Digital Sanskrit Buddhist Canon

चतुर्दशोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Caturdaśo'dhikāraḥ
चतुर्दशोऽधिकारः



अववादानुशासनीविभागे श्लोका एकपञ्चाशत्।



कल्पासंख्येयनिर्यातो ह्यधिमुक्तिं विवर्धयन्।

संपूर्णः कुशलैर्धर्मैः सागरो वारिभिर्यथा॥१॥



तथा संभृतसंभारो ह्यादिशुद्धौ जिनात्मजः।

सुविज्ञः कल्प[ल्य]चित्तश्च भावनायां प्रयुज्यते॥२॥



धर्मस्रोतसि बुद्धेभ्यो ऽववादं लभते तदा।

विपुलं शमथज्ञानवैपुल्यगमनाय हि॥३॥



ततः सूत्रादिके धर्मे सोऽद्वयार्थविभावके।

सूत्रादिनाम्नि बन्धीयाच्चित्तं प्रथमतो यतिः॥४॥



ततः पदप्रभेदेषु विचरेदनुपूर्वशः।

विचारयेत्तदर्थांश्च प्रत्यात्मयोनिशश्च सः॥५॥



अवधृत्य च तानर्थान्धर्मे संकलयेत्पुनः।

ततः कुर्यात्समाशास्तिं तदर्थाधिगमाय सः॥६॥



एषेत प्रत्यवेक्षेत मनोजल्पैः प्रबन्धतः।

निर्जल्पैकरसैश्चापि मनस्कारैर्विचारयेत्॥७॥



ज्ञेयः शमथमार्गो ऽस्य धर्मनाय च पिण्डितं।

ज्ञेयो विपश्यनामार्गस्तदर्थानां विचारणा॥८॥



युगनद्धश्च विज्ञेयो मार्गस्तत्पिण्डितं पुनः।

लीनं चित्तस्य गृह्णीयादुद्धतं शमयेत्पुनः॥९॥



श[स]मप्राप्तमुपेक्षेत तस्मिन्नालम्बने पुनः।

सातत्येनाथ सत्कृत्य सर्वस्मिन्योजयेत्पुनः॥१०॥



निबध्यालम्बने चित्तं तत्प्रवेधं[वाहं] न विक्षिपेत्।

अवगम्याशु विक्षेपं तस्मिन् प्रतिहरेत्पुनः॥११॥



प्रत्यात्मं संक्षिपेच्चित्तमुपर्युपरि बुद्धिमान्।

ततश्चर [द]मयेच्चित्तं समाधौ गुणदर्शनात्॥१२॥



अरतिं शमयेत्तस्मिन्विक्षेपदोषदर्शनात्।

अभिध्यादौर्मनस्यादीन्व्युत्थितान् शमयेत्तथा॥१३॥



ततश्च साभिसंस्कारां चित्ते स्वरसवाहितां।

लभेतानभिसंस्कारान्[रां] तदभ्यासात्पुनर्यतिः॥१४॥



ततः स तनुकां लब्ध्वा प्रश्रब्धिं कायचेतसोः।

विज्ञेयः समनस्कारः पुनस्तान् [स्तां] स विवर्धयन्॥१५॥



वृद्धिदूरंगमत्वेन मौर्ली स लभते स्थितिं।

तां शोधयन्नभिज्ञार्थमेति कर्मण्यतां परां॥१६॥



ध्याने ऽभिज्ञाभिनिर्हाराल्लोकधातून्स गच्छति।

पूजार्थमप्रमेयाणां बुद्धायां श्रवणाय च॥१७॥



अप्रमेयानुपास्यासौ बुद्धान्कल्पैरमेयगैः।

कर्मण्यतां परामेति चेतसस्तदुपासनात्॥१८॥



ततो ऽनुशंसान् लभते पञ्च शुद्धैः स पूर्वगान्।

विशुद्धिभाजनत्वं च ततो यानि निरुत्तरं॥१९॥



कृत्स्नादौस्वल्प[दौष्ठुल्य] कायो हि द्रवते ऽस्य प्रतिक्षणं।

आपूर्यते च प्रश्रब्ध्या कायचित्तं समन्ततः॥२०॥



अपरिच्छिन्नमाभासं धर्माणां वेत्ति सर्वतः।

अकल्पितानि संशुद्धौ निमित्तानि प्रपश्यति॥२१॥



प्रपूरौ च विशुद्धौ च धर्मकायस्य सर्वथा।

करोति सततं धीमानेवं हेतुपरिग्रहं॥२२॥



ततश्चासौ तथाभूतो बोधिसत्त्वः समाहितः।

मनोजल्पाद्विनिर्मुक्तान् सर्वार्थान्न प्रपश्यति॥२३॥



धर्म[र्मा]लोकस्य वृध्द्यर्थं वीर्यमारभते दृढं।

धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते॥२४॥



सर्वार्थप्रतिभासत्वं ततश्चित्ते प्रपश्यति।

प्रहीनो ग्राह्यनि[वि]क्षेपस्तदा तस्य भवत्यसौ॥२५॥



ततो ग्राहकविक्षेपः केवलो ऽस्यावशिष्यते।

आनन्तर्यसमाधिं च स्पृशत्याशु तदा पुनः॥२६॥



यतो ग्राहकविक्षेपो हीयते तदनन्तरं।

ज्ञेयान्युष्मगतादीनि एतानि हि यथाक्रमं॥२७॥



