Digital Sanskrit Buddhist Canon

सप्तदशोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Saptadaśo'dhikāraḥ

सप्तदशोऽधिकारः।

बुद्धपूजाविभागे सप्त श्लोकाः।
संमुखं विमुखं पूजा बुद्धानां चीवरादिभिः।
गाढप्रसन्नचित्तस्य संभारद्वयपूरये॥१॥

अबन्ध्यबुद्धजन्मत्वे प्रणिधानवतः सतः।
त्रयस्यानुपलम्भस्तु निष्पन्ना बुद्धपूजना॥२॥

सत्त्वानामप्रमेयानां परिपाकाय चापरा।
उपधेश्चित्ततश्चान्या अधिमुक्तेर्निधानतः॥३॥

अनुकम्पाक्षमाभ्यां च समुदाचारतो ऽपरा।
वस्त्वाभोगावबोधाच्च विमुक्तेश्च तथात्वतः॥४॥

इत्येभिश्चतुर्भिः श्लोकैः।
आश्रयाद्वस्तुतः पूजा निमित्तात्परिणामनात्।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता॥५॥

वेदितव्या। तत्राश्रयः समक्षपरोक्षा बुद्धाः। वस्तु चीवरादयः। निमित्तं प्रगाढप्रसादसहगतं चित्तं। परिणामना पुण्यज्ञानसंभारपरिपूरये। हेतुरबन्ध्यो मे बुद्धोत्पादः स्यादिति पूर्वप्रणिधानं। ज्ञानं निर्विकल्पं पूजकपूज्यपूजानुपलम्भतः। क्षेत्रमप्रमेयाः सत्त्वाः। तत्परिपाचनाय तैस्तत्प्रयोजता[ना]त् तेषु तद्रोपणतः। निश्रय उपधिश्चित्तं च। तत्रोपधिं निश्रित्य पूजाचीवरादिभिश्चित्तं निश्रित्यास्वादनानुमोदनाभिनन्दनमनस्कारैः। त [य]थोक्तैश्चाधिमुक्त्यादिभिर्यदुत महायानधर्माधिमुक्तितः बोधिचित्तोत्पादतः। प्रणिधानमेव हि निधानमत्रोक्तं श्लोकवत्त्वा[बन्धा]नुरोधात्। सत्त्वानुकम्पनतः। दुष्करचर्या दुःखक्षमणतः पारमितासमुदाचारतः। योनिशो धर्ममनसिकारतः। स ह्यविपर्ययस्तत्त्वाद्वस्त्वाभोगः। सम्यग्दृष्टितो दर्शनमार्गे। स हि यथाभूतावबोधाद्वस्त्ववबोधः।

विमुक्तितः क्लेशविमोक्षाच्छ्रावकाणां। तथात्वतो महाबोधिप्राप्तेरित्ययं पूजायाः प्रकारभेदः।

हेतुतः फलतश्चैव आत्मना च परैरपि।
लाभसत्कारतश्चैव प्रतिपत्तेर्द्विधा च सा॥६॥

परीत्ता महती पूजा समानामानिका च सा।
प्रयोगाद्‍गतितश्चैव प्रणिधानाच्च सा मता॥७॥

इत्ययमर्था[ध्वा]दिभेदेनापरः प्रकारभेदः। तत्रातीता हेतुः प्रत्युत्पन्ना फलं प्रत्युत्पन्ना हेतुरनागता फलमित्येवं हेतुफलतो ऽतीतानागतप्रत्युत्पन्ना वेदितव्या। आत्मनेत्याध्यात्मिकी परैरिति बाह्या। लाभसत्कारतो औदारिकी। प्रतिपत्तितः सूक्ष्मा। परीत्ता हीना महती प्रणीता। पुनः समाना हीना निर्माना प्रणीता त्रिमण्डलाविकल्पनात्। कालान्तरप्रयोज्या दूरे। तत्कालप्रयोज्यान्तिके। पुनर्विछिन्नायां गतौ दूरे। समनन्तरायामन्तिके। पुनर्यां पूजामायत्यां प्रयोजयितुं प्रणिदधाति सा दूरे यां प्रणिहितः कर्तुं सान्तिके। कतमा पुनर्बुद्धपूजा परमा वेदितव्येत्याह।

