Digital Sanskrit Buddhist Canon

षोडशोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ṣoḍaśo'dhikāraḥ
षोडशोऽधिकारः



पारमिताप्रभेदसंग्रहे उद्दानश्लोकः।



संख्याविभागे ष्ट् श्लोकाः।



सांख्याथ तल्लक्षणमानुपूर्वी निरुत्तिरभ्यासगुणश्च तासां।

प्रभेदनं संग्रहणं विपक्षो ज्ञेयो गुणो ऽन्योन्यविनिश्चयश्च॥१॥



भोगात्मभावसंपत्परिचारारम्भसंपदभ्युदयः।

क्लेशावशगत्वमपि च कृत्येषु सदाविपर्यासः॥२॥



सत्वार्थेषु सुयुक्तस्त्यागानुपघातमर्षणैः कुरुते।

सनिदानस्थितिमुक्त्या आत्मार्थं सर्वथा चरति॥३॥



अविघातैरविहेठैर्विहेठसंमर्षणैः क्रियाखेदैः।

आवर्जनैः सुलपितैः परार्थ आत्मार्थ एतस्मात्॥४॥



भोगेषु चानभिरतिस्तीव्रा गुरुताद्वये अखेदश्च।

योगश्च निर्विकल्पः समस्तमिदमुत्तमं यानं॥५॥



विषयेष्वसक्तिमार्गस्तदाप्तिविक्षेपसंयमेष्वपरः।

सत्त्वाविसृजनवर्धन आवरणविशोधनेष्वपरः॥६॥



शिक्षात्रयमधिकृत्य च षष्ट् पारमिता जिनैः समाख्याताः।

आद्या तिस्रो द्वेधा अन्त्यद्वयतस्तिसृष्वेका॥७॥



दानं विपक्षहीनं ज्ञानेन गतं च निविकल्पेन।

सर्वेच्छापरिपूरकमपि सत्वविपाचकं त्रेधा॥८॥



शीलं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन।

सर्वेच्छापरिपूरकमपि सत्वविपाचकं त्रेधा॥९॥



क्षान्तिर्विपक्षहीना ज्ञानेन गता च निर्विकल्पेन।

सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा॥१०॥



वीर्यं विपक्षहीनं ज्ञानेन गतं च निविकल्पेन।

सर्वेच्छापरिपूरकमपि सत्वाविपाचकं त्रेधा॥११॥



ध्यानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन।

सर्वेच्छापरिपूरकमपि सत्वविपाचकं त्रेधा॥१२॥



प्रज्ञा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन।

सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा॥१३॥



पूर्वोत्तरविश्रयतश्चोत्पत्तेस्तत्क्रमेण निर्देशः।

हीनोत्कर्षस्थानादौदारिकसूक्ष्मतश्चापि॥१४॥



दारिद्यस्यापनयाच्छैत्यस्य च लम्भनात् क्षयात् क्रुद्धेः।

वरयोगमनोधारणपरमाथ[र्थ]ज्ञानतश्चोक्तिः॥१५॥



भावनोपधिमाश्रित्य मनस्कारं तथाशयं।

उपायं च विभुत्वं च सर्वासामेव कथ्यते॥१६॥



प्रतिपादनमर्थस्य चेतना मूलनिश्चिता।

भोगात्मभावसंपत्ती द्वयानुग्रहपूरकं॥१७॥



अमात्सर्ययुतं तच्च दृष्टधर्मामिषाभये।

दानमेव[वं] परिज्ञाय पण्डितः समुदानयेत्॥१८॥



षडङ्ग[ङ्गं]शमभावान्तं सुगतिस्थितिदायकं।

प्रतिष्ठाशान्तनिर्भीतं पुण्यसंभारसंयुतं॥१९॥



संकेतधर्मतालब्धं सवंरस्थेषु विद्यते।

शीलमेवं परिज्ञाय पण्डितः समुदानयेत्॥२०॥



मर्षाधिवासनज्ञानं कारुण्याद्धर्मसंश्रयात्।

पञ्चानुशंसमाख्यातं द्वयोरर्थकरं च तत्॥२१॥



तपः प्राबल्यसंयुक्तं तेषु तत्त्रिविधं मतं।

क्षान्तिमेवं परिज्ञाय पण्डितः समुदानयेत्॥२२॥



द्वयोरर्थं स कुरूते आत्मनश्च परस्य च।