द्वयग्राहविसंयुक्तं लोकोत्तरमनुत्तरं।

निर्विकल्पं मलापेतं ज्ञानं स लभते पुनः॥२८॥



सास्याश्रयपरावृत्तिः प्रथमा भूमिरिष्यते।

अमेयैश्चास्य सा कल्पैः सुविशुद्धिं निगच्छति॥२९॥



धर्मधातोश्च समतां प्रतिविध्य पुनस्तदा।

सर्वसत्वेषु लभते सदात्मसमचित्ततां॥३०॥



निरात्मतायां दुःखार्थे कृत्ये निःप्रतिकर्मणि।

सत्वेषु समचित्तो ऽसौ यथान्ये ऽपि जिनात्मजाः॥३१॥



त्रैधातुकात्मसंस्कारानभूतपरिकल्पतः।

ज्ञानेन सुविशुद्धेन अद्वयार्थेन पश्यति॥३२॥



तदभावस्य भावं च विमुक्तं दृष्टिहायिभिः।

लब्ध्वा दर्शनमार्गो हि तदा तेन निरूच्यते॥३३॥



अभावशून्यतां ज्ञात्वा तथाभावस्य शून्यतां।

प्रकृत्या शून्यतां ज्ञात्वा शून्यज्ञ इति कथ्यते॥३४॥



अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः।

अभूतपरिकल्पश्च तदप्रणिहितस्य हि॥३५॥



तेन दर्शनमार्गेण सह लाभः सदा मतः।

सर्वेषां बोधिपक्षाणां विचित्राणां जिनात्मजे॥३६॥



संस्कारमात्रं जगदेत्य बुद्ध्या निरात्मकं दुःखिविरूढिमात्रं।

विहाय यानर्थमयात्मदृष्टिः महात्मदृष्टिं श्रयते महार्थां॥३७॥



विनात्मदृष्ट्या य इहात्मदृष्टिर्विनापि दुःखेन सुदुःखितश्च।

सर्वार्थकर्ता न च कारकाङ्क्षी यथात्मनः स्वात्महितानि कृत्वा॥३८॥



यो मुक्तचित्तः परया विमुक्त्या बद्धश्च गाढायतबन्धनेन।

दुःखस्य पर्यन्तमपश्यमानः प्रयुज्यते चैव करोति चैव॥३९॥



स्वं दुःखमुद्वोढुमिहासमर्थो लोकः कुतः पिण्डितमन्यदुःखं।

जन्मैकमालोकयते[गतं] त्वचिन्तो विपर्ययात्तस्य तु बोधिसत्त्वः॥४०॥



यत्प्रेम या वत्सलता प्रयोगः सत्वेष्वखेदश्च जिनात्मजानां।

आश्चर्यमेतत्परमं भवेषु न चैव सत्वात्मसमानभावात्॥४१॥



ततोऽसौ भावनामार्गे परिशिष्टासु भूमिषु।

ज्ञानस्य द्विविधस्येह भावनायै प्रयुज्यते॥४२॥



निविर्कल्पं च तज्ज्ञानं बुद्धधर्मविशोधकं।

अन्यद्यथाव्यवस्थानं सत्वानां परिपाचकं॥४३॥



भावनायाश्च निर्याणं द्वयसंख्येयसमाप्तितः।

पश्चिमां भावनामेत्य बोधिसत्वौ ऽभिषिक्तकः॥४४॥



वज्रोपमं समाधानं विकल्पाभेद्यमेत्य च।

निष्ठाश्रयपरावृत्तिं सर्वावरणनिर्मलां॥४५॥



सर्वाकारज्ञतां चैव लभते ऽनुत्तरं पदं।

यत्रस्थः सर्वसत्वानां हिताय प्रतिपद्यते॥४६॥



कथं तथा दुर्लभदर्शने मुनौ भवेन्महार्थं न हि नित्यदर्शनं।

भृशं समाप्यायितचेतसः सदा प्रसादवेगैरसमश्रवोद्भवैः॥४७॥



अ[प्र]चोद्यमानः सततं च संमुखं तथागतैर्धर्मसु[मु]खे व्यवस्थितः।

निगृह्य केशेष्विव दोषगह्वरात् निकृष्य बोधौ स बलान्निवेश्यते॥४८॥



स सर्वलोकं सुविशुद्धदर्शनैरकल्पबोधैरभिभूय सर्वथा।

महान्धकारं विधमय्य भासते जगन्महादित्य इवात्युदारतः॥४९॥



बुद्धाः सम्यक्प्रशंसां विदधति सततं स्वार्थसम्यक्प्रयुक्ते,

निन्दामीर्ष्याप्रयुक्ते स्थितिविचयपरे चान्तरायानुकूलान्।

धर्मान् सर्वप्रकारान्विधिवदिह जिना दर्शयन्त्यग्रसत्वे,

यान् वर्ज्यासेव्य योगे भवति विपुलता सौगते शासनेऽस्मिम्॥५०॥



इति सततशुभाचयप्रपूर्णः सुविपुलमेत्य स चेतसः समाधिं।

मुनिसततमहाववादलब्धो भवति गुणार्णवपारगो ऽग्रसत्वः॥५१॥



॥ महायानसूत्रालंकारे अववादानुशासन्यधिकारश्चतुर्दशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project