपि कुर्वन्ति। ततस्तन्नैमित्तिकं अदत्तादानमाकर्षणपराकर्षणं प्रज्ञायते। ततस्तन्निमित्तं राजानं स्थापयन्ति निषेद्धारं। स च भवति महासम्मतो। एवं तस्य च क्षत्रियमण्डलस्य यथासूत्रं ब्राह्मणवैश्यशूद्रमण्डलानां लोके प्रादुर्भावो भवति।



 



तस्य च तदाश्रयसन्निविष्टस्यावभासस्यान्तर्धानादन्धकारस्य लोके प्रादुर्भावो भवति। ततः सूर्याचन्द्रमसोर्नक्षत्राणां च लोके प्रादुर्भावो भवति॥ 



 



तत्र सूर्यमण्डलस्य परिमाणमेकपञ्चाशद्योजनानि। चन्द्रमण्डस्य पुनः पञ्चाशत्। तत्र सूर्यमण्डलं तेजःस्फटिकमयं। चण्द्रमण्डलं पुनरुदकस्फटिकमयं। तयोः पुनश्चन्द्रमण्डलं शीघ्रतरगति च वेदितव्यमनियतगति च। सूर्यमण्डलं पुनर्द्वयोर्द्वीपयोर्युगपदालोकं करोति द्वयोर्युगपदन्धकारं। तत्रै कत्र मध्याह्न एकत्रोदय एकत्रार्धरात्र्येकत्रास्तङ्गमः। सर्वेषां चन्द्रसूर्यनक्षत्रगणानां सुमेरोरर्धेन गतिसञ्चारः। स पुनर्युगन्धरसमः। ते पुनर्यदा श्लिष्टाः सुमेरोर्वहन्ति तदा निदाघः प्रज्ञायते। यदा विश्लिष्टा भवन्ति तदा हेमन्तः प्रज्ञायते। तेनैव च हेतुना क्षिप्रमस्तगमनं वेदितव्यं। चन्द्रमण्डले पुनरूर्ध्वमीषद्वङ्कीभवत्यर्धचन्द्रदर्शनं। तस्य परभागोऽर्वाग्भागावृतो न दृश्यते। यथा यथा वङ्कीभवति तथा तथा सुष्ठुतरं सम्पूर्णः संदृश्यते। कृष्णपक्षे पुनर्यथायथावमूर्धीभवति तथा तथा ह्रासः संदृश्यते। महासमुद्रे मत्सकच्छपादीनां प्रतिविम्बकोत्पादान्मध्ये चन्द्रमसः श्यामता प्रज्ञायते। नक्षत्राणां पुनः परिमाणं परमष्टादश क्रोशा मध्यानां दश क्रोशाः सूक्ष्माणां चत्वारः॥



 



तस्मिंश्चतुर्वर्णप्रसव इष्टानिष्टपञ्चगतिवेदनीयकर्मसमारम्भो भवति। ततोऽन्यतमः सत्त्वः संक्लिष्टेनाधिपत्यसंवर्तनीयेन कर्मणा यमो राजोत्पद्यते। तस्यानन्तरं नरकपाला निर्मितोपमा उत्पद्यन्ते यातनाकारणानिर्वर्तका लोहादयो नारकश्चाग्निः प्रादुर्भवति। ततस्ते यथाकर्मोपगाः सत्त्वास्तत्रोत्पद्यन्ते तदन्यासु च गतिषु॥



 



एवं कृत्वा कोटिशतं चातुर्द्वीपिकानां कोटिशतं सुमेरूणां कोटिशतं षण्णां कामावचराणां देवनिकायानां कोटिशतं ब्रह्मलोकानां त्रिसाहस्रेषु युगपद्विवर्तते संवर्तते च। ते चैते भवन्ति त्रयो लोकधातवः।



 



साहस्रिकश्चूडिकस्तद्यथा सहस्रं चन्द्राणां सहस्रं सूर्याणां सहस्रं यावद्ब्रह्मलोकानामैकध्यमभिसंक्षिप्य। यत्खलु चूडिकानां सहस्रं स द्विसाहस्रो मध्यः। यत्खलु मध्यानां सहस्रं स त्रिसाहस्रो महासाहस्रो लोकधातुः॥



 



एवं पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायामूर्ध्वमधो। नास्त्यन्तो नास्ति पर्यन्तो लोकधातूनां संवर्तमानानां विवर्तमानानां च। तद्यथा वर्षाधारे देवे वर्षति नास्ति वीचिर्वान्तरिका वा वारिधाराणां प्रपतन्तीनां सर्वासु दिक्षु एवमेव सर्वासु दिक्षु। नास्त्यन्तो नास्ति च पर्यन्तो लोकधातूनां संवर्तमानानां च विवर्तमानानां च। 



 



यश्च त्रिसाहस्रो महासाहस्रो लोकधातुरेतावद् बुद्धक्षेत्रमित्युच्यते। यत्र तथागता उत्पद्य बुद्धकर्माणि कुर्वन्त्यपरिमाणेषु लोकधातुषु॥



 



एवं च पुनर्विवृत्ते लोकसन्निवेशे पञ्च गतयः प्रज्ञायन्ते नारकास्तिर्यञ्चः प्रता देवा मनुष्याश्च। चतस्रो योनयोऽण्डजा जरायुजाः संस्वेदजा औपपादुकाश्च। षडाधाराः। दशविधः कालः। ऋतुः संवत्सरो मासोऽर्धमासो दिवसो रात्रिः क्षणस्तत्क्षणो लवो मुहूर्तश्च। सप्त परिग्रहवस्तूनि। दश कायपरिष्काराः। दश कामोपभोगाः। ते पुनर्यथा मध्यमे। अष्टावभीक्ष्णानु विचरितानि। अष्टौ लोक धर्माः। लाभोऽलाभो यशोऽयशो सुखं दुःखं निन्दा प्रशंसा च। त्रयः पक्षाः। मित्रपक्षोऽमित्रपक्ष उदासीनपक्षश्च। त्रिविधा लोक यात्रा। त्रिविधा कथा। द्वाविंशतिविधः संरम्भः। चतुःषष्ठिः सत्त्वनिकायाः। अष्टाववस्थाः। चतस्रो गर्भावक्रान्तयः। चत्त्वार ईर्यापथाः। पड्विधा जीविकाः। षड्विधा आरक्षा सप्तविधं दुःखम्। सप्तविधो मानः। सप्तविधो मदः। चत्वारो व्यवहाराः। संबहुलानि च व्यवहारपदानि॥



 



नरकगतिः कतमा। बीजफलसंगृहीता नारकाः स्कन्धा यच्च कर्म नरकवेदनीयं। यथा नरकगतिस्तिर्यग्गतिः प्रेतगतिर्देवगतिर्मनुष्यगतिश्च यथायोगं द्रष्टव्याः।



 



अण्डजा योनिः कतमा। ये सत्ता अण्डकोशमभिप्रदाल्य निर्गच्छन्ति। ते पुनः कतमे। तद्यथा। हंसक्रौञ्चमयूरशुकशारिकाप्रभृतयः॥



 



जरायुजा योनिः कतमा। ये सत्त्वा जरायुपरिवेष्टिता जरायुं भित्त्वा निर्गच्छन्ति। ते पुनः कतमे। हस्त्यश्वगोगर्दभप्रभृतयः॥



 



संस्वेदजा योनिः कतमा। ये सत्त्वा अन्यतमान्यतमं स्वेदमागम्योत्पद्यन्ते। ते पुनः कतमे। कृमिकीटपतङ्गतिलमारकादयः॥



 



औपपादुका योनिः कतमा। ये सत्त्वाः कर्माधिपत्यात्परिपूर्णषडायतना जायन्तेऽन्यतरषडायतना वा। ते पुनः कतमे। तद्यथा। नारका देवा एकत्याश्च तिर्यक्प्रेतमनुष्याः॥



 



