Digital Sanskrit Buddhist Canon

अष्टादशोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Aṣṭādaśo'dhikāraḥ
अष्टादशोऽधिकारः

लज्जाविभागे षोडशः श्लोकाः।
लज्जा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन।
हीनानवद्यविषया सत्त्वानां पाचिका धीरे॥१॥

एतेन स्वभावसहायालम्बनकर्मसंपदा चतुर्विधं लक्षणं बोधिसत्त्वलज्जायाः संदर्शितं। हीनानवद्यविषया। श्रावकप्रत्येकबुद्धानां [यानं?] तद्वि[द्धि]हीनं च महायानादनवद्यं च। तेन च बोधिसत्त्वो लज्जते। कथं सत्त्वानां पाचिका। तस्यामेव लज्जा[यां] परप्रस्थापनात्।

षण्णां पारमितानां विपक्षे वृद्ध्या बोधिसत्त्वानां।
प्रतिपक्षे हानितश्चाप्यतीव संपद्यते लज्जा।

इयं बोधिसत्त्वानां बृद्ध्या परिहानितश्च लज्जा [?] पारमिताविषक्षवृद्ध्या तत्प्रतिपक्षपरिहाण्या चात्यर्थं लज्जोत्पादनात्।

षण्णां पारमितानां निषेवणालस्यतो भवति लज्जा।
क्वेशानुकूलधर्मप्रयोगतश्चैव धीराणां॥२॥

इयमप्रयोग[प्रयोग?]लज्जा पारमिताभावनायामप्रयोगेन। क्लेशानुकूलेषु धर्मेष्विन्द्रियागुप्तद्वारत्वादिषु च प्रयोगेन लज्जोत्पादनात्।

असमाहितस्वभावा मृदुमध्या हीनभूमिका लज्जा।
हीनाशया समाना हीना हि तदन्यथा त्वधिका॥३॥

इयं मृद्वधिमात्रा लज्जा। पूर्वनिर्देशानुसारेणास्य श्लोकस्यार्थो ऽनुगन्तव्यः। अतः परं चतुर्भिस्त्रिभिश्च श्लोकैर्यथाक्रमं लज्जाविपक्षे लज्जायां च दोषगुणभेदं दर्शयति।

लज्जारहितो धीमान् क्लेशानधिवासयत्ययोनिशतः।
प्रतिघोपेक्षामानः सत्त्वानुपहन्ति शीलं च॥४॥

इत्यत्र आत्मव्याबाधाय चेतयते परव्याबाधायोभयव्याबाधाय चेति संदर्शितम्। अयोनिशत इत्ययोनिशो मनस्कारेण। कथमुपेक्षया सत्त्वानुपहन्ति। सत्त्वार्थप्रमादतः।

कौकृत्यात्सविलेखो भवति स संमानहानिमाप्नोति।
श्राद्धात्मा[मा]नुषसंघाच्छास्रा चोपेक्ष्यते तस्मात्॥५॥

सहधार्मि कैर्जिनसुतैर्विनिन्द्यते लोकतो ऽयशो लभते।
दृष्टे धर्मे

इत्यनेन दृष्टधार्मिकमवद्यं प्रसवतीति दर्शितं। यथाक्रममात्मपरदेवताशास्तृभिरपवदनात्। विज्ञैः सब्रह्मचारिभिर्धर्मतया विगर्हणात्। दिग्विदिक्षु च पापकावर्णनिश्चरणात्।

ऽन्यत्र क्षणरहितो जायते भूयः॥६॥
इत्यनेन सांपरायिकमवद्यं प्रसवतीति संदर्शितमक्षणेषूपपत्तेः।
प्राप्ताप्राप्तविहानिं शुक्लैर्धर्मैः समाप्नुते तेन।

इत्यनेन दृष्टधर्मसांपरायिकमवद्यं प्रसवतीति संदर्शितं। प्राप्तकुशलधर्मपरिहाणितः। अप्राप्तपरिहाणितश्च यथाक्रमम्।

दुःखं विहरति तस्मान्मनसो ऽप्यस्वस्थतामेति॥७॥

इत्यनेन तज्जं चैतसिकं दुःखं दौर्मनस्यं प्रतिसंवेदयत इति संदर्शितम्।
एते सर्वे दोषा हीमत्सु भवन्ति नो जिनसुतेषु।
इत्यत उपादाय लज्जागुणो वेदितव्यः। यदेते च दोषा न भवन्ति।
देवेषु च मनुजेषु च नित्यं संजायते च बुधः॥८॥

इत्येतदस्य विपाकफलं भवति।
संभारांश्च स बोधेः क्षिप्रं पूरयति लज्जया धीमान्।
इत्येतदधिपतिफलं।
सत्त्वानां पाचनया न खिद्यते चैव जिनपुत्रः॥९॥

इत्येतत्पुरुषकारफलम्।
स विपक्षप्रतिपक्षै रहितो ऽरहितश्च जायते सततं।
इत्येते विसंयोगनिष्पन्दफले। यदुत विपक्षरहितत्वं प्रतिपक्षारहितत्वं च।
इत्येतमानुशंसं हीमानाप्नोति जिनपुत्रः॥१०॥

इति यथोक्तदोषाभावं गुणयोगं च प्राप्नोतीति संदर्शितम्।
दोषमलिनो हि बालो हीविरहात्सुवसनैः सुगुप्तो ऽपि।
निर्वसनोऽपि जिनसुतो ह्रीवसनो मुक्तदोषमलः॥११॥

एतेन वस्रविशेषणं ह्रियः। तदन्यवस्रप्रावृतस्यापि ह्रीरहितस्य दोषमलिनत्वात्। नग्नस्यापि न ह्रीमतो निर्मलत्वात्। आकाशमिव न लिप्तो ह्रीयुक्तो जिनसुतो भवति धर्मैः। धर्मैरिति लोकधर्मैः।

हीभूषितश्च शोभति संपर्कगतो जिनसुतानाम्॥१२॥
एतेन श्लोकेन ह्रिय आकाशभूषणसमतां दर्शयति।

मातुरिव वत्सलत्वं ह्रियो विनेयेषु बोधिसत्वानां।
त्रातव्यसत्त्वोपेक्षाया लज्जनात्।
आरक्षा चापि ह्रीः संसरतां सर्वदोषेभ्यः॥१३॥

हस्त्यश्वकायादिभूतत्वात्। एभिर्वस्त्रादिदृष्टान्तैर्विहारे क्लेशप्रतिपक्षतां चारे लोकधर्मप्रतिपक्षतां। सहधार्मिकसंवासानुकूलतां। सत्त्वापरिपाकानुकूलताम्। अक्लिष्टसंसारानुकूलतां च ह्रियो दर्शयति।

सर्वेषु नाधिवासा सर्वेष्वधिवासनाप्रवृत्तिश्च।
सर्वेषु च प्रवृत्तिर्ह्रीविहितं हीमतो लिङ्गम्॥१४॥

एतेन चतुर्विधं ह्रीकृतं लिङ्गं हीमतो दर्शयति। यदुत सर्वदोषेष्वनधिवासना चाप्रवृत्तिश्च। सर्वगुणेष्वधिवासना च प्रवृत्तिश्च।

ह्रीभावना प्रधाना स्वचित्ततो धर्मतो ऽधिमोक्षाच्च।
आशयतो ऽपि विभुत्वादकल्पनादैक्यतश्चापि॥१५॥

इत्यस्य निर्देशो यथापूर्वं।
धृतिविभागे सप्त श्लोकाः।

धृतिश्च बोधिसत्त्वानां लक्षणेन प्रभेदतः।
दृढत्वेन स सर्वेभ्यस्तदन्येभ्यो विशिष्यते॥१६॥

वीर्यं समाधिः प्रज्ञा च सत्त्वं धैर्यं धृतिर्मता।
निर्भीतो बोधिसत्त्वो हि त्रयाद्यस्मात्प्रवर्तते॥१७॥

एतेन धृतिलक्षणं सपर्यायं ससाधनं चोक्तं। वीर्यादिकं लक्षणं सत्त्वादिकं पर्यायः। शेषं साधनं। कतमस्मात्त्रयान्निर्भीतः प्रवर्तत इत्याह।

लीनत्वाच्च चलत्वाच्च मोहाच्चोत्पद्यते भयं।
कृत्येषु तस्माद्विज्ञेया धृतिसंज्ञा निजे त्रये॥१८॥

सर्वकार्येषु हि लीनचित्ततया वा भयमुत्पद्यते तदनुत्साहतः। चलचित्ततया वा चित्तानवस्थानतः। संमोहतो वा तदुपायज्ञानतः। तत्प्रतिपक्षाश्च यथाक्रमं वीर्यादयः। तस्मान्निजवीर्यादित्रये धृतिसंज्ञा वेदितव्या निज इत्यप्रतिसंख्यानकरणीये।

प्रकृत्या प्रणिधाने च निरपेक्षत्व एव च।
सत्त्वविप्रतिपत्तौ च गम्भीर्यौदार्यसंश्रवे॥१९॥

विनेयदुर्विनयत्वे कायाचिन्त्ये जिनस्य च।
दुष्करेषु विचित्रेषु संसारात्याग एव च॥२०॥

निःसंक्लेशे च तत्रैव धृतिर्धीरस्य जायते।
असमा च तदन्येभ्यः सो ऽग्रे धृतिमतां यतः[मतः]॥२१॥

एभिस्त्रिभिः श्लौकैर्धृतिप्रभेदः दर्शयति। यथाक्रमं गोत्रतः। चित्तोत्पादतः। स्वार्थतः। सत्वार्थतः [परार्थतः। तत्वार्थतः।] प्रभावतः। सत्वपरिपाचनतः। परमबोधितश्च। तत्र निरपेक्षत्वं स्वार्थप्रयुक्तस्य कायजीवितनिरपेक्षत्वाद्वेदितव्यं। पुनर्दुष्करचर्यातः। संचिन्त्यभवोपपत्तितः। तदसंक्लेशतो ऽपि प्रभेदः।

कुमित्रदुःखगम्भीरश्रवाद्वीरो न कम्पते।
शलभैः पक्षवातैश्च समुद्रैश्च सुमेरुवत्॥२२॥

एतेन बोधिसत्त्वधृतेर्दृढत्वं दर्शयति। उपमात्रयं त्रयेणाकम्पने[नं] यथाक्रमं वेदितव्यम्।

अखेदविभागे द्वौ श्लौकौ।
अखेदो बोधिसत्वानामसमस्त्रिषु वस्तुषु।
श्रुतातृप्तिमहावीर्यदुःखे ह्रीधृतिनिश्रितः॥२३॥

तीव्रच्छन्दो महाबोधावखेदो धीमतां मतः।
अनिष्पन्नश्च निष्पन्नः सुनिष्पन्नश्च भूमिषु॥२४॥

