Digital Sanskrit Buddhist Canon

अष्टादशोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Aṣṭādaśo'dhikāraḥ

अष्टादशोऽधिकारः



लज्जाविभागे षोडश श्लोकाः।



लज्जा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन।

हीनानवद्यविषया सत्वानां पाचिका धीरे॥१॥



षणां पारमितानां निषेवणालस्यतो भवति लज्जा।

क्वेशानुकूलधर्मप्रयोगतश्चैव धीराणां॥२॥



असमाहितस्वभावा मृदुमध्या हीनभूमिका लज्जा।

हीनाशया समाना हीना हि तदन्यथा त्वधिका॥३॥



लज्जारहितो धीमान् क्लेशानधिवासयत्ययोनिशतः।

प्रतिघोपेक्षामानः सत्वानुपहन्ति शीलं च॥४॥



कौकृत्यात्सविलेखो भवति स संमानहानिमाप्नोति।

श्राद्धात्मा[मा]नुषसंघाच्छास्त्रा चोपेक्ष्यते तस्मात्॥५॥



सहधार्मि कैर्जिनसुतैर्विनिन्द्यते लोकतो ऽयशो लभते।

दृष्टे धर्मे

ऽन्यत्र क्षणरहितो जायते भूयः॥६॥



प्राप्ताप्राप्तविहानिं शुक्लैर्धर्मैः समाप्नुते तेन।

दुःखं विहरति तस्मान्मनसो ऽप्यस्वस्थतामेति॥७॥



एते सर्वे दोषा हिमत्सु भवन्ति नो जिनसुतेषु।

देवेषु च मनुजेषु च नित्यं संजायते च बुधः॥८॥



संभारांश्च स बोधेः क्षिप्रं पूरयति लज्जया धीमान्।

सत्वानां पाचनया न खिद्यते चैव जिनपुत्रः॥९॥



स विपक्षप्रतिपक्षै रहितो ऽरहितश्च जायते सततं।

इत्येतमानुशंसं ह्रीमानाप्नोति जिनपुत्रः॥१०॥



दोषमलिनो हि बालो ह्रीविरहात्सुवसनैः सुगुप्तो ऽपि।

निर्वसनोऽपि जिनसुतो ह्रीवसनो मुक्तदोषमलः॥११॥



आकाशमिव न लिप्तो ह्रीयुक्तः जिनसुतो भवति धर्मैः।

ह्रीभूषितश्च शोभति संपर्कगतो जिनसुतानाम्॥१२॥



मातुरिव वत्सलत्वं ह्रियो विनेयेषु बोधिसत्वानां।

आरक्षा चापि ह्रीः संसरतां सर्वदोषेभ्यः॥१३॥



सर्वेषु नाधिवासा सर्वेष्वधिवासनाप्रवृत्तिश्च।

सर्वेषु च प्रवृत्तिर्ह्रीविहितं ह्रीमतो लिङ्गम्॥१४॥



ह्रीभावना प्रधाना स्वचित्ततो धर्मतो ऽधिमोक्षाच्च।

आशयतो ऽपि विभुत्वादकल्पनादैक्यतश्चापि॥१५॥



धृतिश्च बोधिसत्वानां लक्षणेन प्रभेदतः।

दृढत्वेन च सर्वेभ्यस्तदन्येभ्यो विशिष्यते॥१६॥



वीर्यं समाधिः प्रज्ञा च सत्वं धैर्यं धृतिर्मता।

निर्भीतो बोधिसत्वो हि त्रयाद्यस्मात्प्रवर्तते॥१७॥



लीनत्वाच्च चलत्वाच्च मोहाच्चोत्पद्यते भयं।

कृत्येषु तस्माद्विज्ञेया धृतिसंज्ञा निजे त्रये॥१८॥



प्रकृत्या प्रणिधाने च निरपेक्षत्व एव च।

सत्वविप्रतिपत्तौ च गम्भीर्यौदार्यसंश्रवे॥१९॥



विनेयदुर्विनयत्वे कायाचिन्त्ये जिनस्य च।

दुष्करेषु विचित्रेषु संसारात्याग एव च॥२०॥



निःसंक्लेशे च तत्रैव धृतिर्धीरस्य जायते।

असमा च तदन्येभ्यः सो ऽग्रे धृतिमतां यतः[मतः]॥२१॥



कुमित्रदुःखगम्भीरश्रवाद्वीरो न कम्पते।

