Digital Sanskrit Buddhist Canon

षष्ठोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ṣaṣṭho'dhikāraḥ
षष्ठोऽधिकारः



परमार्थलक्षणविभागे श्लोकः।



न सन्न चासन्न तथा न चान्यथा न जायते व्येति न चावहीयते।

न वर्धते नापि विशुध्यते पुनर्विशुध्यते तत्परमार्थलक्षणम्॥१॥



न चात्मदृष्टिः स्वयमात्मलक्षणा न चापि दुःसंस्थितता विलक्षणा।

द्वयान्न चान्यद् भ्रम एषत[तू]दितस्ततश्च मोक्षो भ्रममात्रसंक्षयः॥२॥



कथं जनो विभ्रममात्रमाश्रितः परैति दुःखप्रकृतिं न संतताम्।

अवेदको वेदक एव दुःखितो न दुःखितो धर्ममयो न तन्मयः॥३॥



प्रतीत्यभावप्रभवे कथं जनः समक्षवृत्तिः श्रयतेऽन्यकारितम्।

तमः प्रकारः कतमोऽयमीदृशो यतोऽविपश्यन्सदसन्निरीक्षते॥४॥



त चान्तरं किंचन विद्यते ऽनयोः सदर्थवृत्त्या शमजन्मनोरिह।

तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम्॥५॥



संभृत्य संभारमनन्तपारं ज्ञानस्य पुण्यस्य च बोधिसत्त्वः।

धर्मेषु चिन्तासुविनिश्रि[श्चि]तत्वाज्जल्पान्वयामर्थगतिं परैति॥६॥



अर्थान्स विज्ञाय च जल्पमात्रान् संतिष्ठते तन्निभचित्तमात्रे।

प्रत्यक्षतामेति च धर्मधातुस्तस्माद्वियुक्तोद्वयलक्षणेन॥७॥



नास्तीति चित्तात्परमेत्य बुद्ध्या

चित्तस्य नास्तित्वमुपैति तस्मात्।

द्वयस्य नास्तित्वमुपेत्य धीमान्

संतिष्ठते ऽतद्गतिधर्मघातौ॥८॥



अकल्पनाज्ञानबलेन धीमतः

समानुयातेन समन्ततः सदा।

तदाश्रयो गह्वरदोषसंचयो

महगदेनेव विषं निरस्यते॥९॥



मुनिविहितसुधर्मसुव्यवस्थो मतिमुपधाय समूलधर्मधातौ।

स्मृतिम[ग]तिमवगम्य कल्पमात्रां व्रजति गुणार्णवपारमाशुधीरः॥१०॥



॥ महायानसूत्रालंकारे तत्वाधिकारः षष्ठः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project