षडाधाराः कतमे। प्रतिष्ठाधाराः। तद्यथाधस्ताद्वायुमण्डलं जल मण्डलं पृथिवीमण्डलं च। अधस्तात्सत्त्वानामपतनस्यैष योनिस्तस्मादाधार इत्युच्यते। निलयाधारो द्वितीयः। स पुनर्गृहमण्डपादिः। परिस्रवेभ्योऽनुपघातस्यैष योनिः। तस्मादाधार इत्युच्यते। ते पुनर्गृहमण्डपादयोऽभिसंस्कारिका अनभिसंस्कारिका वैमानिका नैर्माणिकाश्च समासतः। सुभिक्षाधारस्तृतीयः। कवडङ्कारस्याहारस्यैष योनिस्तस्यदाधार इत्युच्यते। क्षेमाधारश्चतुर्थः। सत्त्वानां शस्त्रादिभिरविलयगमनायैष योनिस्तस्मादाधार इत्युच्यते। सूर्याचन्द्रमसौ पञ्चम आधारः। रूपाणां दर्शनायैष योनिस्तस्मादाधार इत्युच्यते। आहाराधारः षष्ठः। ते पुनश्चत्वार आहाराः। कवडङ्कार आहारः स्पर्शो मनःसञ्चेतना विज्ञानं च। कायस्य स्थितय उपस्तम्भायैष योनिस्तस्मादाधार इत्युच्यते।



 



सप्त परिग्रहवस्तूनि। कतमानि। आत्मा मातापितरौ पुत्रदारं दासीदासं कर्मकर पौरुषेयं मित्रामात्यज्ञातिसालोहितं क्षेत्रवस्तु गृहवस्तु आपणवस्तु पुण्यक्रियावस्तु कर्मान्तप्रयोगवस्तूनि कोशसन्निधिश्च सप्तमं वस्तु॥



 



दश च परिष्काराः। कतमे। भोजनं पानं यानं वस्त्रमलङ्कारो हास्यगीतनृत्यवादितं गन्धमाल्यविलेपनं भाण्डोपस्कर आलोकः स्त्रीपुरुषपरिचर्या च॥



 



अष्टावभीक्ष्णानुविचरितानि। कतमानि। यानि लोकेऽभीक्ष्णमनुविचरन्ति। तद्यथा कौपीनप्रच्छादनं कायपरिचर्येर्यापथान्तरकल्प आहारः स्वप्नो मैथुनं तत्प्रतिसंयुक्तो व्यायामस्तत्प्रतिसंयुक्ता च कथा॥



 



त्रिविधा लोकयात्रा कतमा। तद्यथा आलपनसंलपनप्रतिसंमोदना आवाहविवाहामन्त्रणनिमन्त्रणाभक्षणसंभक्षणानि। उत्पन्नोत्पन्नेषु चाधिकरणेष्वन्योन्यसहायक्रिया॥



 



त्रिविधा कथा कतमा। धर्म्याऽधर्म्या तदन्या च। धर्म्या कथा कतमा। येयं कथार्याभिसंलेखिकी चेतोविनिवरणापाकरणी। विस्तरेण यथासूत्रमेव। अधर्म्या कतमा। या क्लिष्टचेतसः पिण्डपातादिकथा। अव्याकृतचेतसः पुनस्तदन्या कथा॥



 



द्वाविंशतिविधः संरम्भः। कतमः। तद्यथा कंसकूटतुलाकूटमानकूटमिथ्याकर्मान्तप्रयोगो कलहो भण्डनं विग्रहो विवाद आक्रोशनं रोषणं परिभाषणं तर्जनं ताडनं वधो बन्धनं रोधमं छेदनं प्रवासनं शाठ्यं वञ्चनं निकृतिर्मृषावादश्च॥



 



चतुःषष्ठिः सत्त्वनिकायाः। कतमे। तद्यथा नारकास्तिर्यञ्चः प्रेता देवा मनुष्या क्षत्रिया ब्राह्मणाः वैश्याः शूद्राः स्त्रियः पुरुषाः पण्डका हीना मध्याः प्रणीता गृहिणः प्रव्रजिताः कष्टतपसोऽकष्टतपसः सांवरिका असांवरिका नैवसांवरिकानासांवरिका वीतरागा अवीतरागा मिथ्यात्वराशिनियताः सम्यक्त्वराशिनियता अनियतराशिनियता भिक्षवो भिक्षुण्यः शिक्षमाणाः श्रामणेराः श्रामणेर्य उपासकाः उपासिका प्रहाणिकाः स्वाध्यायकारका वैयावृत्यकराः स्थविरा मध्या नवका आचार्या उपाध्यायाः सार्धविहारिणोऽन्तेवासिका आगन्तुकाः सङ्घव्यवहारका लाभकामाः सत्कारकामाः संलिखिता बहुश्रुता ज्ञातमहापुण्या धर्मानुधर्मप्रतिपन्नाः सूत्रधरा विनयधरा मातृकाधराः पृथग्जनाः दृष्टसत्याः शैक्षा अशैक्षाः श्रावकाः प्रत्येकबुद्धा बोधिसत्त्वास्तथागताश्चक्रवर्तिनश्च॥



 



ते पुनश्चक्रवर्तिन एकद्वीपिका द्विद्वीपिकास्त्रिद्वीपिकाश्चतुर्द्वीपिकाश्च। तत्रैकद्वीपिकस्यायसं चक्रं प्रादुर्भवति। द्विद्वीपिकस्य ताम्रमयं त्रिद्वीपिकस्य रूप्यमयं चतुर्द्वीपिकस्य सुवर्णमयं॥



 



अष्टाववस्थाः। कतमाः। तद्यथा गर्भावस्था जातावस्था दह्रावस्था कुमारकावस्था युवावस्था मध्यावस्था वृद्धावस्था जीर्णावस्था च। तत्र गर्भावस्था कललादयः। जातावस्था पुनस्तत ऊर्ध्व। जीर्णावस्थायां दह्रावस्थायां च न परिसर्पणक्रीडनसमर्थो भवति। कुमारावस्थातत्समर्थस्य। युवावस्था कामोपभोगसमर्थस्यात्रिंशत्कस्य। मध्यावस्था पञ्चाशत्कस्य। वृद्धावस्था सप्ततिवर्षस्य। तत ऊर्ध्वं जीर्णावस्था॥



 



चतस्रो गर्भावक्रान्तयः। कतमाः। तद्यथा। सम्प्रजानन्प्रविशत्यसम्प्रजानंस्तिष्ठति निष्क्रामति। सम्प्रजानन्प्रविशति तिष्ठत्यसम्प्रजानन्निष्क्रामति।सम्प्रजानन्प्रविशति तिष्ठति निष्क्रामति। असम्प्रजानन्प्रविशति तिष्ठति निष्क्रामति। तत्र प्रथमा चक्रवर्तिनः। द्वितीया प्रत्येकबुद्धस्य। तृतीया बोधिसत्त्वस्य। चतुर्थी तदन्येषां सत्त्वानां॥



 



षड्विधा जीविका कतमा। तद्यथा कृषिर्वणिज्या गोरक्ष्यं राजपौरुष्यं लिपिगणनाभ्यसनसंख्यामुद्राः। तदन्यानि शिल्पस्थानानि॥



 



षड्विधा रक्षा कतमा। तद्यथा हस्तिकायोऽश्वकायो रथकायः पत्तिकायः सन्निधिबलं मित्रबलं च॥



 



सप्तविधं दुःखं। कतमत्। जातिर्जरा व्याधिर्मरणमप्रियसंयोगः प्रियविनाभाव इच्छाविधातश्च॥



 



सप्तविधो मानः। कतमः। मानोऽतिमानो मानातिमानोऽस्मिमानोऽभिमान ऊनमानो मिथ्यामानश्च॥



 



सप्तविधो मदः कतमः। आरोग्यमदो यौवनमदो जीवितमदः कुलमदो रूपमद ऐश्वर्यमदः श्रुतमदश्च॥



 



