Digital Sanskrit Buddhist Canon

एकोनविंशत्यधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Ekonaviṁśatyadhikāraḥ

एकोनविंशत्यधिकारः

आश्चर्यविभागे त्रयः श्लोकाः।
स्वदेहस्य परित्यागः संपत्तेश्चैव संवृत्तौ।
दुर्बलेषु क्षमा काये जीविते निरपेक्षिणः॥१॥

वीर्यारम्भो ह्यनास्वादो ध्यानेषु सुख एव च।
निष्कल्पना च प्रज्ञायामाश्चर्यं धीमतां ग[म]तं॥२॥

तथागतकुले जन्मलाभो व्याकरणस्य च।
अभिषेकस्य च प्राप्तिर्बोधेश्चाश्चर्यमिष्यते॥३॥

अत्र द्वाभ्यां श्लोकाभ्यां प्रतिपत्त्याश्चर्यमुक्तं षट्‍पारमिता आरभ्य। दानेन हि स्वदेहपरित्याग आश्चर्यं शीलसंवरनिमित्तमुदारसंपत्तित्यागः। शेषं गतार्थं। तृतीयेन श्लोकेन फलाश्चर्यमुक्तं चत्वारि बोधिसत्त्वफलान्यारभ्य प्रथमायामष्टम्यां दशम्यां त्रीणि शैक्षाणि फलानि। बुद्धभूमौ चतुर्थमशैक्षमत्र फलं।

अनाश्चर्यविभागे श्लोकः।
वैराग्यं करुणां चैत्य भावनां परमामपि।
तथैव समचित्तत्वं नाश्चर्यं तासु युक्तता॥४॥

तास्विति पारमितासु। वैराग्यमागम्य दाने प्रयोगो नाश्चर्यं। करुणामागम्य शीले क्षान्तौ च। परमां भावनामागम्याष्टम्यां भूमौ निरभिसंस्कारनिर्विकल्पो वीर्यादिप्रयोगो नाश्चर्यम्। आत्मपरसमचित्ततामागम्य सर्वास्वेव पारमितासु प्रयोगो नाश्चर्यमात्मार्थ इव परार्थे खेदाभावात्।

समचित्ततायां त्रयः श्लोकाः।
न तथात्मनि दारेषु सुतमित्रेषु बन्धुषु।
सत्त्वानां प्रगतः स्नेहो यथा सत्त्वेषु धीमतां॥५॥

अर्थिष्वपक्षपातश्च शीलस्याखण्डना ध्रुवं।
क्षान्तिः सर्वत्र सत्त्वार्थं[सर्वार्थं]वीर्यारम्भो महानपि॥६॥

ध्यानं च कुशलं नित्यं प्रज्ञा चैवाविकल्पिका।
विज्ञेया बोधिसत्त्वानां तास्वेव समचित्तता॥७॥

एकः श्लोकः सत्त्वेषु समचित्ततायां। द्वौ पारमितासु। न हि सत्त्वानामात्मादिषु स्नेहः समतया अनुगतो न चात्यन्तं। तथा ह्यात्मानमपि कदाचिन्मारयन्ति। बोधिसत्त्वानां तु सर्वसत्त्वेषु समतया ऽत्यन्तं च पारमितासु पुनर्दाने समचित्तत्वमर्थिष्वपक्षपातात्। शीले ऽणुमात्रस्यापि नित्यमखण्डना। क्षान्तिः सर्वत्रेति देशकाले सत्वेष्वभेदना। वीर्ये सत्त्वार्थं[सर्वार्थं]वीर्यारम्भात्स्वपरार्थं समं प्रयोगात्सर्वकुशलार्थं च। शेषं गतार्थम्।

उपकारित्वविभागे षोडश श्लोकाः।
स्थापना भाजनत्वे च शीलेष्वेव च रोपणं।
मर्षणा चापकारस्य अर्थे व्यापारगामिता॥८॥

आवर्जना शासने ऽस्मिंश्छेदना संशयस्य च।
सत्त्वेषु उपकारित्वं धीमतामेतदिष्यते॥९॥

आभ्यां श्लोकाभ्यां षड्भिः पारमिताभिर्यथोपकारित्वं बोधिसत्त्वानां तत्परिदीपितं। दानेन हि सत्त्वानां भाजनत्वे स्थापयन्ति कुशलक्रियायाः। ध्यानेनावर्जयन्ति प्रभावविशेषयोगात्। शेषं गतार्थं। शेषैः श्लोकैः मात्रादिसाधर्म्येणोपकारित्वं दर्शितम्।

समाशयेन सत्त्वानां धारयन्ति सदैव ये।
जनयन्त्यार्यभूमौ च कुशलैर्वर्धयन्ति च॥१०॥

दुष्कृतात्परिरक्षन्ति श्रुतं व्युत्पादयन्ति च।
पञ्चभिः कर्मभिः सत्त्वमातृकल्पा जिनात्मजाः॥११॥

सत्त्वानां मातृभूताः सत्त्वमातृकल्पा। माता हि पुत्रस्य पञ्चविधमुपकारं करोति। गर्भेण धारयति। जनयति। आपाययति पोषयति संवर्धयति। अपायाद्रक्षते। अभिलापं च शिक्षयति। तत्साधर्म्येणैतानि पञ्चबोधिसत्त्वकर्माणि वेदितव्यानि। आर्यभूमिरार्यधर्मा वेदितव्याः।

श्रद्धायाः सर्वसत्त्वेषु सर्वदा चावरोपणात्।
अधिशीलदिशिक्षायां विमुक्तौ च नियोजनात्॥१२॥

बुद्धाध्येषणतश्चैषामावृतेश्च विवर्जनात्।
पञ्चभिः कर्मभिः सत्त्वपितृकल्पा जिनात्मजाः॥१३॥

