Digital Sanskrit Buddhist Canon

विंशतितम‍एकविंशतितमश्चाधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Viṁśatitamaekaviṁśatitamaścādhikāraḥ
विंशतितम‍एकविंशतितमश्चाधिकारः

लिङ्गविभागे द्वौ श्लोकौ।
अनुकम्पा प्रियाख्यानं धीरता मुक्तहस्तता।
गम्भीरसंधिनिर्मोक्षो लिङ्गान्येतानि धीमतां॥१॥

परिग्रहे ऽधिमुक्त्याप्तावखेदे द्वयसंग्रहे।
आशयाच्च प्रयोगाच्च विज्ञेयं लिङ्गपञ्चकं॥२॥

तत्रप्रथमेन श्लोकेन पञ्च बोधिसत्त्वलिङ्गानि दर्शयति। द्वितीयेन तेषां कर्म समास संग्रहं च। तत्रानुकम्पा बोधिचित्तेन सत्त्वपरिग्रहार्थं प्रियाख्यानं सत्त्वानां बुद्धशासनाधिमुक्तिलाभार्थं धीरता दुष्करचर्यादिभिरखेदार्थं मुक्तहस्तता गम्भीरसंधिनिर्मोक्षणं च द्वयेन संग्रहार्थमामिषेण धर्मेण च यथाक्रमम्। एषां पञ्चानां लिङ्गानाम् अनुकम्पा आशयतो वेदितव्या। शेषाणि प्रयोगतः।

गृहिप्रव्रजितपक्षविभागे त्रयः श्लोकाः।
बोधिसत्त्वा हि सततं भवन्तश्चक्रवर्तिनः।
प्रकुर्वन्ति हि सत्त्वार्थं गृहिणः सर्वजन्मसु॥३॥

आदानलब्धा प्रव्रज्या धर्मतोपगता परा।
निदर्शिका च प्रव्रज्या धीमतां सर्वभूमिषु॥४॥

अप्रमेयैर्गुणैर्युक्तः पक्षः प्रव्रजितस्य तु।
गृहिणो बोधिसत्त्वाद्धि यतिस्तस्माद्विशिष्यते॥५॥

एकेन श्लोकेन यादृशे गृहिपक्षे स्थितो बोधिसत्त्वः सत्त्वार्थं करोति तत्परिदीपितं। द्वितीयेन यादृशे प्रव्रजितपक्षे। तत्र त्रिविधा प्रव्रज्या वेदितव्या। समादानलब्धा। धर्मतालब्धा। निदर्शिका च निर्माणैः। तृतीयेन गृहिपक्षात् प्रव्रजितपक्षस्य विशेषः परिदीपितः।

अध्याशयविभागे श्लोकः षट्‍पादः।
परत्रेष्टफलेच्छा च शुभवृत्ताविहैव च।
निर्वाणेच्छा च धीराणां सत्त्वेष्वाशय इष्यते।
अशुद्धश्च विशुद्धश्च सुविशुद्धः सर्वभूमिषु॥६॥

एतेन समासतः पञ्चविधो ऽध्याशयः परिदीपितः। सुखाध्याशयः। परत्रेष्टफलेच्छाहिताध्याशयः इहैव कुशलप्रवृत्तीच्छा निर्वाणेच्छा तदुभयाध्याशय एवेति नान्यो वेदितव्यः। अशुद्धादिकास्त्रयोऽध्याशया अप्रविष्टानां। भूमिप्रविष्टानां। अविनिवर्तनीयभूमिप्राप्तानां च यथाक्रमं वेदितव्याः।

परिग्रहविभागे श्लोकः।
प्रणिधानात्समाच्चित्तादाधिपत्यात्परिग्रहः।
गणस्य कर्षणत्वाच्च धीमतां सर्वभूमिषु॥७॥

चतुर्विधः सत्त्वपरिग्रहो बोधिसत्त्वानां प्रणिधानपरिग्रहो वेदितव्यो बोधिचित्तेन सर्वसत्त्वपरिग्रहणात्। समचित्ततापरिग्रह आत्मपरसमतालाभादभिसमयकाले। आधिपत्यपरिग्रहः स्वामिभूतस्य येषामसौ स्वामी। गणपरिकर्षणपरिग्रहश्च शिष्यगणोपादनात्।

उपपत्तिविभागे श्लोकः।
कर्मणश्चाधिपत्येन प्रणिधानस्य चापरा।
समाधेश्च विभुत्वस्य चोत्पत्तिर्धीमतां मता॥८॥

चतुर्विधा बोधिसत्त्वानामुपपत्तिः कर्माधिपत्येन याधिमुक्तिचर्याभूमिस्थितानां कर्मवशेनाभिप्रेतस्थानोपपत्तिः प्रणिधानवशेन या भूमिप्रविष्टानां सर्वसत्त्वपरिपाचनार्थं तिर्यगादिहीनस्थानोपपत्तिः। समाध्याधिपत्येन या ध्यानानि व्यावर्त्य कामधातावुपपत्तिः। विभुत्वाधिपत्येन या निर्माणैस्तुषितभवनाद्युपपत्तिसंदर्शनात्।

विहारभूमिविभागे त्रिंशत् [उदान] श्लोकाः।
लक्षणात्पुद्‍लाच्छिक्षास्कन्धनिष्पत्तिलिङ्गतः।
निरुक्तेः प्राप्तितश्चैव विहारो भूमिरेव च॥९॥