चत्वारो व्यवहाराः कतमे। दृष्टो व्यवहारः श्रुतो मतो विज्ञातो व्यवहारः। दृष्टो व्यवहारः कतमः। यदनेन बहिर्धा प्रत्यक्षीकृतं भवति चक्षुषा तदुपादाय यत्परेषां व्यवहरत्ययमुच्यते दृष्टो व्यवहारः। श्रुतो व्यवहारः कतमः। यत्परतः श्रुतं भवति तदुपादाय यत्परेषां व्यवहरति। मतो व्यवहारः कतमः। यदनेन न दृष्टं भवति न श्रुतमपि तु स्वयमेव चिन्तितं तुलितमुपपरीक्षितं तदुपादाय यत्परेषां व्यवहरति॥ विज्ञातो व्यवहारः कतमः। यदनेनाध्यात्मं प्रतिवेदितं भवत्यधिगतं स्पर्शितं साक्षात्कृतं च भवति तदुपादाय यत्परेषां व्यवहरत्ययमुच्यते विज्ञातो व्यवहारः॥



 



संबहुलानि व्यवहारपदानि कतमानि। तान्येव निरुक्तिपदान्यप्युच्यन्ते। प्रपञ्चपदान्यर्थसंग्रहपदानि चेति पर्यायाः। मातृकेवाक्षराणामेतानि सर्वार्थसंग्रहाय वेदितव्यानि। तानि पुनस्तद्यथा भूमीन्द्रियविषयधर्म पुद्गलस्वभावविशेषाः क्रियात्मपरभावाभावपृच्छाविसर्जनदानादानसम्यक्त्वमिथ्यात्वानि अनुज्ञाप्रतिषेधगुणदोषलाभालाभयशोऽयशःसुखदुःखनिन्दाप्रशंसासारवरज्ञानप्रमादालस्य मात्रासहायसन्दर्शनसमादापनसमुत्तेजनसंप्रहर्षणानि॥



 



सप्त व्यपदेशपदानि। तानि पुनः सप्त विभक्तयः। पुरुषः पुरुषं पुरुषेणेत्यादयः। प्रज्ञप्त्यप्रज्ञप्तिसंज्ञप्तिनिध्यप्तिविज्ञप्तिस्थितिव्यवस्थाचयसञ्चयनिश्चयविनियोगविस्मयादिमध्यपर्यवसानानि कुशलसंज्ञाप्रतिज्ञा व्यवहारानुष्ठानपरिभोगपर्येषणरक्षणलज्जानुकम्पाक्षान्तिभयप्रतिसंख्यानानि। मातापितृपुत्रदारादयः सर्वपरिग्रहपरिष्कारा वक्तव्याः। जातिर्जरा यावदिच्छाविघातः शोकः परिदेवो यौवनमारोग्यं जीवितं प्रियसम्प्रयोगोऽप्रियविनाभाव इच्छासम्पत्तिर्विपत्तिरभिक्रमः प्रतिक्रम आलोकितव्यवलोकित समिञ्जितप्रसारितगतस्थितनिषण्णशयितजागृतभाषिततुष्णीम्भावनिद्राक्लम प्रतिविनोदनानि। अशितपीतखादितास्वादिताभ्यासानभ्यासप्रमादाप्रमादाः। समासव्यासहानिवृद्धिवितर्कविचार क्लेशोपक्लेशप्रपञ्चनिष्प्रपञ्चा अबलदुर्बलसाध्यसाधनप्रवृत्तिनियमयोगजवक्रमकालदेशसंख्यासामग्र्यसामग्रीसादृश्यासादृश्यानि। संसृष्टसाधारणप्रत्यक्षपरोक्षच्छन्नप्रकाशाः। कार्यकारणविनयलोकयात्रोपकरणसत्यमृषाहिताहित ....आशङ्काकौतुकानि। शारद्यवैशारद्यव्यक्ताव्यक्तबधवन्धनावरोधनच्छेदनप्रवासनानि। आक्रोशनरोषणताडनतर्जनपरिभाषणदहनक्लेदनशोषणपवनमर्दनकालुप्याप्तागमानुमानानि॥



 



तदेत्पञ्चाकारं वस्तु स्वभावादिकं कर्मपर्यवसानं त्रिभिः स्थानैः संगृहीतं वेदितव्यं। रूपसमुदायेन चित्तचैतसिककलापेनासंस्कृतेन च। तदन्यान्प्रज्ञप्तिमनो धर्मान्स्थापयित्वा। तत्र रूपसमुदाये तावत्सर्वधर्माः स्वबीजेभ्य उत्पद्यन्ते। तत्कथं। महाभूतान्युपादाय रूपं जायत इत्युच्यते। कथं च तेषु निश्रितमुपादायरूपं भवति। तेषु प्रतिष्ठितं तैरुपस्तब्धं तैश्चानुबृंहितमिति। तथा हि। सर्वेषामाध्यात्मिकबाह्यानां भूतानामुपादायरूपाणां चाध्यात्मं चित्तसन्ततौ बीजानि सन्निविष्टानि। तत्र तावदुपादायरूपबीजमुपादाय रूपं जनयति यावद्भूतबीजेन भूतान्यजनितानि भवन्ति। भूतेषु पुनर्जातेषु तदुपादायरूपं स्वबीजादेवोत्पद्यमानं तदुपादाय जातमित्युच्यते तज्जातिपूर्वङ्गमत्वात्। एवं भूतान्यस्य जनकानि भवन्ति।



 



कथं तन्निश्रितमुपादायरूपं भवति। तथा हि। उत्पन्नमुपादायरूपं भूतदेशाविनिर्भागेण प्रवर्तते। कथं तत्प्रतिष्ठितं भवति। महाभूतानु ग्रहोपघातैकयोगक्षेमत्वात्। कथं तदुपस्तब्धं भवति। तन्मात्राविप्रणाशतया। कथमनुबृंहितं भवति। आहारमागग्य स्वप्नं वा ब्रह्मचर्यवासं वा समाधिं वा तदाश्रितं भूयोभाववृद्धिवैपुल्यतां गच्छति। तत्तदनुबृंहितमित्युच्यते। इदं चोपादायरूपे महाभूतानां पञ्चाकारं कारित्रं वेदितव्यं॥



 



न च रूपसमुदाये कदाचित्परमाणुरुत्पद्यते। उत्पद्यमानस्तु स्वबीजात् समुदाय एवोत्पद्यतेऽणुर्वा मध्यो वा महान्वा। न च पुनः परमाणुभिः समुदायश्चीयते। बुद्ध्या तु परिमाणपर्यन्तपरिच्छेदतः परमाणुः प्रज्ञप्यते। तत्र समुदायोऽपि सप्रदेशः। परमाणुरपि सप्रदेशः। समुदायस्तु सावयवो न परमाणुः। तत्कस्य हेतोः। परमाणुरेव ह्यवयवः। स च समुदायस्यैवास्ति न परमाणोः। पुनरन्ये परमाणवः। तस्मान्न सावयवः परमाणुः॥



 



द्विविधश्चाविनिर्भागः। एकदेशाविनिर्भागः। तद्यथा भूतपरमाणो रूपशब्दगन्धरस स्प्रष्टव्यानामनिन्द्रिय इन्द्रियवर्ज्यानां सेन्द्रिये सेन्द्रियाणामेकदेशाविनिर्भागः। मिश्रीभावाविनिर्भागः पुनरेकदेशत्वात्। तद्यथा। तस्मादेव भूतपरमाणोस्तदन्यस्य समुदायस्य भूतभौतिकस्य। तस्य पुनः कृत्स्नस्य रूपसमुदायस्य विविधद्रव्यशिलानिष्पिष्टाप्समायुक्तवन्मिश्रीभावा विनिर्भागो द्रष्टव्यो नो तु तिलमुद्गमाषकुलत्थराशिवत्। सर्वं चोपादायरूपं महाभूतदेशाश्रितमेव न महाभूतदेशमतिरिच्य वर्तते॥



 



यावन्महाभूतेन देशोऽवष्टब्धस्तावानुपादायरूपेण। अतोऽपि महाभूताश्रितमुपादायरूपमित्युच्यते। अत एव च महाभूतानां महाभूतमिति संज्ञा। महत्वेन भूतत्वान्महाभूतं॥



 



