Digital Sanskrit Buddhist Canon

पञ्चविज्ञानकाय सम्प्रयुक्ता भूमिः प्रथमा

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:


 



[सप्तदश योगाचारभूमयः]



 



योगाचारभूमिः कतमा। सा सप्तदश भूमयो द्रष्टव्या। कतमाः सप्तदश। पिण्डोद्दानं।



 



पञ्चविज्ञानसंयुक्ता मनोभूमिस्त्रिधापरा।



सवितर्कविचाराभ्यां समाधिसहिता न वा॥



सचित्ता चाप्यचित्ता च श्रुतचिन्ता सभावना।



तथा यानत्रयोपेता सोपध्यनुपधी परा॥



 



पञ्चविज्ञानकायसम्प्रयुक्ता भूमिः। मनोभूमिः। सवितर्का सविचारा भूमिः। अवितर्का विचारमात्रा भूमिः। अवितर्काविचारा भूमिः। समाहिता भूमिः। असमाहिता भूमिः। सचित्तिका भूमिः। अचित्तिका भूमिः। श्रुतमयी भूमिः। चिन्तामयी भूमिः। भावनामयी भूमिः। श्रावकभूमिः। प्रत्येकबुद्धभूमिः। बोधिसत्त्वभूमिः। सोपधिका भूमिः। निरुपधिका भूमिः। इत्येताः सप्तदश भूमयः समासतो योगाचारभूमिरित्युच्यते॥



 



[पञ्चविज्ञानकायसम्प्रयुक्ता भूमिः प्रथमा ]



 



पञ्चविज्ञानकायसम्प्रयुक्ता भूमिः कतमा। पञ्च विज्ञानकायाः स्वभावतस्तेषां चाश्रयः तेषां चालम्बनं तेषां च सहायः तेषां च कर्म समासतः पञ्चविज्ञानकायसम्प्रयुक्ता भूमिः॥



 



पञ्चविज्ञानकायाः कतमे। चक्षुर्विज्ञानं श्रोत्र-घ्राण-जिह्वा-कायमनो विज्ञानं॥चक्षुर्विज्ञानं कतमत्। या चक्षुराश्रया रूपप्रतिविज्ञप्तिः॥ चक्षुर्विज्ञानस्याश्रयः कतमः। चक्षुः सहभूराश्रयः। मनः समनन्तर आश्रयः।सर्वबीजकमाश्रयो पादातृविपाकसंगृहीतमालयविज्ञानं बीजाश्रयः। तदेतदभिसमस्य द्विविध आश्रयो भवति। रूपी चारूपी च। तत्र चक्षू रूपी। तदन्योऽरूपी॥ चक्षुः कतमत्। चत्वारि महाभूतान्युपादाय चक्षुर्विज्ञानसंनिश्रयो रूपप्रसादोऽनिदर्शनः सप्रतिघः॥ मनः कतमत्। यच्चक्षुर्विज्ञानस्यानन्तरातीतं विज्ञानं॥ सर्वबीजकं विज्ञानं कतमत्। पूर्वकं प्रपञ्चरतिहेतुमुपादाय यः सर्वबीजको विपाको निर्वृत्तः॥ चक्षुर्विज्ञानस्यालम्बनं कतमत्। यद्रूपं सनिदर्शनं सप्रतिघं। तत्पुनरनेकविधं। समासतो वर्ण्णः संस्थानं विज्ञप्तिश्च। वर्ण्णः कतमः। तद्यथा नीलं पीतं लोहितमवदातं छायातप आलोकोऽन्धकारमभ्रं धूमो रजो महिका नभश्चैकवर्ण्णं॥ संस्थानं कतमत्। तद्यथा दीर्घं ह्रस्वं वृत्तं परिमण्डलमणु स्थूलं शातं विशातं उन्नतमवनतं॥ विज्ञप्तिः कतमा। तद्यथादानं निक्षेपणं समिञ्जितं स्थानं निषद्या शय्याभि क्रमोऽतिक्रम इत्येकवमादिः॥



 



अपि खलु वर्ण्णः कतमः। यो रूपनिभश्चक्षुर्विज्ञान गोचरः॥ संस्थानं कतमत्। यो रूपप्रचयो दीर्घादिपरिच्छेदाकारः॥



