Digital Sanskrit Buddhist Canon

चतुर्थोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Caturtho'dhikāraḥ
चतुर्थोऽधिकारः



चित्तोत्पादलक्षणे श्लोकः।



महोत्साहा महारम्भा महार्थाय महोदया।

चेतना बोधिसत्त्वानां द्वयार्था चित्तसंभवः॥१॥



चित्तोत्पादोऽधिमोक्षोऽसौ शुद्धाध्याशयिकोऽपरः।

वैपाक्यो भूमिषु मतस्तथावरणवर्जितः॥२॥



करुणामूल इष्टोऽसौ सदासत्त्वहिताशयः।

धर्माधिमोक्षस्तज्ज्ञानपर्येष्ट्यालम्बनस्तथा॥३॥



उत्तरच्छन्दयानोऽसौ प्रतिष्ठाशीलसंवृतिः।

उत्थापना विपक्षस्य परिपन्थो ऽधिवासना॥४॥



शुभवृद्ध्यनुशंसोऽभौ पुण्यज्ञानमयः स हि।

सदापारमितायोगनिर्याणश्च स कथ्यते॥५॥



भूमिपर्यवसानोऽसौ प्रतिस्वं तत्प्रयोगतः।

विज्ञेयो बोधिसत्त्वानां चित्तोत्पादविनिश्चयः॥६॥



मित्रबलाद् हेतुबलान्मूलबलाच्छू तबलाच्छुभाभ्यासात्।

अदृढदृढोदय उक्तश्चित्तोत्पादः पराख्यानात्॥७॥



सूपासितसंबुद्धे सुसंभृतज्ञानपुण्यसंभारे।

धर्मेषु निर्विकल्पज्ञानप्रसवात्परमतास्य॥८॥



धर्मेषु च सत्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे।

समचित्तोपा[त्तोप]लम्भात्प्रामोद्यविशिष्टता तस्य॥९॥



जन्मौदार्यं तस्मिन्नुत्साहः शुद्धिराशयस्यापि।

कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम्॥ १०॥



धर्माधिमुक्तिबीजात्पारमिताश्रेष्ठमातृतो जातः।

ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री॥११॥



औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात्।

उत्साहो बोद्धव्यो दुष्करदीघाघिकाखेदात्॥१२॥



आसन्नबोधिबोधात्तदुपायज्ञानलाभतश्चापि।

आशयशुद्धिर्ज्ञेया कौशल्यं त्वन्यभूमिगतम्॥१३॥



निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण।

तत्कल्पनताज्ञानादविकल्पनया च तस्यैव॥१४॥



पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश्चान्यः।

शुक्लनवचन्द्रसदृशो वह्निप्रख्योऽपरोच्छ्रायः [ज्ञेयः]॥१५॥



भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः।

सागरसदृशो ज्ञेयो वज्रप्रख्योऽचलेन्द्रनिभः॥१६॥



भैषज्यराजसदृशो महासुहृत्संनिभोऽपरो ज्ञेयः।

चिन्तामणिप्रकाशो दिनकरसदृशोऽपरो ज्ञेयः॥१७॥



गन्धर्वमधुरघोषवदन्यो राजोपमोऽपरो ज्ञेयः।

कोष्ठागारप्रख्यो महापथसमस्तथैवान्यः॥१८॥



यानसमो विज्ञेयो गन्धर्वसमश्च वेतसग[चेतसः]प्रभवः।

आनन्दशब्दसदृशो महानदीश्रोत[स्रोतः]सदृशश्च॥१९॥



मेघसदृशश्च कथतश्चित्तोत्पादो जिनात्मजानां हि।

तस्मात्तथा गुणाढ्यं चित्तं मुदितैः समुत्पाद्यम्॥२०॥



परार्थचित्तात्तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात्।

महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत्सुखम्॥२१॥



सहोदयाच्चित्तवरस्य धीमतः सुसंवृतं चित्तमनन्तदुष्कृतात्।

सुखेन दुःखेन च मोदते सदा शुभी कृपालुश्च विवर्धन, द्वयम्॥२२॥



यदानपेक्षः स्वशरीरजीविते परार्थमभ्येति परं परिश्रमम्।

परोपघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवत्स्यति॥२३॥



मायोपमान्वीक्ष्य स सर्वधर्मानुधानयात्रामिव चोपपत्तीः।

क्लेशाच्च दुःखाच्च बिभेति नासौ संपत्तिकालेऽथ विपत्तिकाले॥२४॥



स्वका गुणाः सत्त्वहिताच्च मोदः संचिन्त्यजन्मर्द्धिविकुर्वितं च।

विभूषणं भोजनमग्रभूमिः क्रीडारतिर्नित्यकृपात्मकानाम्॥२५॥



परार्थमुद्योगवतः कृपात्मनो ह्यवीचिरप्येति यतोऽस्य रम्यताम्।

कुतः पुनस्त्रस्यति तादृशो भवन् पराश्रयैर्दुःखसमुद्भवैर्भवे॥२६॥



महाकृपाचार्यसदोषितात्मनः परस्य दुःखैरुपतप्तचेतसः।

परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतोऽतिलज्जना॥२७॥



शिरसि विनिहितोच्चसत्वभारः शिथिलगतिर्नहि शोभतेऽग्रसत्त्वः।

स्वपरवविधबन्धनातिबद्धः शतगुणमुत्सहमर्हति प्रकर्तुम्॥२८॥



॥ महायानसूत्रालंकारे चित्तोत्पादाधिकारश्चतुर्थः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project