आभ्यां वस्तुतो निश्रयतः स्वभावतः प्रभेदतश्चाखेदो निर्दिष्टः। त्रिषु वस्तुषु। श्रुतातृप्तौ। दीर्घकालवीर्यारम्भे। संसारदुःखे च। ह्रियं धृतिं च निश्रित्य। ताभ्यां हि खेदोत्पत्तितो लज्जयते न चोत्पादयति। तीव्रच्छन्दो महाबोधाविति स्वभावः। छन्दे हि व्यावृत्ते खिन्नो भवति। अनिष्पन्नो ऽधिमुक्तिचर्याभूमौ। निष्पन्नः सप्तभूमिषु। सुनिष्पन्नः परेण इत्येष प्रभेदः।

शास्त्रज्ञतायां द्वौ श्लोकौ।
वस्तुना चाधिकारेण कर्मणा च विशिष्यते।
लक्षणेनाक्षयत्वेन फलस्योदागमेन च॥२५॥

शास्त्रज्ञता हि धीराणां समाधिमुखधारणी।
गृहीता सत्त्वपाकाय सद्धर्मस्य च धारणे॥२६॥

तत्र शास्त्रज्ञतायाः पञ्च विद्यास्थानानि वस्तु। अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च। स्वपरार्थक्रिया अधिकारः। कर्म प्रथमवस्तुनि स्वयं प्रतिपत्तिः परेभ्यश्च तत्समाख्यानं। द्वितीये तद्दोषपरिज्ञानं परवादिनिग्रहश्च। तृतीये स्वयं सुनिरूक्ताभिधानं परसंप्रत्ययश्च। चतुर्थे परेषां व्याधिशमनं। पञ्चमे परेभ्यस्तत्संविभागः। लक्षणं शास्त्रज्ञताया एतान्येव पञ्च वस्तूनि श्रुतानि भवन्ति। धृतानि। वचसा परिजितानि। मनसा अन्वीक्षितानि। दृष्ट्या सुप्रतिविद्धानि। श्रुत्वा यथाक्रमं तदुद्‍ग्रहणातः। स्वाध्यायतः। प्रसन्नेन मनसार्थचित्तनतो यथायोगं तद्दोषगुणावगमात् स्वाख्यातदुराख्यातावधारणतश्च। अक्षयत्वं निरुपधिशेषनिर्वाणे ऽप्यक्षयात्। फलसमुदागमः सर्वधर्मसर्वाकारज्ञता। सा पुनरेषा शास्रज्ञता बोधिसत्त्वानां समाधिमुखैर्धारणीमुखैश्च संगृहीता। सत्त्वपरिपाकाय च भवति। समाधिमुखैस्तत्कृत्यानुष्ठानात्। सद्धर्मपारणाय च धारणीभिस्तद्धारणात्।

लोकज्ञतायां चत्वारः श्लोकाः।

कायेन वचसा चैव सत्यज्ञानेन चासमा।
लोकज्ञता हि धीराणां तदन्येभ्यो विशिष्यते॥२७॥

कथं कायेनेत्याह। कृतस्मितमुखा नित्यं। कथं वाचेत्याह। धीराः पूर्वाभिभाषिणः।

सा पुनः किमर्थमित्याह। सत्त्वानां भाजनत्वाय।
कस्मिन्नर्थे भाजनत्वाय। सद्धर्मप्रतिपत्तये॥२८॥

कथं सत्यज्ञानेनेत्याह।
सत्यद्वयाद्यतश्चेष्टो लोकानामुदयो ऽसकृत्।
द्वयादस्तंगमस्तस्मात् तज्ज्ञो लोकज्ञ उच्यते॥२९॥

द्वाभ्यां सत्याभ्यां लोकस्योदयः पुनः पुनः संसारो यश्चोदयो येन चेति कृत्वा। द्वाभ्यामस्तंगमो निरोधमार्गसत्याभ्यां। यश्चास्तंगमो येन चेति कृत्वा। तस्मात्तज्ज्ञो लोकज्ञ उच्यते। लोकस्योदयास्तंगामिन्या प्रज्ञया समन्वागतत्वात्।

शमाय प्राप्तये तेषां धीमान् सत्येषु युज्यते।
सत्यज्ञानद्यतो धीमान् लोकज्ञो हि निरुच्यते॥३०॥

अनेन लोकज्ञतायाः कर्म निर्दिष्टं। तत्र शमाय दुःखसमुदयसत्ययोः प्राप्तये निरोधमार्गसत्ययोः।

प्रतिसरणविभागे त्रयः श्लोकाः
आर्षश्च देशनाधर्मो अर्थोऽभिप्रायिकोऽस्य च।
प्रामाणिकश्च नीतार्थो निर्जल्पा प्राप्तिरस्य च॥३१॥

इदं प्रतिसरणानां लक्षणं। तत्र प्रामाणिको ऽर्थो यः प्रमाणभूतेन नीतो विभक्तः शास्त्रा वा तत्प्रमाणीकृतेन वा। निर्जल्पा प्राप्तिरधिगमज्ञानं लोकोत्तरं। तस्यानभिलाप्यत्वात्। शेषं गतार्थम्।

प्रतिक्षेप्तुर्यथोक्तस्य मिथ्यासंतीरितस्य च।
साभिलाष[प]स्य च प्राप्तेः प्रतिषेधो ऽत्र देशितः॥३२॥

प्रथमे प्रतिसरणे आर्षधर्मप्रतिक्षेप्तुः पुद्नलस्य प्रतिषेधो देशितः। द्वितीये यथारुतार्थस्य व्यञ्जनस्य नाभिप्रायिकार्थेन। तृतीये मिथ्या चिन्तितार्थस्य विपरीतं नीयमानस्य। चतुर्थे साभिलाष[प]स्य ज्ञानस्य[आ]प्रत्यात्मवेदनीयस्य।

अधिमुक्तेर्विचाराच्च यथावत्परतः श्रवात्।
निर्जल्पादपि च ज्ञानादप्रणाशो हि धीमतां॥३३॥

अयं प्रतिसरणानुशंसः। प्रथमेन प्रतिसरणेनार्षधर्माधिमुक्तितो न प्रणश्यति। द्वितीयेन स्वयमाभिप्रायिकार्थविचारणात्। तृतीयेन परतस्तदविपरीतार्थनयश्रवात्। चतुर्थेन लोकोत्तरज्ञानात्।

प्रतिसंविद्विभागे चत्वारः श्लोकाः।
असमा बोधिसत्त्वानां चतस्रः प्रतिसंविदः।
पर्याये लक्षणे वाक्ये ज्ञाने ज्ञानाच्च ता मताः॥३४॥

प्रथमा पर्याये ज्ञानमेकैकस्यार्थस्य यावन्तो नामपर्यायाः। द्वितीया लक्षणे यस्यार्थस्य तन्नाम। तृतीया वाक्ये प्रत्येकं जनपदेषु या भाषाः। चतुर्था ज्ञाने स्वयं यत्प्रतिभानम्। इदं प्रतिसंविदांलक्षणम्।

देशनायां प्रयुक्तस्य यस्य येन च देशना।
धर्मार्थयोर्द्वयोर्वाचा ज्ञानेनैव च देशना॥३५॥

धर्मस्योद्देशनिर्देशात्सर्वथा प्रापणाद् द्वयोः।
परिज्ञाना[हाना]च्च चोद्यानां प्रतिसंविच्चतुष्टयम्॥३६॥

इति चतुष्ट्‍वे कारणं। देशनायां हि प्रयुक्तस्य यस्य च देशना येन च। तत्र ज्ञानेन प्रयोजनं। कस्य पुनर्देशना। धर्मस्यार्थस्य। केन देशना वचनेन ज्ञानेन च। तत्र धर्मार्थयोर्देशना। धर्मस्योद्देशनिर्देशात्। वाक्येन देशना तयोरेव द्वयोः सर्वथा प्रापणात्।

ज्ञानेन देशना चोद्यानां परिहरणात्। अतो यच्च येन च देश्यते तज्ज्ञानात् चतस्रः प्रतिसंविदो व्यवस्थापिताः।

प्रत्यात्मं समतामेत्य योत्तरत्र प्रवेदना।
सर्वसंशयनाशाय प्रतिसंविन्निरुच्यते॥३७॥

एतेन प्रतिसंविदां निर्वचनं कर्म च दर्शितं। प्रत्यात्मं लोकोत्तरेण ज्ञानेन सर्वधर्मसमतां तथतामवेत्य उत्तरकालं तत्पृष्ठलब्धेन ज्ञानेन प्रवेदना पर्यायादीनां प्रतिसंविदिति निर्वचनं। सर्वसंशयनाशाय परेषामिति कर्म।

संभारविभागे चत्वारः श्लोकाः।
संभारो बोधिसत्त्वानां पुण्यज्ञानमयो ऽसमः।
संसारेऽभ्युदयायैकः अन्यो ऽसंक्लिष्टसंसृतौ॥३८॥

यश्च संभारो यदर्थं च तत्संदर्शितम्। द्विविधः संभारः। तत्र पुण्यसंभारः संसारे ऽभ्युदयाय संवर्तते। ज्ञानसंभारो ऽसंक्लिष्टसंसरणाय।

दानं शीलं च पुण्यस्य प्रज्ञा ज्ञानस्य संभृतिः।
त्रयं चान्यद्‍द्व्यस्यापि पञ्चापि ज्ञानसंभृतिः॥३९॥

एतेन पारमिताभिस्तदुभयसंभारसंग्रहं दर्शयति। क्षान्तिवीर्यध्यानबलेन ह्युभयं क्रियते। तस्माद्‍द्वयसंभारस्रयं भवति। पुनः प्रज्ञायां परिणामनात्सर्वाः पञ्च पारमिता ज्ञानसंभारो वेदितव्यः।

संतत्या भावनामेत्य भूयो भूयः शुभस्य हि।
आहारो यः स संभारो वी[धी]रे सर्वार्थसाधकः॥४०॥

एतत्संभारनिर्वचनं कर्म च। समिति संतत्या। भा इति भावनामागम्य। र इति भूयो भूय आहारः। सर्वार्थसाधक इति कर्म। स्वपरार्थयोः साधनात्।

प्रवेशायानिमित्ताय अनाभोगाय संभृतिः।
अभिषेकाय निष्ठायै धीराणामुपचीयते॥४१॥

अयं संभारप्रभेदः। तत्राधिमुक्तिचर्याभूमौ संभारो भूमिप्रवेशाय। षट्‍सु भूमिष्वनिमित्ताय सप्तमीभूमिसंगृहीताय। तस्यां निमित्त-[आ] समुदाचारात्। सप्तम्यां भूमावनाभोगाय तदन्यभूमिद्वयसंगृहीताया। तयोः संभारा[रोऽ]भिषेकाय दशमीभूमिसंगृहीताय। तस्यां संभारो निष्ठागमनाय बुद्धभूमिसंगृहीताय।

स्मृत्युपस्थानविभागे त्रयः श्लोकाः।
चतुर्दशभिराकारैः स्मृत्युपस्थानभावना।
धीमतामसमत्वात्सा तदन्येभ्यो विशिष्यते॥४२॥