बुद्धेषु पूजा परमा स्वचित्तात्
धर्माधिमुक्त्याशयतो विभुत्वात्।
अकल्पनोपायपरिग्रहेण
सर्वैककार्यत्वनिवेशतश्च॥८॥

इत्येभिः पञ्चभिराकारैः स्वचित्तपूजा बुद्धेषु परमा वेदितव्या। यदुत पूजोपसंहितमहायानधर्माधिमुक्तितः। आशयतो नवभिराशयैः। आस्वादनानुमोदनाभिनन्दनाशयैः। अतृप्तविपुलमुदितोपकरनिर्लेपकल्याणाशयैश्च ये पारमिताभावनायां निर्दिष्टाः। विभुत्वतो गगनगञ्जादिसमाधिभिः। निर्विकल्पज्ञानोपायपरिग्रहतः। सर्वमहाबोधिसत्त्वैककार्यत्वप्रवेशतश्च मिश्रोपमिश्रकार्यत्वात्।

कल्याणमित्रसेवाविभागे सप्त श्लोकाः। तत्रार्धपञ्चमैः श्लोकैः।
आश्रयाद्वस्तुतः सेवा निमित्तात्परिणामनात्।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता॥९॥

मित्रं श्रयेद्दान्तशमोपशान्तं गुणाधिकं सोद्यममागमाढ्यं।
प्रबुद्धतत्वं वचसाभ्युपेतं कृपात्मकं खेदविवर्जितं च॥१०॥

इत्येवंगुणमित्रं सेवाया आश्रयः। दान्तं शीलयोगादिन्द्रियदमेन। शान्तं समाधियोगादध्यात्मं चेतः शमथेन। उपशान्तं प्रयोगा[प्रज्ञायोगा] (प्रज्ञात्वा)दुपस्थितक्लेशोपशमनतः। गुणैरधिकं न समं वा न्यूनं वा। सोद्यमं नोदसीनं परार्थे। आगमाढ्यं नाल्पश्रुतं। प्रबुद्धतत्वं तत्वाधिगमात्। वचसाभ्युपेतं वाक्करणेनोपेतं। कृपात्मकं निरामिषचित्तत्वात्। खेदविवर्जितं सातत्यसत्कृत्यधर्मदेशनात्।

सत्कारलाभैः परिचर्यया च सेवेत मित्रं प्रतिपत्तितश्च।
इति। सेवाया[व]स्तु।
धर्मे तथाज्ञाशय एव धीमान् मित्रं प्रगच्छेत्समये नतश्च॥११॥

इति त्रिविधं निमित्तं। आज्ञातुकामता। कालज्ञता। निर्मानता च।
सत्कारलाभेषु गतस्पृहो ऽसौ प्रपत्तये तं परिणामयेच्च।
इति परिणामना प्रतिपत्त्यर्थं सेवनान्न लाभसत्कारार्थं।
यथानुशिष्टप्रतिपत्तितश्च संराधयेच्चित्तमतो ऽस्य धीरः॥१२॥

इति। यथानुशिष्टप्रतिपत्तिः सेवाहेतुः। तया तच्चित्ताराधनात्।
यानत्रये कौशलमेत्य बुद्ध्या स्वस्यैव यानस्य यतेत सिद्धौ।
इति यानत्रयकौशलात् ज्ञानं।
सत्त्वानमेयान्परिपाचनाय क्षेत्रस्य शुद्धस्य च साधनाय॥१३॥

इति द्विविधं क्षेत्रं तत्सेवायाः। अप्रमेयाश्च सत्त्वाः परिशुद्धं च बुद्धक्षेत्रं। धर्मं श्रुत्वा येषु प्रतिष्ठापनात्। यत्र च स्थितेन।