लक्षणविभागमारभ्य पञ्च श्लोकाः।
शून्यता परमात्मस्य कर्म[आ?]नाशे व्यवस्थितिः।
विहृत्य ससुखैर्ध्यानैर्जन्म कामे ततः परम्॥१०॥

ततश्च बोधिपक्षाणां संसारे परिणामना।
विना च चित्तसंक्लेशं सत्त्वानां परिपाचना॥११॥

उपपत्तौ च संचित्य संक्लेशस्यानुरक्षणा।
एकायनपथश्लिष्टा ऽनिमित्तैकान्तिकः पथः॥१२॥

अनिमित्ते ऽप्यनाभोगः क्षेत्रस्य च विशोधना।
सत्त्वपाकस्य निष्पत्तिर्जायते च ततः परम्॥१३॥

समाधिधारणीनां च बोधेश्चैव विशुद्धता।
एतस्माच्च व्यवस्थानाद्विज्ञेयं भूमिलक्षणम्॥१४॥

एकादश विहारा एकादश भूमयः। तेपां लक्षणं। प्रथमायां भूमौ परमशून्यताभिसमयो लक्षणं पुद्‍गलधर्म नैरात्म्याभिसमयात्। द्वितीयायां कर्मणामविप्रणाशव्यवस्थानं कुशलाकुशलकर्मपथतत्फलवैचित्र्यज्ञानात्। तृतीयायां सातिशयसुखैर्बोधिसत्त्वध्यानैर्विहृत्यापरिहीनस्यैव तेभ्यः कामधातावुपपत्तिः। चतुर्थ्या बोधिपक्षबहुलविहारिणोऽपि बोधिपक्षाणां संसारे परिणामना। पञ्चभ्यां चतुरार्यसत्यबहुलविहारितयाविनात्मनश्चित्तसंक्लेशेन सत्त्वानां परिपाचनायां नानाशास्त्रशिल्पप्रणयनात्। षष्ठ्यां प्रतीत्यसमुत्पादबहुलविहारितया संचित्यभवोपपत्तौ तत्र संक्लेशस्यानुरक्षणा। सप्तम्यां मिश्रोपमिश्रत्वेनैकायनपथस्याष्टमस्य विहारस्य श्लिष्ट आनिमित्तिकैकान्तिको मार्गः। अष्टभ्यामनिमित्ते ऽप्यनाभोगो निरभिसंस्कारानिमित्तविहारित्वाद् बुद्धक्षेत्रपरिशोधना च। नवम्यां प्रतिसंविद्वशितया सत्त्वपरिपाकनिष्पत्तिः सर्वाकारपरिपाचनसामर्थ्यात्। दशम्यां समाधिमुखानां धारणीमुखानां च विशुद्धता। एकादश्यां बुद्धभूमौ बोधिविशुद्धता लक्षणां [णं]सर्वज्ञेयावरणप्रहाणात्।

भूमिष्ठे च [ष्वेवं] पुद्‍गलविभागमारभ्य द्वौ श्लोकौ।
विशुद्धदृष्टिः सुविशुद्धशीलः समाहितो धर्मविभूतमानः।
संतानसंक्लेशविशुद्धिभेदे निर्माण एकक्षणलब्धबुद्धिः॥१५॥

उपेक्षकः क्षेत्रविशोधकश्च स्यात्सत्त्वपाके कुशलो महर्द्धिः।
संपूर्णकायश्च निदर्शने च शक्तो ऽभिषिक्तः खलु बोधिसत्त्वः॥१६॥

दशसु भूमिषु दश बोधिसत्त्वा व्यवस्थाप्यन्ते। प्रथमायां विशुद्धदृष्टिः पुद्‍गलधर्मदृष्टिप्रतिपक्षज्ञानलाभात्। द्वितीयायां सुविशुद्धशीलः सूक्ष्मापत्तिस्खलितसमुदाचारस्याप्यभावात्। तृतीयायां समाहितो भवत्यच्युतध्यानसमाधिलाभात्। चतुर्थ्यां धर्मविभूतमानः सूत्रादिधर्मनानात्वमानस्य विभूतत्वात्। पञ्चम्यां संतानभेदे निर्माणो दशभिश्चित्ताशयविशुद्धिसमताभिः सर्वसंतानसमताप्रवेशात्। षष्ठ्यां संक्लेशव्यवदानभेदे निर्माणः प्रतीत्यसमुत्पादतथताबहुलविहारितया कृष्णशुक्लपक्षाभ्यां तथतायाः संक्लेशव्यवदानादर्शनात्। प्रकृतिविशुद्धितामुपादाय। सप्तम्यामेकचित्तक्षलब्धबुद्धिर्निर्निमित्तविहारसामर्थ्यात् प्रतिक्षणं सप्तत्रिंशद्बोधिपक्षभावनातः। अष्टम्यामुपेक्षकः क्षेत्रविशोधकश्चानाभोगनिर्निमित्तविहारित्वाद् मिश्रोपमिश्रप्रयोगतश्चाविनिवर्तनीयभूमिप्रविष्टैर्बोधिसत्त्वैः। नवम्यां सत्त्वपरिपाककुशलः पूर्ववत्। दशम्यां बोधिसत्त्वभूमौ बोधिसत्त्वो महर्द्धिकश्च व्यवस्थाप्यते महाभिज्ञालाभात्। संपूर्णधर्मकायश्चाप्रमाणसमाधिधारणीमुखस्फुरणादाश्रयस्य निदर्शने च शक्तो व्यवस्थाप्यते तुषितभवनवासादिनिर्माणनिदर्शनात्। अभिषिक्तश्च बुद्धत्वे सर्वबुद्धेभ्यस्तत्राभिषेकलाभात्।

