Digital Sanskrit Buddhist Canon

विंशतितम‍एकविंशतितमश्चाधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
विंशतितम‍एकविंशतितमश्चाधिकारः



लिङ्गविभागे द्वौ श्लोकौ।



अनुकम्पा प्रियाख्यानं धीरता मुक्तहस्तता।

गम्भीरसंधिनिर्मोक्षो लिङ्गान्येतानि धीमतां॥१॥



परिग्रहे ऽधिमुक्त्याप्तावखेदे द्वयसंग्रहे।

आशयाच्च प्रयोगाच्च विज्ञेयं लिङ्गपञ्चकं॥२॥



बोधिसत्वा हि सततं भवन्तश्चक्रवर्तिनः।

प्रकुर्वन्ति हि सत्वार्थं गृहिणः सर्वजन्मसु॥३॥



आदानलब्धा प्रव्रज्या धर्मतोपगता परा।

निदर्शिका च प्रव्रजया धीमतां सर्वभूमिषु॥४॥



अप्रमेयैर्गुणैर्युक्तः पक्षः प्रव्रजितस्य तु।

गृहिणो बोधिसत्वाद्धि यतिस्तस्माद्विशिष्यते॥५॥



परत्रेष्टफलेच्छा च शुभवृत्ताविहैव च।

निर्वाणेच्छा च धीराणां सत्वेष्वाशय इष्यते।

अशुद्धश्च विशुद्धश्च सुविशुद्धः सर्वभूमिषु॥६॥



प्रणिधानात्समाच्चित्तादाधिपत्यात्परिग्रहः।

गणस्य कर्षणत्वाच्च धीमतां सर्वभूमिषु॥७॥



कर्मणश्चाधिपत्येन प्रणिधानस्य चापरा।

समाधेश्च विभुत्वस्य चोत्पत्तिर्धीमतां मता॥८॥



लक्षणात्पुद्गगलाच्छिक्षास्कन्धनिष्पत्तिलिङ्गतः।

निरुक्तेः प्राप्तितश्चैव विहारो भूमिरेव च॥९॥



शून्यता परमात्मस्य कर्मानाशे व्यवस्थितिः।

विहृत्य ससुखैर्ध्यानैर्जन्म कामे ततः परम्॥१०॥



ततश्च बोधिपक्षाणां संसारे परिणामना।

विना च चित्तसंक्लेशं सत्वानां परिपाचना॥११॥



उपपत्तौ च संचित्य संक्लेशस्यानुरक्षणा।

एकायनपथश्लिष्टा ऽनिमित्तैकान्तिकः पथः॥१२॥



अनिमित्ते ऽप्यनाभोगः क्षेत्रस्य च विशोधना।

सत्वपाकस्य निष्पत्तिर्जायते च ततः परम्॥१३॥



समाधिधारणीनां च बोधेश्चैव विशुद्धता।

एतस्माच्च व्यवस्थानाद्विज्ञेयं भूमिलक्षणम्॥१४॥



विशुद्धदृष्टिः सुविशुद्धशीलः समाहितो धर्मविभूतमानः।

संतानसंक्लेशविशुद्धिभेदे निर्माण एकक्षणलब्धबुद्धिः॥१५॥



उपेक्षकः क्षेत्रविशोधकश्च स्यात्सत्वपाके कुशलो महर्द्धिः।

संपूर्णकायश्च निदर्शने च शक्तो ऽभिषिक्तः खलु बोधिसत्वः॥१६॥



धर्मतां प्रतिविध्येह अधिशीले ऽनुशिक्षणे।

अधिचित्ते ऽप्यधिप्रज्ञे प्रज्ञा तु द्वयगोचरा॥१७॥



धर्मतत्वं तदज्ञानज्ञानाद्या वृत्तिरेव च।

प्रज्ञाया गोचरस्तस्माद् द्विभूमौ तद्‍व्यवस्थितिः॥१८॥



शिक्षाणां भावनायाश्च फलमन्यच्चतुर्विधम्।

अनिमित्तससंस्कारो विहारः प्रथमं फलम्॥१९॥



स एवानभिसंस्कारो द्वितीयं फलमिष्यते।

क्षेत्रशुद्धिश्च सत्वानां पाकनिष्पत्तिरेव च॥२०॥



