Digital Sanskrit Buddhist Canon

सप्तदशोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Saptadaśo'dhikāraḥ

सप्तदशोऽधिकारः



बुद्धपूजाविभागे सप्त श्लोकाः।



संमुखं विमुखं पूजा बुद्धानां चीवरादिभिः।

गाढप्रसन्नचित्तस्य संभारद्वयपूरये॥१॥



अबन्ध्यबुद्धजन्मत्वे प्रणिधानवतः सतः।

त्रयस्यानुपलम्भस्तु निष्पन्ना बुद्धपूजा॥२॥



सत्वानामप्रमेयानां परिपाकाय चापरा।

उपधेश्चित्ततश्चान्या अधिमुक्तेर्निधानतः॥३॥



अनुकम्पाक्षमाभ्यां च समुदाचारतो ऽपरा।

वस्त्वाभोगावबोधाच्च विमुक्तेश्च तथात्वतः॥४॥



आश्रयाद्वस्तुतः पूजा निमित्तात्परिणामनात्।

हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता॥५॥



हेतुतः फलतश्चैव आत्मना च परैरपि।

लाभसत्कारतश्चैव प्रतिपत्तेर्द्विधा च सा॥६॥



परीत्ता महती पूजा समानामानिका च सा।

प्रयोगाद्गतितश्चैव प्रणिधानाच्च सा मता॥७॥



बुद्धेषु पूजा परमा स्वचित्तात् धर्माधिमुक्त्याशयतो विभुत्वात्।

अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश्च॥८॥



आश्रयाद्वस्तुतः सेवा निमित्तात्परिणामनात्।

हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता॥९॥



मित्रं श्रयेद्दान्तशमोपशान्तं गुणाधिकं सोद्यममागमाढ्यं।

प्रबुद्धतत्वं वचसाभ्युपेतं कृपात्मकं खेदविवर्जितं च॥१०॥



सत्कारलाभैः परिचर्यया च सेवेत मित्रं प्रतिपत्तितश्च।

धर्मे तथाज्ञाशय एव धीमान् मित्रं प्रगच्छेत्समये नतश्च॥११॥



सत्कारलाभेषु गतस्पृहो ऽसौ प्रपत्तये तं परिणामयेच्च।

यथानुशिष्टप्रतिपत्तितश्च संराधयेच्चित्तमतो ऽस्य धीरः॥१२॥



यानत्रये कौशलमेत्य बुद्ध्या स्वस्यैव यानस्य यतेत सिद्धौ।

इति मानत्रयकौशलात् ज्ञानं।

सत्वानमेयान्परिपाचनाय क्षेत्रस्य शुद्धस्य च साधनाय॥१३॥



धर्मेषु दायादगुणेन युक्तो नैवामिषेण प्रवेसत्स मित्रम्।

हेतोः फलाद्धर्ममुखानुयानात्सेवेत मित्रं बहितश्च धीमान्॥१४॥



श्रुतश्रवाच्चेतसि योगतश्च समाननिर्मानमनो ऽनुयोगात्।

गतिप्रयोगप्रणिधानतश्च कल्याणमित्रं हि भजेत् धीमान्॥१५॥



सन्मित्रसेवा परमा स्वचित्ताद् धर्माधिमुक्त्याशयतो विभुत्वैः।

अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश्च॥१६॥



ब्राह्मा विपक्षहीना ज्ञानेन गताश्च निर्विकल्पेन।

त्रिविधालम्बनवृत्ताः सत्वानां पाचका धीरे॥१७॥



सौख्यार्थिनि दुःखार्ते सुखिते क्लिष्टे च ते प्रवर्तन्ते।

तद्देशिते च धर्मे तत्तथतायां च धीराणाम्॥१८॥



तस्याश्च तथतार्थत्वात् क्षान्तिलाभाद्विशुद्धितः।

कर्मद्वयादनालम्बा मैत्री क्लेशक्षयादपि॥१९॥



ते निश्चलाश्च चलाश्च कृपणैरास्वादिता न च ज्ञेयाः।

अचलेषु बोधिसत्त्वाः प्रतिष्ठिताः सक्तिविगतेषु॥२०॥



असमाहितस्वभावा मृदुमध्या हीनभूमिका येऽपि।

हीनाशयाः समाना हीनास्ते ह्यन्यथा त्वधिकाः॥२१॥