धर्मेषु दायादगुणेन युक्तो नैवामिषेण प्रवसेत्स मित्रम्।
इति निश्रयः सेवायाः। धर्मदायादतां निश्रित्य कल्याणमित्रं सेवेत। नामिषदायादतां। अत ऊर्ध्वमध्यर्धेन श्लोकेन प्रकारभेदः सेवाया वेदितव्यः।

हेतोः फलाद्धर्ममुखानुयानात्सेवेत मित्रं बहितश्च धीमान्॥१४॥

श्रुतश्रवाच्चेतसि योगतश्च समाननिर्मानमनो ऽनुयोगात्।

हेतोः फलादित्यतीतादिभेदतः पूर्ववत् धर्ममुखानुयानात्सेवेत मित्रं बहितश्च धीमानित्याध्यात्मिकबाह्यभेदः। धर्ममुखस्त्रोतो हि धर्ममुखानुयानं बहिर्धा बहितः श्रुतश्रवाच्चेतसि योगतश्चेत्यौदारिकसूक्ष्मभेदः। श्रवणं ह्यौदारिकं चिन्तनभावनं सूक्ष्मंं। तदेव चेतसि योगः। समाननिर्मानमनोऽनुयोगादिति हीनप्रणीतभेदः।

गतिप्रयोगप्रणिधानतश्च कल्याणमित्रं हि भजेत धीमान्॥१५॥

इति दूरान्तिकभेदः पूर्ववद्योजयितव्यः। कतमा पुनः परमा सेवेति सप्तमः श्लोकः।
सन्मित्रसेवा परमा स्वचित्ताद्
धर्माधिमुक्त्याशयतो विभुत्वैः।
अकल्पनोपायपरिग्रहेण
सर्वैककार्यत्वनिवेशतश्च॥१६॥

इति पूर्ववत्।
अप्रमाणविभागे द्वादशश्लोकाः।
ब्राह्म्या विपक्षहीना ज्ञानेन गताश्च निर्विकल्पेन।
त्रिविधालम्बनवृत्ताः सत्त्वानां पाचका धीरे॥१७॥

ब्राह्‍म्या विहाराश्चत्वार्यप्रमाणानि। मैत्री करुणा मुदितोपेक्षा च। ते पुनर्बोधिसत्त्वे चतुर्लक्षणा वेदितव्याः। विपक्षहानितः। प्रतिपक्षविशेषयोगतः। वृत्तिविशेषतस्त्रिविधालम्बनवृत्तित्वात्। तथा हि ते सत्त्वालम्बना धर्मालम्बनाश्च[धर्मालम्बना अनालम्बनाश्च]। कर्मविशेषतश्च। सत्त्वपरिपाचकत्वात्। सत्त्वधर्मालम्बनात्। पुनः कतमस्मिन् सत्त्वनिकाये धर्मे वा प्रवर्तन्ते। अनालम्बनाश्च कतमस्मिन्नालम्बने।

सौख्यार्थिनि दुःखार्ते सुखिते क्लिष्टे च ते प्रवर्तन्ते।
तद्देशिते च धर्मे तत्तथतायां च धीराणाम्॥१८॥

सत्त्वालम्बनाः सुखार्थिनि यावत् क्लिष्टे सत्त्वनिकाये प्रवर्तन्ते। तथा हि मैत्री सत्त्वेषु सुखसंयोगाकारा। करुणा दुःखवियोगाकारा। मुदिता सुखवियोगाकारा। उपेक्षासु वेदनासु तेषां सत्त्वानां निःक्लेशतोपसंहाराकारा। धर्मालम्बनास्तद्देशिते धर्मे। यत्र ते विहारा देशिताः। अनालम्बनास्तत्तथतायां। ते ह्यविकल्पत्वादनालम्बना इवेत्यनालम्बनाः। अपि खलु।