तान्येतानि रूपसमुदाये समासतश्चतुर्दश द्रव्याणि भवन्ति। तद्यथा पृथिव्यापस्तेजो वातो रूपशब्दगन्धरसस्प्रष्टव्यानि चक्षुरादीनि च रूपाणि पञ्चेन्द्रियाणि स्थापयित्वा मनोगोचरमेव रूपं। तत्र रूपसमुदायो रूपीन्द्रियसंगृहीतः सर्वो यथानिर्दिष्टद्रव्यधातुकः। यथा रूपीन्द्रियसंगृहीत एवं रूपीन्द्रियाश्रयमहाभूतसंगृहीतः। तदन्यस्तु समुदायो रूपीन्द्रियाणि स्थापयित्वा तदन्यधातुकः॥



 



तत्र लक्षणसंग्रहेण चतुर्दशैतानि द्रव्याणि भवन्ति। लक्षणसंग्रहमेव चोपादाय द्रव्यपरमाणुप्रज्ञप्तिः। धातुसंग्रहेण पुनर्यः समुदायो यावद्धातुकः स तावद्भिर्द्रव्यैः संगृहीतो वक्तव्यः॥ अविनिर्भागसंग्रहः पुनर्यावन्तो धर्मा लक्षणतो यस्मिन् समुदाय उपलभ्यन्ते तावद्भिर्द्रव्यैस्तस्य समुदायस्य संग्रहो वेदितव्य आध्यात्मिके वा बाह्ये वा समुदाये। तथा हि। क्वचित्समुदाय एकमेव भूतमुपलभ्यते। तद्यथा पाषाण मुक्तावैदूर्यशङ्खप्रवाडादिषु उत्ससरस्तडागनदीप्रस्रवणादिषु अर्चिःप्रदीपोल्कादिषु पूर्वदक्षिणपश्चिमोत्तरवायुमण्डलसरजस्कारजस्कवाय्वादिषु च। क्वचिद्द्वयमुपलभ्यते। तद्यथा हिमार्द्रवृक्षपर्णपुष्पफलादिषु तप्तेषु वा पुनर्मण्यादिषु। क्वचित्त्रयमुपलभ्यते। तद्यथा। तप्तेषु तेष्वेव वृक्षादिषु समीरितेषु वा पुनः। क्वचिच्चतुष्टय मुपलभ्यते। तद्यथा। आध्यात्मिकेषु रूपसमुदायेषु। यथोक्तं भगवता यदध्यात्मं प्रत्यात्मं केशादयः पुरीषपर्यवसानाः अयमाध्यात्मिकः पृथवीधातुः। प्रस्रावादिरब्धातुः। येनायं कल्प आतप्यते सन्तप्यते यस्य चोत्सदत्वाज्ज्वरित इति संख्यां गच्छति स तेजोधातुः। ऊर्ध्वगमादयो वा यतो वायुधातुरिति॥



 



एवं यद्यत्रोपलभ्यते तत्तल्लक्षणेन विद्यते। यन्नोपलभ्यते तन्नास्ति। शब्दः सर्वस्मिन्‍रूपसमुदाये धातुतः। लक्षणतः पुन क्वचित्प्रत्युत्पन्नप्रयोगो जनितत्वात्। वायुरपि द्विविधः स्थावरसन्ततिरस्थावरसन्ततिश्च। तत्र स्थावरसन्ततिर्यस्तेषु तेषु समुदायेषु यन्त्रवाही। अस्थावरसन्ततिः पुनर्मण्डलचरोऽन्तरिक्षचरश्च॥ तत्रान्धकाररूपमालोकरूपं चाकाशधातुरित्युव्यते। तत्पुनरन्धकाररूपं स्थावरं लोकान्तरिकासु। अस्थावरमन्यत्र। एवमालोकरूपं स्थावरं स्वयम्प्रमेषु देवेषु। अस्थावरमन्यत्र। स चालोकोऽन्धकारश्च वर्णाधिकसमुदायो द्रष्टव्यः। चित्त सन्निविष्टस्य च रूपसमुदायबीजस्य सामर्थ्यादुभयमप्रत्ययसान्निध्ये कदाचिदणुकस्य समुदायस्यानन्तरं महतः समुदायस्य प्रादुर्भावो भवति। कदाचित्पुनर्महतोऽनन्तरमणुकस्य। येन ह्रासवृद्धी समुदायानां प्रज्ञायेते॥



 



खक्खटत्वं कतमत्। पृथिवी। खरगतं कतमत्। यत्तद्बीजं। पुनः खक्खटं स एव धातुः। खरगतं केशादि लोष्टादि वा। उपगतं कतमत्। यदुपात्तमाध्यात्मिकं॥ अनुपागतं कतमत्। यदनुपात्तबाह्यं॥ पुनश्चित्तचैतसैर्बीजमुपगतं लक्षणमुपात्तं। एतद्विपर्ययादनुपगतमनुपात्तं। पुनरुपगतमुपात्तमात्मन उपगमनात्। उपात्तं पूर्ववत्। एवमब्धात्वादयो यथायोगं द्रष्टव्याः॥



 



तत्र सर्वस्मिन् रूपसमुदाये सर्वेषां महाभूतानां धातुर्विद्यते सर्वकालं। तद्यथा दृश्यते शुष्कात्काष्ठादभिमथ्यमानादग्निर्जायते। तथा पाषाण...अग्निर्जायते तथा लोह रूप्यसुवर्णादीनां प्रगाढाग्निसम्प्रतप्तानां द्रवतोत्पद्यते। तथा चन्द्रकान्तादपामेवमृद्धिमतश्चित्ताधिमोक्षवशाच्च पृथिव्यादीनां सुवर्णादीनां च प्रादुर्भावो भवति॥



 



तस्य खलु  पुनः रूपसमुदायस्य। त्रिभिः स्रोतोभिः प्रवृत्तिर्भवत्यौपचयिकेन नैष्यन्दिकेन विपाकजेन च। तत्रौपचयिकं द्विविधं देशव्याप्तौपचयिकं लक्षण पुष्टौपचयिकं च। नैष्यन्दिकं चतुर्विधं। उपचयनैष्यन्दिकं विपाकनैष्यन्दिकं विकारनैष्यन्दिकं प्रकृतिनैष्यन्दिकं च। विपाकजं द्विविधं विपाकत्वेन च जातं विपाकजं। विपाकाच्च जातं विपाकजं॥



 



स च रूपसमुदायोऽभिसमस्य षट् स्थानानि निश्रित्य प्रवर्तते। प्रतिष्ठास्थानं निलयस्थानमुपकरणस्थानमिन्द्रियाधिष्ठानस्थानमिन्द्रियस्थानं समाधिगोचरस्थानं॥



 



तत्र चित्तचैतसकलापे चितं चोपलभ्यते चैतसाश्च त्रिपञ्चाशदुपलभ्यन्ते। तद्यथा मनस्कारादयो वितर्कविचारपर्यवसाना यथानिर्दिष्टाः।



 



एषां चैतसानां धर्माणां कति सर्वत्र चित्त उत्पद्यन्ते सर्वभूमिके सर्वदा सर्वे च। आह। पञ्च मनस्काराद्याश्चेतनापर्यवसानाः। कति सर्वत्रोत्पद्यन्ते सर्वभूमिके न च सर्वदा न सर्वे। पञ्चैव श्रद्धादयः प्रज्ञावसानाः। कति कुशल एव न सर्वत्र। अपि तु सर्वभूमिके न सर्वदा न सर्वे॥ श्रद्धादयोऽहिंसापर्यवसानाः। कति क्लिष्ट एव न सर्वत्र न सर्वभूमिके न सर्वदा न सर्वे। रागादयः संप्रजन्यपर्यवसानाः॥ कति सर्वत्र नो तु सर्वेभूमिके न सर्वदा न सर्वे। कौकृत्यादयो विचारपर्यवसानाः॥



 



तत्रेन्द्रियमपरिभिन्नं भवति। विषय आभासगतो भवति। ततस्तज्जे मनस्कारे प्रत्युपस्थिते विज्ञानस्योत्पादो भवति॥ कथमिन्द्रियमपरिभिन्नं भवति॥ द्वाभ्यां कारणाभ्यां। अविनाशतोऽमन्दीभावतश्च॥