समाधिधारणीनां च निष्पत्तिः परमं फलं।

चतुर्विधं फलं ह्येतत् चतुर्भूमिसमाश्रितम्॥२१॥



धर्मतां प्रतिविध्येह शीलस्कन्धस्य शोधना।

समाधिप्रज्ञास्कन्धस्य तत ऊर्ध्वं विशोधना॥२२॥



विमुक्तिमुक्तिज्ञानस्य तदन्यासु विशोधना।

चतुर्विधादावरणात् प्रतिघातावृतेरपि॥२३॥



अनिष्पन्नाश्च निष्पन्ना विज्ञेयाः सर्वभूमयः।

निष्पन्ना अप्यनिष्पन्ना निष्पन्नाश्च पुनर्मताः॥२४॥



निष्पत्तिर्विज्ञेया यथाव्यवस्थानमनसिकारेण।

तत्कल्पनताज्ञानादविकल्पनया च तस्यैव॥२५॥



भावना अपि निष्पत्तिरचिन्त्यं सर्वभूमिषु।

प्रत्यात्मवेदनीयत्वात् बुद्धानां विषयादपि॥२६॥



अधिमुक्तिर्हि सर्वत्र सालोका लिङ्गमिष्यते।

अलीनत्वमदीनत्वमपरप्रत्ययात्मता॥२७॥



प्रतिवेधश्च सर्वत्र सर्वत्र समचित्तता।

अनेयानुनयोपायज्ञानं मण्डलजन्म च॥ २८॥



नाच्छन्दो न च लुब्धह्रस्वहृदयो न क्रोधनो नालसो

नामैत्रीकरूणाशयो न कुमतिः कल्पैर्विकल्पैर्हतः।

नो विक्षिप्तमतिः सुखैर्न च हतो दुःखैर्न वा [व्या]वर्तते।

सत्यं मित्रमुपाश्रितः श्रुतपरः पूजापरः शास्तरि॥२९॥



सर्वं पुण्यसमुच्चयं सुविपुलं कृत्वान्यसाधारणं

संबोधौ परिणामयत्यहरहर्यो ह्युत्तमोपायवित्।

जातः स्वायतने सदा शुभकरः क्रीडत्यभिज्ञागुणैः

सर्वेषामुपरिस्थितो गुणनिधिर्ज्ञेयः स बुद्धात्मनः॥३०॥



शमथे विपश्यनायां च द्वयपञ्चात्मको मतः।

धीमतामनुशंसो हि सर्वथा सर्वभूमिषु॥३१॥



पश्यतां बोधिमासन्नां सत्वार्थस्य च साधनं।

तीव्र उत्पद्यते मोदो मुदिता तेन कथ्यते॥३२॥



दौः शील्याभोगवैमल्याद्विमला भूमिरुच्यते।

महाधर्मावभासस्य करणाच्च प्रभाकरी॥३३॥



अर्चिर्भूता यतो धर्मा बोधिपक्षाः प्रदाहकाः।

अर्चिष्मतीति तद्योगात्सा भूमिर्द्वयदाहतः॥३४॥



सत्वानां परिपाकश्च स्वचित्तस्य च रक्षणा।

धीमद्‍भिर्जीयते दुःखं दुर्जया तेन कथ्यते॥३५॥



आभिमुख्याद् द्व्यस्येह संसारस्यापि निर्वृतेः।

उक्ता ह्यभिमुखी भूमिः प्रज्ञापारमिताश्रयात्॥३६॥



एकायनपथश्लेषाद्भूमिर्दूरंगमा मता।

द्व्यसंज्ञाविचलनादचला च निरुच्यते॥३७॥



प्रतिसंविन्मतिसाधुत्वाद्भूमिः साधुमति मता।

धर्ममेघा द्वयव्याप्तेर्धर्माकाशस्य मेघवत्॥३८॥



विविधे शुभनिर्हारे रत्या विहरणात्सदा।

सर्वत्र बोधिसत्वानां विहारभूमयो मताः॥३९॥



भूयो भूयो ऽमितास्वासु ऊर्ध्वंगमनयोगतः।

भूतामिताभयार्थाय त एवेष्टा हि भूमयः॥४०॥



भूमिलाभे[भो]ऽधिमुक्तेश्च चरितेषु च वर्तनात्।