पिता हि पुत्राणां पञ्चविधमुपकारं करोति। बीजं तेषामवरोपयति। शिल्पं शिक्षयति। प्रतिरूपैर्दारैर्नियोजयति। सन्मित्रेषुपनिक्षिपति। अनृणं करोति यथा न पैतृकमृणं दाप्यते। तत्साधर्म्येण बोधिसत्त्वानामेतानि पञ्च कर्माणि वेदितव्यानि। श्रद्धा हि सत्त्वानामार्यात्मभावप्रतिलम्भस्य बीजं। शैक्षाः शिल्पं। विमुक्तिर्भार्या विमुक्तिप्रीतिसुखसंवेदना[त्?]बुद्धाः कल्याणमित्राणि। अवरणमृणस्थानम्।

अनर्हदेशनां ये च सत्त्वानां गूहयन्ति हि।
शिक्षाविपत्तिं निन्दन्ति शंसन्त्येव च संपदम्॥१४॥

अववादं च यच्छन्ति मारानावेदयन्ति हि।
पञ्चभिः कर्मभिः सत्त्वबन्धुकल्पा जिनात्मजाः॥१५॥

बन्धवो हि बन्धूनां पञ्चविधमुपकारं कुर्वन्ति। गुह्यं गूहयन्ति। कुचेष्टितं विगर्हन्ति। सुचेष्टितं प्रशंसन्ति। करणीयेषु साहाय्यं गच्छन्ति। व्यसनस्थानेभ्यश्च निवारयन्ति। तत्साधर्म्येणैतानि बोधिसत्त्वानां पञ्च कर्माणि वेदितव्यानि। अनर्हेभ्यो गम्भीरधर्मेदेशनाविनिगूहनात् शिक्षाविपत्तिसंपत्त्योर्यथाक्रमं निन्दनात्प्रशंसनाच्च। अधिगमायाववादात् मारकर्मवेदनाच्च।

संक्लेशे व्यवदाने च स्वयमश्रान्तबुद्धयः।
यच्छन्ति लौकिकीं कृत्स्नां संपदं चातिलौकिकीम्॥१६॥

सुखे हिते चाभिन्ना[अखेदित्वादभिन्ना] ये सदा सुखहितैषिणः।
पञ्चभिः कर्मभिः सत्त्वमित्रकल्पा जिनात्मजाः॥१७॥

तद्धि मित्रं यन्मित्रस्य हिते च सुखे चाविपर्यस्तं। सुखं चोपसंहरति हितं चाभेद्यं च भवति। हितसुखैषि च नित्यं। तथा बोधिसत्त्वाः सत्त्वानां पञ्चभिः कर्मभिर्मित्रकल्पा बेदितव्याः। लौकिकी हि संपत् सुखं। तया सुखानुभवात्। लोकोत्तरा हितं। क्लेशव्याधिप्रतिपक्षत्वात्।

सर्वदोद्यमवन्तो ये सत्त्वानां परिपाचने।
सम्यग्निर्याणवक्तारः क्षमा विप्रतिपत्तिषु॥१८॥

द्वयसंपत्तिदातारस्तदुपाये च कोविदाः।
पञ्चभिः कर्मभिः सत्त्वदासकल्पा जिनात्मजाः॥१९॥

दासो हि पञ्चभिः कर्मभिः सम्यग् वर्तते। उत्थानसंपन्नो भवति। कृत्येषु अविसंवादको भवति। क्षमो भवति परिभाषणताडनादीनां। निपुणो भवति सर्वकार्यकरणात्। विचक्षणश्च भवति उपायज्ञः। तत्साधर्म्येणैतानि पञ्च कर्माणि बोधिसत्त्वानां वेदितव्यानि। द्वयसंपत्तिर्लौकिकी लोकोत्तरा च वेदितव्या।

अनुत्पत्तिकधर्मेषु क्षान्तिं प्राप्ताश्च ये मताः।
सर्वयानापदेष्टारः सिद्धयोगानियोजकाः॥२०॥

सुमुखाः प्रतिकारे च विपाके चानपेक्षिणः।
पञ्चभिः कर्मभिः सत्त्वाचार्यकल्पा जिनात्मजाः॥२१॥

पञ्चविधेन कर्मणा[चार्यः?]शिष्याणामुपकारी भवति। स्वयं सुशिक्षितो भवति। सर्वं शिक्षयति। क्षिप्रं शिक्षयति। सुमुखो भवति सुरतजातीयः। निरामिषचित्तश्च भवति। तत्साधर्म्येणैतानि बोधिसत्त्वानां पञ्च कर्माणि वेदितव्यानि।

सत्त्वकृत्यार्थमुद्युक्ताः संभारान्पुरयन्ति ये।
संभृतान्मोचयन्त्याशु विपक्षं हापयन्ति च॥२२॥

लोकसंपत्तिभिश्चित्रैरलोकैर्योजयन्ति च।
पञ्चभिः कर्मभिः सत्त्वोपाध्यायकल्पा जिनात्मजाः॥२३॥

उपाध्यायः पञ्चविधेन कर्मणा सार्धं विहारिणामुपकारी भवति। प्रव्राजयति उपसंपादयति। अनुशास्ति दोषपरिवर्जने। आमिषेण संगृह्णाति धर्मेण च। तत्साधर्म्येणैतानि बोधिसत्त्वानां पञ्च कर्माणि वेदितव्यानि।

प्रतिकारविभागे द्वौ श्लोकौ।
असक्त्या चैव भोगेषु शीलस्य च न खण्डनैः।
कृतज्ञतानुयोगाच्च प्रतिपत्तौ च योगतः॥२४॥