शिक्षाव्यवस्थानमारभ्य पञ्च श्लोकाः।

धर्मतां प्रतिविध्येह अधिशीले ऽनुशीक्षणे।
अधिचित्ते ऽप्यधिप्रज्ञे प्रज्ञा तु द्वयगोचरा॥१७॥

धर्मतत्त्वं तदज्ञानज्ञानाद्या वृत्तिरेव च।
प्रज्ञाया गोचरस्तस्माद् द्विभूमौ तद्‍व्यवस्थितिः॥१८॥

शिक्षाणां भावनायाश्च फलमन्यच्चतुर्विधम्।
अनिमित्तसंस्कारो विहारः प्रथमं फलम्॥१९॥

स एवानभिसंस्कारो द्वितीयं फलमिष्यते।
क्षेत्रशुद्धिश्च सत्त्वानां पाकनिष्पत्तिरेव च॥२०॥

समाधिधारणीनां च निष्पत्तिः परमं फलं।
चतुर्विधं फलं ह्येतत् चतुर्भूमिसमाश्रितम्॥२१॥

प्रथमायां भूमौ धर्मतां प्रतिविध्य द्वितियायामधिशीलं शिक्षते। तृतीयायामधिचित्तं। चतुर्थीपञ्चमीषष्ठीष्वधिप्रज्ञं। बोधिपक्षसंगृहीता हि प्रज्ञा चतुर्थ्यां भूमौ। सा पुनर्द्वयगोचरा भूमिद्वये। द्वयं पुनर्धर्मतत्त्वं च दुःखादिसत्यं। तदज्ञानज्ञानादिका च वृत्तिरनुलोमः [प्रतिलोमः?] प्रतीत्यसमुत्पादः। तदज्ञानादिका हि वृत्तिरविद्यादिका। तज्ज्ञानादिका च वृत्तिर्विद्यादिका। तस्माद्‍भूमिद्वये ऽप्यधिप्रज्ञव्यवस्थानं। अतः परं चतुर्विधं शिक्षाफलं चतुर्भूमिसमाश्रितं वेदितव्यं यथाक्रमं। तत्र[प्रथमं फलम् अनिमित्तोविहारः ससंस्कारः ?] द्वितीयं फलं स एवानिमित्तो विहारोऽनभिसंस्कारः क्षेत्रपरिशुद्धिश्च वेदितव्यं। शेषं गतार्थम्।

स्कन्धव्यवस्थानमारभ्य द्वौ श्लोकौ।
धर्मतां प्रतिविध्येह शीलस्कन्धस्य शोधना।
समाधिप्रज्ञास्कन्धस्य तत ऊर्ध्वं विशोधना॥२२॥

विमुक्तिमुक्तिज्ञानस्य तदन्यासु विशोधना।
चतुर्विधादावरणात् प्रतिघातावृतेरपि॥२३॥

तदन्यास्विति सप्तम्यां यावद् बुद्धभूमावुभयोर्विमुक्तिविमुक्तिज्ञानयोर्विशोधना। सा पुनर्विमुक्तिश्चतुर्विधफलावरणाच्च वेदितव्या। प्रतिघातावरणाच्च बुद्धभूमौ। येनान्येषां ज्ञेये ज्ञानं प्रतिहन्यते। बुद्धानां तु तद्विमोक्षात् सर्वत्राप्रतिहतं ज्ञानं। शेषं गतार्थम्।

निष्पत्तिव्यवस्थानमारभ्य त्रयः श्लोकाः।
अनिष्पन्नाश्च निष्पन्ना विज्ञेयाः सर्वभूमयः।
निष्पन्ना अप्यनिष्पन्ना निष्पन्नाश्च पुनर्मताः॥२४॥

निष्पत्तिर्विज्ञेया यथाव्यवस्थानमनसिकारेण।
तत्कल्पनताज्ञानादविकल्पनया च तस्यैव॥२५॥

भावना अपि निष्पत्तिरचिन्त्यं सर्वभूमिषु।
प्रत्यात्मवेदनीयत्वात् बुद्धानां विषयादपि॥२६॥

तत्राधिमुक्तिचर्याभूमिरनिष्पन्ना। शेषा निष्पन्ना इत्येताः सर्वभूमयः। निष्पन्ना अपि पुनः सप्तानिष्पन्नाः। शेषा निष्पन्ना निरभिसंस्कारवाहित्वात्। यत्पुनः प्रमुदितादिभूमिर्निष्पन्ना पूर्वमुक्ता तत्र निष्पत्तिर्यथाव्यवस्थापितभूमिमनसिकारेण। तस्य भूमिव्यवस्थानस्य कल्पनामात्रज्ञानात् तदविकल्पना[नया] च वेदितव्या। यदा तद्‍भूमिव्यवस्थानं कल्पनामात्रं जानीते। तदपि च कल्पनामात्रं न विकल्पयत्येवं ग्राह्यग्राहकाविकल्पज्ञानलाभाद्‍भूमिपरिनिष्पत्तिरुक्ता भवति। अपि खलु भूमीनां भावना च निष्पत्तिश्चोभयमचिन्त्यं सर्वभूमिषु। तथा हि तद्‍बोधिसत्त्वानां प्रत्यात्मवेदनीयं बुद्धानां च विषयो नान्येषाम्।