तस्याश्च तथतार्थत्वात् क्षान्तिलाभाद्विशुद्धितः।
कर्मद्वयादनालम्बा मैत्री क्लेशक्षयादपि॥१९॥

एभिश्चतुर्भिः कारणैरनालम्बना मैत्री वेदितव्या। तथतालम्बनत्वात्। अनुत्पत्तिकधर्मक्षान्तिलाभेनाष्टम्यां भूमौ। धातुपुष्ट्या तद्विशुद्धितः। कर्मद्वयतश्च। या मैत्री निष्पन्देन कायकर्मणा [वाक्कर्मणा?] च ? संगृहीता क्लेशक्षयतश्च। तथा हि क्लेश आलम्बनमुक्तं। मनोमयानां ग्रन्थानां प्रहाणादुच्छिद्यते आलम्बनमिति वचनात्।

ते निश्चलाश्च चलाश्च कृपणैरास्वादिता न च ज्ञेयाः।

ते च ब्राह्म्या विहाराश्चतुर्विधा वेदितव्याः। तत्र चला हानभागीयाः परिहाणीयत्वात्। अचलाः स्थितिविशेषभागीया अपरिहाणीयत्वात्। आस्वादिताः क्लिष्टाः अनास्वादिता अक्लिष्टाः। कृपणैरिति सुखलोलैरनुदारचित्तैः। एष ब्राह्‍म्यविहाराणां हानभागीयादिप्रकारभेदः। तेषु पुनः।

अचलेषु बोधिसत्त्वाः प्रतिष्ठिताः सक्तिविगतेषु॥२०॥

न चलेषु नाप्यास्वादितेषु।
असमाहितस्वभावा मृदुमध्या हीनभूमिका ये ऽपि।
हीनाशयाः समाना हीनास्ते ह्यन्यथा त्वधिकाः॥२१॥

एष मृद्वधिमात्रताभेदः। तत्र षड्‍विधा मृदुका असमाहितस्वभावाः। सर्वे समाहिता अपि। ये मृदुमध्याः। हीनभूमिका ये ऽपि उत्तरां बोधिसत्त्वभूमिमपेक्ष्य। हीनाशया अपि। श्रावकादीनां समाना अपि। ये ऽनुत्पत्तिकधर्मक्षान्तिरहिता हीनास्ते मृदुका इत्यर्थः। अन्यथा त्वधिका इति यथोक्तविपर्ययेणाधिमात्रता वेदितव्या।

ब्राह्‍म्यैर्विहृतविहारः कामिषु संजायते यदा धीमान्।
संभारान्पूरयते सत्त्वांश्च विपाचयति तेन॥२२॥

सर्वत्र चाविरहितो ब्राह्‍म्यै रहितश्च तद्विपक्षेण।
तत्प्रत्ययैरपि भृशैर्न याति विकृतिं प्रमत्तो ऽपि॥२३॥

हेतुफललिङ्गभेदः। तत्र ब्राह्‍म्यैर्विहृतो विहारैरिति हेतुः। कामिषु सत्त्वेषु संजायत इति विपाकफलं। संभारान्पूरयत्यधिपतिफलं। सत्त्वान्परिपाचयतीति पुरुषकारफलं। सर्वत्र चाविरहितो ब्राह्‍म्यैर्विहारैर्जायत इति निष्पन्दफलं। रहितश्च तद्विपक्षेणेति विसंयोगफलं। भृशैरपि तत्प्रत्ययैरविकृतिगमनं लिङ्गं। प्रमत्तो ऽपीत्यसंमुखीभूते ऽपि प्रतिपक्षे। अन्येश्चतुर्भिः श्लोकैर्गुणदोषभेदः।

व्यापादविहिंसाभ्यामरतिव्यापादकामरागैश्च।
युक्तो हि बोधिसत्त्वो बहुविधमादीनवं स्पृशति॥२४॥