षट्‍सु पारमितास्वेव वर्तमाना हि देहिनः।
भवन्ति बोधिसत्त्वानां तथा प्रत्युपकारिणः॥२५॥

तथेति यथा तेषां बोधिसत्त्वा उपकारिणः। तत्र भोगेष्वनासक्त्या दाने वर्तन्ते। शीलस्याखण्डनेन शीले। कृतज्ञतानुयोगात् क्षान्तौ। उपकारिबोधिसत्त्वस्य कृतज्ञतया ते हि क्षान्तिप्रिया इति। प्रतिपत्तियोगतो वीर्यध्यानप्रज्ञासु येन च प्रतिपद्यन्ते यत्र चेति कृत्वा।

आशास्तिविभागे श्लोकः।
वृद्धिं हानिं च काङ्क्षन्ति सत्त्वानां च प्रपाचनं।
विशेषगमनं भूमौ बोधिं चानुत्तरां सदा॥२६॥

पञ्च स्थानानि बोधिसत्त्वाः सदैवाशंसन्ते। पारमितावृद्धिं। तद्विपक्षहानिं। सत्त्वपरिपाचनं। भूमिविशेषगमनं। अनुत्तरां च सम्यक्‌संबोधिम्।

अबन्ध्यप्रयोगविभागे श्लोकः।
त्रासहानौ समुत्पादे संशयच्छेदने ऽपि च।
प्रतिपत्त्यववादे च सदाबन्ध्या जिनात्मजाः॥२७॥

चतुर्विधे सत्त्वार्थे बोधिसत्त्वानामबन्ध्यः प्रयोगो वेदितव्यः। गम्भिरोदारधर्मत्रास[आ ?]योगे। बोधिचित्तसमुत्पादे। उत्पादितबोधिचित्तानां संशयोपच्छेदने। पारमिताप्रतिपत्त्यववादे च।

सम्यक्‌प्रयोगविभागे द्वौ श्लोकौ।
दानं निष्प्रतिकाङ्क्षस्य निःस्पृहस्य पुनर्भवे।
शीलं क्षान्तिश्च सर्वत्र वीर्यं सर्वशुभोदये॥२८॥

विना[आ ?]रूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता।
सम्यक्‌प्रयोगो धीराणां षट्‍सु पारमितासुहि॥२९॥

यथोक्तं रत्नकूटे। विपाको ऽप्रतिकाङिक्षणो दानेनेति विस्तरः।
परिहाणिविशेषभागीयधर्मविभागे द्वौ श्लोकौ।

भोगसक्तिः सच्छिद्रत्वं मानश्चैव सुखल्लिका।
आस्वादनं विकल्पश्च धीराणां हानिहेतवः॥३०॥

स्थितानां बोधिसत्त्वानां प्रतिपक्षेषु तेषु च।
ज्ञेया विशेषभागीया धर्मा एतद्विपर्ययात्॥३१॥

षणां पारमितानां विपक्षा हानभागीयाः। तत्प्रतिपक्षा विशेषभागीया वेदितव्याः।
प्रतिरूपकभूतगुणविभागे द्वौ श्लोकौ। एकः पट्पादः।

प्रवा[ता]रणापि कुहना सौमुख्यस्य च दर्शना।
लोभत्वेन तथा वृत्तिः शान्तवाक्‌कायता तथा॥३२॥

सुवाक्‌करणसंपच्च प्रतिपत्तिविवर्जिता।
एते हि बोधिसत्त्वानामभूतत्वाय देशिताः।
विपर्ययात्प्रयुक्तानां तद्‍भूतत्वाय देशिताः॥३३॥

षणांपारमितानां प्रतिरूपकाः षड् बोधिसत्त्वगुणाः प्रवा[ता]रणादयो वेदितव्याः। शेषं गतार्थम्।

विनयविभागे श्लोकः।
ते दानाद्युपसंहारैः सत्त्वानां विनयन्ति हि।
षट्प्रकारं विपक्षं हि धीमन्तः सर्वभूमिषु॥३४॥

षट्‍प्रकारो विपक्षः। षणां पारमितानां मात्सर्यदौःशील्यक्रोधकौसीद्यविक्षेपदौष्प्रज्ञ्यानि यथांक्रमं। शेषं गतार्थम्।

व्याकरणविभागे त्रयः श्लोकाः।
धीमद्व्याकरणं द्वेधा कालपुद्‍गलभेदतः।
बोधौ व्याकरणे चैव महाच्चान्यदुदाहृतं॥३५॥

नोत्पत्तिक्षान्तिलाभेन मानाभोगविहानितः।
एकीभावगमत्वाच्च सर्वबुद्धजिनात्मजैः॥३६॥

क्षेत्रेण नाम्ना कालेन कल्पनाम्ना च तत्पुनः।
परिवारानुवृत्त्या च सद्धर्मस्य तदिष्यते॥३७॥

तत्र पुद्‍गलभेदेन व्याकरणं गोत्रस्थोत्पादितचित्तसंमुखासमक्षपुद्‍गलव्याकरणात्। कालभेदेन परिमितापरिमितकालव्याकरणात्। पुनर्बोधौ व्याकरणं भवति। व्याकरणे वा एवंनामा तथागत एवममुष्मिन्काले व्याकरिष्यतीति। अन्यत्पुनर्महाव्याकरणं यदष्टम्यां भूमावनुत्पत्तिकधर्मक्षान्तिलाभतः। अहं बुद्धो भविष्यामीति मानप्रहाणतः। सर्वनिमित्त[आ ?]भोगप्रहाणतः। सर्वबुद्धबोधिसत्वै[त्व]श्च सार्धमेकीभावोपगमनतः। तदात्मसंतानभेदादर्शनात्। पुनः क्षेत्रादिभिर्व्याकरणमीदृशे बुद्धक्षेत्रे एवंनामा इयता कालेन बुद्धो भविष्यति। एवंनामके कल्पे ईदृशश्चास्य परिवारो भविष्यति। एतावदन्तरं कालमस्य सद्धर्मानुवृत्तिर्भविष्यतीति।