भूमिप्रतिष्ठ[विष्ट]स्य लिङ्गविभागमारभ्य द्वौ श्लोकौ।
अधिमुक्तिर्हि सर्वत्र सालोका लिङ्गमिष्यते।
अलीनत्वमदीनत्वमपरप्रत्ययात्मता॥२७॥

प्रतिवेधश्च सर्वत्र सर्वत्र समचित्तता।
अनेयानुनयोपायज्ञानं मण्डलजन्म च॥२८॥

एतद्‍भूमिप्रविष्टस्य बोधिसत्त्वस्य दशविधं लिङ्गं सर्वासु भूमिषु वेदितव्यं। यां भूमिं प्रविष्टस्तत्र सालोको यां न प्रविष्टस्तत्राधिमुक्तिरित्येतदेकं लिङ्गम्। अलीनत्वं परमोदारगम्भीरेषु धर्मेषु। अदीनत्वं दुष्करचर्यासु। अपरप्रत्ययत्वं स्वस्यां भूमौ। सर्वभूमिप्रतिवेधश्च तदभिनिर्हारकौशल्यतः सर्वसत्त्वेष्वात्मसमचित्तता। अनेया वर्णावर्णशब्दाभ्यां। अननुनयश्चक्रवर्तीत्यादिसंपत्तिषु। उपायकौशल्यमनुपलम्भस्तस्य[लम्भस्य] बुद्धत्वोपायज्ञानात्। बुद्धपर्षन्मण्डलेषु चोत्पत्तिः सर्वकालमित्येतानि अपराणि लिङ्गानि बोधिसत्त्वस्य।

भूमिषु पारमितालाभलिङ्गविभागे द्वौ श्लोकौ।
नाच्छन्दो न च लुब्धह्रस्वहृदयो न क्रोधनो नालसो
नामैत्रीकरूणाशयो न कुमतिः कल्पर्विकल्पर्हतः।
नो विक्षिप्तमतिः सुखैर्न च हतो दुःखर्न वा [व्या]वर्तते
सत्यं मित्रमुपाश्रितः श्रुतपरः पूजापरः शास्तरि॥२९॥

सर्वं पुण्यसमुच्चयं सुविपुलं कृत्वान्यसाधारणं
संबोधौ परिणामयत्यहरहर्यो ह्युत्तमोपायवित्।
जातः स्वायतने सदा शुभकरः क्रीडत्यभिज्ञागुणैः
सर्वेषामुपरिस्थितो गुणनिधिर्ज्ञेयः स बुद्धात्मजः॥३०॥

दशपारमितालाभिनो बोधिसत्त्वस्य षोडशविधं लिङ्गं दर्शयति। षोडशविधं लिङ्गं। सदा पारमिताप्रतिपत्तिच्छन्देनाविरहितत्वं। षट्पारमिताविपक्षैश्च रहितत्वं प्रत्येकम्। अन्ययानमनसिकारेणाविक्षिप्तता। संपत्तिसुखेष्वसक्तता। विपत्तिदुष्करचर्यादुःखैः प्रयोगानिर्वर्तिता। कल्याणमित्राश्रयः। श्रुतपरत्वं। शास्तृपूजापरत्वं। सम्यक्‌परिणामना उपायकौशल्यपारमितया। स्वायतनोपपत्तिः प्रणिधानपारमितया बुद्धबोधिसत्त्वाविरहितस्थानोपपत्तेः। सदाशुभकरत्वे[त्वं]बलपारमितया तद्विपक्षधर्माव्यवकिरणात्। अभिज्ञागुणविक्रीडनं च ज्ञानपारमितया। तत्र मैत्री व्यापादप्रतिपक्षः सुखोपसंहाराशयः। करुणा विहिंसाप्रतिपक्षो दुःखापगमाशयः। स्वभावकल्पनं कल्पः। विशेषकल्पनं विकल्पो वेदितव्यः।

तत्रैवानुशंसविभागे श्लोकः।
शमथे विपश्यनायां च द्वयपञ्चात्मको मतः।
धीमतामनुशंसो हि सर्वथा सर्वभूमिषु॥३१॥

तत्रैव पारमितालाभे सर्वभूमिषु बोधिसत्त्वानां सर्वप्रकारो ऽनुशंसः पञ्चविधो वेदितव्यः। प्रतिक्षणं सर्वदौष्ठुल्याश्रयं द्रावयति। नानात्वसंज्ञाविगतिं च धर्मारामरतिः प्रतिलभते। अपरिच्छिन्नाकारं च सर्वतो ऽप्रमाणं धर्मावभासं संजानीते। अविकल्पितानि चास्य विशुद्धिभागीयानि निमित्तानि समुदाचरन्ति। धर्मकायपरिपूरिपरिनिष्पत्तये च उत्तरादुत्तरतरं हेतुसंपरिग्रहं करोति। तत्र प्रथमद्वितीयौ शमथपक्षे वेदितव्यौ। तृतीयचतुर्थौ विपश्यनापक्षे। शेषमुभयपक्षे।