शलभैः पक्षवातैश्च समुदैश्च सुमेरुवत्॥२२॥



अखेदो बोधिसत्त्वानामसमस्त्रिषु वस्तुषु।

श्रुतातृप्तिमहावीर्यदुःखे ह्रीघृतिनिश्रितः॥२३॥



तीव्रच्छन्दो महाबोधावखेदो धीमतां मतः।

अनिष्पन्नश्च निष्पन्नः सुनिष्पन्नश्च भूमिषु॥२४॥



वस्तुना चाधिकारेण कर्मणा च विशिष्यते।

लक्षणेनाक्षयत्वेन फलस्योदागमेन च॥२५॥



शास्त्रज्ञता हि धीराणां समाधिमुखधारणी।

गृहीता सत्वपाकाय सद्धर्मस्य च धारणे॥२६॥



कायेन वचसा चैव सत्यज्ञानेन चासमा।

लोकज्ञता हि धीराणां तदन्येभ्यो विशिष्यते॥२७॥



सा पुनः किमर्थमित्याह। सत्वानां भाजनत्वाय।

कस्मिन्नर्थे भाजनत्वाय। सद्धर्मप्रतिपत्तये॥२८॥



सत्यद्वयाद्यतश्चेष्टो लोकानामुदयो ऽसकृत्।

द्वयादस्तंगमस्तस्मात् तज्ज्ञो लोकज्ञ उच्यते॥२९॥



शमाय प्राप्तये तेषां धीमान् सत्येषु युज्यते।

सत्यज्ञानद्यतो धीमान् लोकज्ञो हि निरुच्यते॥३०॥



आर्षश्च देशनाधर्मो अर्थो ऽभिप्रायिकोऽस्य च।

प्रामाणिकश्च नीतार्थो निर्जल्पा प्राप्तिरस्य च॥३१॥



प्रतिक्षेप्तुर्यथोक्तस्य मिथ्यासंतीरितस्य च।

साभिलाष[प]स्य च प्राप्तेः प्रतिषेधो ऽत्र देशितः॥३२॥



अधिमुक्तेर्विचाराच्च यथावत्परतः श्रवात्।

निर्जल्पादपि च ज्ञानादप्रणाशो हि धीमतां॥३३॥



असमा बोधिसत्त्वानां चतस्रः प्रतिसंविदः।

पर्याये लक्षणे वाक्ये ज्ञाने ज्ञानाच्च ता मताः॥३४॥



देशनायां प्रयुक्तस्य यस्य येन च देशना।

धर्मार्थयोर्द्वयोर्वाचा ज्ञानेनैव च देशना॥३५॥



धर्मस्योद्देशनिर्देशात्सर्वथा प्रापणाद् द्वयोः।

परिज्ञाना[हाना]च्च चोद्यानां प्रतिसंविच्चतुष्टयम्॥३६॥



प्रत्यात्मं समतामेत्य योत्तरत्र प्रवेदना।

सर्वसंशयनाशाय प्रतिसंविन्निरुच्यते॥३७॥



संभारो बोधिसत्वानां पुण्यज्ञानमयो ऽसमः।

संसारेऽभ्युदयायैकः अन्यो ऽसंक्लिष्टसंसृतौ॥३८॥



दानं शीलं च पुण्यस्य प्रज्ञा ज्ञानस्य संभृतिः।

त्रयं चान्यद्‍द्व्यस्यापि पञ्चापि ज्ञानसंभृतिः॥३९॥



संतत्या भावनामेत्य भूयो भूयः शुभस्य हि।

आहारो यः स संभारो वी[धी]रे सर्वार्थसाधकः॥४०॥



प्रवेशायानिमित्ताय अनाभोगाय संभृतिः।

अभिषेकाय निष्ठायै धीराणामुपचीयते॥४१॥



चतुर्दशभिराकारैः स्मृत्युपस्थानभावना।

धीमतामसमत्वात्सा तदन्येभ्यो विशिष्यते॥४२॥



निश्रयात्प्रतिपक्षाच्च अवतारात्तथैव च।

आलम्बनमनस्कारप्राप्तितश्च विशिष्यते॥४३॥



आनुकूल्यानुवृत्तिभ्यां परिज्ञोत्पत्तितो ऽपरा।

मात्रया परमत्वेन भावनासमुदागमात्॥४४॥



सम्यक्प्रहाणं धीराणामसमं सर्वदेहिभिः।

समृत्युपस्थानदोषाणां प्रतिपक्षेण भाव्यते॥४५॥



संसारस्योपभोगे च त्यागे निवरणस्य च।