नियतिपातविभागे श्लोकः षट्पादः।
संपत्त्युत्पत्तिनैयम्यपातो ऽखेदे च धीमतां।
भावनायाश्च सातत्ये समाधानाच्युतावपि।
कृत्यसिद्धावनाभोगे क्षान्तिलाभे च सर्वथा॥३८॥

षट्पारमिताधिकारेण षड्‍विधो नियतिपात एष निर्दिष्टः। संपत्तिनियतिपातो नित्यमुदारभोगसंपत्तिलाभात्। उपपत्तिनियतिपातो नित्यं यथेष्टोपपत्तिपरिग्रहात्। अखेदनियतिपातो नित्यं संसारदुःखैरखेदात्। भावनासातत्यनियतिपातो नित्यं भावनासातत्यात्। समाधानाच्युतौ कृत्यसिद्धौ च नियतिपातो नित्यं समाध्यपरिहाणितः सत्त्वकृत्यसाधनतश्च। अनाभोगानुत्पत्तिकधर्मक्षान्तिलाभे नियतिपातश्च नित्यमनाभोगनिर्विकल्पज्ञानविहारात्।

अवश्यकरणीयविभागे श्लोकः षट्‍पादः।
पूजा शिक्षासमादानं करुणा शुभभावना।
अप्रमादस्तथारण्ये श्रुतार्थातृप्तिरेव च।
सर्वभूमिषु धीराणामवश्यकरणीयता॥३९॥

षट्पारमिता अधिकृत्येयं षड्‍विधावश्यकरणीयता गतार्थः श्लोकः।
सातत्यकरणीयविभागे द्वौ श्लोकौ।
कामेष्वादीनवज्ञानं स्खलितेषु निरीक्षणा।
दुःखाधिवासना चैव कुशलस्य च भावना॥४०॥

अनास्वादः सुखे चैव निमित्तानामकल्पना।
सातत्यकरणीयं ही धीमतां सर्वभूमिषु॥४१॥

षट्पारमितापरिनिष्पादनार्थं षट् सातत्यकरणीयानि। गतार्थौ श्लोकौ। प्रधानवस्तुविभागे श्लोकः षट्पादः।

धर्मदानं शीलशुद्धिर्नोत्पत्तिक्षान्तिरेव च।
वीर्यारम्भो महायाने अन्त्या सकरुणा स्थितिः।
प्रज्ञा पारमितानां च प्रधानं धीमतां मतम्॥४२॥

षट्‍सु पारमितास्वेतत् षड्‍विधं प्रधानं। तत्र शीलविशुद्धिरार्यकान्तं शीलम्। अन्त्या सकरुणा स्थितिश्चतुर्थं ध्यानं करुणाऽप्रमाणयुक्तं। शेषं गतार्थम्।

प्रज्ञप्तिव्यवस्थानविभागे चत्वारः श्लोकाः।
विद्यास्थानव्यवस्थानं सूत्राद्याकारभेदतः।
ज्ञेयं धर्मव्यवस्थानं धीमतां सर्वभूमिषु॥४३॥

पुनः सत्यव्यवस्थानं सप्तधा तथताश्रयात्।
चतुर्धा च त्रिधा चैव युक्तियानव्यवस्थितिः॥४४॥

योनिशश्च मनस्कारः सम्यग्‌दृष्टिः फलान्विता।
प्रमाणैर्विचयो ऽचिन्त्यं ज्ञेयं युक्तिचतुष्टयम्॥४५॥

आशयाद्देशनाच्चैव प्रयोगात्संभृतेरपि।
समुदागमभेदाच्च त्रिविधं यानमिष्यते॥४६॥

चतुर्विधं प्रज्ञप्तिव्यवस्थानं। धर्मसत्ययुक्तियानप्रज्ञप्तिव्यवस्थानभेदात्। तत्र पञ्चविद्यास्थानव्यवस्थानं धर्मव्यवस्थानं वेदितव्यं सूत्रगेयादिभिराकारभेदैः। तदन्तर्भूतान्येव हि तदन्यानि विद्यास्थानानि महायाने बोधिसत्त्वेभ्यो देश्यन्ते। सत्यव्यवस्थानं तु सप्तविधां तथतामाश्रित्य प्रवृत्तितथतां लक्षणतथतां विज्ञप्तितथतां संनिवेशतथतां मिथ्याप्रतिपत्तितथतां [विशुद्धितथतां ?]सम्यक्‌प्रतिपत्तितथतां च। युक्तिप्रज्ञप्तिव्यवस्थानं चतुर्विधम्। अपेक्षायुक्तिः। कार्यकारणयुक्तिः। उपपत्तिसाधनयुक्तिः। धर्मतायुक्तिश्च। यानप्रज्ञप्तिव्यवस्थानं त्रिविधं। श्रावकयानं। प्रत्येकबुद्धयानं। महायानं च। तत्रापेक्षायुक्तिस्त्रिष्वपि यानेषु योनिशोमनस्कारः। तमपेक्ष्य तेन प्रत्ययेन लोकोत्तरायाः सम्यग्‌दृष्टेरुत्पादात्। कार्यकारणयुक्तिः सम्यग्‌दृष्टिः सफला। उपपत्तिसाधनयुक्तिः प्रत्यक्षादिभिः प्रमाणैः परीक्षा। धर्मतायुक्तिरचिन्त्यं स्थानं। सिद्धा हि धर्मता न पुनश्चिन्त्या। कस्माद्- योनिशोमनस्कारात् सम्यग्‌दृष्टिर्भवति। ततो वा क्लेशप्रहाणं फलमित्येवमादि। यानत्रयव्यवस्थानं पञ्चभिराका रैर्वेदितव्यं। आशयतो देशनातः प्रयोगतः संभारतः समुदागमतश्च। तत्र हीनामाशयदेशनाप्रयोगसंभारसमुदागमाः श्रावकयानं मध्याः प्रत्येकबुद्धयानमुत्तमा महायानं। यथाशयं हि यथाभिप्रायं धर्मदेशनाभिभवति। यथा देशनं तथा प्रयोगः। यथाप्रयोगं संभारः। यथासंभारं च बोधिसमुदागम इति।