भूमिनिरुक्तिविभागे नव श्लोकाः।
पश्यतां बोधिमासन्नां सत्त्वार्थस्य च साधनं।
तीव्र उत्पद्यते मोदो मुदिता तेन कथ्यते॥३२॥

अत्र न किंचिद्व्‍याख्येयं।
दौः शील्याभोगवैमल्याद्विमला भूमिरुच्यते।

दौः शील्यमलस्यान्ययानमनसिकारमलस्य चातिक्रमाद्विमलेत्युच्यते। तस्मात्तर्ह्यस्माभिस्तुल्याभिनिर्हारे सर्वाकारपरिशोधनाभिनिर्हार एव योगः करणीय इति वचनात्।

महाधर्मावभासस्य करणाच्च प्रभाकरी॥३३॥

तथा हि तस्यां समाधिबलेनाप्रमाणधर्मपर्येषणधारणात् महान्तं धर्मावभासं परेषां करोति।

अर्चिर्भूता यतो धर्मा बोधिपक्षाः प्रदाहकाः।
अर्चिष्मतीति तद्योगात्सा भूमिर्द्वयदाहतः॥३४॥

सा हि बोधिपक्षात्मिका प्रज्ञा द्वयदहनप्रत्युपस्थाना तस्यां बाहुल्येन। द्व्‍यं पुनः क्लेशावरणं ज्ञेयावरणं चात्र वेदितव्यम्।

सत्त्वानां परिपाकश्च स्वचित्तस्य च रक्षणा।
धीमद्भिर्जीयते दुःखं दुर्जया तेन कथ्यते॥३५॥

तत्र सत्त्वपरिपाकाभियुक्तो ऽपि न संक्लिश्यते। सत्त्वविप्रतिपत्त्या तच्चोभयं दुष्करत्वाद् दुर्जयम्।

आभिमुख्याद् द्व्‍यस्येह संसारस्यापि निर्वृतेः।
उक्ता ह्यभिमुखी भूमिः प्रज्ञापारमिताश्रयात्॥३६॥

सा हि प्रज्ञापारमिताश्रयेण निर्वाणसंसारयोरप्रतिष्ठानात् संसारनिर्वाणयोरभिमुखी।
एकायनपथश्लेषाद्‍भूमिर्दूरंगमा मता।
एकायनपथः पूर्वं निर्दिष्टस्तदुपश्लिष्टत्वात् दूरं गता भवति प्रयोगपर्यन्तगमनात्।
द्वयसंज्ञाविचलनादचला च निरुच्यते॥३७॥

द्वाभ्यां संज्ञाभ्यां अविचलनात्। निमित्तसंज्ञया[निमित्ताभोगसंज्ञया]अनिमित्ताभोगसंज्ञया च।

प्रतिसंविन्मतिसाधुत्वाद्‍भूमिः साधुमती मता।
प्रतिसंविन्मतेः साधुत्वादिति प्रधानत्वात्।
धर्ममेघा द्वयव्याप्तेर्धर्माकाशस्य मेघवत्॥३८॥

द्वयव्याप्तेरिति समाधिमुखधारणीमुखव्यापनान्मेघेनेवाकाशस्थलीयस्याश्रयसंनिविष्टस्य श्रुतधर्मस्य धर्ममेघेत्युच्यते।

विविधे शुभनिर्हारे रत्या विहरणात्सदा।
सर्वत्र बोधिसत्त्वानां विहारभूमयो मताः॥३९॥

विविधकुशलाभिनिर्हारनिमित्तं सदा सर्वत्र रत्या विहरणाद्वोधिसत्त्वानां भूमयो विहारा इत्युच्यन्ते।

भूयो भूयो ऽमितास्वासु ऊर्ध्वंगमनयोगतः।
भूतामिताभयार्थाय त एवेष्टा हि भूमयः॥४०॥

भूयो भूयो ऽमितास्वासूर्ध्वंगमनयोगाद्‍भूतामिताभयार्थाय त एव विहाराः पुनर्भूमय उच्यन्ते। अमितास्विति दशसु भूमिषु एकैकस्याप्रमाणत्वात्। ऊर्ध्वंगमनयोगादिति उपरिभूमिगमनयोगात्। भूतामिताभयार्थमित्यमितानां भूतानां भयप्रहाणार्थम्।

प्राप्तिविहारे[विभागे]श्लोकः।
भूमिलाभे[भो]ऽधिमुक्तेश्च चरितेषु च वर्तनात्।
प्रतिवेधाच्च भूमीनां निष्पत्तेश्च चतुर्विधः॥४१॥

चतुर्विधो भूमीनां लाभः। अधिमुक्तिलाभो यथोक्ताधिमुक्तितो ऽधिमुक्तिचर्याभूमौ। चरितलाभो दशसु धर्मचरितेषु वर्तनात्तस्यामेव। परमार्थ [प्रतिवेध] लाभः परमार्थप्रतिवेधतो भूमिप्रवेशे। निष्पतिलाभश्चाविनिवर्तनीयभूमिप्रवेशे।

चर्याविभागे श्लोकः षट्‍पादः।
महायाने ऽधिमुक्तानां हीनयाने च देहिनां।
द्वयोरावर्जनार्थाय विनयाय च देशिताः।
चर्याश्चतस्रो धीराणां यथासूत्रानुसारतः॥४२॥