 



विज्ञप्तिः कतमा। तस्यैव प्रचितस्य रूपस्योत्पन्ननिरुद्धस्य वैरोधिकेन कारणेन जन्मदेशे चानुत्पत्तिस्तदन्यदेशे च निरन्तरे सान्तरे वा सन्निकृष्टे विप्रकृष्टे वा तस्मिन्नेव वा देशेऽविकृतोत्पत्तिर्विज्ञप्तिरित्युच्यते॥



 



तत्र वर्ण्ण आभावभास इति पर्यायाः॥ संस्थानं प्रचयो दीर्घं ह्रस्वमित्येवमादयः पर्यायाः॥ विज्ञप्तिः कर्म क्रिया चेष्टे हा परिस्पन्द इति पर्यायाः॥ सर्वासां वर्ण्णसंस्थानविज्ञप्तीनां  चक्षुर्गोचरश्चक्षुर्विषयश्चक्षुर्विज्ञानगोचरश्चक्षुर्विज्ञानविषयश्चक्षुर्विज्ञानालम्बनं मनोविज्ञानगोचरो मनोविज्ञानविषयो मनोविज्ञानालम्बनमिति पर्यायाः॥ पुनस्तदेव सुवर्ण्णं वा दुर्वर्ण्णं वा तदुभयान्तरस्थायि वा वर्ण्णनिभं॥



 



सहायः कतमः। तत्सहभूसम्प्रयुक्ताश्चैतसा धर्माः।तद्यथा। मनस्कारः स्पर्शो वेदना संज्ञा चेतनेति। येऽप्यन्ये चक्षुर्विज्ञानेन सहभूसम्प्रयुक्ताश्चैतसा धर्मास्ते पुनरेकालम्बना अनेकाकाराः सहभूवश्चैकैकवृत्तयश्च। सर्वे च स्वबीजान्निर्जाताः सम्प्रयुक्ताः साकाराः सालम्बनाः साश्रयाः॥



 



कर्म कतमत्। तत्षड्विधं द्रष्टव्यं। आदितस्तावत्स्वविषयालम्बनविज्ञप्तिः कर्म। पुनः स्वलक्षणविज्ञप्तिः। पुनर्वर्तमानकालविज्ञप्तिः।पुनरेकक्षणविज्ञप्तिः। पुनर्द्वाभ्यामाकाराभ्यां मनोविज्ञानानुवृत्तिः। कुशलक्लिष्टानुवृत्तिश्च कर्मसमुत्थानानुवृत्तिश्च। पुनरिष्टानिष्टफलपरिग्रहः षष्ठं कर्म॥



 



[श्रोत्रविज्ञानम् ]



 



श्रोत्रविज्ञानं कतमत्। या श्रोत्राश्रया शब्दप्रतिविज्ञप्तिः। आश्रयः कतमः। सहभूराश्रयः श्रोत्रं। समनन्तर आश्रयो मनः बीजाश्रयस्तदेव सर्वबीजकमालयविज्ञानं।



 



श्रोत्रं कतमत्। चत्वारि महाभूतान्युपादाय श्रोत्रविज्ञानसन्निश्रयो रूपप्रसादोऽनिदर्शनः सप्रतिघः। मनोबीजयोः पूर्ववद्विभागः॥



 



आलम्बनं कतमत्। शब्दा अनेकविधा अनिदर्शनाः सप्रतिघाः। तद्यथा शङ्खशब्दः पटहशब्दो भेरीशब्दो मृदङ्गशब्दो नृत्यशब्दो गीतशब्दो वादितशब्द आडम्बरशब्दः स्त्रीशब्दः पुरुषशब्दो वायुवनस्पतिशब्दो व्यक्तोऽव्यक्तः सार्थको निरर्थकः परीत्तो मध्य उच्चो नदीशब्दः कलकलशब्द उद्देशस्वाध्यायदेशनासाङ्कथ्यविनिर्णयशब्द इत्येवंभागीया बहवः शब्दाः॥



 