प्रतिवेधाच्च भूमीनां निष्पत्तेश्च चतुर्विधः॥४१॥



महायाने ऽधिमुक्तानां हीनयाने च देहिनां।

द्वयोरावर्जनार्थाय विनयाय च देशिताः।

चर्याश्चतस्रो धीराणां यथासूत्रानुसारतः॥४२॥



अनुकम्पकसत्वेषु संयोगविगमाशय।

अवियोगाशय सौख्यहिताशय नमोऽस्तुते॥४३॥



सर्वावरणनिर्मुक्त सर्वलोकाभिभू मुने

ज्ञानेन ज्ञेयं व्याप्तं ते मुक्तचित्त नमोऽस्तुते॥४४॥



अशेषं सर्वसत्वानां सर्वक्लेशविनाशक।

क्लेशप्रहारक क्लिष्टसानुक्रोश नमोऽस्तुते॥४५॥



अनाभोग निरासङ्ग अव्याघात समाहित।

सदैव सर्वप्रश्नानां विसर्जक नमोऽस्तु ते॥४६॥



आश्रये ऽथाश्रिते देश्ये वाक्ये ज्ञाने च देशिके।

अव्याहतमते नित्यं सुदेशिक नमोऽस्तुते॥४७॥



उपेत्य वचनैस्तेषां चरिज्ञ आगतौ गतौ।

निः सारे चैव सत्वानां स्वववाद नमोऽस्तु ते॥४८॥



सत्पौरुष्यं प्रपद्यन्ते त्वां दृष्ट्वा सर्वदेहिनः।

दृष्टमात्रात्प्रसादस्य विधायक नमो ऽस्तु ते॥४९॥



आदानस्थानसंत्यागनिर्माणपरिणामने।

समाधिज्ञानवशितामनुप्राप्त नमोऽस्तु ते॥५०॥



उपाये शरणे शुद्धौ सत्वानां विप्रवादने।

महायाने च निर्याणे मारभञ्ज नमो ऽस्तु ते॥५१॥



ज्ञानप्रहाणनिर्याणविघ्नकारकदेशिक।

स्वपरार्थे ऽन्यतीर्थ्यानां निराधृष्य नमो ऽस्तु ते॥५२॥



वि[नि]गृह्यवक्ता पर्षत्सु द्व्यसंक्लेशवर्जित।

निरारक्ष असंमोष गणकर्ष नमोऽस्तु ते॥५३॥



चारे विहारे सर्वत्र नास्त्यसर्वज्ञचेष्टितं।

सर्वदा तव सर्वज्ञ भूतार्थिक नमोऽस्तु ते॥५४॥



सर्वसत्त्वार्थकृत्येषु कालं त्वं नातिवर्तसे।

अबन्ध्यकृत्य सततमसंमोषः नमोऽस्तु ते॥५५॥



सर्वलोकमहोरात्रं षट्कृत्वः प्रत्यवेक्षसे।

महाकरुणया युक्त हिताशय नमोऽस्तु ते॥५६॥



चारेणाधिगमेनापि ज्ञानेनापि च कर्मणा।

सर्वश्रावकप्रत्येकबुद्धोत्तम नमोऽस्तु ते॥५७॥



त्रिभिः कायैर्महाबोधिं सर्वाकारामुपागत।

सर्वत्र सर्वसत्वानां काङ्क्षाछिद नमोऽस्तु ते॥५८॥



निरवग्रह निर्दोष निष्कालुष्यानवस्थित।

आनिङ्क्ष्य सर्वधर्मेषु निष्प्रपञ्च नमोऽस्तु ते॥५९॥



निष्पन्नपरमार्थों ऽसि सर्वभूमिविनिःसृतः।

सर्वसत्वाग्रतां प्राप्तः सर्वसत्वविमोचकः॥६०॥



अक्षयैरसमैर्युक्तो गुणैर्लोकेषु दृश्यसे।

मण्डलेष्वप्यदृश्यश्च सर्वथा देवमानुषैः॥६१॥



॥ महायानसूत्रालंकारेषु व्यवदातसमयमहाबोधिसत्वभाषिते चर्याप्रतिष्ठाधिकारो नामैकविंशतितमो ऽधिकारः॥

॥ समाप्तश्च महायानसूत्रालंकार इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project