तत्र पारमिताचर्या महायानाधिमुक्तानामर्थे देशिता। बोधिपक्षचर्या श्रावकप्रत्येकबुद्धयानाधिमुक्तानाम्। अभिज्ञाचर्या द्वयोरपि महायानहीनयानाधिमुक्तयोः प्रभावेणावर्जनार्थं। सत्त्वपरिपाकचर्या द्वयोरेव परिपाचनार्थं। परिपाचनं ह्यत्र विनयनम्।

बुद्धगुणविभागे बहवः श्लोकाः। अप्रमाणविभागे तद् बुद्धस्तोत्रमारभ्यैकः।
अनुकम्पकसत्त्वेषु संयोगविगमाशय।
अवियोगाशय सौख्यहिताशय नमोऽस्तुते॥४३॥

[अत्र] अनुकम्पकत्वं सत्त्वेषु हितसुखाशयत्वेन संदर्शितं। सुखाशयत्वं पुनः सुखसंयोगाशयत्वेन मैत्र्या। दुःखवियोगाशयत्वेन च करुणया। सुखावियोगाशयत्वेन च मुदितया। हिताशयत्वमुपेक्षया। सा पुनर्निः संक्लेशताशयलक्षणा वेदितव्या।

विमोक्षाभिभ्वायतनकृत्स्नायतनविभागे श्लोकाः।
सर्वावरणनिर्मुक्त सर्वलोकाभिभू मुने।
ज्ञानेन ज्ञेयं व्याप्तं ते मुक्तचित्त नमोऽस्तुते॥४४॥

अत्र विमोक्षविशेषं भगवतः सर्वक्लेशज्ञेयावरणनिर्मुक्ततया दर्शयति। अभिभ्वायतनविशेषं सर्वलोकाभिभुत्वेन स्वचित्तवशवर्तनाद्यथेष्टालम्बननिर्माणपरिणामनताधिष्ठानतः। कृत्स्नायतनविशेषं सर्वज्ञेयज्ञानाव्याघाततः [ज्ञानव्याप्तः]। अत एव विमोक्षादिगुणविपक्षमुक्तत्वात् मुक्तचित्तः।

अरणाविभागे श्लोकः।
अशेषं सर्वसत्त्वानां सर्वक्लेशविनाशक।
क्लेशप्रहारक क्लिष्टसानुक्रोश नमोऽस्तुते॥४५॥

अत्रारणाविशेषं भगवतः सर्वसत्त्वक्लेशविनयनादुत्पादितक्लेशेष्वपि च तत्‌‍क्लेशप्रतिपक्षविधानात् क्लिष्टजनानुकम्पया संदर्शयति। अन्ये ह्यरणाविहारिणः सत्त्वानां कस्यचिदेव तदालम्बनस्य क्लेशस्योत्पत्तिप्रत्ययमात्रं प्रतिहरन्ति। न तु क्लेशसंतानादपनयन्ति।

प्रणिधिज्ञानविशेषे[विभागे]श्लोकः।
अनाभोग निरासङ्ग अव्याघात समाहित।
सदैव सर्वप्रश्नानां विसर्जक नमोऽस्तु ते॥४६॥

अत्र पञ्चभिराकारैः प्रणिधिज्ञानविशेषं भगवतः संदर्शयति। अनाभोगसंमुखीभावतः। असक्तिसंमुखीभावतः। सर्वज्ञेयाव्याघाततः। सदा समाहितत्वतः। सर्वसंशयच्छेदनतश्च सत्त्वानां। अन्ये हि प्रणिधिज्ञानलाभिनो नानाभोगान् [भोगेना] प्रणिधाय प्रणिधीज्ञानं संमुखीकुर्वन्ति। न चासक्तं समापत्तिप्रवेशापेक्षत्वात्। न चाव्याहतं प्रदेशज्ञानात्। न च सदा समाहिता भवन्ति न च सर्वसंशयांश्छिन्दन्ति।

प्रतिसंविद्विभागे श्लोकः।
आश्रये ऽथाश्रिते देश्ये वाक्ये ज्ञाने च देशिके।
अव्याहतमते नित्यं सुदेशिक नमोऽस्तुते॥४७॥

अत्र समासतो यच्च देश्यते येन च देश्यते तत्र नित्यमव्याहतमतित्वेन भगवतश्चतस्रः प्रतिसंविदो देशिताः। तत्र द्वयं देश्यते आश्रयश्च धर्मः। तदाश्रितश्चार्थः। द्वयेन देश्यते वाचा ज्ञानेन च। सुदेशिकत्वेन तासां कर्म संदर्शितम्।

अभिज्ञाविभागे श्लोकः।
उपेत्य वचनैस्तेषां चरिज्ञ आगतौ गतौ।
निः सारे चैव सत्त्वानां स्वववाद नमोऽस्तु ते॥४८॥

अत्र षड्भिरभिज्ञाभिः सम्यगववादत्वं भगवतो दर्शितम्। उपेत्य विनेयसकाशमृध्द्यभिज्ञया। तेषां भाषया दिव्यश्रोत्राभिज्ञया चित्तचरित्रं ज्ञात्वा चेतःपर्यायाभिज्ञया यथा पूर्वान्तादिहगतिर्यथा चापरान्ते गतिर्यथा च संसारान्निः सरणं। तत्राववादं ददात्यवशिष्टाभिस्तिसृभिरभिज्ञाभिर्यथाक्रमम्।