स पुनरुपात्तमहाभूतहेतुकोऽनुपात्तमहाभूतहेतुक उपात्तानुपात्तमहाभूतहेतुकश्चः। तत्र प्रथमो योऽध्यात्मप्रत्यय एव। द्वितीयो यो बाह्यप्रत्यय एव। तृतीयो यो बाह्याध्यात्मप्रत्यय एव॥ स पुनर्मानापिकोऽमानापिकस्तदुभयविपरीतश्च॥



 



तत्र शब्दो घोषः स्वरो निरुक्तिर्नादो वाग्विज्ञप्तिरिति पर्यायाः॥



श्रोत्रगोचरः श्रोत्रविषयः श्रोत्रविज्ञानगोचरः श्रोत्रविज्ञानविषयः श्रोत्रविज्ञानालम्बनं मनोविज्ञानगोचरो मनोविज्ञानविषयो मनोविज्ञानालम्बनमिति पर्यायाः॥



 



सहायः कर्म च चक्षुर्विज्ञानवद्वेदितव्यं॥  



 



[घ्राणविज्ञानम्]



 



घ्राणविज्ञानं कतमत्। या घ्राणाश्रया गन्धप्रतिविज्ञप्तिः। आश्रयः कतमः। सहभूराश्रयो घ्राणं। समनन्तर आश्रयो मनः। बीजाश्रयस्तदेव सर्वबीजकमालयविज्ञानं॥



 



घ्राणं कतमत्। यच्चत्वारि महाभूतान्युपादाय घ्राणविज्ञानसंनिश्रयो रूपप्रसादोऽनिदर्शनः सप्रतिघः॥



 



मनोबीजयोः पूर्ववद्विभागः॥



 



आलम्बनं कतमत्। गन्धा अनेकविधा अनिदर्शनाः सप्रतिघाः सुगन्धा वा दुर्गन्धा वा समगन्धा वा घ्राणीयास्तद्यथा मूलगन्धः सारगन्धः पत्रगन्धः पुष्पगन्धः फलगन्ध इत्येवमादयो बहवो गन्धाः॥



 



तत्र गन्धो घ्राणीयो जिघ्रणीय आघ्रातव्य इत्येवमादयः पर्यायाः॥



 



घ्राणगोचरो घ्राणविषयो घ्राणविज्ञानगोचरो घ्राणविज्ञानविषयो घ्राणविज्ञानालम्बनं मनोविज्ञानगोचरो मनोविज्ञानविषयो मनोविज्ञानालम्बनमिति पर्यायाः॥



 



सहायः कर्म च पूर्ववद्वेदितव्यं॥



 



[जिह्वाविज्ञानम्]



 



जिह्वाविज्ञानं कतमत्। या जिह्वाश्रया रस प्रतिविज्ञप्तिः॥ आश्रयः कतमः। सहभूराश्रयो जिह्वा। समनन्तर आश्रयो मनः। बीजाश्रयस्तदेव सर्वबीजकमालयविज्ञानं॥



 



जिह्वा कतमा। यश्चत्वारि महाभूतान्युपादाय जिह्वाविज्ञानसन्निश्रयो रूपप्रसादोऽनिदर्शनः सप्रतिघः॥



 



मनोबीजयोः पूर्ववद्विभागः॥



 



आलम्बनं कतमत्। रसा अनेकविधा अनिदर्शनाः सप्रतिघाः। ते पुनस्तिक्ताम्लकटुकषायलवणमधुरा मानापिका वामानापिका वोपेक्षास्थानीयाः स्वादनीयाः। तत्र रसः स्वादयितव्योऽभ्यवहर्तव्यो भोज्यं पेयं लेह्यं चूष्यमुपभोग्यमिति पर्यायाः॥



 



जिह्वागोचरो जिह्वाविषयो जिह्वाविज्ञानगोचरो जिह्वाविज्ञानविषयो जिह्वाविज्ञानालम्बनं मनोविज्ञानगोचरो मनोविज्ञानविषयो मनोविज्ञानालम्बनमिति पर्यायाः॥



 



सहायः कर्म च पूर्ववद्वेदितव्यं॥



 



[कायविज्ञानम्]



 