पर्येषणाविभागे श्लोकः।
आगन्तुकत्वपर्येषा अन्योन्यं नामवस्तुनोः।
प्रज्ञप्तेर्द्विविधस्यात्र तन्मात्रत्वस्य वैषणा॥४७॥

चतुर्विधा पर्येषणा धर्माणां। नामपर्येषणा वस्तुपर्येषणा। स्वभावप्रज्ञप्तिपर्येषणा। विशेषप्रज्ञप्तिपर्येषणा च। तत्र नाम्नो वस्तुन्यागन्तुकत्वपर्येषणा नामपर्येषणा वेदितव्या। वस्तूनो नाम्न्यागन्तुकत्वपर्येषणा वस्तुपर्येषणा वेदितव्या। तदुभयाभिसंबन्धे स्वभावविशेषप्रज्ञप्त्योः प्रज्ञप्तिमात्रत्वपर्येषणा स्वभावविशेषप्रज्ञप्तिपर्येषणा वेदितव्या।

यथाभूतपरिहार[ज्ञान]विभागे दश श्लोकाः।
सर्वस्यानुपलम्भाच्च भूतज्ञानं चतुर्विधं।
सर्वार्थसिद्ध्यै धीराणां सर्वभूमिषु जायते॥४८॥

चतुर्विधं यथाभूतपरिज्ञानं धर्माणां नामपर्येषणागतं। वस्तुपर्येषणागतं। स्वभावप्रज्ञप्तिपर्येषणागतं। विशेषप्रज्ञप्तिपर्येषणागतं च। तच्च सर्वस्यास्य नामादिकस्यानुपलम्भाद्वेदितव्यं। उत्तरार्धेन यथाभूतपरिज्ञानस्य कर्मणां महात्म्यं दर्शयति।

प्रतिष्ठाभोगबीजं हि निमित्तं बन्धनस्य हि।
साश्रयाश्चित्तचैत्तास्तु बध्यन्ते ऽत्र सबीजकाः॥४९॥

तत्र प्रतिष्ठानिमित्तं भाजनलोकः। भोगनिमित्तं पञ्च रूपादयो विषयाः। बीजनिमित्तं यत्तेषां बीजमालयविज्ञानं। यत्र[अत्र]त्रिविधे निमित्ते साश्रयाश्चित्तचैत्ता वध्यन्ते। यच्च तेषां बीजमालयविज्ञानम्। आश्रयाः पुनश्चक्षुरादयो वेदितव्याः।

पुरतः स्थापितं यच्च निमित्तं यत्स्थितं स्वयं।
सर्वं विभावयन्धीमान् लभते बोधिमुत्तमाम्॥५०॥

तत्र पुरतः स्थापितं निमित्तं यच्छ्रुतचिन्ताभावनाप्रयोगेनालम्बनीकृतं परिकल्पितं। स्थितं स्वयमेव यत्प्रकृत्यालम्बनीभूतमयत्नपरिकल्पितं। तस्य विभावनाधि[वि]गमोऽनालम्बनीभावः। अकल्पना तदुपायो निमित्तप्रतिपक्षः। तच्चोभयं क्रमाद्भवति। पूर्वं हि स्थापितस्य पश्चात् स्वयंस्थितस्य। तत्र चतुर्विपर्यासानुगतं पुद्‍गलनिमित्तं विभावयन्योगी श्रावकबोधिं प्रत्येकबोधिं वा लभते। सर्वधर्मनिमित्तं विभावयन् महाबोधिम्। एतेन यथा तत्त्वं परिज्ञाय मोक्षाय संवर्तते यथाभूतं परिज्ञानं। तत्परिदीपितम्।

तथतालम्बनं ज्ञानं द्वयग्राहविवर्जितं।
दौष्ठुल्यकायप्रत्यक्षं तत्क्षये धीमतां मतम्॥५१॥

एतेन यथास्वभावत्रयपरिज्ञानात् परतन्त्रस्वभावक्षयाय संवर्तते। तत्परिदीपितं। तथतालम्बनत्वेन परिनिष्पन्नं स्वभावं परिज्ञाय। द्वयग्राहविवर्जितत्वेन कल्पितं। दौष्ठुल्यकायप्रत्यक्षत्वेन परतन्त्रं। तस्यैव क्षयाय संवर्तते दौष्ठुल्यकायस्यालयविज्ञानस्य तत्क्षयार्थं तत्क्षये।