कतमैश्चतुर्दशभिः।
निश्रयात्प्रतिपक्षाच्च अवतारात्तथैव च।
आलम्बनमनस्कारप्राप्तितश्च विशिष्यते॥४३॥

आनुकूल्यानुवृत्तिभ्यां परिज्ञोत्पत्तितो ऽपरा।
मात्रया परमत्वेन भावनासमुदागमात्॥४४॥

इत्येभिश्चतुर्दशभिराकारैर्बोधिसत्वानां स्मृत्युपस्थानभावना विशिष्यते। कथमाश्रयतो महायाने श्रुतचिन्ताभावनामयीं प्रज्ञामाश्रित्य। कथं प्रतिपक्षतः चतुर्विपर्यासप्रतिपक्षाणामप्यशुचिदुःखानित्यानात्मसंज्ञानां प्रतिपक्षत्वात्कायादिधर्म नैरात्म्यप्रवेशतः। कथमवतारतः। चतुर्भिः स्मृत्युपस्थानैर्यथाक्रमं दुःखसमुदयनिरोधमार्गसत्यावतारात्स्वयं परेषां चावतारणात्। यथोक्तं मध्यान्तविभागे। कथमालम्बनतः सर्वसत्त्वकायाद्यालम्बनात्। कथं मनस्कारतः कायाद्यनुपलम्भात्। कथं प्राप्तितः कायादीनां न विसंयोगाय नाविसंयोगाय। कथमानुकूल्यतः पारमितानुकूल्येन तद्विपक्षप्रतिपक्षत्वात्। कथमनुवृत्तितः लौकिकानां श्रावकप्रत्येकबुद्धानां चानुवृत्त्या तदुपसंहितस्मृत्युपस्थानभावनात्तेभ्यस्तदुपदेशार्थं। कथं परिज्ञातः कायस्य मायोपमत्वपरिज्ञया तथैवाभूतरूपसंप्रख्यानात्। वेदनायाः स्वप्नोपमत्वपरिज्ञया तथैव मिथ्यानुभवात्। चित्तस्य प्रकृतिप्रभास्वरत्वपरिज्ञया आकाशवत्। धर्माणामागन्तुकत्वपरिज्ञया आकाशागन्तुरजोधूमाभ्रनीहारोपक्लेशवत्। कथमुत्पत्तितः संचित्यभवोपपत्तौ चक्रवर्त्यादिभूतस्य विशिष्टकायवेदनादिसंपत्तौ तदसंक्लेशतः। कथं मात्रातः मृद्वा अपि स्मृत्युपस्थानभावनायास्तदन्येभ्योऽधिमात्रत्वात्। प्रकृतितीक्ष्णेन्द्रियतया। कथं परमत्वेन परिनिष्पन्नानामनाभोगमिश्रोपमिश्रभावनात्। कथं भावनातः अत्यन्तं तद्भावनात् निरुपधिशेषनिर्वाणे ऽपि तदक्षयात्। कथं समुदागमतः। दशसु भूमिषु बुद्धत्वे च समुदागमात्।

सम्यक्प्रहाणविभागे पञ्च श्लोकाः।
सम्यक्‌प्रहाणं धीराणामसमं सर्वदेहिभिः।
स्मृत्युपस्थानदोष[आ]णां प्रतिपक्षेण भाव्यते॥४५॥

यावत्यः स्मृत्युपस्थानभावना उक्ताः तद्विपक्षाणां दोषाणां प्रतिपक्षेण सम्यक्‌प्रहाणभावनेति समस्तं सम्यक्‌प्रहाणलक्षणम्। प्रभेदेन पुनः।

संसारस्योपभोगे च त्यागे निवरणस्य च।
मनस्कारस्य च त्यागे प्रवेशे चैव भूमिषु॥४६॥

अनिमित्तविहारे च लब्धौ व्याकरणस्य च।
सत्त्वानां परिपाके च अभिषेके च धीमतां॥४७॥

क्षेत्रस्य च विशुद्ध्यर्थं निष्ठागमन एव च।
भाव्यते बोधिसत्त्वानां विपक्षप्रतिपक्षतः॥४८॥

अयं सम्यक्‌प्रहाणभावनाप्रभेदः। संसारस्यासंक्लिष्टपरिभोगे संपत्तिषु। पञ्चनिवारणत्यागे। श्रावकप्रत्येकबुद्धमनस्कारत्यागे। भूमिप्रवेशे। अनिमित्तविहारे सप्तम्यां भूमौ। व्याकरणलाभे अष्टम्यां। सत्त्वानां परिपाचने। नवम्यां। अभिषेके च दशम्यां। क्षेत्रविशुद्ध्यर्थं त्रये ऽपि। निष्ठागमने च बुद्धभूमौ। ये च विपक्षास्तेषां प्रतिपक्षेण सम्यक्‌प्रहाणभावना वेदितव्या। अयमस्याः प्रभेदः।

छन्दं निश्रित्य योगस्य भावना सनिमित्तिका।
सर्वसम्यक्‌प्रहाणेषु प्रतिपक्षो निरुच्यते॥४९॥

एतेन छन्दं जनयति। व्यायच्छते वीर्यमारभते। चित्तं प्रगृण्हाति। सम्यक् प्रदधातीति। एषां पदानामर्थनिर्देशः। छन्दं हि निश्रित्य शमथविपश्यनाख्यं योगं भावयतीति व्यायच्छते। सा च भावना शमथप्रग्रहोपेक्षानिमित्तैः सह भाव्यते। तस्मात्सा सनिमित्तिका। कथं च पुनर्भाव्यते। यच्छमथप्रग्रहोपक्लेशयोर्लयौद्धत्ययोः प्रतिपक्षेण वीर्यमारभते। कथमारभते। चित्तं प्रगृण्हाति प्रदधाति च। [तत्र प्रगृण्हातीतिप्रज्ञया। प्रदधातीति?] शमथे [न?] समप्राप्ते चो[प्तश्चो]पेक्षायां प्रदधाति। एषा योगभावना यथोक्तप्रभेदेषु सर्वसम्यक्‌प्रहाणेषु प्रतिपक्ष उच्यते।

ऋद्धिपादविभागे पञ्च श्लोकाः।
ऋद्धिपादाश्च चत्वारो धीराणामग्रलक्षणाः।
सर्वार्थसिद्धौ जायन्ते आत्मनश्च परस्य च॥५०॥

सर्वार्थसिद्धिर्लौकिकी लोकोत्तरा च वेदितव्या। शेषं गतार्थम्।
निश्रयाच्च प्रभेदाच्च उपायादभिनिर्हृतेः।
व्यवस्था ऋद्धिपादानां धीमतां सर्वथेष्यते॥५१॥

अस्योद्देशस्य शेषो निर्देशः।
ध्यानपारमिमाश्रित्य प्रभेदो हि चतुर्विधः।
उपायश्चाभिनिर्हारः षड्‍विधश्च विधीयते॥५२॥

ध्यानपारमितानिश्रयः प्रभेदश्चतुर्विधश्छन्दवीर्यचित्तमीमांसासमाधिभेदात्। उपायश्चतुर्विध एव। अभिनिर्हारः षड्‍विधः। चतुर्विध उपायः कतमः।

व्यावसायिक एकश्च द्वितियो ऽनुग्रहात्मकः।
नैबन्धिकस्तृतीयश्च चतुर्थः प्रातिपक्षिकः॥५३॥

अष्टानां प्रहाणसंस्काराणां छन्दो व्यायामः श्रद्धा व्यावसायिकः उपायः। श्रद्दधानस्यार्थिनो व्यायामात्। प्रश्रब्धिरनुग्राहकः। स्मृतिः संप्रजन्यं चौपनिबन्धकः। एकेन चित्तस्यालम्बनाविसारात्। द्वितीयेन विसारप्रज्ञानात्। चेतना चोपेक्षा च प्रातिपक्षिक उपायः। लयौद्धत्योपक्लेशयोः क्लेशानां च प्रतिपक्षत्वात्। षड्‍विधो ऽभिनिर्हारः कतमः।

दर्शनस्याववादस्य स्थितिविक्रीडितस्य च।
प्रणिधेर्वशितायाश्च धर्मप्राप्तेश्च निर्हृतिः॥५४॥

तत्र दर्शनं चक्षुः पञ्चविधं मांसचक्षुः दीव्यं चक्षुः आर्यं प्रज्ञाचक्षुः धर्मचक्षुः बुद्धचक्षुश्च। अववादः षडभिज्ञा यथाक्रमं। ताभिरुपसंक्रम्य भाषां चित्तं चागतिं च गतिं च विदित्वा निःसरणायाववदनात्। स्थितिविक्रिडितं यस्मात् बोधिसत्त्वानां बहुविधं निर्माणादिभिः समाधिविक्रीडितं। प्रणिधिर्येन प्रणिधिज्ञानेन प्रणिधानबलिका बोधिसत्त्वाः प्रणिधानवैशेषिकतया विक्रीडन्ति। येषां न सुकरं संख्या कर्तुं कायस्य वा प्रभाया वा स्वरस्य वेति विस्तरेण यथा दशभूमिके सूत्रे। वशिता यथा तत्रैव दश वशिता निर्दिष्टाः। धर्मप्राप्तिर्बलवैशारद्यावेणिकबुद्धधर्माणां प्राप्तिः। इत्येष दर्शनादीनामभिनिर्हारः षड्‍विधः।

इन्द्रियविभागे श्लोकः।
बोधिश्चर्या श्रुतं चात्र[ग्रं]शमथो ऽथ विपश्यना।
श्रद्धादीनां पदं ज्ञेयमर्थसिद्ध्यधिकारतः॥५५॥

श्रद्धेन्द्रियस्य बोधिः पदमालम्बनमित्यर्थः। वीर्येन्द्रियस्य बोधिसत्त्वचर्या। स्मृतीन्द्रियस्य महायानसंगृहीतं श्रुतं। समाधीन्द्रियस्य शमथः। प्रज्ञेन्द्रियस्य विपश्यना पदं। तदर्थाधिकारेणैव चैतानि श्रद्धादीनि आधिपत्यार्थेनेन्द्रियाण्युच्यन्ते।

बलविभागे श्लोकः।
भूमिप्रवेशसंक्लिष्टाश्चेष्टाः श्रद्धादयः पुनः।
विपक्षदुर्बलत्वेन त एव बलसंज्ञिताः॥५६॥

गतार्थः श्लोकः।
बोध्यङ्गविभागे सप्त श्लोकाः।
भूमिविष्टस्य बोध्यङ्गव्यवस्थानं विधीयते।
धर्माणां सर्वसत्त्वानां समतावगमात्पुनः॥५७॥

एतेन यस्यामवस्थायां यस्यावबोधात् बोध्यङ्गानि व्यवस्थाप्यन्ते तदुपदिष्टं। भूमिप्रविष्टावस्थायां सर्वधर्माणां सर्वसत्त्वानां च समतावबोधाद्यथाक्रमं धर्मनैरात्म्येनात्मपरसमतया च। अतः परं चक्रादिसप्तरत्नसाधर्म्यं बोध्यङ्गानां दर्शयति।