यः परं कुपितं ज्ञात्वा स्वयं तत्रोपशाम्यति॥इति॥



उत्साहः कुशले सम्यक् श्रद्धाच्छन्दप्रतिष्ठितः।

स्मृत्यादिगुणवृद्धौ च संक्लेशप्रातिपक्षिकः॥२३॥



अलोभादिगुणोपेतस्तेषु सप्तविधश्च सः।

वीर्यमेव परिज्ञाय पण्डितः समुदानयेत॥२४॥



स्थितिश्चेतस अध्यात्मं स्मृतिवीर्यप्रतिष्ठितं।

सुखोपपत्तये ऽभिज्ञाविहारवशवर्तकम्॥२५॥



धर्माणां प्रमुखं तेषु विद्यते त्रिविधश्च सः।

ध्यानमेवं परिज्ञाय पण्डितः समुदानयेत्॥२६॥



सम्यक्प्रविचयो ज्ञेयः श[स]माधानप्रतिष्ठितः।

सुविमोक्षाय संक्लेशात्प्रज्ञाजीवसुदेशनः॥२७॥



धर्माणामुत्तरस्तेषु विद्यते त्रिविधश्च सः।

प्रज्ञामेवं परिज्ञाय पण्डितः समुदानयेत्॥२८॥



सर्वे शुक्ला धर्मा विक्षिप्तसमाहितोभया ज्ञेयाः।

द्वाभ्यां द्वाभ्यां द्वाभ्यां पारमिताभ्यां परिगृहीताः॥२९॥



न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च दानं।

न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्॥३०॥



न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च शीलं।

न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम्॥३१॥



न च सक्ता न च सक्ता न च सक्ता सत्तिका न क्षान्तिः।

न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम्॥३२॥



न च सक्तं न च सक्तं न च सक्तं सक्तमेव च न वीर्यं।

न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्॥३३॥



न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च ध्यानं।

न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्॥३४॥



न च सक्ता न च सक्ता न च सक्ता सक्तिका न च प्रज्ञा।

न च सक्ता न च सक्त न च सक्ता बोधिसत्त्वानाम्॥३५॥



त्यक्तं बुद्धसुतैः स्वजीवितमपि प्राप्यार्थिनं सर्वदा।

कारुण्यात्परतो न च प्रतिकृतिर्नेष्टं फलं प्रार्थितं।

दानेनैव च तेन सर्वजनता बोधित्रये रोपिता।

दानं ज्ञानपरिग्रहेण च पुनर्लोके ऽज्ञयं स्थापितम्॥३६॥



आत्तं बुद्धसुतैर्यमोद्यममयं शीलत्रयं सर्वदा।

स्वर्गो नाभिमतः समेत्य च पुनः सक्तिर्न तत्राहिता।

शीलेनैव च तेन सर्वजनता बोधित्रये रोपिता।

शीलं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम्॥३७॥



क्षान्तं बुद्धसुतैः सुदुष्करमथो सर्वापकारं नृणां

न स्वर्गार्थमस[श]क्तिमतो न च भयान्नैवोपकारेक्षणात्।

क्षान्त्यानुत्तरया च सर्वजनता बोधित्रये रोपिता।

क्षान्तिर्ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षया स्थापिता॥३८॥



वीर्यं बुद्धसुतैः कृतं निरूपमं संनाहयोगात्मकं

हन्तुं क्लेशगणं स्वतो ऽपि परतः प्राप्तुं च बोधिं परां।

वीर्येणैव च तेन सर्वजनता बोधित्रये रोपिता।

वीर्यं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम्॥३९॥



ध्यानं बुद्धसुतैः समाधिबहुलं संपादितं सर्वथा।