मनस्कारस्य च त्यागे प्रवेशे चैव भूमिषु॥४६॥



अनिमित्तविहारे च लब्धौ व्याकरणस्य च।

सत्वानां परिपाके च अभिषेके च धीमतां॥४७॥



क्षेत्रस्य च विशुद्ध्यर्थं निष्ठागमन एव च।

भाव्यते बोधिसत्वानां विपक्षप्रतिपक्षतः॥४८॥



छन्दं निश्रित्य योगस्य भावना सनिमित्तिका।

सर्वसम्यक्प्रहाणेषु प्रतिपक्षो निरुच्यते॥४९॥



ऋद्धिपादाश्च चत्वारो धीराणामग्रलक्षणाः।

सर्वार्थसिद्धौ जायन्ते आत्मनश्च परस्य च॥५०॥



निश्रयाच्च प्रभेदाच्च उपायदभिनिर्हृतेः।

व्यवस्था ऋद्धिपादानां धीमतां सर्वथेष्यते॥५१॥



ध्यानपारमिमाश्रित्य प्रभेदो हि चतुर्विधः।

उपायश्चाभिनिर्हारः षड्‍विधश्च विधीयते॥५२॥



व्यावसायिक एकश्च द्वितीयो ऽनुग्रहात्मकः।

नैबन्धिकस्तृतीयश्च चतुर्थः प्रातिपक्षिकः॥५३॥



दर्शनस्याववादस्य स्थितिविक्रीडितस्य च।

प्रणिधेर्वशितायश्च धर्मप्राप्तेश्च निर्हृतिः॥५४॥



बोधिश्चर्या श्रुत चात्र[ग्रं]शमथो ऽथ विपश्यना।

श्रद्धादीनां पदं ज्ञेयमर्थसिद्ध्यधिकारतः॥५५॥



भूमिप्रवेशसंक्लिष्टाश्चेष्टाः श्रद्धादयः पुनः

विपक्षदुर्बलत्वेन त एव बलसंज्ञिताः॥५६॥



भूमिविष्टस्य बोध्यङ्गव्यवस्थानं विधीयते।

धर्माणां सर्वसत्वानां समतावगमात्पुनः॥५७॥



स्मृतिश्चरति सर्वत्र ज्ञेयाजितविनिर्जये।

सर्वकल्पनिमित्तानां भङ्गाय विचयोऽस्य च॥५८॥



यथा हस्तिरत्नं प्रत्यर्थिकभङ्गाय।

आशु चाशेषबोधाय वीर्यस्य प्रवर्तते।

धर्मालोकविवृद्ध्या च प्रीत्या आपूर्यते ध्रुवम्॥५९॥



सर्वावरणनिर्मोक्षात् प्रश्रब्ध्या सुखमेति च।

चिन्तितार्थसमृद्धिश्च समाधेरूपजायते॥६०॥



उपेक्षया यथाकामं सर्वत्र विहरत्यसौ।

प[पृ]ष्ठलब्धाविकल्पेन विकल्पेन [विहारेण] सदोत्तमः॥६१॥



एवंगुणो बोधिसत्त्वश्चक्रवर्तीव वर्तते।

सप्तरत्नोपमैर्नित्यं बोध्यङ्गैः परिवारितः॥६२॥



निश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकं।

चतुर्थमनुशंसाङ्गमक्लेशाङ्गं त्रयात्मकम्॥६३॥



यथाबोधानुवृत्तिश्च तदूर्ध्वमुपजायते।

यथाबोधव्यवस्थानं प्रवेशश्च व्यवस्थितौ॥६४॥



कर्मत्रयविशुद्धिश्च प्रतिपक्षस्य भावना।

ज्ञेयावृत्तेश्च मार्गस्य वैशेषिकगुणस्य च॥६५॥



चित्तस्य चित्ते स्थानाच्च धर्मप्रविचयादपि।

सम्यक् स्थितिमुपाश्रित्य शमथो ऽथ विपश्यना॥६६॥



सर्वत्रगा च सैकाशां नैकांशोपनिषन्मता।

प्रतिवेधे च निर्याणे अनिमित्ते ह्यसंस्कृते॥६७॥



परिशुद्धौ विशुद्धौ च शमथो ऽथ विपश्यना।

सर्वभूमिगता धीरे स योगः सर्वसाधकः॥६८॥



पूरये बुद्धधर्माणां सत्वानां परिपाचने।

क्षिप्रप्राप्तौ क्रियाशुद्धौ वर्त्माच्छेदे च कौशलं॥६९॥



उपाये बोधिसत्त्वानामसमं सर्वभूमिषु।