 



कथं विषय आभासगतो भवति। तद्यथा। अधिष्ठानतो वा स्वभावतो वा देशतो वा कालतो वा व्यक्ताव्यक्ततो वा सकलवस्त्वेकदेशतो वा। स चेच्चतुर्भिरावरणैरनावृतो भवति। न च विप्रकृष्टः। अवच्छादनीयेनावरणेन अन्तर्धापनीयेन अभिभवनीयेन संमोहनीयेन च द्वाभ्यां विप्रकर्षाभ्यां देशविप्रकर्षतोऽपचयविप्रकर्षतश्च॥



 



कथं तज्जस्य मनस्कारस्य प्रार्दुभावो भवति। चतुर्भिः कारणैः॥ छन्दबलेन स्मृतिबलेन विषयबलेनाभ्यासबलेन च॥ कथं छन्दबलेन। यत्रानुनयो भवति चेतसस्तत्राभोगो बहुतरमुत्पद्यते। कथं स्मृतिबलेन। यत्र ...तरं निमित्तं भवति। सुष्ठुतरं च चित्रीकृतं भवति। तत्राभोगो बहुतर उत्पद्यते॥ कथं विषयबलेन। यत्र विषय औदारिकतरो वा मनापतरो वा प्रत्युपस्थितो भवति तत्राभोगो बहुतर उत्पद्यते॥ कथमभ्यासबलेन। यत्संस्तुततरं भवति परिचिततरं तत्राभोगो बहुतर उत्पद्यते। अन्यथा त्वेकस्मिन्नालम्बन एकप्रकारस्यैव मनस्कारस्य नित्यकालमुत्पत्तिः स्यात्। न चास्ति पञ्चानां विज्ञानकायानां सह द्वयोः क्षणयोरुत्पत्तिः नाप्यन्योन्यसमनन्तरमन्योन्योत्पत्तिः। एकक्षणोत्पन्नानां पञ्चानां कायविज्ञानानामनन्तरं मनोविज्ञानमवश्यमुत्पद्यते। तदनन्तरं कदाचिद्विक्षिप्यते। ततः श्रोत्र विज्ञानं वान्यतमान्यतमद्वा पञ्चानां विज्ञानकायानां। स चेन्न विक्षिप्यते। ततो मनोविज्ञानमेव निश्चितं नाम। ताभ्यां च निश्चितपर्येषकाभ्यां मनोविज्ञानाभ्यां स विषयो विकल्प्यते॥



 



तत्र द्वाभ्यां कारणाभ्यां क्लिष्टस्य वा कुशलस्य वा धर्मस्योत्पत्तिर्भवति। विकल्पतः पूर्वावेधतश्च। तत्र मनोविज्ञाने द्वाभ्यां कारणाभ्यां। पञ्चसु पुनर्विज्ञानकायेषु पूर्वावेधत एव। क्लिष्टकुशलमनोविज्ञानावेधात्समनन्तरे चक्षुरादिविज्ञाने क्लिष्टकुशलधर्मोत्पत्तिर्न तु विकल्पात्। तेषामविकल्पात्। अत एव चक्षुरादीनि विज्ञानानि मनोविज्ञानस्यानुवर्तकानीत्युच्यते॥



 



यदुच्यते एकचित्तं तदुत्तराणि विज्ञानानि चेति। कथमेकस्य चित्तस्य व्यवस्थानं भवति। व्यावहारिकेण चित्तक्षणेन नो तु प्रवृत्तिक्षणेन। व्यवहारिकमेकचित्तं कतमत्। एकेन पदसन्निश्रयेणैकस्मिन् वस्तुनि यावता कालेन विज्ञप्तिरुपद्यते तावदेकचित्तं। यच्चापि तत्समानप्रवाहं तदप्येकमेवोच्यते। विसदृशं तु तस्माद्द्वितीयमिति॥



 



तत्र मनोविज्ञानेऽनाभोगविक्षिप्तेऽसंस्तुतालम्बने नास्ति छन्दादीनां प्रवृत्तिः। तच्च मनोविज्ञानमौपनिपातिकं वक्तव्यमतीतालम्बनमेव। पञ्चानां विज्ञानकायानां समनन्तरोत्पन्नं मनःपर्येषकं निश्चितं वा वर्तमानविषयमेव वक्तव्यं। तच्चेत्तद्विषयालम्बनमेव तद्भवति॥



 



तत्र सकलं वस्तुलक्षणं विज्ञानेन विज्ञापयति। तदेवाविज्ञप्तं विज्ञेयलक्षणमित्युच्यते। यन्मनस्कारेण विज्ञापयति। तत्रैव शुभाशुभोभयविपरीतलक्षणं यत् तत् स्पर्शेन प्रतिपद्यते। तत्रैवानुग्रहोपघातोभयविपरीतलक्षणं यत् तद् वेदनया प्रतिपद्यते। तत्रैव व्यवहारनिमित्तलक्षणं यत्संज्ञया प्रतिपद्यते। तत्रैव सम्यङ्मिथ्योभय विपरीतप्रतिपत्तिलक्षणं यत् तच्चेतनया प्रतिपद्यते। तस्मादेते मनस्कारादयश्चेतनापर्यवसानाश्चैतसाः सर्वत्र सर्वभूमिके सर्वदा सर्वे चोत्पद्यन्ते॥



 



मनस्कारः कतमः। चेतस आभोगः॥ स्पर्शः कतमः।त्रिकसन्निपातः। वेदना कतमा। अनुभवना। संज्ञा कतमा। सञ्जानना॥ चेतना कतमा। चित्ताभिसंस्कारः। छन्दः कतमः। यदीप्सिते वस्तुनि तत्र तत्र तदनुगा कर्तुकामता॥ अधिमोक्षः कतमः। यन्निश्चिते वस्तुनि तत्र तत्र तदनुगावधारणशक्तिः॥ स्मृतिः कतमा। यत्संस्तुते वस्तुनि तत्र तत्र तदनुगाभिलपना॥ समाधिः कतमः। यत्परीक्ष्ये वस्तुनि तत्र तत्र तदनुगमुपनिध्यानसंनिश्रितं चित्तैकाग्र्यं॥ प्रज्ञा कतमा। यत्परीक्ष्य एव वस्तुनि तत्र तत्र तदनुगो धर्माणा प्रविचयो योगविहिततो वायोगविहिततो वा नैव योगविहिततो नायोगविहिततः॥



 



तत्र मनस्कारः किंकर्मकः। चित्ता वर्जन कर्मकः। स्पर्शः किंकर्मकः। वेदनासंज्ञाचेतनानां संनिश्रयदानकर्मकः॥ वेदना किंकर्मिका। तृष्णोत्पादोपेक्षाकर्मिका। संज्ञा किंकर्मिका। आलम्बने चित्त चित्रीकार व्यवहारकर्मिका॥ चेतना किंकर्मिका। वितर्ककायवाक्कर्मादिसमुत्थानकर्मिका। छन्दः किंकर्मकः। वीर्यारम्भसंजननकर्मकः॥ अधिमोक्षः किंकर्मकः। गुणतो दोषतो नोभयतो वालम्बनधृतिकर्मकः॥ स्मृतिः किंकर्मिका। चिरचिन्तितकृतभाषितस्मरणानुस्मरणकर्मिका॥ समाधिः किंकर्मकः। ज्ञानसंनिश्रयदानकर्मकः॥ प्रज्ञा किंकर्मिका॥ प्रपञ्चप्रचारसंक्लेशव्यवदानानुकूलसन्तीरणकर्मिका॥



 



तत्र कथं त्रयाणामध्वनां व्यवस्थानं भवति। बीजानां तावद्धर्माव्यतिरेकत्वात्तद्धर्मव्यवस्थानवत्तद्व्यवस्थानं दत्तादत्तफलतया। फलानां पुनर्यन्निरूद्धलक्षणं तदतीतं। सति हेतावनुत्पन्नलक्षणमनागतं। उत्पन्नानिरुद्धलक्षणं प्रत्युत्पन्नं॥



 