इति दोषः। ब्राह्म्यविहाराभावे तद्विपक्षयोगात्। तत्र व्यापादादयो मैत्र्‍यादीनां यथाक्रमं विपक्षाः। व्यापादकामरागावुपेक्षायाः। कथं बहुविधादीनवं स्पृशतीत्याह।

क्लेशैर्हन्त्यात्मानं सत्त्वानुपहन्ति शीलमुपहन्ति।
सविलेखलाभहीनो रक्षाहीनस्तथा शास्त्रा[ता]॥२५॥

साधिकरणो ऽशयस्वी परत्र संजायते ऽक्षणेषु स च।
प्राप्ताप्राप्तविहीनो मनसि महद् दुःखमाप्नोति॥२६॥

तत्र प्रथमैस्त्रिभिः पदैरात्मव्याबाधाय चेतयते परव्याबाधायोभयव्याबाधायेत्येतमादीनवं दर्शयति। सविलेखादिभिः षड्‍भिः पदैर्दृष्टधार्मिकमवद्यं प्रसवतीति दर्शयति। कथं च प्रसवति। आत्मास्यापवदते। परे ऽपि देवता अपि। शास्ताप्यन्ये ऽपि विज्ञाः सब्रह्मचारिणो धर्मतया विगर्हन्ते। दिग्विदिक्षु चास्य पापको ऽवर्णशब्दश्लोको निश्चरतीत्येवं सविलेखो यावदयशस्वीत्येनेन यथाक्रमं दर्शयति। शेषैस्त्रिभिः पदैर्यथाक्रमं सांपरायिकं दृष्टधर्मसांपरायिकमवद्यं प्रसवति। तज्जं चैतसिकं दुःख[खं] दौर्मनस्य प्रति संवेदयत इत्येतदादीनवं दर्शयति।

एते सर्वे दोषा मैत्र्‍यादिषु सुस्थितस्य न भवन्ति।
अक्लिष्टः संसारं सत्त्वार्थं नो च संत्यजति॥२७॥

इति। ब्राह्मविहारयोगे त्रि[द्वि]विधं गुणं दर्शयति। यथोक्तदोषाभावम् अक्लिष्टस्य सत्त्वहेतोः संसारापरित्यागं।

न तथैकपुत्रकेष्वपि गुणवत्स्वपि भवति सर्वसत्त्वानां।
मैत्र्‍यादिचेतनेयं सत्त्वेषु यथा जिनसुतानां॥२८॥

इत्येते[न?] च बोधिसत्त्वमैत्रादीनां तीव्रतां दर्शयति।
करूणाविभागे तदालम्बनप्रभेदमारभ्य द्वौ श्लोकौ।
प्रदीप्तान् शत्रुवशगान् दुःखाक्रान्तांस्तमोवृतान्।
दुर्गमार्गसमारूढान्महाबन्धनसंयुतान्॥२९॥

महाशनविषाक्रान्तलोलान्मार्गप्रनष्टकान्।
उत्पथप्रस्थितान् सत्त्वान्दुर्बलान् करुणायते॥३०॥

तत्र प्रदीप्ताः कामरागेण कामसुग्वभक्ताः। शत्रुवशगा मारकृतान्तरायाः कुशले ऽप्रयुक्ताः दुःखाक्रान्ताः दुःखा[भि?]भूता नरकादिषु। तमोवृता औरभ्रिकादयो दुश्चरितैकान्तिकाः। कर्मविपाकसंमूढत्वात्। दुर्गमार्गसमारूढा अपरिनिर्वाणधर्माणः संसारवर्त्मात्यन्तानुपच्छेदात्। महाबन्धनसंयुता अन्यतीर्थ्याः[र्थ्य]मोक्षसंप्रस्थिता नानाकुदृष्टिगाढबन्धनबद्धत्वात्। महाशनविषाक्रान्तलोलाः समापत्तिसुखसक्ताः। तेषां हि तत् क्लिष्टं समापत्तिसुखं। यथा मृष्टमशनं विषाक्रान्तं। ततः प्रच्यावनात्। मार्गप्रणष्टका अभिमानिका मोक्षमार्गभ्रान्तत्वात्। उत्पथप्रस्थिता हीनयानप्रयुक्ता अनियताः। दुर्बला अपरिपूर्णसंभारा बोधिसत्त्वाः। इत्येते दशविधाः सत्वा बोधिसत्त्वकरुणाया आलम्बनम्।