श्रेष्ठैर्ध्यानसुखैर्विहृत्य कृपया हीनापपत्तिः श्रिता।

ध्यानेनैव च तेन सर्वजनता बोधित्रये रोपिता।

ध्यानं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम्॥४०॥



ज्ञातं बुद्धसुतैः सतत्वमखिलं ज्ञेयं च यत्सर्वथा

सक्तिर्नैव च निर्वृतौ प्रजनिता बुद्धैः[द्धेः] कुतः संवृतौ।

ज्ञानेनैव च तेन सर्वजनता बोधित्रये रोपिता।

ज्ञानं सत्वपरिग्रहेण पुनर्लोके ऽक्षयं स्थापितम्॥४१॥



औदार्यानामिषत्वं च महार्थाक्षयतापि च।

दानादीनां समस्तं हि ज्ञेयं गुणचतुष्टयम्॥४२॥



दर्शनपूरणतुष्टिं याचनके ऽतुष्टिमपि समाशास्तिं।

अभिभवति स तां दाता कृपालुराधिक्ययोगेन॥४३॥



प्राणान्भोगान्दारान्सत्वेषु सदान्य[त्य]जनकृपालुत्वात्।

आमोदते निकामं तद्विरतिं पालयेत्र कथम्॥४४॥



निरपेक्षः समचित्तो निर्भीः सर्वप्रदः कृपाहेतोः।

मिथ्यावादं ब्रूयात्परोपघाताय कथमार्यः॥४५॥



समहितकामः सकृपः परदुःखोत्पादने ऽतिभीरूश्च।

सत्वविनये सुयुक्तेः सुविदूरे त्रिविधवाग्दोषात्॥४६॥



सर्वप्रदः कृपालुः प्रतीत्यधर्मोदये सुकुशलश्च।

अधिवासयेत्कथमसौ सर्वाकारं मनः क्लेशम्॥४७॥



उपकरसंज्ञामोदं ह्यपकारिणिपरहित संज्ञां[परहिते सदा] दुःखे।

लभते यदा कृपालुः क्षमितव्यं ..........[किं कुतस्यस्य]॥४८॥



परपरसंज्ञापगमात्स्वतो ऽधिकतरात्सदा परस्नेहात्।

दुष्करचरणात्सकृपे ह्यदुष्करं वीर्यं॥४९॥



अल्पसुखं ह्यात्मसुखं लीनं परिहाणिकं क्षयि समोहं।

ध्यानं मतं त्रयाणां विपर्ययाद्वोधिसत्वानाम्॥५०॥



आमोषैस्तमसि यथा दीपैर्नुन्नं[श्छन्ने] तथा त्रयज्ञानं।

दिनकरकिरणौरिव तु ज्ञानमतुल्यं कृपालुनाम्॥५१॥



आश्रयाद्वस्तुतो दानं निमित्तात्परिणामनात्।

हेतुतो ज्ञानतः क्षेत्रन्निश्रयाच्च परं मतम्॥५२॥



आश्रयाद्वस्तुतः शीलं निमित्तात्परिणामनात्।

हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम्॥५३॥



[आश्रयाद्वस्तुतः क्षान्तिनिमित्तात्परिणामनात्।

हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता

आश्रयाद्वस्तुतो वीर्यं निमित्तात्परिणामनात्।

हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम्॥५४॥



आश्रयाद्वस्तुतो ध्यानं निमित्तात्परिणामनात्।

हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम्॥५५॥



आश्रयाद्वस्तुतः प्रज्ञा निमित्तात्परिणामनात्।

हेतुतो ज्ञानतः क्षेत्रन्निश्रयाच्च परा मता॥५६॥



एकसत्वसुखं दानं बहुकल्पविघातकृत्।

प्रियं स्यद्वोधिसत्वानां प्रागेव तद्विपर्ययात्॥५७॥



यदर्थमिच्छन्ति धनानि देहिनस्तदेव धीरा विसृजन्ति देहिषु।

शरीरहेतोर्धनमिष्यते जनैस्तदेव धीरैः शतशो विसृज्यते॥५८॥



शरीरामेवोत्सृजतो न दुःख्यते यदा मनः का द्रविणे ऽवरे कथा।

तदस्य लोकोत्तरमिति यन्मुदं स तेन तत्तस्य तदुत्तरं पुनः॥५९॥