स्मृतिश्चरति सर्वत्र ज्ञेयाजितविनिर्जये।
अजितज्ञेयविनिर्जयाय। यथा चक्रवर्तिनश्चक्ररत्नमजितदेशविनिर्जयाय।
सर्वकल्पनिमित्तानां भङ्गाय विचयोऽस्य च॥५८॥

यथा हस्तिरत्नं प्रत्यर्थिकभङ्गाय।
आशु चाशेषबोधाय वीर्यमस्य प्रवर्तते।
क्षिप्राभिज्ञतोत्पादनात्। यथाश्वरत्नमाशु समुद्रपर्यन्तमहापृथिवीगमनाय।
धर्मालोकविवृद्ध्या च प्रीत्या आपूर्यते ध्रुवम्॥५९॥

आरब्धवीर्यस्य बोधिसत्त्वस्य धर्मालोका विवर्धन्ते। ततः प्रीतिः सर्वं कार्यं[यं] सदा प्रीणयति। यथा मणिरत्नमालोकविशेषेण चक्रवर्तिनं प्रीणयति।

सर्वावरणनिर्मोक्षात् प्रश्रब्ध्या सुखमेति च।
सर्वदौष्ठुल्यसमुत्पाद[ट]नात्। यथा स्त्रीरत्नेन चक्रवर्ती सुखमनुभवति।
चिन्तितार्थसमृद्धिश्च समाधेरूपजायते॥६०॥

यथा चक्रवर्तिनो गृहपतिरत्नात्।
उपेक्षया यथाकामं सर्वत्र विहरत्यसौ।
प[पृ]ष्ठलब्धाविकल्पेन विकल्पेन[विहारेण]सदोत्तमः॥६१॥

उपेक्षोच्यते निर्विकल्पं ज्ञानं तया बोधिसत्त्वः सर्वत्र यथाकामं विहरति। तत्पृष्ठलब्धेन च विहारेणान्यस्योपगमात्। अन्यस्यापगमात्। निर्विकल्पेन विहारेण तत्र निर्व्यापारतया वासकल्पनात्। यथा चक्रवर्तिनः परिणायकरत्नं चतुरङ्गबलकायमुपनेतव्यं चोपप्रणयति[गमयति]। अपनेतव्यं चापनयति। तत्र च गत्वा वासं कल्पयति यत्राखिन्नः चतुरङ्गो बालकायः परैति।

एवंगुणो बोधिसत्त्वश्चक्रवर्तीव वर्तते।
सप्तरत्नोपमैर्नित्यं बोध्यङ्गैः परिवारितः॥६२॥

इति सप्तरत्नोपमत्वं बोध्यङ्गानां निगमयति।
निश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकं।
चतुर्थमनुशंसाङ्गमक्लेशाङ्गं त्रयात्मकम्॥६३॥

एतेन यब्दोध्यङ्गं यथाङ्गं तदभिद्योतितं। स्मृतिर्निश्रयाङ्गं सर्वेषां तन्निश्रयेण प्रवृत्तेः। धर्मप्रविचयः स्वभावाङ्गं बोधेस्तत्स्वभावत्वात्। वीर्यं निर्याणाङ्गं तेनाप्राप्यनिष्ठा यामधिष्ठानात् [विच्छेदात्]। प्रीतिरनुशंसाङ्गं चित्तसुखत्वात्। प्रश्रब्धिसमाध्युपेक्षा असंक्लेशाङ्गं। येन यन्निश्रित्य यो ऽसंक्लेश इति त्रिविधमसंक्लेशाङ्गं वेदितव्यम्।

मार्गाङ्गविभागे द्वौ श्लोकौ।
यथाबोधानुवृत्तिश्च तदूर्ध्वमुपजायते।
यथाबोधव्यवस्थानं प्रवेशश्च व्यवस्थितौ॥६४॥

कर्मत्रयविशुद्धिश्च प्रतिपक्षश्च भावना।
ज्ञेयावृत्तेश्च मार्गस्य वैशेषिकगुणस्य च॥६५॥

बोध्यङ्गकालादूर्ध्वं यथाभूतावबोधानुवृत्तिः सम्यग्दृष्टिः। तस्यैवावबोधस्य व्यवस्थानं परिच्छेदः सम्यक्‌संकल्पः। तद्‍व्यवस्थाने च सूत्रादिके भगवता कृते स एव प्रवेशस्तेन तदर्थावबोधात्। कर्मत्रयविशुद्धिः सम्यग्वाक्कर्मान्ताजीवाः। वाक्कायोभयकर्मसंग्रहात्। प्रतिपक्षस्य भावना सम्यग्व्यायामादयो यथाक्रमं ज्ञेयावरणस्य मार्गावरणस्य च वैशेषिकगुणावरणस्य च सम्यग्व्यायामेन दीर्घं हि कालम् अखिद्यमानो ज्ञेयावरणस्य प्रतिपक्षं भावयति। सम्यक्‌स्मृत्या शमथप्रग्रहोपेक्षानिमित्तेषु लयोद्धत्याभावान्मार्गसंमुखीभावायावरणस्य प्रतिपक्षं भावयति। सम्यक्‌समाधिना वैशेषिकगुणाभिनिर्हारायावरणस्य प्रतिपक्षं भावयत्येवमष्टौ मार्गाङ्गानि व्यवस्थाप्यन्ते।

शमथविपश्यनाविभागे त्रयः श्लोकाः।

चित्तस्य चित्ते स्थानाच्च धर्मप्रविचयादपि।
सम्यक्‌स्थितिमुपाश्रित्य शमथो ऽथ विपश्यना॥६६॥

सम्यक्‌समाधिं निश्रित्य चित्ते चित्तस्यावस्थानात्। धर्माणां च प्रविचयाद्यथाक्रमं शमथो विपश्यना च वेदितव्या। न तु विना सम्यक्‌समाधिनेत्येतच्छमथविपश्यनालक्षणभू।

सर्वत्रगा च सैकांशा नैकांशोपनिषन्मता।
सा च शमथविपश्यना सर्वत्रगा यं यं गुणमाकाङ्क्षति तत्र तत्र तद्भावनात्। यथोक्तं सूत्रे। आकाङ्क्षेद्भिक्षुरहो वताहं विविक्तं कामैरिति विस्तरेण यावत् तेन भिक्षुणा इमावेव द्वौ धर्मौ भावयितव्यौ। यदुत शमथश्च विपश्यना चेत्येवमादि। एकांशा शमथविपश्यना यदा शमथं भावयति। विपश्यनां वा। उभयांशा यदा युगपदुभयं भावयति। उपनिषत्संमता शमथविपश्यना बोधिसत्त्वानामधिमुक्तिचर्याभूमौ।
प्रतिवेधे च निर्याणे अनिमित्ते ह्यसंस्कृते॥६७॥

परिशुद्धौ विशुद्धौ च शमथो ऽथ विपश्यना।
सर्वभूमिगता धीरे स योगः सर्वसाधकः॥६८॥

इत्युपनिषन्मतेत्येवमादिना शमथविपश्यनायाः प्रभेदः कर्म च निर्दिष्टं। योग उपायो वेदितव्यः। तत्र प्रतिवेधः प्रथमभूमिप्रवेशः। निर्याणं यावत् षष्ठी भूमिः। ताभिः सनिमित्तप्रयोगनिर्याणात्। अनिमित्तं सप्तमी भूमिः। असंस्कृतमन्यद्भूमित्रयमनभिसंस्कारवाहित्वात्। संस्कारो हि संस्कृतं तदत्र नास्तीत्यसंस्कृतं। तदेव च भूमित्रयं निश्रित्य बुद्धक्षेत्रं च परिशोधयितव्यं। बुद्धत्वं च प्राप्तव्यं। तदेतद्यथाक्रमं परिशुद्धिर्विशुद्धिश्च।

उपायकौशल्यविभागे द्वौ श्लोकौ।
पूरये बुद्धधर्माणां सत्त्वानां परिपाचने।
क्षिप्रप्राप्तौ क्रियाशुद्धौ वर्त्माच्छेदे च कौशलं॥६९॥

उपाये बोधिसत्त्वानामसमं सर्वभूमिषु।
यत्कौशल्यं समाश्रित्य सर्वार्थान्साधयन्ति ते॥७०॥

अनेनोपायकौशल्यस्य प्रभेदः कर्म च दर्शितं। तत्र बुद्धधर्मपरिपूरये निर्विकल्पं ज्ञानमुपायः। सत्त्वपरिपाचने चत्वारि संग्रहवस्तूनि। क्षिप्राभिसंबोधे सर्वं पापं प्रतिदेशयामि यावद् भवतु मे ज्ञानं संबोधायेति प्रतिदेशना ऽनुमोदनाध्येषणा परिणामना। क्रियाशुद्धौ समाधिधारणीमुखानि। तैः सर्वार्थक्रियासाधनात्। वर्त्मानुपच्छेदे अप्रतिष्ठितनिर्वाणे। अस्मिन् पञ्चविध उपाये सर्वभूमिषु बोधिसत्त्वानामसमं तदन्यैः कौशलमित्ययं प्रभेदः। सर्वस्वपरार्थसाधनं कर्म।

धारणीविभागे त्रयः श्लोकाः।
विपाकेन श्रुताभ्यासात् धारण्यपि समाधिना।
परीत्ता महती सा च महती त्रिविधा पुनः॥७१॥

अप्रविष्टविप्रविष्टानां धीमतां मृदुमध्यमा।
अशुद्धभूमिकानां हि महती शुद्धभूमिका॥७२॥

धारणी[णीं]तां समाश्रित्य बोधिसत्वा पुनः पुनः।
प्रकाशयन्ति सद्धर्मं नित्यं संधारयन्ति च॥७३॥

अत्रापि प्रभेदः कर्म च धारण्याः संदर्शितं। तत्र त्रिविधा धारणी। पूर्वकर्मविपाकेन। श्रुताभ्यासेन। दृष्टधर्मबाहुश्रुत्येन ग्रहणधारणसामर्थ्यविशेषणात्। समाधिसंनिश्रयेण च। सा पुनर्विपाकश्रुताभ्यासाभ्यां परीत्ता वेदितव्या। समाधिना महती। सापि महती पुनस्त्रिविधा। अभूमिप्रविष्टानां मृद्वी भूमिप्रविष्टानाम् अशुद्धभूमिकानां मध्या सप्तसु भूमिषु। परिशुद्धभूमिका त्वधिमात्रा शेषासु भूमिषु इत्ययं प्रभेदो धारण्याः। सद्धर्मस्य प्रकाशनं धारणं च कर्म।

प्रणिधानविभागे त्रयः श्लोकाः।
चेतना छन्दसहिता ज्ञानेन प्रेरिता च तत्।
प्रणिधानं हि धीराणामसमं सर्वभूमिषु॥७४॥