कथं जात्या जरायाः स्थितेरनित्यतायाश्च व्यवस्थानं भवति। सर्वत्र विज्ञानसन्ताने सर्वो बीजसन्तानः सहचरो व्यवस्थाप्यते सति प्रत्यये। प्रत्ययवशात्तत्प्रथमतः सन्तत्यानुत्पन्नपूर्वो यो धर्म उत्पद्यते सा जातिः संस्कृतलक्षणमित्युच्यते॥ तस्यैवान्यथात्वं जरा। तत्पुनर्द्विविधमन्यत्वान्यथात्वमन्यथाभावान्यथात्वं च। तत्र सदृशोत्पत्तौ सत्यामन्यत्वान्यथात्वं। विसदृशोत्पत्तौ सत्यामन्यथाभावान्यथात्वं॥ जातमात्रस्य जातिमात्रक्षणानुवृत्तिः स्थितिः। जातिक्षणोर्ध्व क्षणानवस्थानमनित्यता॥ तान्येतानि तस्यैव धर्मस्यावस्थाभेदेन चत्वारि लक्षणानि भवन्ति॥



 



चत्वारः प्रत्ययाः। हेतुप्रत्ययः समनन्तरप्रत्यय आलम्बनप्रत्ययोऽधिपतिप्रत्ययः। तत्र बीजं हेतुप्रत्ययः। समनन्तरप्रत्ययो यस्य विज्ञानस्यानन्तरं येषां विज्ञानानामुत्पत्तिनियमः स तेषां समनन्तरप्रत्ययः। आलम्बनप्रत्ययो येषां चित्तचैतसिकानां धर्माणां यदालम्बनं। अधिपतिप्रत्ययो यो बीजनिर्मुक्त आश्रयः। तद्यथा। चक्षुर्विज्ञानस्य चक्षुर्ये च तत्सहायधर्माः। एवमवशिष्टानां विज्ञानानां। या च कुशलाकुशलतेष्टानिष्टफलपरिग्रहाय। एवम्भागीया अधिपतिप्रत्ययाः॥



 



तत्र बीजाद्धेतुप्रत्ययव्यवस्थानं। स्वभावात्समनन्तरप्रत्ययस्य आलम्बनात्तस्यैव। आश्रयसहायादिभ्योऽधिपतिप्रत्ययस्य॥ यदुक्तं ये हेतवो ये प्रत्यया विज्ञानस्योत्पादायेति। तत्रैषामेव चतुर्णामेको हेतुप्रत्ययः। हेतुश्च प्रत्ययश्च। अवशिष्टाः प्रत्यया एव॥ 



 



यदुक्तं कुशलमकुशलमव्याकृतमिति तेषां कः प्रभेदः। एकविधं कुशल मनवद्यार्थेन। द्विविधमुपपत्तिप्रातिलम्भिकं प्रायोगिकं च। त्रिविधं स्वभावतः संप्रयोगतः समुत्थानतश्च। चतुर्विधं पुण्यभागीयं मोक्षभागीयं निर्वेधभागीय मनास्रवं च। पञ्चविधं दानमयं शीलमयं भावनामयमिष्टफलं विसंयोगफलं च। षड्विधं कुशलं रूपं वेदना संज्ञा संस्कारो विज्ञानं प्रतिसंख्यानिरोधश्च। सप्तविधं स्मृत्युपस्थानसंगृहीतं सम्यक्प्रहाणऋद्धिपादेन्द्रियबलबोध्यङ्गमार्गाङ्गसंगृहीतं।



 



अष्टविधमभिवादनवन्दनप्रत्युस्थानाञ्जलिकर्मसंगृहीतं सुभाषिते साधुकारदानभूतवर्णाहरणसंगृहीतं ग्लानोपस्थानसंगृहीतं गुरूणां गौरवेणोपस्थानसंगृहीतमनुमोदनासंगृहीतं परसमादापना संगृहीतं परिणामनासंगृहीतमप्रमाणभावनासंगृहीतं। नवविधं प्रयोगानन्तर्यविमुक्तिमार्गविशेषसंगृहीतं मृदुमध्याधिमात्रलौकिकलोकोत्तरमार्गसंगृहीतं। दशविधमौपधिकं निरौपधिकं श्रुतमयं चिन्तामयं संवरसंगृहीतं नैवसंवरनासंवरसंगृहीतं मौलसामन्तकसंगृहीतं श्रावकयानसंगृहीतं प्रत्येकबुद्धयानसंगृहीतं  महायानसंगृहीतं। पुनर्दशविधं कामप्रतिसंयुक्तं प्रथमद्वितीयतृतीयचतुर्थध्यानप्रतिसंयुक्तमाकाशानन्त्यायतनविज्ञानानन्त्यायतना किञ्चन्यायतन-नैवसंज्ञानासंज्ञायतनप्रतिसंयुक्तमनास्रवसंगृहीतं च। पुनर्दशविधं दश कुशलाः कर्मपथाः। पुनर्दशविधमशैक्षी सम्यग्दृष्टिर्यावत्सम्यग्विमुक्तिः सम्यग्ज्ञानं च। पुनर्दशविधमष्टासु पुण्योपपत्तिषु चक्रवर्तिराज संवर्तनीयमानिञ्ज्योपगं च कुशलमित्येवंभागीयः कुशलप्रभेदः॥



 



समासतस्तु द्विविधः कुशलार्थ इष्टफलपरिग्रहार्थी वस्तुपरिज्ञाकौशल्यतत्फलार्थश्च।



 



कुशलधर्मप्रतिद्वन्द्वभूतमावरणभूतं च तेषामकुशलमनिष्टफलपरिग्रहत्वाद्वस्तुनोऽसम्यक्परिज्ञातत्वाच्च॥



 



अव्याकृतं पुनश्चतुर्विधं। विपाकजं तदेकत्यमैर्यापथिकं शैल्पस्थितिकं नैर्माणिकं च। यत्किञ्चिच्छिल्पं रतिक्रीडार्थं करोति न जीविकार्थं न कर्मसंज्ञया न प्रतिसंख्याय तच्छैल्पस्थितिकं क्लिष्टं अव्याकृतमन्यत्। यथा शैल्पस्थानिकमेवमैर्यापथिकं नैर्माणिकं कुशलमव्याकृतं च॥



 



एकविधं चक्षू रूपाणां दर्शनाय। द्विविधमौपचयिकं विपाकजं च। त्रिविधं मांसचक्षुर्दिव्यचक्षुः प्रज्ञाचक्षुश्च। चतुर्विधं सनिमिषमनिमिषं स्थावरमस्थावरं च। तत्र स्थावरं रूपावचरं पञ्चविधं पञ्चगतिसंगृहीतं। षड्विधं। स्वसन्तानपतितं परसन्तानपतितमभिरूपं विरूपं समलं निर्मलं च। सप्तविधं सविज्ञानकमविज्ञानकं सबलं दुर्बलं कुशलविज्ञानसंनिश्रयमकुशलविज्ञानसंनिश्रयमव्याकृतविज्ञानसंनिश्रयं। अष्टविधमधिष्ठानचक्षुः ...चक्षुः कुशलकर्मविपाकजमकुशलकर्मविपाकजमाहारोपचितं स्वप्नोपचितं ब्रह्मचर्योपचितं समापायुपचितं। नवविधं प्रतिलब्धमप्रतिलब्धं प्रतिलब्धपूर्वमप्रतिलब्धपूर्वं प्रतिलब्धविहीनं प्रहातव्यमप्रहातव्यं प्रहीणमप्रहीणं। दशविधं नास्ति। एकादशविधमतीतमनागतं प्रत्युत्पन्नमाध्यात्मिकं बाह्यमौदारिकं सूक्ष्मं हीनं प्रणीतं दूरेऽन्तिके॥



 



एवं श्रोत्रादीनि यावत्कायस्त्रिविधः। चतुर्विधत्वे तु भेदः। त्रिविधं श्रोत्रं मांसोपचितं दिव्यमवहितं च। चतुर्विधं स्थावरमस्थावरमुच्चैःश्रवमनुच्चैःश्रवं च। त्रिविधं घ्राणं जिह्वा च। प्रभास्वरमभास्वरमुपहतं च। चतुर्विधं घ्राणं जिह्वा च। स्थावरमस्थावरं सविज्ञानकमविज्ञानकं च। कायस्त्रिविधः। किट्टस्थाय्यकिट्टस्थायी सर्वत्रगश्च सर्वेन्द्रियानुगत्वात्। चतुर्विधः स्थावरोऽस्थावरः स्वयंप्रभोऽस्वयंप्रभश्च॥