प्रतिग्रहैरिष्टनिकामलब्धर्न तुष्टिमायाति तथार्थिको ऽपि।

सर्वास्तिदानेन यथेह धीमान् तुष्टिं व्रजत्यर्थिजनस्य तुष्ट्या॥६०॥



संपूर्णभोगो न तथास्तिमन्तमात्मानमन्वीक्षति याचको ऽपि।

सर्वास्तिदानादधनो ऽपि धीमानात्मानमन्वेति यथास्तिमन्तं॥६१॥



सुविपुलमपि वित्तं प्राप्य नैवोपकारं

विगणयति तथाथी दायकाल्लाभहेतोः।

विधिवदिह सुदानैरर्थिनस्तर्पयित्वा

महदुपकरसंज्ञां तेषु धीमान्यथैति॥६२॥



स्वयमपगतशोका देहिनः स्वस्थरूपा

विपुलमपि गृहीत्वा भुञ्जते यस्य वित्तं।

पथि परमफलाढ्याद्भोगवृक्षाद्यथैव

प्रविसृतिरतिभोगी बोधिसत्त्वान्न सो ऽन्यः॥६३॥



प्राधान्यतत्कारणकर्मभेदात् प्रकारभेदाश्रयभेदतश्च।

चतुर्विबन्धप्रतिपक्षभेदात् वीर्यं परिज्ञेयमिति प्रदिष्टम्॥६४॥



वीर्यं परं शुक्लगणस्य मध्ये तन्निश्रितस्तस्य यतो ऽनुलाभः।

वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगतां च सिद्धिः॥६५॥



वीर्यावदवाप्तं भवभोगमिष्टं वीर्येण शुद्धिं प्रबलामुपेताः।

वीर्येण सत्कायमतीत्य मुक्ता वीर्येण बोधिं परमां विबुद्धाः॥६६॥



पुनर्मतं हानिविवृद्धिवीर्यं मोक्षाधिपं पक्षविपक्षमन्यत्।

तत्त्वे प्रविष्टं परिवर्तकं च वीर्यं महार्थं च निरुक्तमन्यत्॥६७॥



संनाहवीर्यं प्रथमं ततश्च प्रयोगवीर्यं विधिवत्प्रहितं।

अलीनमक्षोभ्यमतुष्टिवीर्यं सर्वप्रकारं प्रवदन्ति बुद्धाः॥६८॥



निकृष्टमध्योत्तमवीर्यमन्यत् यानत्रये युक्तजनाश्रयेण।

लीनात्युदाराशयबुद्धियोगात् वीर्यं तदल्पार्थमहार्थमिष्टम्॥६९॥



न वीर्यवान्भोगपराजितो ऽस्ति

नो वीर्यवान् क्लेशपराजितो ऽस्ति।

न वीर्यवान् खेदपराजितो ऽस्ति

नो वीर्यवान् प्राप्तिपराजितो ऽस्ति॥७०॥



अन्योन्यं संग्रहतः प्रभेदतो धर्मतो निमित्ताच्च।

षणां पारमितानां विनिश्चयः सर्वथा ज्ञेयः॥७१॥



दानं समं प्रियाख्यानमर्थचर्या समार्थता।

तद्देशना समादाय स्वानुवृत्तिभिरिष्यते॥७२॥



उपायो ऽनुग्रहकरो ग्राहको ऽथ प्रवर्तकः।

तथानुवर्तको ज्ञेयश्चतुःसंग्रहवस्तुतः॥७३॥



आद्येन भाजनीभावो द्वितीयेनाधिमुच्यना

प्रतिपत्तिस्तृतीयेन चतुर्थेन विशोधना॥७४॥



चतुः संग्रहवस्तुत्वं संग्रहद्वयतो मतं।

आमिषेणापि धर्मेण धर्मेणालम्बनादपि [दिना]॥७५॥



हीनमध्योत्तमः प्रायो वन्ध्यो ऽवन्ध्यश्च संग्रहः।

अबन्ध्यः सर्वथा चैव ज्ञेयो ह्याकारभेदतः॥७६॥



पर्षत्कर्षणप्रयुक्तैर्विधिरेष समाश्रितः।

सर्वार्थसिद्धौ सर्वेषां सुखोपायश्च शस्यते॥७७॥



संगृहीता ग्रहीष्यन्ते संगृह्यन्ते च ये ऽधुना।

सर्वे त एवं तस्माच्च वर्त्म तत्सत्वपाचने॥७८॥



इति सततमसक्तभोगबुद्धिः शमयमनोद्यमपारगः स्थितात्मा।

भवविषयनिमित्तनिर्विकल्पो भवति स सत्वगणस्य संगृहीता॥७९॥



॥ महायानसूत्रालंकारे पारमिताधिकारः [ षोडशः] समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project