हेतुभूतं च विज्ञेयं चित्तात्सद्यः फलं च तत्।
आयत्यामर्थसिद्ध्यर्थं चित्तमात्रात्समृद्धितः॥७५॥

चित्रं महद्विशुद्धं च उत्तरोत्तरभूमिषु।
आबोधेर्बोधिसत्त्वानां स्वपरार्थप्रसाधकं॥७६॥

अत्र प्रणिधानं स्वभावतो निदानतो भूमितः प्रभेदतः कर्मतश्च परिदीपितं। चेतना छन्दसंप्रयुक्ता स्वभावः। ज्ञानं निदानं। सर्वभूमिष्विति भूमिः। तच्च प्रणिधानं हेतुभूतं चित्तादेव सद्यः फलत्वात्। आयत्यां वा[चा]भिप्रेतार्थसिद्ध्यर्थं चित्तात्पुनः सद्यःफलं चित्तमात्रात् यथाभिप्रेतार्थसमृद्धिता[तो]। वेदितव्या[व्यं]। येन प्रणिधानेन बलिका बोधिसत्त्वा विक्रीडन्ति। यस्य न सुकरा संख्या कर्तुं कायस्य वेति विस्तरः। चित्रमधिमुक्तिचर्याभूमावेवं चैवं च स्यामिति। महद्भुमिप्रविष्टस्य दश महाप्रणिधानानि। विशुद्धमुत्तरोत्तरासु भूमिषु विशुद्धिविशेषादाबोधेरित्येष प्रभेदतः। स्वपरार्थप्रसाधनं कर्म।

समाधित्रयविभागे त्रयः श्लोकाः।
नैरात्म्यं द्विविधं ज्ञेयो ह्यात्मग्राहस्य चाश्रयः।
तस्य चोपशमो नित्यं समाधित्रयगोचरः॥७७॥

त्रयाणां समाधीनां त्रिविधो गोचरो ज्ञेयः। पुद्‍गलधर्मनैरात्म्यं शून्यतासमाधेः। तदुभयात्मग्राहस्याश्रयः पञ्चोपादानस्कन्धा अप्रणिहितसमाधेः। तस्याश्रयस्यात्यन्तोपशम आनिमित्तसमाधिः। स एव।

समाधिस्त्रिविधो ज्ञेयो ग्राह्यग्राहकभावतः।
त्रिविधश्च ग्राह्यस्य गोचरस्य ग्राहका ये समाधयः। ते शून्यतादिसमाधयः इति ग्राह्यग्राहकभावेन त्रयः समाधयो ज्ञातव्याः। ते पुनर्यथाक्रमं।
निर्विकल्पोऽपि विमुखो रतियुक्तश्च सर्वदा॥७८॥

शून्यतासमाधिर्निर्विकल्पः। पुद्‍गलधर्मात्मनोरविकल्पनात्। अप्रणिहितो विमुखस्तस्मादात्मग्राहाश्रयात्। आनिमित्तो रतिसंप्रयुक्तः सर्वकालं तस्मिंस्तदाश्रयोपशमे।

परिज्ञायै प्रहाणाय पुनः साक्षात्क्रियाय च।
शून्यतादिसमाधीनां त्रिधार्थः परिकीर्तितः॥७९॥

पुद्‍गलधर्म नैरात्म्ययोः परिज्ञार्थं शून्यता। तदात्मग्राहाश्रयस्य प्रहाणार्थमप्रणिहितः। तदुपशमस्य साक्षात्क्रियार्थमानिमित्तः समाधिः।

धर्मोद्दानविभागे श्लोकौ।
समाध्युपनिषत्त्वेन धर्मोद्दानचतुष्टयं।
देशितं बोधिसत्त्वेभ्यः सत्त्वानां हितकाम्यया॥८०॥

तत्र सर्वसंस्कारा अनित्याः सर्वसंस्कारा दुःखाः इत्यप्रणिहितस्य समाधेरूपनिषद्भावेन देशितं। सर्वधर्मा अनात्मान इति शून्यतायाः। शान्तं निर्वाणमिति आनिमित्तस्य समाधेः। कः पुनरनित्यार्थो यावच्छान्तार्थः इत्याह।

असदर्थो ऽविकल्पार्थः परिकल्पार्थ एव च।
विकल्पोपशमार्थश्च धीमतां तच्चतुष्टयम्॥८१॥

बोधिसत्त्वानामसदर्थो ऽनित्यार्थः। यन्नित्यं नास्ति तदनित्यं तेषां यत्परिकल्पितलक्षणम्। अभूतविकल्पार्थो दुःखार्थो यत्परतन्त्रलक्षणं। परिकल्पमात्रार्थो ऽनात्मार्थः। एवशब्देनावधारणं परिकल्पित आत्मा नास्ति परिकल्पमात्रं त्वस्तीति परिकल्पितलक्षणस्याभावार्थो ऽनात्मार्थ इत्युक्तं भवति। विकल्पोपशमार्थः शान्तार्थः परिनिष्पन्नलक्षणं निर्वाणं। क्षणभङ्गार्थो ऽप्यनित्यार्थो वेदितव्यः परतन्त्रलक्षणस्य। अतस्तत्प्रसाधनार्थं क्षणिकत्वविभागे दश श्लोकाः।

अयोगाद्धेतुतोत्पत्तेर्विरोधात्स्वयमस्थितेः।
अभावाल्लक्षणैकान्त्यादनुवृत्तेर्निरोधतः॥८२॥

परिणामोपलब्धेश्च तद्धेतुत्वफलत्वतः।
उपात्तत्वाधिपत्वा[त्या]च्च शुद्धसत्त्वानुवृत्तितः॥८३॥

तत्र क्षणिकं सर्वं संस्कृतमिति पश्चाद्वचनदियं प्रतिज्ञा वेदितव्या। तत्पुनः कथं सिध्यति। क्षणिकत्वमन्तरेण संस्काराणां प्रवृत्तेरयोगात्। प्रबन्धेन हि वृत्तिः प्रवृत्तिः। सा चान्तरेण प्रतिक्षणमुत्पादनिरोधौ न युज्यते। अथ कालान्तरं स्थित्वा पूर्वोत्तरनिरोधोत्पादतः प्रबन्धेनेष्यते वृत्तिः। तदनन्तरं प्रवृत्तिर्न स्यात् प्रबन्धाभावात्। नैव चोत्पन्नस्य विना प्रबन्धेन कालान्तरं भावो युज्यते। किं कारणं हेतुत उत्पत्तिः। हेतुतो हि सर्वं संस्कृतमुत्पद्यते भवतीत्यर्थः। तद्यदि भूत्वा पुनरुत्तरकालं भवति तस्यावश्यं हेतुना भवितव्यं। विना हेतुना आदित इवा[एवा]भावात्। न च तत्तेनैव हेतुना भवितुमर्हति तस्योपयु[भु]क्तहेतुकत्वात्। न चान्यो हेतुरुपलम्भते। तस्मात्प्रतिक्षणमवश्यं पूर्वहेतुकमन्यद्भवतीति वेदितव्यं। एवं विना प्रबन्धेनोत्पन्नस्य कालान्तरं भावो न युज्यते।

अथाप्येवमिष्येत नोत्पन्नं पुनरुत्पद्यते यदर्थं हेतुना भवितव्यं स्यादुत्पन्नं तु कालान्तरेण पश्चान्निरुध्यते नोत्पन्नमात्रमेवेति। तत्पश्चात्केन निरुध्यते। यद्युत्पादहेतुनैव तदयुक्तं। किं कारणम्। उत्पादनिरोधयोर्विरोधात्। न हि विरोधयोस्तुल्यो हेतुरुपलभ्यते। तद्यथा छायातपयोः शीतोष्णयोश्च। कालान्तरनिरोधस्यैव च विरोधात्। केन विरोधात्। आगमेन च। यदुक्तं भगवता। मायोपमास्ते भिक्षो संस्कारा आपायिकास्तावत्कालिका इत्वरप्रत्युपस्थायिन इति। मनस्कारेण च योगिनां। ते हि संस्काराणामुदयव्ययौ मनसिकुर्वन्तः प्रतिक्षणं तेषां निरोधं पश्यन्ति। अन्यथा हि तेषामपि निर्विद्विरागविमुक्तयो न स्युर्यथान्येषां मरणकालादिषु निरोधं पश्यतां। यदि चोत्पन्नः संस्कारः कालान्तरं तिष्ठेत् स स्वयमेव वा तिष्ठेत्स्वयमेव स्थातुं समर्थः। स्थितिकारणेन वा केनचित्। स्वयं तावदवस्थानमयुक्तं। किं कारणं। पश्चात्स्वयमस्थितेः। केन वा सो ऽन्ते पुनः स्थातुं न समर्थः। स्थितिकारणेनापि न युक्तं तस्याभावात्। न हि तत्किंचिदुपलभ्यते। अथापि स्याद्विनापि स्थितिकारणेन विनाशकारणाभावात् अवतिष्ठते। लब्धे तु विनाशकारणे पश्चाद्विनश्यति अग्निमेव श्यामतेति। तदयुक्तं, तस्याभावात्। न हि विनाशकारणं पश्चादपि किंचिदस्ति। अग्निनापि श्यामता विनस्यतीति सुप्रसिद्धं [न प्रसिद्धं,]। विसदृशोत्पत्तौ तु तस्य सामर्थ्यं प्रसिद्धं। तथा हि तत्संबन्धात् श्यामतायाः संततिर्विसदृशी गृह्यते न तु सर्वथैवाप्रवृत्तिः। अपामपि क्वाथ्यमानानामग्निसम्बन्धादल्पतरतमोत्पत्तितो ऽतिमान्द्यादन्ते पुनरनुत्पत्तिर्गृह्यते। न तु सकृदेवाग्निसंबन्धात्तदभावः। नैव चोत्पन्नस्य कस्यचिद्[त] स्थानं युज्यते। लक्षणैकान्त्यात्। ऐकान्तिकं ह्येतत्संस्कृतलक्षणमुक्तं भगवता यदुत संस्कृतस्यानित्यता। तद्यदि नोत्पन्नमात्रं विनश्येत्। कंचित्कालमस्यानित्यता न स्यादिति अनैकान्तिकमनित्यतालक्षणं प्रसह्य[ज्य]ते। अथापि स्यात्प्रतिक्षणमपूर्वोत्पत्तौ तदेवेदमिति प्रत्यभिज्ञानं न स्यादिति। तद्भवत्येव सादृश्यस्य अनुवृत्तेर्मायाकार प[फ]लकवत्। सादृश्यात्तद्‍बुद्धिर्न तद्भावादिति। कथं गम्यते। निरोधतः। न हि तथैवावस्थितस्यान्ते निरोधः स्यादादिक्षणनिर्विशिष्टत्वात्। तस्मान्न तत्तदेवेत्यवधार्यते अन्ते परिणामोपलब्धेश्च। परिणामो हि नामान्यथात्वं। तद्यदि नादित एवारब्धं भवेदाध्यात्मिकबाह्यानां भावानामन्ते परिणामो नोपलभ्येत। तस्मादादित एवान्यथात्वमारब्धं यत्क्रमेणाभिवर्धमानमन्ते व्यक्तिमापद्यते क्षीरस्येव दद्यवस्थायां। यावत्तु तदन्यथात्वं सूक्ष्मत्वान्न परिच्छिद्यते। तावत्सादृश्यानुवृत्तेस्तदेवेदमिमि [ति]ज्ञायत इति सिद्धं। ततश्च प्रतिक्षणमन्यथात्वात्। क्षणिकत्वं प्रसिद्धं। कुतश्च प्रसिद्धं। तद्धेतुत्वफलत्वतः। क्षणिकहेतुत्वात्। क्षणिकफलत्वाच्चेत्यर्थः।