पञ्चफलसंदर्शने करुणायाः श्लोकः।
हेठापहं ह्युत्तमबोधिबीजं सुखावहं ताय[प]कमिष्टहेतुं।
स्वभावदं धर्ममुपाश्रितस्य बोधिर्न दूरे जिनात्मजस्य॥३१॥

ततः हेठापहत्वेन तद्विपक्षविहिंसाप्रहाणाद्विसंयोगफलं दर्शयति। उत्तमबोधिबीजत्वेनाधिपतिफलं। परात्मनोर्यथाक्रमं सुखावहताय[प]कत्वेन पुरुषकारफलं। इष्टहेतुत्वेन विपाकफलं। स्वभावदत्वेन निष्पन्दफलमायत्यां विशिष्टकरुणाफलदानात्। एवं पञ्चविधां करुणामाश्रित्य बुद्धत्वमदूरे वेदितव्यं।

अप्रतिष्ठितसंसारनिर्वाणत्वे श्लोकः।
विज्ञाय संसारगतं समग्रं दुःखात्मकं चैव निरात्मकं च।
नोद्वेगमायाति न चापि दोषैः प्रबाध्यते कारुणिको ऽग्रबुद्धिः॥३२॥

सर्वं संसारं यथाभूतं परिज्ञाय बोधिसत्त्वो नोद्वेगमायाति कारुणिकत्वात्। न दोषैर्बाध्यते ऽग्रबुद्धित्वात्। एवं निर्वाणे प्रतिष्ठितो भवति न संसारे यथाक्रमं। संसारपरिज्ञाने श्लोकः।

दुःखात्मकं लोकमवेक्षमाणो दुःखायते वेत्ति च तद्यथावत्।
तस्याभ्युपायं परिवर्जने च न खेदमायात्यपि वा कृपालुः॥३३॥

दुःखायत इति करुणायते। वेत्ति च तद्यथावदिति दुःखं यथाभूतं तस्य च दुःखस्य परिवर्जने ऽभ्युपायं। वेत्ति येनास्य दुःखं निरुध्यते। एतेन जानन्नपि संसारदुःखं यथाभूतं तत्परित्यागोपायं च न खेदमापद्यते बोधिसत्त्वः करुणाविशेषादिति प्रदर्शयति।

करूणाप्रभेदे द्वौ श्लोकौ।

कृपा प्रकृत्या प्रतिसंख्यया च पूर्वं तदभ्यासविधानयोगात्।
विपक्षहीना च विशुद्धिलाभात् चतुर्विधेयं करुणात्मकानां॥३४॥

सेयं यथाक्रमं गोत्रविशेषतः गुणदोषपरीक्षणतः। जन्मान्तरपरिभावनतः। वैराग्यलाभतश्च वेदितव्याः। तद्विपक्षविहिंसाप्रहाणे सति विशुद्धिलाभत इति वैराग्यलाभतः।

न सा कृपा या न समा सदा वा नाध्याशयाद्वा प्रतिपत्तितो वा।
वैराग्यतो नानुपलम्भतो वा न बोधिसत्त्वो ह्यकृपस्तथा यः॥३५॥

तत्र समा सुखितादिषु यत्किंचिद्वेदितमिदमत्र दुःखस्येति विदित्वा। सदा निरूपधिशेषनिर्वाणे तदक्षयात्। अध्याशयाद्भूमिप्रविष्टानामात्मपरसमताशयलाभात्। प्रतिपत्तितो दुःखपरित्राणक्रियया। वैराग्यतस्तद्विपक्षविहिंसाप्रहाणात्। अनुपलम्भतो ऽनुत्पत्तिकधर्मक्षान्तिलाभात्।