लक्षणानुव्यञ्जनविभागे श्लोकः।
सत्पौरुष्यं प्रपद्यन्ते त्वां दृष्ट्वा सर्वदेहिनः।
दृष्टमात्रात्प्रसादस्य विधायक नमो ऽस्तु ते॥४९॥

अत्र लक्षणानुव्यञ्जनानां भगवति महापुरुषत्वसंप्रत्ययेन दर्शनमात्रात्परेषां प्रसादजनकत्वं कर्म संदर्शितम्।

परिशुद्धिविभागे श्लोकः।
आदनस्थानसंत्यागनिर्माणपरिणामने।
समाधिज्ञानवशितामनुप्राप्त नमो ऽस्तु ते॥५०॥

अत्र भगवतश्चतुर्विधया वशितया सर्वाकारश्चतस्रः परिशुद्धयः परिदीपिताः। आश्रयपरिशुद्धिरात्मभावस्यादानस्थानत्यागवशितया। आलम्बनपरिशुद्धिर्निर्माणपरिणामनवशितया। चित्तपरिशुद्धिः सर्वाकारसमाधिवशितया। प्रज्ञापरिशुद्धिः सर्वाकारज्ञानवशितया।

बलविभागे श्लोकः।
उपाये शरणे शुद्धौ सत्त्वानां विप्रवादने।
महायाने च निर्याणे मारभञ्ज नमो ऽस्तु ते॥५१॥

अत्र चतुर्ष्वर्थेषु सत्त्वानां विप्रवादनाय मारो यस्तभ्दञ्जकत्वेन भगवतो दशानां बलानां कर्म संदर्शितं। यदुत सुगतिदुर्गतिगमनाद्युपायविप्रवादने। अशरणे देवादिषु शरणविप्रवादने। साश्रवशुद्धिमात्रेण शुद्धिविप्रवादने। महायाननिर्याणविप्रवादने च। स्थानास्थानज्ञानबलेन हि भगवान्प्रथमे ऽर्थे मारभञ्जको वेदितव्यः। कर्मविपाकज्ञानबलेन द्वितीये। ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन तृतीये। इन्द्रियपरापरत्वादिज्ञानबलेन चतुर्थे। हीनानीन्द्रियादीनि वर्जयित्वा श्रेष्ठसंनियोजनात्।

वैशारद्यविभागे श्लोकः।
ज्ञानप्रहाणनिर्याणविघ्नकारकदेशिक।
स्वपरार्थे ऽन्यतीर्थ्यानां निराधृष्य नमो ऽस्तु ते॥५२॥

अत्र ज्ञानप्रहाणकारकत्वेन स्वार्थे। निर्याणविघ्नदेशिकत्वेन च परार्थे। निराधृष्यत्वादन्यतीर्थ्यैर्भगवतो यथाक्रमं चतुर्विधं वैशारद्यमुभ्दावितम्।

आरक्षस्मृत्युपस्थानविभागे श्लोकः।
वि[नि]गृह्यवक्ता पर्षत्सु द्वयसंक्लेशवर्जित।
निरारक्ष असंमोष गणकर्ष नमोऽस्तु ते॥५३॥

अनेन त्रीण्यरक्षाणि त्रीणि च स्मृत्युपस्थानानि भगवतः परिदीपितानि तेषां च कर्म गणपरिपकर्षकत्वं। तैर्हि यथाक्रमं वि[नि]गृह्यवक्ता च भवति पर्षत्सु निरारक्षत्वात्। द्व्यसंक्लेशवर्जितश्चानुनयप्रतिघाभावादसंमोषतया सदाभूय स्थितस्मृतित्वात्।

वासनासमुद्धातविभागे श्लोकः।
चारे विहारे सर्वत्र नास्त्यसर्वज्ञचेष्टितं।
सर्वदा तव सर्वज्ञ भूतार्थिक नमोऽस्तु ते॥५४॥

अनेन चारे विहारे वा सर्वत्र सर्वदा वासर्वज्ञचेष्टितस्याभावात् भगवतः सर्वक्लेशवासनाससुद्धातः परिदीपितः। असर्वज्ञो हि क्षीणक्लेशो ऽप्यसमुद्धातितत्वाद् वासनाया एकदा भ्रान्तेन हस्तिना सार्धं समागच्छति भ्रान्तेन रथेनेत्येवमादिकमसर्वज्ञचेष्टितं करोति। यथोक्तं माण्डव्यसूत्रे। तच्च भगवतो भूतार्थसर्वज्ञत्वं[ज्ञत्वेन]नास्ति।

असंमोषताविभागे श्लोकः।
सर्वसत्त्वार्थकृत्येषु कालं त्वं नातिवर्तसे।
अबन्ध्यकृत्य सततमसंमोष नमोऽस्तु ते॥५५॥

अनेन यस्य सत्त्वस्य योऽर्थः करणीयो यस्मिन्काले तत्कालानतिवर्तनात् अबन्ध्यं कृत्यं सदा भगवत इत्यसंमोषधर्मत्वं स्वभावतः कर्मतश्च संदर्शितम्।

महाकरुणाविभागे श्लोकः।
सर्वलोकमहोरात्रं षट्कृत्वः प्रत्यवेक्षसे।
महाकरुणया युक्त हिताशय नमोऽस्तु ते॥५६॥