 



एकविधं मनो धर्मविज्ञानार्थेन। द्विविधं प्रज्ञप्तिपतितमप्रज्ञप्तिपतितं च। तत्र व्युत्पन्नव्यवहाराणां प्रथमं दह्राणां पश्चिमं। अपरः पर्यायः। लौकिकं लोकोत्तरं च। त्रिविधं चित्तं मनो विज्ञानं च। चतुर्विधं कुशलमकुशलं निवृताव्याकृतमनिवृताव्याकृतं च। पञ्चविधं पञ्चावस्थाभेदात्। हेत्ववस्थं फलावस्थं सुखावस्थं दुःखावस्थमदुःखासुखावस्थं च। षड्विधं षड्विज्ञानकायाः। सप्तविधं सप्तविज्ञानस्थितिषु। अष्टविधमधिवचनसंस्पर्शसम्प्रयुक्तं प्रतिघसंस्पर्शसम्प्रयुक्तं गर्धाश्रितं नैष्क्रम्याश्रितं सामिषं निरामिषं लौकिकं लोकोत्तरं च। नवविधं नवसु सत्त्वावासेषु। दशविधं नास्ति। एकादशविधं पूर्ववत्। द्वादशविधं द्वादश चित्तानि। कामावचरं कुशलमकुशलं निवृताव्याकृतमनिवृताव्याकृतं च। रूपावचरं त्रिविधमकुशलं स्थापयित्वा। एवमारूप्यावचरं। लोकोत्तरं शैक्षमशैक्षं च॥



 



एकविधं रूपं चक्षुर्गोचरार्थेन। द्विविधमाध्यात्मिकं बाह्यं च। त्रिविधं वर्णः संस्थानं विज्ञप्तिश्च। चतुर्विधमाश्रयनिर्भासमनाश्रयनिर्भासं सातासातनिर्भासं प्रचयावस्थितं च। पञ्चविधं पञ्चगतिभेदात्। षड्विधं प्रतिष्ठासंगृहीतं निलयसंगृहीतं विषयसंगृहीतं सत्त्वसंख्यातमसत्त्वसंख्यातं सनिर्शनसप्रतिधं च। सप्तविधं सप्तविधपरिग्रहभेदात्। अष्टविधमष्टसु लोकचित्रेषु तानि पुनर्भूमिभागचित्रं पर्वतचित्रमारामवनसरस्तडागादिचित्रं गृहविमानचित्रं कर्मस्थानचित्रमालेख्यचित्रं कुट्टिमकर्मचित्रं परिष्कारचित्रं च। नवविधमतीतमनागतं प्रत्युत्पन्नमौदरिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे यद्वान्तिके। दशविधं दश परिष्काराः॥



 



एकविधः शब्दः श्रोत्रगोचरार्थेन। द्विविधो व्यक्तार्थनिर्घोषोऽव्यक्तार्थनिर्घोषश्च। त्रिविध उपात्तमहाभूतहेतुकोऽनुपात्तमहाभूतहेतुकस्तदुभयमहाभूतहेतुकश्च। चतुर्विधः कुशलोऽकुशलोनिवृताव्याकृतोऽनिवृताव्याकृतश्च। पञ्चविधः पञ्चगतिभेदात्। षड्विध उपदेशस्वाध्यायशब्द आपृच्छनपरिपृच्छनाशब्दो धर्मदेशनाशब्दः सांकथ्यविनिश्चयशब्दोऽन्योन्यवचनापवादापत्तिव्युत्थापनाशब्दः सङ्करकलकलाशब्दश्च। सप्तविधः स्त्रीशब्दः पुरुषशब्दो मृदुमध्याधिमात्रो मृतविहङ्गादिशब्दो वातवनस्पतिशब्दश्च। अष्टविधश्चत्वार आर्यव्यवहारशब्दाश्चत्वारोऽनार्यव्यवहारशब्दाश्च। अदृष्टे दृष्टवादिता दृष्टे चादृष्टवादितानार्यव्यवहारः। अश्रुतेऽमतेऽविज्ञातेविज्ञातवादिता विज्ञाते चाविज्ञातवादितानार्यो व्यवहारः। दृष्टे दृष्टवादितादृष्टे चादृष्टवादितार्यो व्यवहारः। श्रुते मते विज्ञाते विज्ञातवादिता अविज्ञाते चाविज्ञातवादितार्यो व्यवहारः। पुनरष्टौ कुशलाश्चत्वारो वाक्कर्मपथाश्चत्त्वारोऽकुशलाः। नवविधोऽतीतानागतप्रत्युत्पन्नो यावद्दूरेऽन्तिके च। दशविधः पञ्चाङ्गतूर्यसंगृहीतः। स पुनर्नृत्यसहगतो गीतसहगतो वादित्रसहगतः स्त्रीसहगतः पुरुषसहगतश्च। शङ्खशब्दः पटहशब्दो भेरीशब्दो मृदङ्गशब्द आडम्बरशब्दश्च॥



 



गन्ध एकविधो घ्राणगोचरार्थेन। द्विविध आध्यात्मिको बाह्यश्च। त्रिविधो मानापिकोऽमानापिक उपेक्षास्थानीयश्च। चतुर्विधश्चत्वारो महागन्धा अगरुगन्धस्तुरुष्कगन्धः कर्पूरगन्धः कस्तूरिकागन्धश्च। पञ्चविधो मूलगन्धः सारगन्धः पत्रगन्धः पुष्पगन्धः फलगन्धश्च। षड्विधो भोजनगन्धः पानगन्धो वस्त्रगन्धोऽलङ्कारगन्धो यानगन्धः प्रतिश्रयगन्धश्च। सप्तविधस्त्वग्गन्धः पत्रगन्धः सूक्ष्मैलागन्धश्चन्दनगन्धस्त्रिकटुगन्धो धूपगन्धश्चूर्णगन्धश्च। अष्टविधः सहजोऽसहजः स्थावरोऽस्थावरः संयुक्तः केवल उत्कटोऽनुत्कटश्च। नवविधोऽतीतानागतप्रत्युत्पन्नो यावद्दरेऽन्तिके च। दशविधः स्त्रीगन्धः पुरुषगन्ध उच्चारगन्धः प्रस्रावगन्धः खेटगन्धः शिङ्घाणगन्धो वसालसिकापूयशोणितगन्धो मांसगन्धः सङ्करगन्धः क्लेदकर्दमगन्धश्च॥



 



रस एकविधो जिह्वागोचरार्थेन। द्विविध आध्यात्मिको बाह्यश्च। त्रिविधो मनापामनापादिः पूर्ववत्। चतुर्विधो यवरसः शालिरसो गोधूमरसोऽवरधान्यरसश्च। पञ्चविधो मद्यपानरसोऽमद्यपानरसः शाकपत्ररसो वनफलरसो भोजनीयरसश्च। षड्विधस्तिक्तादिः। सप्तविधः सर्पिस्तैलमध्विक्षुविकाररसो गोरसो लवणरसो मांसरसश्च। अष्टविधो गन्धवत्। नवविधो गन्धवदेव। दशविधः खाद्यरसो भोजनरसः स्वाद्यरसः पेयरसश्चूष्यरसो विशेषणीयस्तर्पणीयः शमनीयः शोधनीयो निषेवणीयश्चौषधरसः॥



 



