Digital Sanskrit Buddhist Canon

द्वादशोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dvādaśo'dhikāraḥ

द्वादशोऽधिकारः



धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः।



प्राणान्भोगांश्च धीराः प्रमुदितमनसः कृच्छ्रलब्धानसारान्।

सत्वेभ्यो दुःखितेभ्यः सततमवसृजन्त्युच्चदानप्रकारैः।

प्रागेवोदारधर्मं हितकरमसकृत्सर्वथैव प्रजानां

कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च॥१॥



धर्मो नैव च देशितो भगवता प्रत्यात्मयवेद्यो यत

आकृष्टा जनता च युक्त[युक्ति]विहितैर्धर्मैः स्वर्की धर्मतां

स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणे ऽथाक्षये

लालेनेव कृपात्मभिस्त्वजगरप्रख्यैः समापादिता॥२॥



तस्मान्नैव निरर्थिका भवति सा या भावना योगिनां

तस्मान्नैव निरर्थिका भवति सा या देशना सौगती।

दृष्टोऽर्थः श्रुतमात्रकाद्यदि भवेत् स्याद्भावनापार्थिका

अश्रुत्वा यदि भावनामनुविशेत् स्याद्देशनापार्थिका॥३॥



आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानां।

मुखतो रूपात्सर्वा[र्वतआ]काशादुच्चरणताऽपि............॥४॥



विषदा संदेहजहा आदेया तत्वदर्शिका द्विविधा।

संपन्नदेशनेयं विज्ञेयं[या] बोधिसत्त्वानां॥५॥



मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्वानां।

स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव॥६॥



अदीना मधुरा सूक्ता प्रतीता विषदा तथा [वाग्जिनात्मजे]।

[यथार्हा निराभिषा च परिमिताक्षया तथा]॥७॥



उद्देशान्निर्देशात्तथैव यानानुलोमनात् श्लाक्ष्ण्यात्।

प्रातीत्यद्याथार्हान्नैर्याण्यादानुकूल्यत्वात्॥८॥



व्यञ्जनसंपच्चैषा विज्ञेया सर्वथाग्रसत्त्वानां।

षष्ट्यङ्गी साचिन्त्या घोषो ऽनन्तस्तु सुगतानां॥९॥



वाचा पदैः सुयुक्तैरनुदेशविभागसंशयच्छेदैः।

बहुलीकारानुगता ह्युद्धटितविपञ्चितज्ञेषु॥१०॥



शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानां।

दोषैर्विवर्जिता पुनरष्टभिरेषैव विज्ञेया॥११॥



कौशीद्यमनवबोधो ह्यवकाशस्याकृतिर्ह्यनीतत्वम्।

संदेहस्याच्छेदस्तद्विगमस्यादृढीकरणम्॥१२॥



खेदोऽथ मत्सरित्वं दोषा ह्येते मता कथायां हि।

तदभावाद्बुद्धानां निरूत्तरा देशना भवति॥१३॥



कल्याणो धर्मोऽयं हेतुत्वाद्भक्तितुष्टिबुद्धीनां।

द्विविधार्थः सुग्राह्यश्चतुर्गुणब्रह्मचर्यवदः॥१४॥



परैरसाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम्।

स्वभावशुद्धं मलशुद्धितश्च तच्चतुर्गुणब्रह्मविचर्यमिष्यते॥ १५॥



अवतारणसंधिश्च संधिर्लक्षणतो ऽपरः।

प्रतिपक्षाभिसंधिश्च संधिः परिणतावपि॥१६॥



श्रावकेषु स्वभावेषु दोषाणां विनये तथा।

अभिधानस्य गाम्भीर्ये संधिरेष चतुर्विधः॥१७॥



असारे सारमतयो विपर्यासे च सुस्थिताः।

क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुक्तमां॥ इति॥



समता ऽर्थान्तरे ज्ञेयस्तथा कालान्तरे पुनः।

पुद्गलस्याशये चैव अभिप्रायश्चतुर्विधः॥१८॥



बुद्धे धर्मे ऽवज्ञा कौशीद्यं तुष्टिरल्पमात्रेण।

रागे माने चरितं कौकृतं चानियतभेदः॥१९॥



सत्त्वानामावरणं तत्प्रतिपक्षो ऽग्रयानसंभाषा।

सर्वान्तरायदोषप्रहाणमेषां ततो भवति॥२०॥



यो ग्रन्थतो ऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत।

स हि दशविधमनुशंसं लभते सत्वोत्तमो धीमान्॥२१॥



कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले।

जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र॥२२॥



बुद्धैश्च समवधानं तेभ्यः श्रवणं तथाग्रयानस्य।

अधिमुक्तिं सह बुद्ध्या द्वयमुखतामाशुबोधिं च॥२३॥



इति सुग[म]तिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञतामुपेतः।

भवति सुकथिको हि बोधिसत्त्वस्तपति जने कथितैर्यथैव सूर्यः॥२४॥



॥ महायानसूत्रालंकारे देशनाधिकारो द्वादशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project