क्षणिकं हि चित्तं प्रसिद्धं तस्य चान्ये संस्काराश्चक्षुरूपादयो हेतुतः। तस्मात्तेऽपि क्षणिका इति सिद्धं। न त्वक्षणिकात् क्षणिकं भवितुमर्हति यथा नित्यादनित्यमिति। चित्तस्य खल्वपि सर्वे संस्काराः फलं। कथमिदं गम्यते। उपात्तत्वादाधिपत्याच्छुद्धसत्त्वानुवृत्तितश्च। चित्तेन हि सर्वे संस्काराश्चक्षुरादयः साधिष्ठाना उपात्ताः सहसंमुर्छनाः तदनुग्रहानुवृत्तितः। तस्मात्ते चित्तस्य फलं। चित्तस्य चाधिपत्यं संस्कारेषु। यथोक्तं भगवता। चित्तेनायं लोको नीयते चित्तेन परिकृष्यते चित्तस्योत्पन्नस्योत्पन्नस्य वशे वर्तते इति। तथा विज्ञानप्रत्ययं नाम रूपमित्युक्तं। तस्माच्चित्तस्य फलं। शुद्धचित्तानुवृत्तितश्च। शुद्धं हि योगिनां चित्तं संस्कारा अनुवर्तन्ते। यथोक्तं। ध्यायी भिक्षुः ऋद्धिमांश्चित्तवशे प्राप्त इमं दारुस्कन्धं सचेत् सुवर्णमधिमुच्यते तदप्यस्य तथैव स्यादिति। तस्मादपि चित्तफलं संस्काराः। सत्त्वानुवृत्तितश्च। तथा हि पापकारिषु सत्त्वेषु बाह्या भावा हीना भवन्ति। पुण्यकारिषु च प्रणीताः। अतस्तच्चित्तानुवर्तनात् चित्तफलत्वं संस्काराणां सिद्धं। ततश्च तेषां क्षणिकत्वं। न हि क्षणिकस्याक्षणिकं फलं युज्यते तदनुविधायित्वात्। एवं तावदविशेषेण संस्काराणां क्षणिकत्वं द्वाभ्यां श्लोकाभ्यां साधितम्।

आध्यात्मिकानां पुनः साधनार्थं पञ्च श्लोका वेदितव्याः।
आद्यस्तरतमेनापि चयेनाश्रयभावतः।
विकारपरिपाकाभ्यां तथा हीनविशिष्टतः॥८४॥

भास्वराभास्वरत्वेन देशान्तरगमेन च।
सबीजाबीजभावेन प्रतिबिम्बेन चोदयः॥८५॥

चतुर्दशविधोत्पत्तौ हेतुमानविशेषतः।
चयाया[पा]र्थादयोगाच्च आश्रयत्व असंभवात्॥८६॥

स्थितस्यसंभवादन्ते आद्यनाशाविकारतः।
तथा हीनविशिष्टत्वे भास्वराभास्वरे ऽपि च॥८७॥

गत्यभावात्स्थितायोगाच्चरमत्व असंभवात्।
अनुवृत्तेश्च चित्तस्य क्षणिकं सर्वसंस्कृतम्॥८८॥

आद्यस्तरतमेनापि यावत्क्षणिकं सर्वसंस्कृतमिति। कथमेषामेभिः क्षणिकत्वं सिध्यति। आध्यात्मिकानां हि संस्काराणां चतुर्दशविध उत्पादः। आद्य उत्पादो यावत्प्रथमत आत्मभावाभिनिर्वृत्तिः। तरतमेन यः प्रथमजन्मक्षणादूर्ध्वं। चयेन य आहारस्वप्नब्रह्मचर्यासमापत्त्युपचयेन। आश्रयभावतः यश्चक्षुर्विज्ञानादीनां चक्षुरादीभिराश्रयैः। विकारेण यो रागादिभिर्वर्णादिविपरिणामतः। परिपाकेन यो गर्भबालकुमारयुवमध्यमवृद्धावस्थासु। हीनत्वेन विशिष्टत्वेन च यो दुर्गतौ [सुगतौ ?] चोत्पद्यमानानां यथाक्रमं। भास्वरत्वेन यो निर्मितकामेषु परनिर्मितकामेषु रूपारूप्येषु चोपपन्नानां चित्तमात्राधीनत्वात्। अभास्वरत्वेन यस्तदन्यत्रोपपन्नानां। देशान्तरगमनेन यो ऽन्यदेशोत्पादनिरोधे ऽन्यदेशोत्पादः। सबीजत्वेन यो ऽहर्तश्चरमान् स्कन्धान्वर्जयित्वा। अबीजत्वेन यस्तेषामेवार्हतश्चरमेषां। प्रतिबिम्बत्वेन यो अष्टविमोक्षध्यायिनां समाधिवशेन प्रतिबिम्बानां[ख्यानां] संस्काराणामुत्पादः। एतस्यां चतुर्दशविधायामुत्पत्तावाध्यात्मिकानां संस्काराणां क्षणिकत्वं हेतुमानविशेषादिभिः कारणैर्वेदितव्यम्। आद्योत्पादे तावत् हेतुत्वविशेषात्। यदि हि तस्य हेतुत्वेन विशेषो न स्यात् तदुत्तरायाः संस्कारप्रवृत्तेरुत्तरोत्तरविशेषो नोपलभ्येत हेत्वविशेषात्। विशेषे च सति तदुत्तरेभ्यस्तस्यान्यत्वात् क्षणिकत्वसिद्धिः। तरतमोत्पादे मानविशेषात्। मानं प्रमाणमित्यर्थः। न हि प्रतिक्षणं विना ऽन्यत्वेन परिमाणविशेषो भवेत्। उपचयोत्पादे चयापार्थ्यात्। उपस्तम्भो हि चयः। तस्यापार्थ्यं स्यादन्तरेण क्षणिकत्वं तथैवावस्थितत्वात्। अयोगाच्चोपचयस्यैव। न हि प्रतिक्षणं विना पुष्टतरोत्पत्त्या युज्येतोपचयः। आश्रयभावेनोत्पत्तावाश्रितत्वासंभवात्। न हि तिष्ठत्याश्रये च तदाश्रितस्यानवस्थानं युज्यते। याने तिष्ठति तदारूढानवस्थानवदन्यथा ह्याश्रयत्वं न संभवेत्। विकारोत्पत्तौ परिपाकोत्पत्तौ च स्थितस्यासंभवात्। आद्यनाशाविकारतः। न हि तथास्थितस्यैव रागादिभिर्विकारः संभवति। न चावस्थान्तरेषु परिपाक आदावविनाशे सत्यन्ते विकाराभावात्। तथा हीनविशिष्टोत्पत्तौ क्षणिकत्वं वेदितव्यं यथा विकारपरिपाकोत्पत्तौ। न हि तथास्थितेष्वेव संस्कारेषु कर्मवासना वृत्तिं लभते यतो दुर्गतौ वा स्यादुत्पत्तिः सुगतौ वा। क्रमेण हि संततिपरिणामविशेषात् वृत्तिलाभो युज्यते। भास्वराभास्वरे ऽपि चोत्पादे तथैव क्षणिकत्वं युज्यते। भास्वरे तावत् तथास्थितस्यासंभवात् चित्ताधीनवृत्तितायाः। अभास्वरे ऽपि चादौ विनाशमन्तरेणान्ते विकारायोगात्।

देशान्तरगमनेनोत्पत्तौ गत्यभावात्। न हि संस्काराणां देशान्तरसंक्रान्तिलक्षणा गतिर्नाम काचित् क्रिया युज्यते। सा ह्युत्पन्ना वा संस्कारं देशान्तरं गमयेदनुत्पन्ना वा। यद्युत्पन्ना तेन गतिकाले न कंचिद्‍गत इति स्थितस्यैव गमनं नोपपद्यते। अथानुत्पन्ना तेनासत्यां गतौ गत इति न युज्यते। सा च क्रिया यदि तद्देशस्थ एव संस्कारे कारित्रं करोति न युज्यते। स्थितस्यान्यदेशाप्राप्तेः। अथान्यदेशस्थे न युज्यते। विना क्रिययान्यदेशाप्राप्तेः। न च क्रिया तत्र वा अन्यत्र वा देशे स्थिता संस्कारादन्योपलभ्यते। तस्मान्नास्ति संस्काराणां देशान्तरसंतत्युत्पादादन्या गतिः। तदभावाच्च सिद्धं क्षणिकत्वं। देशान्तरनिरन्तरोत्पत्तिलक्षणा गतिर्विभवद्भिः कारणैर्वेदितव्या। अस्ति चित्तवशेन यथा चङ्क्रमणाद्यवस्थासु। अस्ति पूर्वकर्मावेधेन यथान्तराभवः। अस्त्यभिधात[अस्त्याक्षिप्त]वशेन यथा क्षिप्तस्येषोः। अस्ति संबन्धवशेन यथा याननदीप्लवारूढानां। अस्ति नोदनवशेन यथा वायुप्रेरितानां तृणादीनाम्। अस्ति स्वभाववशेन यथा वायोस्तिर्यग्गमनमग्नेरूर्ध्वं ज्वलनमपां निम्ने स्यन्दनं। अस्त्यनुभावेन यथा मन्त्रौषधानुभावेन। केषांचिदयस्कान्तानुभावेनायसां। ऋद्ध्यनुभावेन ऋद्धिमतां। सबीजाबीजभावेनोत्पत्तौ क्षणिकत्वं वेदितव्यं स्थितायोगाच्चरमासंभवाच्च। न हि प्रतिक्षणं हेतुभावमन्तरेण तथास्थितस्यान्यस्मिन्काले पुनर्बीजभावो युज्यते। निर्बीजत्वं वा चरमे क्षणे। न च शक्यं पूर्वं सबीजत्वं चरमे क्षणे निर्बीजत्वमभ्युपगन्तुं। तदभावे चरमत्वासंभवात्। तथा हि चरमत्वमेव न संभवति। प्रतिबिम्बोत्पत्तौ क्षणिकत्वं चित्तानुवृत्तितो वेदितव्यं। प्रतिक्षणं चित्तवशेन तदुत्पादात्। एकान्तात्[एवं तावत्]साधितमाध्यात्मिकं सर्वसंस्कृतं क्षणिकमिति।

