Digital Sanskrit Buddhist Canon

प्रथमोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Prathamo'dhikāraḥ

महायानसूत्रालंकारः (कारिका)



॥ॐ॥

नमः सर्वबुद्धबोधिसत्वेभ्यः



प्रथमोऽधिकारः



अर्थज्ञोऽर्थविभावनां प्रकुरुते वाचा पदैश्चामलै-

र्दुःखस्योत्तरणाय दुःखितजने कारुण्यतस्तन्मयः।

धर्मस्योत्तमयानदेशितविधेः सत्वेषु तद्गामिषु

श्लिष्टामर्थगतिं निरुत्तरगतं पञ्चात्मिकां दर्शयन्॥१॥



घटितमिव सुवर्णं वारिजं वा विबुद्धं

सुकृतमिव सुभोज्यं भुज्यमानं क्षुधार्तैः।

विदित इव सुलेखो रत्नपेटेव मुक्ता

विवृत इह स धर्मः प्रीतिमग्र्यां दधाति॥२॥



यथा बिम्बं भूषाप्रकृतिगुणवद्दर्पणगतं

विशिष्टं प्रामोद्यं जनयति नृणां दर्शनवशात्।

तथा धर्मः सूक्तप्रकृतिगुणयुक्तोऽपि सततं

विभक्तार्थस्तुष्टिं जनयति विशिष्टामिह सताम्॥३॥



आघ्रायमाणकटुकं स्वादुरसं यथौषधं तद्वत्।

धर्म[र्मो] द्वयव्यवस्था[स्थो] व्यञ्जनतोऽर्थो न च[र्थतश्च] ज्ञेयः॥४॥



राजेव दुराराधो धर्मोऽयं विपुलगाढगम्भीरः।

आराधितश्च तद्वद्वरगुणधनदायको भवति॥५॥



रत्नं जात्यमनर्थं[र्घं]यथा ऽपरीक्षकजनं न तोषयति।

धर्मस्तथायमबुधं विपर्ययात्तेषयति तद्वत्॥६॥



आदावव्याकरणात्समप्रवृत्तेरगोचरात्सिद्धेः।

भावाभावे ऽभावात्प्रतिपक्षत्वाद्रुतान्यत्वात्॥७॥



प्रत्यक्षचक्षुषो बुद्धाः शासनस्य च रक्षकाः।

अध्ममन्यनावृतज्ञाना उपेक्षातो न युज्यते॥८॥



वैकल्यतो विरोधादनुपायत्वात्त्थाप्यनुपदेशात्।

न श्रावकयानमिदं भवति महायानधर्माख्यम्॥९॥



आशयस्योपदेशस्य प्रयोगस्य विरोधतः।

उपस्तम्भस्य कालस्य यत् हीनं हीनमेव तत्॥१०॥



स्वके ऽवतारात्स्वस्यैव विनये दर्शनादपि।

औदार्यादपि गाम्भीर्यादविरुद्धैव धर्मता॥११॥



निश्रितो ऽनियतो ऽव्यापी सांवृतः खेदवानपि।

बालाश्रयो मतस्तर्कस्तस्यातो विषयो न तत्॥१२॥



औदार्यादपि गाम्भीर्यात्परिपाको ऽविकल्पना।

देशनाऽतो द्वयस्यास्मिन् स चोपायो निरुत्तरे॥१३॥



तदस्थानत्रासो भवति जगतां दाहकरणो

महाऽपुण्यस्कन्धप्रसवकरणाद्दीर्धसमयम्।

अगोत्रो ऽसन्मित्रो ऽकृतमतिरपूर्वाऽचितशुभ-

स्रसत्यस्मिन् धर्मे पतति महतो ऽर्थाद्गत इह॥१४॥



तदन्यान्या[न्यस्या?]भावात्परमगहनत्वादनुगमात्

विचित्रस्याख्यानाद् ध्रुवकथनयोगाद्बहुमुखात्।

यथाख्यानं नार्थाद्भगवति च भावातिगहनात्

न धर्मे ऽस्मिंस्रासो भवति विदुषां योनिविचयात्॥१५॥



श्रुतं निश्रित्यादौ प्रभवति मनस्कार इह यो

मनस्काराज्ञानं प्रभवति च तत्वार्थविषयम्।

ततो धर्मप्राप्तिः प्रभवति च तस्मिन्मतिरतो

यदा प्रत्यात्मं सा कथमसति तस्मिन्व्यवसितिः॥१६॥



अहं न बोद्धा न गभीरबोद्धा बुद्धौ गभीरं किमतर्कगम्यम्।

कस्माद् गभीरार्थविदां न मोक्ष इत्येतदुत्‍त्रासपदं न युक्तम्॥१७॥



हीनाधिमुक्तः सुनिहीनधातो-

र्ही नैः सहायैः परिवारितस्य।

औदार्यगाम्भीर्यसुदेशितेऽस्मिन्

धर्मेऽधिमुक्तिर्यदि नास्ति सिद्धम्॥१८॥



श्रुतानुसारेण हि बुद्धिमत्तं

लब्ध्वाऽश्रुते यः प्रकरोत्यवज्ञाम्।

श्रुते विचित्रे सति चाप्रमेये

शिष्टे कुतो निश्चयमेति मूढः॥१९॥



यथारुते ऽर्थे परिकल्प्यमाने

स्वप्रत्ययो हानिमुपैति बुद्धेः।

स्वाख्याततां च क्षिपति क्षतिं च

प्राप्नोति धर्मे प्रतिघावतीव[प्रतिघातमेव]॥२०॥



मनः प्रदोषः प्रकृतिप्रदुष्टो-

[ऽयथारुते चापि]ह्ययुक्तरूपः।

प्रागेव संदेहगतस्य धर्मे

तस्मादुपेक्षैव वरं ह्यदोषा॥२१॥



॥ महायानसूत्रालंकारे महायानसिद्ध्यधिकारः प्रथमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project