कायविज्ञानं कतमत्। या कायाश्रया स्प्रष्टव्यप्रतिविज्ञप्तिः॥



आश्रयः कतमः। सहभूराश्रयः कायः। समनन्तराश्रयो मनः। बीजाश्रयस्तदेव सर्वबीजकमालयविज्ञानं॥



 



कायः कतमः। यश्चत्वारि महाभूतान्युपादाय कायविज्ञानसंनिश्रयो रूपप्रसादोऽनिदर्शनः सप्रतिघः॥



मनोबीजयोः पूर्ववद्विभागः॥



 



आलम्बनं कतमत्। स्प्रष्टव्यमनेकविधमनिदर्शनं सप्रतिघं। तद्यथा पृथिव्यापस्तेजो वायुर्लघुत्वं गुरुत्वं श्लक्ष्णत्वं कर्कशत्वं शीतं जिघत्सा पिपासा तृप्तिर्बलं दौर्बल्यं व्याधिर्जरा मरणं कण्डूर्मूर्च्छा पिच्छिलं(?)श्रमो विश्रमो मृदुत्वंर्जव (?)इत्येवंभागीयं बहुविधं स्प्रष्टव्यं॥



 



तत्पुनः सुसंस्पर्शं वा दुस्संस्पर्शं वोपेक्षास्थानीयं वा स्पर्शनीयं॥



 



तत्र स्प्रष्टव्यं स्पृश्यं स्पर्शनीयं खरं द्रवं चल मुष्णमित्यादयः पर्यायाः॥ कायगोचरः कायविषयः कायविज्ञानगोचरः कायविज्ञानविषयः कायविज्ञानालम्बनं मनोविज्ञानगोचरो मनोविज्ञानविषयो मनोविज्ञानालम्बनमिति पर्यायाः॥



 



सहायः कर्म च पूर्ववद्वेदितव्यं॥



 



[विज्ञानोत्पादः]



 



तत्र चक्षुः परिभिन्नं भवति। रूपमनाभासगतं भवति। न च तज्जो मनस्कारः प्रत्युपस्थितो भवति। न तस्य चक्षुर्विज्ञानोत्पादो भवति॥ यतश्च चक्षुरपरिभिन्नं भवति। रूपमाभासगतं भवति। तज्जश्च मनस्कारः प्रत्युपस्थितो भवति। ततस्तज्जोऽस्य चक्षुर्विज्ञानस्योत्पादो भवति॥ यथा चक्षुर्विज्ञानमेवं श्रोत्रघ्राणजिह्वाकायविज्ञानानि द्रष्टव्यानि॥



 



[विज्ञानसम्बद्धानि चित्तानि ]



 



तत्र चक्षुर्विज्ञान उत्पन्ने त्रीणि चित्तान्युपलभ्यन्ते यथाक्रममौपनिपातिकं पर्येषकं निश्चितं च। तत्र चाद्यं चक्षुर्विज्ञानमेव। द्वे मनोविज्ञाने। तत्र निश्चिताच्चित्तात्परं संक्लेशो व्यवदानं च द्रष्टव्यं। ततस्तन्नैष्यन्दिकं। चक्षुर्विज्ञानमपि कुशलाकुशलं प्रवर्त्तते। न तु स्वविकल्पवशेन। तावच्च द्वयोर्मनोविज्ञानचक्षुर्विज्ञानयोः कुशलत्वं वा क्लिष्टत्वं यावत्तन्मनो नान्यत्र विक्षिप्यते॥



 



यथा चक्षुर्विज्ञान उत्पन्न एवं यावत्कायविज्ञानं वेदितव्यं॥



 



[विज्ञानोपमा]



 



तत्र देशान्तरप्रस्थितस्येव यानमाश्रयो द्रष्टव्यः। पञ्चानां विज्ञानकायानां सहायार्थिकवत् सहायाः। करणीय वदालम्बनं। स्वशक्तिवत् तत्कर्म। अपरः पर्यायः। गृहस्थस्य गृहवदेषामाश्रयो द्रष्टव्यः। भोगवदालम्बनं। दासीदासादिवत्सहायाः। व्यवसायवत् कर्म॥



 



॥योगाचारभूमौ पञ्चविज्ञानकाय सम्प्रयुक्ता भूमिः प्रथमा समाप्ता॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project