ब्राह्म्यैर्विहृतविहारः कामिषु संजायते यदा धीमान्।

संभारान्पूरयते सत्वांश्च विपाचयति तेन॥२२॥



सर्वत्र चाविरहितो ब्राह्म्यै रहितश्च तद्विपक्षेण।

तत्प्रत्ययैरपि भृशैर्न याति विकृतिं प्रमत्तो ऽपि॥२३॥



व्यापादविहिंसाभ्यामरतिव्यापादकामरागैश्च।

युक्तो हि बोधिसत्त्वो बहुविधमादीनवं स्पृशति॥२४॥



क्लेशैर्हन्त्यात्मानं सत्वानुपहन्ति शीलमुपहन्ति।

सविलेखलाभहीनो रक्षाहीनस्तथा शास्त्रा[ता]॥२५॥



साधिकरणो ऽशयस्वी परत्र संजायते ऽक्षणेषु स च।

प्राप्ताप्राप्तविहीनो मनसि महद् दुःखमाप्नोति॥२६॥



एते सर्वे दोषा मैत्र्यादिषु सुस्थितस्य न भवन्ति।

अक्लिष्टः संसारं सत्वार्थं नो च संत्यजति॥२७॥



न तथैकपुत्रकेष्वपि गुणवत्स्वपि भवति सर्वसत्वानां।

मैत्र्यादिचेतनेयं सत्वेषु यथा जिनसुतानां॥२८॥



प्रदीप्तान् शत्रुवशगान् दुःखाक्रान्तांस्तमोवृतान्।

दुर्गमार्गसमारूढान्महाबन्धनसंयुतान्॥२९॥



महाशनविषाक्रान्तलोलान्मार्गप्रनष्टकान्।

उत्पथप्रस्थितान् सत्वान्दुर्बलान् करुणायते॥३०॥



हेठापहं ह्युत्तमबोधिबीजं सुखावहं ताय[प]कमिष्टहेतुं।

स्वभावदं धर्ममुपाश्रितस्य बोधिर्न दूरे जिनात्मजस्य॥३१॥



विज्ञाय संसारगतं समग्रं दुःखात्मकं चैव निरात्मकं च।

नोद्वेगमायाति न चापि दोषैः प्रबाध्यते कारुणिको ऽग्रबुद्धिः॥३२॥



दुःखात्मकं लोकमवेक्षमाणो दुःखायते वेत्ति च तद्यथावत्।

तस्याभ्युपायं परिवर्जने च न खेदमायत्यपि वा कृपालुः॥३३॥



कृपा प्रकृत्या प्रतिसंख्यया च पूर्वं तदभ्यासविधानयोगात्।

विपक्षहीना च विशुद्धिलाभात् चतुर्विधेयं करूणात्मकानां॥३४॥



न सा कृपा या न समा सदा वा नाध्याशयाद्वा प्रतिपत्तितो वा।

वैराग्यतो नानुपलम्भतो वा न बोधिसत्त्वो ह्यकृपस्तथा यः॥३५॥



करुणा क्षान्तिश्चिन्ता प्रणिधानं जन्मसत्वपरिपाकः।

करुणातरुरेष महान्मूलादिः पुष्पपत्र[पश्चिमाग्र] (पश्चिमान्त)फलः॥३६॥



मूलं करुणा न भवेद् दुष्करचर्यासहिष्णुता न भवेत्।

दुःखाक्षमश्च धीमान् सत्वार्थं चिन्तयेन्नैव॥३७॥



चिन्ताविहीनबुद्धिः प्रणिधानं शुक्लजन्मसु न कुर्यात्।

शुभजन्माननुगच्छन्सत्वान्परिपाचयेन्नैव॥३८॥



करुणासेको मैत्री तद्‍दुःखे सौख्यतो विपुलपुष्टिः।

शाखावृद्धिर्विशदा योनिमनस्कारतो ज्ञेया॥३९॥



पर्णत्यागादानं प्रणिधीनां संततेरनुच्छेदात्।

द्विविधप्रत्ययसिद्धेः पुष्पमबन्ध्यं फलं चास्मात्॥४०॥



कः कुर्वीत न करुणां सत्वेषु महाकृपागुणकरेषु।

दुःखेऽपि सौख्यमतुलं भवति यदेषां कृपाजनितं॥४१॥



अविष्टानां कृपया न तिष्ठति मनः शमे कृपालूनां।

कुत एव लोकसौख्ये स्वजीविते वा भवेत्स्नेहः॥४२॥



स्नेहो न विद्यते ऽसौ यो ऽनिरवद्यो न लौकिको यश्च।

धीमत्सु कृपास्नेहो निरवद्यो लोकसमतीतः॥४३॥



दुःखाज्ञानमहौघे महान्धकारे च निश्रितं लोकं।