तथतालम्बनं ज्ञानमनानाकारभावितं।
सदसत्तार्थे प्रत्यक्षं विकल्पविभु चोच्यते॥५२॥

अनानाकारभावितं निमित्ततथतयोरनानात्वदर्शनात्। एतेन श्रावकानिमित्ताद्वोधिसत्त्वानिमित्तस्य विशेषः परिदीपितः। ते हि निमित्तानिमित्तयोर्नानात्वं पश्यन्तु। सर्वनिमित्तानाममनसिकारादनिमित्तस्य च धातोर्मनसिकारादनिमित्तं समापद्यन्ते। बोधिसत्त्वास्तु तथताव्यतिरेकेण निमित्तपश्यन्तो निमित्तमेवानिमित्तं पश्यन्त्यतस्तेषां तज्ज्ञानमनानाकारभावितं। सत्तार्थे च तथतायामसत्तार्थे च निमित्ते प्रत्यक्षं विकल्पविभु चोच्यते। विकल्पविभुत्वलाभाद्यथाविकल्पं सर्वार्थसमृद्धितः।

तत्त्वं संच्छाद्य बालानामतत्त्वं ख्याति सर्वतः।
तत्त्वं तु बोधिसत्त्वानां सर्वतः ख्यात्यपास्य तत्॥५३॥

एतेन यथा बालानां स्वरसेनातत्त्वमेव ख्याति निमित्तं न तत्त्वं तथता। एवं बोधिसत्त्वानां स्वरसेन तत्त्वमेव ख्याति नातत्वमित्युपदर्शितम्।

अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः।
आश्रयस्य परावृत्तिर्मोक्षो ऽसौ कामचारतः॥५४॥

असदर्थस्य निमित्तस्याख्यानता सदर्थस्य तथतायाः ख्यानता आश्रयपरावृत्तिर्वेदितव्या। तया हि तदख्यानं ख्यानं च। सैव च मोक्षो वेदितव्यः। किं कारणं। कामचारतः। तदा हि स्वतन्त्रो भवति स्वचित्तवशवर्ती प्रकृत्यैव निमित्तासमुदाचारात्।

अन्योन्यं तुल्यजातीयः ख्यात्यर्थः सर्वतो महान्।
अन्तरायकरस्तस्मात्परिज्ञायैनमुत्सृजेत्॥५५॥

इदं क्षेत्रपरिशोधनो[नौ]पाये[य]यथाभूतपरिज्ञानं। भाजनलोका[कोऽ]र्थो महानन्योन्यो वर्तमानस्तुल्यजातीयः ख्याति स एवायमिति। स चैवं ख्यानादन्तरायकरो भवति बुद्धक्षेत्रपरिशुद्धये। तस्मादन्तरायकरं परिज्ञायैनमुत्सृजेदेवं ख्यातं।

अप्रमेयविभागे श्लोकः।
परिपाच्यं विशोध्यं च प्राप्यं योग्यं च पाचने।
सम्यक्‌त्वदेशनावस्तु अप्रमेयं हि धीमताम्॥५६॥

पञ्चविधं हि वस्तु बोधिसत्त्वानामप्रमेयं। परिपाच्यं वस्तु सत्त्वधातुरविशेषेण विशोध्यं लोकधातुर्भाजनलोकसंगृहीतः। प्राप्यं धर्मधातुः। परिपाचनयोग्यं विनेयधातुः। सम्यग्देशनावस्तु विनयोपायधातुः।

देशनाफलविभागे द्वौ श्लोकौ।
बोधिसत्त्व[चित्त]स्य चोत्पादो नोत्पादक्षान्तिरेव च।
चक्षुश्च निर्मलं हीनमाश्रवक्षय एव च॥५७॥

सद्धर्मस्य स्थितिर्दीर्घा व्युत्पत्तिच्छित्तिभोगता।
देशनायाः फलं ज्ञेयं तत्प्रयुक्तस्य धीमतः॥५८॥

देशनायां प्रयुक्तस्य बोधिसत्त्वस्याष्टविधं देशनायाः फलं वेदितव्यं। श्रोतृषु केचिद्बोधिचित्तमुत्पादयन्ति। केचिदनुत्पत्तिकधर्मक्षान्तिं प्रतिलभन्ते। केचिद्विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पादयन्ति हीनयानसंगृहीतं। केच्चिदाश्रवक्षयं प्राप्नुवन्ति। सद्धर्मश्च चिरस्थितिको भवति परंपराधारणतया। अव्युत्पन्नानामर्थव्युत्पत्तिर्भवति। संशयितानां संशयच्छेदो भवति। विनिश्चितानां सद्धर्मसंभोगो भवति अनवद्यो प्रीतिरसः।

महायानमहत्त्वविभागे द्वौ श्लोकौ।
आलम्बनमहत्वं च प्रतिपत्तेर्द्वयोस्तथा।
ज्ञानस्य वीर्यारम्भस्य उपाये कौशलस्य च॥५९॥

उदागममहत्त्वं च महत्त्वं बुद्धकर्मणः।
एतन्महत्त्वयोगाद्धि महायानं निरुच्यते॥६०॥

सप्तविधमहत्त्वयोगान्महायानमित्युच्यते। आलम्बनमहत्त्वेनाप्रमाणविस्तीर्णसूत्रादिधर्मयोगात्। प्रतिपत्तिमहत्त्वेन द्वयोः प्रतिपत्तेः स्वार्थे परार्थे च। ज्ञानमहत्त्वतो द्वयोर्ज्ञानात्पुद्‍गलनैरात्म्यस्य धर्मनैरात्म्यस्य च प्रतिवेधकाले। वीर्यारम्भमहत्त्वेन त्रीणि कल्पासंख्येयानि सातत्यसत्कृत्यप्रयोगात्। उपायकौशल्यमहत्त्वेन संसारापरित्यागासंक्लेशतः। समुदागममहत्त्वेन बलवैशारद्यावेणिकबुद्धधर्मसमुदागमात्। बुद्धकर्ममहत्त्वेन च पुनः पुनरभिसंबोधिमहापरिनिर्वाणसंदर्शनतः।