अत्र महाकरुणा भगवतः कर्मतः स्वभावतश्च परिदीपिता। महाकरुणया हि भगवान् षट्कृत्वो रात्रिन्दिवेन लोकं प्रत्यवेक्षते को हीयते को वर्धते इत्येवमादि। तद्योगाच्च भगवान् सर्वसत्त्वेषु नित्यं हिताशयः।

आवेणिकगुणविभागे श्लोकः।
चारेणाधिगमेनापि ज्ञानेनापि च कर्मणा।
सर्वश्रावकप्रत्येकबुद्धोत्तम नमोऽस्तु ते॥५७॥

अत्र चारसंगृहीतैः षड्‍भिरावेणिकैर्बुद्धधर्मैः। अधिगमसंगृहीतैः षड्‍भिः। ज्ञानसंगृहीतैस्त्रिभिः। कर्मसंगृहीतैश्च त्रिभिः। तदन्यसत्त्वोत्तमानामपि श्रावकप्रत्येकबुद्धानामन्तिकादुत्तमत्वेन सर्वसत्त्वोत्तमत्वं भगवतः परिदीपितं। तत्र नास्ति तथागतस्य स्खलितं। नास्ति रवितं। नास्ति मुषिता स्मृतिः। नास्त्यसमाहितं चित्तं। नास्ति नानात्वसंज्ञा। नास्त्यप्रतिसंख्यायोपेक्षेति चारसंगृहीताः षडावेणिका बुद्धधर्मा ये बुद्धस्यैव संविद्यन्ते नान्येषां। नास्ति छन्दपरिहाणिर्नास्ति वीर्यस्मृतिसमाधिप्रज्ञाविमुक्तिपरिहाणिरित्यधिगमसंगृहीताः षट्। अतीतेऽध्वनि तथागतस्यासङ्गमप्रतिहतं ज्ञानम्। अनागते प्रत्युत्पन्ने ऽध्वनि तथागतस्यासङ्गमप्रतिहतं ज्ञानमिति ज्ञानसंगृहीतास्त्रयः। सर्वं तथागतस्य कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति। सर्वं वाक्कर्म सर्वं मनस्कर्मेति कर्मसंगहीतास्त्रयः।

सर्वाकारज्ञताविभागे श्लोकः।
त्रिभिः कायैर्महाबोधिं सर्वाकारामुपागत।
सर्वत्र सर्वसत्त्वानां काङ्क्षाछिद नमोऽस्तु ते॥५८॥

अनेन त्रिभिश्च कायैः सर्वाकारबोध्युपगमत्वात् सर्वज्ञेयसर्वाकारज्ञानाच्च सर्वाकारज्ञता भगवतः परिदीपिता। त्रयः कायाः स्वाभाविकः सांभोगिको नैर्माणिकश्च। सर्वज्ञेयसर्वाकारज्ञानं पुनरत्र सर्वसत्त्वानां देवमनुष्यादीनां सर्वसंशयच्छेदेन कर्मणा निर्दिष्टम्।

पारमितापरिपुरिविभागे श्लोकः।
निरवग्रह निर्दोष निष्कालुष्यानवस्थित।
आनिङ्क्ष्य सर्वधर्मेषु निष्प्रपञ्च नमोऽस्तु ते॥५९॥

अनेन सकलषट्पारमिताविपक्षनिर्मुक्ततया षट्‍पारमितापरिपूरिर्भगवत उद्भाविता। तत्रानवग्रहत्वं भोगनिराग्रहत्वाद्वेदितव्यं। निर्दोषत्वं निर्मलकायादिकर्मत्वात्। निष्कालुष्यत्वं लोकधर्मदुःखाभ्यां चित्ताकलुषीकरणात्। अनवस्थितत्वमल्पावरण[वर]मात्राधिगमानवस्थानात्। आनिङ्क्ष्यत्वमविक्षेपात्। निष्प्रपञ्चत्वं सर्वविकल्पप्रपञ्चासमुदाचारात्।

बुद्धलक्षणविभागे द्वौ श्लोकौ।
निष्पन्नपरमार्थो ऽसि सर्वभूमिविनिःसृतः।
सर्वसत्त्वाग्रतां प्राप्तः सर्वसत्त्वविमोचकः॥६०॥

अक्षयैरसमैर्युक्तो गुणैर्लोकेषु दृश्यसे।
मण्डलेष्वप्यदृश्यश्च सर्वथा देवमानुषैः॥६१॥

अत्र षड्‍भिः स्वभावहेतुफलकर्मयोगवृत्त्यर्थैर्बुद्धलक्षणं परिदीपितं। तत्र विशुद्धा तथता निष्पन्नः परमार्थः। स च बुद्धानां स्वभावः। सर्वबोधिसत्त्वभूमिनिर्यातत्वं हेतुः। सर्वसत्त्वाग्रतां प्राप्तत्वं फलं। सर्वसत्त्वविमोचकत्वं कर्म। अक्षयासमगुणयुक्तत्वं योगः।

नानालोकधातुषु दृश्यमानता निर्माणकायेन पर्षन्मण्डलेष्वपि दृश्यमानता सांभोगिकेन कायेन। सर्वथा। चादृश्यमानता धर्मकायेनेति त्रिविधा प्रभेदवृत्तिरिति।

॥ महायानसूत्रालंकारेषु व्यवदातसमयमहाबोधिसत्त्वभाषिते चर्याप्रतिष्ठाधिकारो
नामैकविंशतितमो ऽधिकारः॥

॥ समाप्तश्च महायानसूत्रालंकार इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project