स्पर्श एकविधः कायगोचरार्थेन। द्विविधो गन्धवत्। त्रिविधो मनापादिः। चतुर्विधः स्पर्शनस्पर्शः पीडनस्पर्शोऽभिघातस्पर्शो मर्दनस्पर्शः। पञ्चविधः पञ्चगतिभेदात्। पुनर्दशमशकवातातपसरीसृपसंस्पर्शः। षड्विधः सुखो दुःखोऽदुःखासुखः सहजो विपक्षसंगृहीतः प्रतिपक्षसंगृहीतश्च। सप्तविधः। खक्खटो द्रव उष्ण उल्लङ्घनपतनसंस्पर्शः परामर्शसंस्पर्शः कायविकारसंस्पर्शश्च। तद्यथा श्लक्ष्णादिः। अष्टविधः पाणिसंस्पर्शो लोष्टसंस्पर्शो दण्डसंस्पर्शः शस्त्रसंस्पर्शः शीतसंस्पर्श उष्णसंस्पर्शो जिघत्सासंस्पर्शः पिपासासंस्पर्शः। नवविधो गन्धवत्। दशविधो भोजनसंस्पर्शः पानसंस्पर्शो वस्त्रसंस्पर्शोऽलङ्कारसंस्पर्शो मञ्चपीठसंस्पर्शः कूर्चबिम्बोपधानसंस्पर्शः स्त्रीसंस्पर्शः पुरुषसंस्पर्शस्तयोः परिचर्यापरिभोगसंस्पर्शश्च॥



 



धर्मधातुः समासतः सप्ताशीतिर्धर्माः सह प्रज्ञप्तिधर्मैः। ते पुनः कतमे। मनस्कारादयो वितर्कविचारपर्यवसानाश्चैतसास्त्रिपञ्चाशत्। धर्मायतनपर्यापन्नं। संवरासंवरसंगृहीतं रूपं समाधिगोचरञ्च रूपं प्राप्तिरसंज्ञासमापत्तिर्निरोधसमापत्तिरासंज्ञिकं जीवितेन्द्रियं निकायसभागः पृथिग्जनत्वं जातिर्जरा स्थितिरनित्यता नामकायाः पदकाया व्यञ्जनकायाः प्रवृत्तिः प्रतिनियमो योगो जवोऽनुक्रमः कालो देशः संख्या सामग्र्यसामग्री च। अष्टावसंस्कृतवस्तूनि आकाशमप्रतिसंख्यानिरोधः प्रतिसंख्यानिरोधः कुशलाकुशलाव्याकृतानां धर्माणां तथतानिञ्ज्यं संज्ञावेदयितनिरोधश्च। तान्येतान्यष्टौ समानानि षड् भवन्ति षट् समानान्यष्टौ भवन्ति॥ 



 



स पुनरेकविधो धर्मधातुर्मनोगोचरार्थेन। द्विविधः। प्रज्ञप्तिधर्मसंगृहीतोऽप्रज्ञप्तिधर्मसंगृहीतश्च॥ त्रिविधो रूप्यरूपी संस्कृतासंस्कृतश्च॥ चतुर्विधो रूपी प्रज्ञप्तिधर्मसंगृहीतः अरूपी चैतसधर्मसंगृहीतः अरूपी विप्रयुक्तप्रज्ञप्तिसंगृहीतः अरूप्यसंस्कृतप्रज्ञप्तिधर्मसंगृहीतश्च॥ पञ्चविधः रूपचैतसिकाधर्माश्चित्तविप्रयुक्ता असंस्कृतमकुशलमव्याकृतं च॥ षड्विधः वेदना संज्ञा संस्काराः सम्प्रयुक्तविप्रयुक्ता रूपमसंस्कृतं च। सप्तविधो वेदना संज्ञा चेतना क्लिष्टोऽक्लिष्टो रूपमसंस्कृतं च। अष्टविधः कुशलोऽकुशलोऽव्याकृतश्चेतना संज्ञा संस्कारा रूपमसंस्कृतं च। नवविधोऽतीतानागतादिभेदेन। दशविधो दशविधार्थेन अनुबन्धोत्पादार्थेन आलम्बनानुभवनार्थेन आलम्बननिमित्तग्रहणार्थेन आलम्बनाभिसंस्कारार्थेन तेषामेव धर्माणामवस्थाभेदार्थेन अनित्यविसंयोगार्थेन नित्यविसंयोगार्थेन नित्याविपीतार्थेन सुखदुःखविसंयोगार्थेन नो तु वेदयितविसंयोगार्थेन वेदयितविसंयोगार्थेन च। तान्येतान्याध्यात्मिकबाह्यानामायतनानां षष्ट्युत्तराणि षट् प्रभेदशतानि॥



 



तत्र चरत्याक्षयाद्रूपाणां दर्शनाय चरत्याक्षयाद्रूपाणां दर्शनायेति चक्षुः। श्रवा अत्रोपलभ्यन्त इति श्रोत्रम्। गन्धानाघ्रातीति घ्राणं। जिघत्सादौर्बल्यं प्रतिविनोदयति विविधालापपरिचयाच्चाह्वानं करोतीति जिह्वा। कार्त्स्नेनेन्द्रियक्रियानुगतः कायोऽयमिति। कायः दीर्घरात्रमेतद्बालैः केलायितं ममायितमेतन्मम एषोऽहमस्मि एष म आत्मेति। अत्र च लोकस्य संज्ञा सत्त्वो नरो जीवो जन्तुर्मनुजो मानव इति मन इति॥



 



तत्र तत्र देशे निरूप्यते रोहति चेति तस्माद्रूपमिति वदन्नेव शरति वदन्नेव शरति तस्माच्छब्दः। अनुशेरते चास्मिन्विद्या वादास्तस्माच्छब्दः। अनुवातं गच्छति धावति तस्माद्गन्धः। रोगाणां सञ्चयनः खादनीयश्च तस्माद्रसः। कायेन स्पृश्यत इति स्प्रष्टव्यं। धारयति केवलं मनोविषयत्वं धारयति केवलं मनोविषयत्वमिति धर्मः॥



 



तत्रैभिः पञ्चभिर्धर्मैः षड्विज्ञानकायिकैः स्वभावेनाश्रयेणालम्बनेन सहायेन कर्मणा च स्कन्धकौशल्यमपि संगृहीतं वेदितव्यं। धातुकौशल्यमायतनकौशल्यं प्रतीत्यसमुत्पादकौशल्यं स्थानानास्थानमिन्द्रियकौशल्यमपि वेदितव्यं॥



 



नववस्तुकमपि बुद्धवचनं संगृहीतं वेदितव्यं। नव वस्तूनि कतमानि। सत्त्ववस्तु उपभोगवस्तु उत्पत्तिवस्तु स्थितिवस्तु संक्लेशव्यवदानवस्तु वैचित्र्यवस्तु दैशिकवस्तु देश्यवस्तु परिषद्वस्तु च॥



 



तत्र सत्त्ववस्तु पञ्चोपादानस्कन्धाः। तदुपभोगवस्तु द्वादशायतनानि। उत्पत्तिवस्तु द्वादशङ्गः प्रतीत्यसमुत्पादः। उत्पन्नस्य स्थितिवस्तु चत्वार आहाराः॥



 



संक्लेशव्यवदानवस्तु चत्वार्यार्यसत्यानि। वैचित्र्यवस्तून्यपरिमाणा धातवः। दैशिकवस्तु बुद्धास्तच्छ्रावकाश्च। देश्यवस्तु स्मृत्युपस्थानादयो बोधिपक्ष्या धर्माः। परिषद्‍वस्त्वष्टौ परिषदः। क्षत्रियपरिषद्। ब्राह्मणपरिषद्। गृहपतिपरिषद्। श्रमणपरिषद्। चतुर्महाराजकायिकपरिषद् त्रयस्त्रिंशत्परिषत् मारपरिषद् ब्राह्मणपरिषच्चेति।



 



उद्दानं



 



समुदायः कलापश्च अध्वलक्षणप्रत्ययाः।



कुशलादिप्रभेदश्च कौशल्यवस्तु पश्चिमं॥



योगाचारभूमौ मनोभूमिर्द्वितीया समाप्ता॥



 



इत्येवंभागीय एषां धर्माणां प्रभेदो द्रष्टव्यः॥



तत्रोद्दानं



स्वभावतश्चाश्रयत आलम्बनसहायतः।



कर्मतश्च प्रवृत्तिः स्याच्चेतसः पञ्चभिर्मुखैः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project