महायानसंग्रहविभागे द्वौ श्लोकौ।
गोत्रं धर्माधिमुक्तिश्च चित्तस्योत्पादना तथा।
दानादिप्रतिपत्तिश्च न्याया[मा]वक्रान्तिरेव च॥६१॥

सत्त्वानां परिपाकश्च क्षेत्रस्य च विशोधना।
अप्रतिष्ठितनिर्वाणं बोधिः श्रेष्ठा च दर्शनात्[दर्शना]॥६२॥

एतेन दशविधेन वस्तुन कृत्स्नं महायानं संगृहीतं। तत्र सत्वानां परिपाचनं भूमिप्रतिष्ठ[प्रविष्ट]स्य यावत्सप्तम्यां भूमौ वेदितव्यं। क्षेत्रपरिशोधनमप्रतिष्ठितनिर्वाणं चाविनिवर्तनीयायां भूमौ त्रिविधायां। श्रेष्ठा बोधिर्बुद्धभूमौ। तत्रैव चाभिसंबोधिमहापरिनिर्वाणसंदर्शना वेदितव्या। शेषं गतार्थम्।

बोधिसत्त्वविभागे दश श्लोकाः।
आधिमोक्षिक एकश्च शुद्धाध्याशयिको ऽपरः।
निमित्ते चानिमित्ते च चार्यप्यनभिसंस्कृते।
बोधिसत्त्वा हि विज्ञेयाः पञ्चैते सर्वभूमिषु॥६३॥

तत्र निमित्तचारी द्वितीयां भूमिमुपादाय यावत् षष्ठयां। अनिमित्तचारी सप्तम्याम्। अनभिसंस्कारचारी परेण। शेषं गतार्थम्।

कामेष्वसक्तस्त्रिविशुद्धकर्मा क्रोधाभिभूम्यं गुणतत्परश्च।
धर्मे ऽचलस्तत्त्वगभीरदृष्टिर्बोधौ स्पृहावान् खलु बोधिसत्त्वः॥६४॥

एतेन षट्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश्च बोधिसत्त्वलक्षणं परिदीपितम्।
अनुग्रहेच्छो ऽनुपघातदृष्टिः परोपघातेष्वधिवासकश्च।
धीरो ऽप्रमत्तश्च बहुश्रुतश्च परार्थयुक्तः खलु बोधिसत्त्वः॥६५॥

तत्र धीर आरब्धवीर्यो दुःखैरविषादात्। अप्रमत्तो ध्यानसुखेष्वसक्तः। शेषं गतार्थम्।

आदीनवज्ञः स्वपरिग्रहेषु भोगेष्वसक्तो ह्यनिगूढवैरः।
योगी निमित्ते कुशलो ऽकुदृष्टिरध्यात्मसंस्थः खलु बोधिसत्त्वः॥६६॥

तत्र भोगेष्वसक्तो यस्तान्विहाय प्रव्रजति। निमित्तकुशलः शमथादिनिमित्तत्रयकौशल्यात्। अध्यात्मसंस्थो महायानाविकम्पनात्। महायानं हि बोधिसत्त्वानामध्यात्मं। शेषं गतार्थम्।

दयान्वितो ह्रीगुणसंनिविष्टो दुःखाधिवासात्स्वसुखेष्वसक्तः।
स्मृतिप्रधानः सुसमाहितात्मा यानाविकार्यः खलु बोधिसत्त्वः॥६७॥

तत्र स्मृतिप्रधानो ध्यानवान् स्मृतिबलेन चित्तसमाधानात्। सुसमाहितात्मा निर्विकल्पज्ञानः। शेषं गतार्थम्।

दुःखापहो दुःखकरो न चैव दुःखाधिवासो न च दुःखभीतः।
दुःखाद्विमुक्तो न च दुःखकल्पो दुःखाभ्युपेतः खलु बोधिसत्त्वः॥६८॥

तत्र दुःखाद्विमुक्तो ध्यानवान् कामधातुवैराग्याद् दुःखदुःखतामोक्षतः। दुःखाभ्युपेतः संसाराभ्युपगमात्। शेषं गतार्थम्।

धर्मेरतोऽधर्मरतः [धर्मेऽरतोऽधर्मरतः] प्रकृत्या धर्मे जुगुप्सी धरमाभियुक्तः।
धर्मे वशी धर्मनिरन्धकारो धर्मप्रधानः खलु बोधिसत्त्वः॥६९॥

अत्र धर्मे जुगुप्सी अक्षान्तिजुगुप्सनात्। धर्मे वशी समापत्तौ। धर्मप्रधानो महाबोधिपरमः। धर्म एवात्र धरम उक्तो वृत्तानुवृत्त्या। शेषं गतार्थम्।

भोगाप्रमत्तो नियमाप्रमत्तो रक्षाप्रमत्तः कुशलाप्रमत्तः।
सुखाप्रमत्तो धरमाप्रमत्तो यानाप्रमत्तो खलु बोधिसत्त्वः॥७०॥

रत्र रक्षाप्रमत्तः क्षान्तिमान् स्वपरचित्तानुरक्षणात्। धर्माप्रमत्तो यथाभूतधर्मप्रज्ञानात्। शेषं गतार्थम्।

विमानलज्जास्तनुदोषलज्ज अमर्षलज्जः परिहाणिलज्जः।
विशाल[विसार]लज्जस्तुनदृष्टिलज्जः यानान्यलज्जः खलु बोधिसत्त्वः॥७१॥

तत्र विमानलज्जो यो ऽर्थिनो न विमानयति। तनुदोषलज्जो ऽणुमात्रेष्ववद्येषु भयदर्शी तनुदृष्टिलज्जो धर्म नैरात्म्यप्रतिवेधी। शेषं गतार्थं। सर्वैरेभिः श्लोकैः पर्यायान्तरेण षट्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश्च बोधिसत्त्वलक्षणं परिदीपितम्।