बाह्यस्येदानीं क्षणिकत्वं त्रिभिः श्लोकैः साधयति।
भूतानां षडिवधार्थस्य क्षणिकत्वं विधीयते।
शोषवृद्धेः प्रकृत्या च चलत्वाद् वृद्धिहानितः॥८९॥

तत्संभवात्पृथिव्याश्च परिणामचतुष्टयात्।
वर्णगन्धरसस्पर्शतुल्यत्वाच्च तथैव तत्॥९०॥

इन्धनाधीनवृत्तित्वात्तारतम्योपलब्धितः।
चित्तानुवृत्तेः पृच्छातः क्षणिकं बाह्यमप्यतः॥९१॥

किं पुनस्तद्बाह्यं। चत्वारि महाभूतानि। षडिवधश्चार्थः। वर्णगन्धरसस्पर्शशब्दा धर्मायतनिकं च रूपम्। अतो भूतानां षडिवधार्थस्य च क्षणिकत्वं विधीयते। कथं विधीयते। अपां तावच्छोषवृद्धेः। उत्ससरस्तटागादिष्वपां क्रमेण वृद्धिः शोषश्चोपलभ्यते। तच्चोभयमन्तरेण प्रतिक्षणं परिणामं न स्यात्पश्चाद्विशेषकारणाभावात्। वायोः प्रकृत्या चलत्वाद् वृद्धिहानितश्च। न ह्यवस्थितस्य चलत्वं स्यात्तत्स्वाभावादिति[गत्यभावादिति] प्रसाधितमेतत्। न च वृद्धिहासौ तथैवावस्थितत्वात्। पृथिव्यास्तत्संभवात् परिणामचतुष्टयाच्च। तच्छब्देनापश्च गृह्यन्ते वायुश्च। अद्भ्यो हि वायुसहिताभ्यः पृथिवी संभूता विवर्तकाले। तस्मात्तत्फलत्वात् सापि क्षणिका वेदितव्या। चतुर्विधश्च परिणामः पृथिव्या उपलभ्यते। कर्मकृतः सत्त्वानां कर्मविशेषात्। उपक्रमकृतः प्रहादिभिः। भूतकृतो ऽग्न्यादिभिः। कालकृतः कालान्तरपरिणामतः[वासतः]। स चान्तरेण प्रतिक्षणमन्योत्पत्तिं न युज्यते विनाशकारणाभावात्। वर्णगन्धरसस्पर्शानां पृथिव्यादिभिस्तुल्यकारणत्वात् तथैव क्षणिकत्वं वेदितव्यं। तेजसः पुनः क्षणिकत्वमिन्धनाधीनवृत्तित्वात्।

न हि तेजस्युत्पन्ने तेजः सहोत्पन्नमिन्धनं तथैवावतिष्ठते। न च दग्धेन्धनं तेजः स्थातुं समर्थं। मा भूदन्ते ऽप्यनिन्धनस्यावस्थानमिति। श्लोकबन्धानुरोधाद्वर्णादीनां पूर्वमभिधानं पश्चात्तेजसः। शब्दः पुनर्यो ऽपि कालान्तरमुपलभ्यते घण्टादीनां तस्यापि क्षणिकत्वं वेदितव्यं तारतम्योपलब्धेः। न ह्यसति क्षणिकत्वे प्रतिक्षणमन्दतरतमोपलब्धिः स्यात्। धर्मायतनिकस्यापि रूपस्य क्षणिकत्वं प्रसिद्धमेव चित्तानुवृत्तेर्यथा पूर्वमुक्तं। तस्माद्वाह्यमपि क्षणिकं प्रसिद्धं। पृच्छ्रयते खल्वपि सर्वसंस्काराणां क्षणिकत्वं सिध्यति कथं कृत्वा। इदं तावदयमक्षणिकवादी प्रष्टव्यः। कस्माद्भवाननित्यत्वमिच्छति न [?] संस्काराणां क्षणिकत्वं नेच्छतीति। यद्येवं वदेत् प्रतिक्षणमन्य[नित्य]त्वस्याग्रहणादिति स इदं स्याद्वचनीयः। प्रसिद्धक्षणिकभावेष्वपि प्रदीपादिषु निश्चलावस्थायां तदग्रहणादक्षणिकत्वं कस्मान्नेष्यते। यद्येवं वदेत् पूर्ववत्पश्चादग्रहणादिति। स इदं स्याद्वचनीयः। संस्काराणामपि कस्मादेवं नेष्यते। यद्येवं वदेत् विलक्षणत्वात् प्रदीपादितदन्यसंस्काराणामिति। स इदं स्याद्वचनीयः। द्विविधं हि वैलक्षण्यं स्वभाववैलक्षण्यं वृत्तिवैलक्षण्यं च। तद्यदि तावत् स्वभाववैलक्षण्यमभिप्रेतमत एव दृष्टान्तत्वं युज्यते। न हि तत्स्वभाव एव तस्य दृष्टान्तो भवति यथा प्रदीपः प्रदीपस्य गौर्वा गोरिति। अथ वृत्तिवैलक्षण्यमत एव दृष्टान्तत्वं प्रदीपादीनां प्रसिद्धत्वात्। क्षणिकत्वानुवृत्तेः पुनः स इदं प्रष्टव्यः। कच्चिदिच्छसि याने तिष्ठति यानारूढो गच्छेदिति। यदि नो हीति वदेत्। स इदं स्याद्वचनीयः। चक्षुरादिषु तिष्ठत्सु तदाश्रितं विज्ञानं प्रबन्धेन गच्छतीति न युज्यते। यद्येवं वदेत् ननु च दृष्टं वर्तिसंनिश्रिते प्रदीपे प्रबन्धेन गच्छति वर्त्या अवस्थानमिति। स इदं स्याद्वचनीयः। न दृष्टं तत्प्रबन्धेन वर्त्याः प्रतिक्षणं विकारोत्पत्तेरिति। यद्येवं वदेत् सति क्षणिकत्त्वे संस्काराणां कस्मात्प्रदीपादिव क्षणिकत्वं न सिद्धमिति। स इदं स्याद्वचनीयः विपर्यासवस्तुत्वात्। सदृशसंततिप्रबन्धवृत्त्या हि क्षणिकत्वमेषां न प्रज्ञायते। यतः सत्यप्यपरापरत्वे तदेवेदमिति विपर्यासो जायते। इतरथा हि अनित्यनित्यविपर्यासो न स्यात्तदभावे संक्लेशो न स्यात् कुतः पुनर्व्यवदानमित्येवं पर्यनुयोगतो ऽपि क्षणिकत्वं सर्वसंस्काराणां प्रसिद्धं।

पुद्‍गलनैरात्म्यप्रसाधनार्थं नैरात्म्यविभागे द्वादश श्लोकाः।
प्रज्ञप्त्यस्तितया वाच्यः पुद्‍गलो द्रव्यतो न तु।
नोपलम्भाद्विपर्यासात् संक्लेशात् क्लिष्टहेतुतः॥९२॥

एकत्वान्यत्वतोवाच्यस्तस्माद्दोषद्वयादसौ।
स्कन्धात्मत्वप्रसङ्गाच्च तद्‍द्रव्यत्वप्रसङ्गतः॥९३॥

द्रव्यसन् यद्यवाच्यश्च वचनीयं प्रयोजनं।
एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः॥९४॥

लक्षणाल्लोकदृष्टाच्च शास्त्रतो ऽपि न युज्यते।
इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि॥९५॥

द्वये सति च विज्ञानसंभवात्प्रत्ययो न सः।
नैरर्थक्यादतो द्रष्टा यावन्मोक्ता न युज्यते॥९६॥

स्वामित्वे सति चानित्यमनिष्टं न प्रवर्तयेत्।
तत्कर्मलक्षणं साध्यं संबोधो बाध्यते त्रिधा॥९७॥

दर्शनादौ च तद्यत्नः स्वयंभूर्न त्रयादपि।
तद्यत्नप्रत्ययत्वं च निर्यत्नं दर्शनादिकं॥९८॥

अकर्तृत्वादनित्यत्वात्सकृन्नित्यप्रवृत्तितः।
दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते॥९९॥

तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः।
तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते॥१००॥

सर्वधर्मा अनात्मानः परमार्थेन शून्यता।
आत्मोपलम्भे दोषश्च देशितो यत एव च॥१०१॥

संक्लेशव्यवदाने च अवस्थाच्छेदभिन्नके।
वृत्तिसंतानभेदो हि पुद्‍गलेनोपदर्शितः॥१०२॥

आत्मदृष्टिरनुत्पाद्या अभ्यासो ऽनादिकालिकः।
अयत्नमोक्षः सर्वेषां न मोक्षः पुद्‍गलोऽस्ति वा॥१०३॥

पुद्‍गल किमस्तीति वक्तव्यो नास्तीति वक्तव्यः।आह।
प्रज्ञप्त्यस्तितया वाच्यः पुद्‍गलो द्रव्यतो न तु।

यतश्च प्रज्ञप्तितो ऽस्तीति वक्तव्यो द्रव्यतो नास्तीति वक्तव्यः। एवमनेकांशवादपरिग्रहे नैवास्तित्वे दोषावकाशो न नास्तित्वे। स पुनर्द्रव्यतो नास्तीति कथं वेदितव्यः। नोपलम्भात्। न हि स द्रव्यत उपलभ्यते रूपादिवत्। उपलब्धिर्हि नाम बुद्ध्या प्रतिपत्तिः। न च पुद्‍गलं बुद्ध्या न प्रतिपद्यन्ते पुद्‍गलवादिनः। उक्तं च भगवता। दृष्ट एव धर्मे आत्मानमुपलभते प्रज्ञापयतीति कथं नोपलब्धो भवति। न स एवमुपलभ्यमानो द्रव्यत उपलब्धो भवति। किं कारणं। विपर्यासात् तथा ह्यनात्मन्यात्मेति विपर्यास उक्तो भगवता। तस्माद्य एवं पुद्‍गलग्राहो विपर्यासः सः। कथमिदं गम्यते। संक्लेशात्। सत्कायदृष्टिक्लेशलक्षणो ह्येष संक्लेशो यदुत अहं ममेति। न च [चा] विपर्यासः संक्लेशो भवितुमर्हति। न[स] चैष संक्लेश इति कथं वेदितव्यं। क्लिष्टहेतुतः। तथाहि तद्धेतुकाः क्लिष्टा रागादय उत्पद्यन्ते। यत्र पुनर्वस्तुनि रूपादिसंज्ञकेप्रज्ञप्तिः पुद्‍गल इति तस्मात्किमेकत्वेन पुद्‍गलो वक्तव्य आहोस्विदन्येत्वेन। आह।