उद्धर्तुं य उपायः कथमिव न स्यात्स निरवद्यः॥४४॥



स्नेहो न सो ऽस्त्यरिहतां लोके प्रत्येकबोधिबुद्धानां।

प्रागेव तदन्येषां कथमिव लोकोत्तरो न स्यात्॥४५॥



दुःखाभावे दुःखं यत्कृपया भवति बोधिसत्त्वानां।

संत्रासयति तदादौ स्पृष्टं त्वभिनन्दयति गाढं॥४६॥



किमतः परमाश्चर्यं यद् दुःखं सौख्यमभिभवति सर्व।

कृपया जनितं लौक्यं येन विमुक्तो अपि कृतार्थः॥४७॥



कृपया सहितं दानं यद्दानसुखं करोति धीराणां।

त्रैधातुकमुपभोगैर्न तत्सुखं तत्कलां स्पृशति॥४८॥



दुःखमयं संसारं यत्कृपया न त्यजति सत्वार्थं।

परहितहेतोर्दुःखं किं कारूणिकैर्न समुपेतम्॥४९॥



करूणा दानं भोगाः सदा कृपालोर्विवृद्धिमुपयान्ति।

स्नेहानुग्रहजनितं तच्छक्तिकृतं सुखं चास्मात्॥५०॥



वर्धे च वर्धयामि च दाने परिपाचयामि सुखयामि।

आकर्षामि नयामि च करुणा सन्नान्प्रवदतीव॥५१॥



दुःखे दुःखी कृपया सुखान्यनाधाय केन सुखितः स्यात्।

सुखयत्यात्मानमतः कृपालुराधाय परसौख्यम्॥५२॥



स्वं दानं कारूणिकः शास्तीव सदैव निःस्वसुखकामः।

भोगैः सुखय परं वा मामप्ययुतसौख्यम्॥५३॥



सफलं दानं दत्तं तन्मे सत्वेषु तत्सुखसुखेन।

फल तेष्वेव निकामं यदि मे कर्तव्यता ते ऽस्ति॥५४॥



भोगेद्वेष्टुर्दातुर्भोगा बहुशुभतरोपसर्पन्ति।

न हि तत्सुखं मतं मे दाने पारंपरो ऽस्मि यतः॥५५॥



सर्वास्तिपरित्यागे यत्कृपया मां निरीक्षसे सततं।

ननु ते तेन ज्ञेयं न मत्फलेनार्थिता ऽस्येति॥५६॥



दानाभिरतो न स्यां प्राप्तं चेत्तत्फलं न विसृजेयं।

क्षणमपि दानेन विना दानाभिरतो भवति नैव॥५७॥



अकृतं न फलसि यस्मात्प्रतिकारापेक्षया न मे तुल्यं।

प्रतिकारनिर्व्यपेक्षः परत्र फलदोऽस्य कामं ते॥५८॥



निरवद्यं शुद्धपदं हितावहं चैव सानुरक्षं च।

निर्मृग्यं निर्लेपं जिनात्मजानां कृपादानम्॥५९॥



सकलं विपुलं श्रेष्ठं सततं मुदितं निरामिषं शुद्धं।

बोधिनतं कुशलनतं जिनात्मजानां कृषादानम्॥६०॥



न तथोपभोगतुष्टिं लभते भोगी यथा परित्यागात्।

तुष्टिमुपैति कृपालुः सुखत्रयाप्यायितमनस्कः॥६१॥



कृपणकृपा रौद्रकृपा संक्षुब्धकृपा कृपा प्रमत्तेषु।

विषयपरतन्त्रकरुणा मिथ्याभिनिविष्टकरुणा च॥६२॥



करुणा बोधिसत्वानां सुखाद् दुःखात्तदन्वयात्।

करुणा बोधिसत्त्वानां हेतोर्मित्रात्स्वभावतः॥६३॥



करुणा बोधिसत्त्वानां समा ज्ञेया तदाशयात्।

प्रतिपत्तेर्विरागाच्च नोपलम्भाद्विशुद्धितः॥६४॥



मैत्राद्रिभावनाग्रा स्वचित्ततो धर्मतो ऽधिमोक्षाच्च।

आशयतो ऽपि विभुत्वादविकल्पादैक्यतश्चापि॥६५॥



इति भगवति जातसुप्रसादो महदुपधिध्रुवसत्किर्यामिपूजी।

बहुगुणहितमित्रनित्यसेवो जगदनुकम्पक एति सर्वसिद्धिं॥६६॥



॥ महायानसूत्रालंकारे पूजासेवाऽप्रमाणाधिकारः [ सप्तदशः] समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project