यत्कौशल्यं समाश्रित्य सर्वार्थान्साधयन्ति ते॥७०॥



विपाकेन श्रुताभ्यासात् धारण्यपि समाधिना।

परीत्ता महती सा च महती त्रिविधा पुनः॥७१॥



अप्रविष्टप्रविष्टानां धीमतां मृदुमध्यमा।

अशुद्धभूमिकानां हि महती शुद्धभूमिका॥७२॥



धारणी[णीं]तां समाश्रित्य बोधिसत्वा पुनः पुनः।

प्रकाशयन्ति सद्धर्मं नित्यं संधारयन्ति च॥७३॥



चेतना छन्दसहिता ज्ञानेन प्रेरिता च तत्।

प्रणिधानं हि धीराणामसमं सर्वभूमिषु॥७४॥



हेतुभूतं च विज्ञेयं चित्तात्सद्यः फलं च तत्।

आयत्यामर्थसिद्ध्यर्थं चित्तमात्रात्समृद्धितः॥७५॥



चित्रं महद्विशुद्धं च उत्तरोत्तरभूमिषु।

आबोधेर्बोधिसत्त्वानां स्वपरार्थप्रसाधकं॥७६॥



नैरात्म्यं द्विविधं ज्ञेयो ह्यात्मग्राहस्य चाश्रयः।

तस्य चोपशमो नित्यं समाधित्रयगोचरः॥७७॥



समाधिस्त्रिविधो ज्ञेयो ग्राह्यग्राहकभावतः।

निर्विकल्पोऽपि विमुखो रतियुक्तश्च सर्वदा॥७८॥



परिज्ञायै प्रहाणाय पुनः साक्षात्क्रियाय च।

शून्यतादिसमाधीनां त्रिधार्थः परिकीर्तितः॥७९॥



समाध्युपनिषत्त्वेन धर्मोद्दानचतुष्टयं।

देशितं बोधिसत्त्वेभ्यः सत्वानां हितकाम्यया॥८०॥



असदर्थो ऽविकल्पार्थः परिकल्पार्थ एव च।

विकल्पोपशमार्थश्च धीमतां तच्चतुष्टयम्॥८१॥



अयोगाद्धेतुतोत्पत्तेर्विरोधात्स्वयमस्थितेः।

अभावाल्लक्षणैकान्त्यादनुवृत्तेर्निरोधतः॥८२॥



परिणामोपलब्धेश्च तद्धेतुत्वफलत्वतः।

उपात्तत्वाधिपत्वा[त्या]च्च शुद्धसत्वानुवृत्तितः॥८३॥



आद्यस्तरतमेनापि चयेनाश्रयभावतः।

विकारपरिपाकाभ्यां तथा हीनविशिष्टतः॥८४॥



भास्वराभास्वरत्वेन देशान्तरगमेन च।

सबीजाबीजभावेन प्रतिबिम्बेन चोदयः॥८५॥



चतुर्दशविधोत्पत्तौ हेतुमानविशेषतः।

चयाया[पा]र्थादयोगाच्च आश्रयत्व असंभवात्॥८६॥



स्थितस्यासंभवादन्ते आद्यनाशाविकारतः।

तथा हीनविशिष्टत्वे भास्वराभास्वरे ऽपि च॥८७॥



गत्यभावात्स्थितायोगाच्चरमत्व असंभवात्।

अनुवृत्तेश्च चित्तस्य क्षणिकं सर्वसंस्कृतम्॥८८॥



भूतानां षड्विधार्थस्य क्षणिकत्वं विधीयते।

शोषवृद्धेः प्रकृत्या च चलत्वाद् वृद्धिहानितः॥८९॥



तत्संभवात्पृथिव्याश्च परिणामचतुष्टयात्।

वर्णगन्धरसस्पर्शतुल्यत्वाच्च तथैव तत्॥९०॥



इन्धनाधीनवृत्तित्वात्तारतम्योपलब्धितः।

चित्तानुवृत्तेः पृच्छातः क्षणिकं बाह्यमप्यतः॥९१॥



प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु।

नोपलम्भाद्विपर्यासात् संक्लेशात् क्लिष्टहेतुतः॥९२॥



एकत्वान्यत्वतोवाच्यस्तस्माद्दोषद्वयादसौ।

स्कन्धात्मत्वप्रसङ्गाच्च तद्‍द्रव्यत्वप्रसङ्गतः॥९३॥



द्रव्यसन् यद्यवाच्यश्च वचनीयं प्रयोजनं।

एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः॥९४॥