एकत्वान्यत्वतोऽवाच्यस्तस्मादसौ।
किं कारणं। दोषद्वयात्। कतमस्माद्दोषद्वयात्।

स्कन्धात्मत्वप्रसङ्गाच्च तद्‍द्रव्यत्वप्रसङ्गतः।
एकत्वे हि स्कन्धानामात्मत्वं प्रसज्यते पुद्‍गलस्य च द्रव्यसत्त्वं। अथान्यत्वे पुद्‍गलस्य द्रव्यसत्त्वं। एवं हि पुद्‍गलस्य प्रज्ञप्तितोऽस्तित्वादवक्तव्यत्वं युक्तं। तेनाव्याकृतवस्तुसिद्धिः। ये पुनः शास्तुः शासनमतिक्रम्य पुद्‍गलस्य द्रव्यतो ऽस्तित्वमिच्छन्ति त इदं स्युर्वचनीयाः।

द्रव्यसन्यद्यवाच्यश्च वचनीयं प्रयोजनं।
किं कारणं।
एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः।
अथ दृष्टान्तमात्रात् पुद्‍गलस्यावक्तव्यत्वमिच्छेयुः। यथाग्निरिन्धनान्नान्यो नानन्यो वक्तव्य इति। त इदं स्युर्वचनीयाः।

लक्षणाल्लोकदृष्टाच्च शास्त्रतो ऽपि न युज्यते।
इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि।

एकत्वेनान्यत्वेन च अग्निर्हि नाम तेजोधातुरिन्धनं शेषाणि भूतानि। तेषां च भिन्नं लक्षणमित्यन्य एवाग्निरिन्धनात्। लोके च विनाप्यग्निना दृष्टमिन्धनं काष्ठादि विनापि चेन्धनेनाग्निरिति सिद्धमन्यत्वं। शास्त्रे च भगवता न क्वचिदग्नीन्धनयोरवाच्यत्वमुक्तमित्ययुक्तमेतत्। विन पुनरिन्धनेनाग्निरस्तीति कथमिदं विज्ञायते। उपलब्धेस्तथा हि वायुना विक्षिप्तं दूरमपि ज्वलत्परैति। अथापि स्याद्वानुस्तत्रेन्धनमिति अत एवाग्नीन्धनयोरन्यत्वमिति सिद्धिः। कुतः। द्वयेन हि उपलब्धेरिति प्रकृतं। द्वयं हि तत्रोपलभ्यते अर्चिर्वायुश्चेन्धनत्वेन। अस्त्येव पुद्‍गलो य एष द्रष्टा यावद्विज्ञाता कर्ता भोक्ता ज्ञाता मोक्ता च। न स द्रष्टा युज्यते। नापि यावन्मोक्ता। स हि दर्शानादिसंज्ञकानां विज्ञानानां प्रत्ययभावेन वा कर्ता भवेत् स्वामित्वेन वा। तत्र तावत्।

द्वयं प्रतीत्य विज्ञानसंभवात्प्रत्ययो न सः।
किं कारणं। नैरर्थक्यात्। न हि तस्य तत्र किंचित्सामर्थ्यं दृष्टं।
स्वामित्वे सति वानित्यमनिष्टं न प्रवर्तयेत्॥
स हि विज्ञानप्रवृत्तौ स्वामीभवन्ननि[भवन्नि]ष्टं विज्ञानमनित्यं न प्रवर्तयेत्। अनिष्टं च। नैव तस्मादुभयथाप्यसंभवात्। असौ द्रष्टा यावन्मोक्ता न युज्यते। अपि खलु यदि द्रव्यतः पुद्‍गलो ऽस्ति।

तत्कर्मलक्षणं साध्यं
यदि द्रव्यतो ऽस्तितस्य कर्माप्युपलभ्यते। यथा चक्षुरादीनां दर्शनादिलक्षणं च रूपप्रसादादि। न चैवं पुद्‍गलस्य। तस्मान्न सो ऽस्ति द्रव्यतः। तस्मिंश्च द्रव्यत इष्यमाणे बुद्धस्य भगवतः।

संबोधो बाध्यते त्रिधा।
गम्भीराभिसंबोधः। असाधारणाभिसंबोधः। लोकोत्तराभिसंबोधश्च। न हि पुद्‍गलाभिसंबोधे किंचिद्‍गम्भीरमभिसंबुद्धं भवति। न तीर्थ्यासाधारणं। न लोकानुचित्तं। तथा ह्येष ग्राहः सर्वलोकगम्यः। तीर्थ्याभिनिविष्टः। दिर्घसंसारोचित्तश्च। अपि खलु पुद्‍गलो द्रष्टा भवन् यावद्विज्ञाता दर्शनादिषु सप्रयत्नो वा भवेन्निष्प्रयत्नो वा। सप्रयत्नस्य वा पुनरसौ प्रयत्नः स्वयंभूर्वा भवेदाकस्मिकः। तत्प्रत्ययो[वा?]

दर्शनादौ च तद्यत्नः स्वयंभूर्न त्रयादपि।
तस्मादेव च दोषत्रयाद्वक्ष्यमाणात्

तद्यत्नप्रत्ययत्वं च
नेति वर्तते। निष्प्रयत्नस्य वा पुनः सतः सिद्धं भवति।

निर्यत्नं दर्शनादिकम्।
इत्यसति व्यापारे पुद्‍गलस्य दर्शनादौ कथमसौ द्रष्टा भवति। यावद्विज्ञाता। दोषत्रयादित्युक्तं कतमस्माद्दोषत्रयात्।

अकर्तृत्वादनित्यत्वात्सकृन्नित्यप्रवृत्तितः।
दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते॥

यदि दर्शनादिषु प्रयत्न आकस्मिको यतो दर्शनादीनि। न तर्हि तेषां पुद्‍गलः कर्तेति कथमसौ द्रष्टा भवति यावद्विज्ञाता सति वाकस्मिकत्वे निरपेक्षत्वात् न कदाचित्प्रयत्नो न स्यादनित्यो न स्यात्। नित्ये च प्रयत्ने दर्शनादीनां युगपच्च नित्यं च प्रवृत्तिः स्यादिति दोषः। तस्मान्न युज्यते दर्शनादिषु प्रयत्नस्य स्वयंभूत्वं।

तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः।
तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते॥

अथ पुद्‍गलप्रत्ययः प्रयत्नः स्यात्। तस्य तथा स्थितस्य प्रत्ययत्वं न युज्यते। प्रागभावात्। सति हि तत्प्रत्ययत्वे न कदाचित्पुद्‍गलो नास्तीति। किमर्थं प्राक् प्रयत्नो न स्याद्यदा नोत्पन्नः। विनष्टस्यापि प्रत्ययत्वं न युज्यते पुद्‍गलस्यानित्यत्वप्रसङ्गात्। तृतीयश्च कश्चित्पक्षो नास्ति यन्न स्थितो न विनष्टः स्यादिति। तत्प्रत्ययो ऽपि प्रयत्नो न युज्यते। एवं तावद्युक्तिमाश्रित्य द्रव्यतः पुद्‍गलो नोपलभ्यते।

सर्वे धर्मा अनात्मानः परमार्थेन शून्यता।
आत्मोपलम्भे दोषश्च देशितो यत एव च॥

धर्मोद्दानेषु हि भगवता सर्वे धर्मा अनात्मान इति देशितं परमार्थशून्यतायामस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान्प्रतिसंदधाति। अन्यत्र धर्मसंकेतादिति देशितं। पञ्चकेषु पञ्चादीनवा आत्मोपलम्भ इति देशिता। आत्मदृष्टिर्भवति जीवदृष्टिः निर्विशेषो भवति तीर्थिकैः। उन्मार्गप्रतिपन्नो भवति। शून्यतायामस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते नाधिमुच्यते। आर्यधर्मा अस्य न व्यवदायन्ते। एवमागमतो ऽपि न युज्यते। पुद्‍गलो ऽपि हि भगवता तत्र तत्र देशितः। परिज्ञातावी भारहारः श्रद्धानुसार्यादिपुद्‍गलव्यवस्थानत इत्यसति द्रव्यतो ऽस्तित्वे कस्माद्देशितः।

संक्लेशे व्यवदाने च अवस्थाच्छेदभिन्नके।
वृत्तिसंतानभेदो हि पुद्‍गलेनोपदर्शितः॥
अवस्थाभिन्ने हि संक्लेशव्यवदाने छेदभिन्ने च। पुद्‍गलप्रज्ञप्तिमन्तरेण तद्वृत्तिभेदः संतानभेदश्च देशयितुं न शक्यः। तत्र परिज्ञासूत्रे परिज्ञेया धर्माः संक्लेशः परिज्ञा व्यवदानं। भारहारसूत्रे। भारो भारादानं च संक्लेशः। भारनिक्षेपणं व्यवदानं। तयोर्वृत्तिभेदः संतानभेदश्चान्तरेण परिज्ञाताविभारहारपुद्‍गलप्रज्ञप्तिं न शक्येत देशयितुं। बोधिपक्षाश्च धर्मा बहुधावस्थाः प्रयोगदर्शनभावनानिष्ठामार्ग विशेषभेदतः। तेषां वृत्तिभेदः संतानभेदश्चान्तरेण श्रद्धानुसार्यादिपुद्‍गलप्रज्ञप्तिं न शक्येत देशयितुं। येनासति द्रव्यतो ऽस्तित्वे पुद्‍गलो देशित इत्ययमत्र नयो वेदितव्यः। इतरथा हि पुद्‍गलदेशना निष्प्रयोजना प्राप्नोति। न हि तावदसावात्मदृष्ट्युत्पादनार्थं युज्यते यस्मात्

आत्मदृष्टिरनूत्पाद्या
पूर्वमेवोत्पन्नत्वात्। नापि तदभ्यासार्थं यस्मादात्मदृष्टेर्
अभ्यासो ऽनादिकालिकः।
यदि चात्मदर्शनेन मोक्ष इत्यसौ देश्येत। एवं सति स्यात्
अयत्नमोक्षः सर्वेषां

तथा हि सर्वेषां न दृष्टसत्यानामात्मदर्शनं विद्यते। नैव वा मोक्षो ऽस्तीति प्राप्नोति। न हि पूर्वमात्मानमनात्मतो गृहीत्वा सत्याभिसमयकाले कश्चिदात्मतो गृह्णाति। यथा दुःखं दुःखतः पूर्वमगृहीत्वा पश्चाद्‍गृह्णातीति यथापूर्वं तथा पश्चादपि मोक्षो न स्यात्। सति चात्मन्यवश्यमहंकारममकाराभ्यामात्मतृष्णया चान्यैश्च तन्निदानैः क्लेशैर्भवितव्यमिति अतो ऽपि मोक्षो न स्यात्। न वा पुद्‍गलो ऽस्तीति अभ्युपगन्तव्यं। तस्मिन्हि सति नियतमेते दोषाः प्रसज्यन्ते।

एवमेभिर्गुणैर्नित्यं बोधिसत्त्वाः समन्विताः।
आत्मार्थं च न रिञ्चन्ति परार्थं साधयन्ति च॥१०४॥

हीधृतिप्रभृतीनां गुणानां समासेन कर्म निर्दिष्टम्।

॥ महायानसुत्रालंकारे बोधिपक्षाधिकारः[अष्टादशः] समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project