Digital Sanskrit Buddhist Canon

सप्तमोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Saptamo'dhikāraḥ
सप्तमोऽधिकारः



प्रभावलक्षणविभागे श्लोकः।



उत्पत्तिवाक् चित्तशुभाशुभाधि तत्स्थाननिःसारपदा परोक्षम्।

ज्ञानं हि सर्वत्रगसप्रभेदेष्वव्याहतं धीरगतः प्रभावः॥१॥



ध्यानं चतुर्थं सुविशुद्धमेत्य निष्कल्पनाज्ञानपरिग्रहेण।

यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति॥२॥



येनार्यदिव्याप्रतिमैर्विहारै-

र्ब्राह्मैश्च नित्यं विहरत्युदारैः।

बुद्धांश्च सत्त्वांश्च स दिक्षु गत्वा

संमानयत्यानयते विशुद्धिम्॥३॥



मायोपमान्पश्यति लोकधातून्सर्वान्ससत्त्वान्सविवर्तनाशान्।

संदर्शयत्येव च तान्यथेष्टं वशी विचित्रैरपि स प्रकारैः॥४॥



रश्मिप्रमोक्षैर्भृशदुःखितांश्च

आपायिकान्स्वर्गगतान्करोति।

मारान्वयान् क्षुब्धविमानशोभान्

संकम्पयंस्रासयते समारान्॥५॥



समाधिविक्रीडितमप्रमेयं संदर्शयत्यग्रगणस्यमध्ये।

सकर्मजन्मोत्तमनिर्मितैश्च सत्त्वार्थमातिष्ठति सर्वकालम्॥ ६॥



ज्ञानवशित्वात्समुपैति शुद्धिं

क्षेत्रं यथाकामनिदर्शनाय

अबुद्धनामेषु[?] च बुद्धनाम

संश्रावणात्तान्क्षिपते ऽन्यधातौ॥७॥



शक्तो भवत्येव च सत्वपाके

संजातपक्षः शकुनिर्यथैव।

बुद्धात्प्रशंसां लभते ऽतिमात्रा-

मादेयवाक्यो भवति प्रजानाम्॥८॥



षड्धाप्यभिज्ञा त्रिविधा च विद्या

अष्टौ विमोक्षा ऽभिभुवस्तथाऽष्टौ।

दशापि कृत्स्नायतनान्यमेयाः

समाधयो धीरगतः प्रभावः॥९॥



स हि परमवशित्वलब्धबुद्धिर्जगदवशं स्ववशे विधाय नित्यम्।

परहितकरणैकताभिरामश्चरति भवेषु हि सिंहवत्सुधीरः॥१०॥



॥ प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project