इहापि चामुत्र उपेक्षणेन संस्कारयोगेन विभुत्वलाभैः।
शमोप[समौप]देशेन महाफलेन अनुग्रहे वर्तति बोधिसत्त्वः॥७२॥

इहैव सत्त्वानामनुग्रहे वर्तते दानेन। अमुत्र शीलेनोपपत्तिविशेषं प्राप्य। संस्कारयोगेनेति वीर्ययोगेन। महाफलेनेति बुद्धत्वेन। शेषं गतार्थम्। एतेन षड्भिः पारमिताभिर्महाबोधिप्रणिधानेन च यथा सत्त्वानुग्रहे बोधिसत्त्वो वर्तते तत्परिदीपितम्।

बोधिसत्त्वसामान्यनामविभागे अष्टौ श्लोकाः।

बोधिसत्त्वो महासत्त्वो धीमांश्चैवोत्तमध्युतिः।
जिनपुत्रो जिनाधारो विजेताथ जिनाङ्‍कुरः॥७३॥

विक्रान्तः परमाश्चर्यः सार्थवाहो महायशाः।
कृपालुश्च महापुण्य ईश्वरो धार्मिकस्तथा॥७४॥

एतानि षोडश सर्वबोधिसत्त्वानामन्वर्थनामानि सामान्येन।
सुतत्त्वबोधैः सुमहार्थबोधैः सर्वाव[र्थ]बोधैरपि नित्यबोधैः।
उपायबोधैश्च विशेषणेन तेनोच्यते हेतुन बोधिसत्त्वः॥७५॥

पञ्चविधेन बोधविशेषेण बोधिसत्त्व इत्युच्यते। पुद्‍गलधर्म नैरात्म्यबोधेन। सर्वाकारसर्वार्थबोधेन अक्षयावबोधेन परिनिर्वाणसंदर्शने ऽपि। यथा विनेयं च विनयोपायबोधेन।

आत्मानुबोधात्तनुदृष्टिबोधाद्विचित्रविज्ञप्तिविबोधतश्च।
सर्वस्य चाभूतविकल्पबोधात्तेनोच्यते हेतुन बोधिसत्त्वः॥७६॥

अत्र पुनश्चतुर्विधबोधविशेषं दर्शयति चित्तमनोविज्ञानबोधतः। तेषां चाभूतपरिकल्पत्वावबोधतः। तत्र चित्तमालयविज्ञानं। मनस्तदालम्बनमात्मदृष्ट्यादिसंप्रयुक्तं। विज्ञानं षड्‍विज्ञानकायाः।

अबोधबोधादनुबोधबोधादभावबोधात्प्रभवानुबोधात्।
अबोधबोधप्रतिबोधतश्च तेनोच्यते हेतुन बोधिसत्त्वः॥७७॥

अत्र पुनः पञ्चविधं बोधविशेषं दर्शयति। अविद्याबोधात्। विद्याबोधात्। परिकल्पितादिस्वभावत्रयबोधाच्च। तत्राबोधत्वेन बोधप्रतिबोधात् परिनिष्पन्नस्वभावबोधो वेदितव्यः।

अनर्थबोधात्परमार्थबोधात्सर्वाव[र्थ]बोधात्सकलार्थबोधात्।
बोद्धव्यबोधाश्रयबोधबोधात्तेनोच्यते हेतुन बोधिसत्त्वः॥७८॥

अत्र पञ्चविधं बोधविशेषं दर्शयति। परतन्त्रलक्षणबोधात्। परिनिष्पन्नलक्षणबोधात्। [परिकल्पितलक्षणबोधात् ?] सर्वज्ञेयसर्वाकारबोधात्। बोध्यबोधकबोधि[ध]त्रिमण्डलपरिशुद्धिबोधाच्च।

निष्पन्नबोधात्पदबोधतश्च गर्भानुबोधात् क्रमदर्शनस्य।
बोधाद्‍भृशं संशयहानिबोधात् तेनोच्यते हेतुन बोधिसत्त्वः॥७९॥

तत्र निष्पन्नबोधो बुद्धत्वं। पदबोधो येन तुषितभवने वसति। गर्भानुबोधो येन मातुः कुक्षिमवक्रामति। क्रमदर्शने बोधो येन गर्भान्निष्क्रमणं कामपरिभोगं प्रव्रज्यां दुष्करचर्यामभिसंबोधिं च दर्शयति। भृशं संशयहानिबोधो येन सर्वसंशयच्छेदाय सत्त्वानां धर्मचक्रं प्रवर्तयति।

लाभी ह्यलाभी धीसंस्थितश्च बोद्धानुबोद्धा प्रतिदेशकश्च।
निर्जल्पबुद्धिर्हतमानमानी ह्यपक्वसंपक्वमतिश्च धीमान्॥८०॥

अत्रैकादशविधेनातीतादिना बोधेन बोधिसत्त्वः परिदीपितः। तत्र लाभी अलाभी धीसंस्थितश्चातीतानागतप्रत्युत्पन्नैर्बोधैर्यथाक्रमं। बोद्धा स्वयंबोधात्। अनुबोद्धा परतो बोधादेतेनाध्यात्मिकबाह्यं बोधं दर्शयति। प्रतिदेशको निर्जल्पबुद्धिरित्यौदारिकसूक्ष्मं। मानी हतमानीति हीनप्रणीतम्। अपक्‍वसंपक्‍वमतिश्चेति दूरान्तिकं बोधं दर्शयति।

॥ महायानसूत्रालंकारे गुणाधिकारः [एकोनविंशतितमः?] समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project