लक्षणाल्लोकदृष्टाच्च शास्त्रतो ऽपि न युज्यते।

इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि॥९५॥



द्वये सति च विज्ञानसंभवात्प्रत्ययो न सः।

नैरर्थक्यादतो द्रष्टा यावन्मोक्ता न युज्यते॥ ९६॥



स्वामित्वे सति चानित्यमनिष्टं न प्रवर्तयेत्।

तत्कर्मलक्षणं साध्यं संबोधो बाध्यते त्रिधा॥९७॥



दर्शनादौ च तद्यत्नः स्वयंभूर्न त्रयादपि।

तद्यत्नप्रत्ययत्वं च निर्यत्नं दर्शनादिकं॥९८॥



अकर्तृत्वादनित्यत्वात्सकृत्रित्यप्रवृत्तितः।

दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते॥९९॥



तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः।

तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते॥१००॥



सर्वधर्मा अनात्मानः परमार्थेन शून्यता।

आत्मोपलम्भे दोषश्च देशितो यत एव च॥१०१॥



संक्लेशव्यवदाने च अवस्थाच्छेदभिन्नके।

वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः॥१०२॥



आत्मदृष्टिरनुत्पाद्या अभ्यासो ऽनादिकालिकः।

अयत्नमोक्षः सर्वेषां न मोक्षः पुद्गलोऽस्ति वा॥१०३॥



प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु।

एकत्वान्यत्वतोवाच्यस्तस्मादसौ।

स्कन्धात्मत्वप्रसङ्गाच्च तद्‍द्रव्यत्वप्रसङ्गतः।

द्रव्यसन्यद्यवाच्यश्च वचनीयं प्रयोजनं।

एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः।

लक्षणाल्लोकदृष्टाच्च शास्त्रतो ऽपि न युज्यते।

इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि।

द्वयं प्रतीत्य विज्ञानसंभवात्प्रत्ययो न सः।

स्वामित्वे सति वानित्यमनिष्टं न प्रवर्तयेत्॥

तद्यत्नप्रत्ययत्वं च

निर्यत्नं दर्शनादिकम्।



अकर्तृत्वादनित्यत्वात्सकृन्नित्यप्रवृत्तितः।

दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते॥



तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः।

तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते॥



सर्वे धर्मा अनात्मानः परमार्थेन शून्यता।

आत्मोपलम्भे दोषश्च देशितो यत एव च॥



संक्लेशे व्यवदाने च अवस्थाच्छेदभिन्नके।

वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः॥



आत्मदृष्टिरनूत्पाद्या

पूर्वमेवोत्पन्नत्वात्। नापि तदभ्यासार्थं यस्मादात्मदृष्टेर्

अभ्यासो ऽनादिकालिकः।

यदि चात्मदर्शनेन मोक्ष इत्यसौ देश्येत। एवं सति स्यात्

अयत्नमोक्षः सर्वेषां



एवमेभिर्गुणैर्नित्यं बोधिसत्वाः समन्विताः।

आत्मार्थं च न रिञ्चन्ति परार्थं साधयन्ति च॥१०४॥



॥ महायानसूत्रालंकारे बोधिपक्षाधिकारः[अष्टादशः] समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project