करुणावृक्षप्रतिबिम्बके पञ्च श्लोकाः।
करुणा क्षान्तिश्चिन्ता प्रणिधानं जन्मसत्त्वपरिपाकः।
करुणातरुरेष महान्मूलादिः पुष्पपत्र[पश्चिमाग्र](पश्चिमान्त)फलः॥३६॥

इत्येष मूलस्कन्धशाखापत्रपुष्पफलावस्थः करुणावृक्षो वेदितव्यः। एतस्य करुणा मूलं। क्षान्तिः स्कन्धः। सत्त्वार्थचिन्ता शाखा। प्रणिधानं शोभनेषु जन्मसु पत्राणि। शोभनं जन्म पुष्पं। सत्त्वपरिपाकः फलं।

मूलं करुणा न भवेद् दुष्करचर्यासहिष्णुता न भवेत्।
दुःखाक्षमश्च धीमान् सत्वार्थं चिन्तयेन्नैव॥३७॥

चिन्ताविहीनबुद्धिः प्रणिधानं शुक्लजन्मसु न कुर्यात्।
शुभजन्माननुगच्छन्सत्त्वान्परिपाचयेन्नैव॥३८॥

आभ्यां श्लोकाभ्यां पूर्वोत्तरप्रसवसाधर्म्यात्करुणादीनां मूलादिभावं साधयति।
करुणासेको मैत्री तद्‍दुःखे सौख्यतो विपुलपुष्टिः।
शाखावृद्धिर्विशदा योनिमनस्कारतो ज्ञेया॥३९॥

पर्णत्यागादानं प्रणिधीनां संततेरनुच्छेदात्।
द्विविधप्रत्ययसिद्धेः पुष्पमबन्ध्यं फलं चास्मात्॥४०॥

एताभ्यां श्लोकाभ्यां वृक्षमूलसेकादिसाधर्म्यं करुणावृक्षस्य दर्शयति। करुणा हि मूलवृक्षा[मूलमित्युक्ता]। तस्याः सेको मैत्री तया तदाप्यायनात्। मैत्रचित्तो हि परदुःखेन दुःखायते। ततश्च करुणोद्भव[करुणातो यद्]दुःखमुत्पद्यते बोधिसत्त्वस्यस्वा[सत्त्वा]र्थप्रयुक्तस्य तत्र सौख्योत्पादाद्विपुलपुष्टिः क्षान्तिपुष्टिरित्यर्थः। सा हि स्कन्ध इत्युक्ता। स्कन्धश्च विपुलः। योनिशोमनस्काराद् बहुविधा महायाने शाखावृद्धिः। चिन्ता हि शाखेत्युक्ता। पूर्वापरनिरोधोत्पादक्रमेण प्रणिधानसंतानस्यानुच्छेदात्। पर्णत्यागादानसाधर्म्यं प्रणीधानानां वेदितव्यम्। आध्यात्मिकप्रत्ययसिद्धितः स्वसंतानपरिपाकात्पुष्पमिव जन्माबन्ध्यं वेदितव्यम्। बाह्यप्रत्ययसिद्धितः परसंतानपरिपाकात् फलभूतः सत्त्वपरिपाको [ऽबन्ध्यो?] वेदितव्यः।

करुणानुशंसे श्लोकः।
कः कुर्वीत न करुणां सत्त्वेषु महाकृपागुणकरेषु।
दुःखेऽपि सौख्यमतुलं भवति यदेषां कृपाजनितं॥४१॥

अत्र महाकरुणागुण उत्तरार्धेन संदर्शितः। शेषो गतार्थः। करुणानिःसङ्गतायां श्लोकः।

आविष्टानां कृपया न तिष्ठति मनः शमे कृपालूनां।
कुत एव लोकसौख्ये स्वजीविते वा भवेत्स्नेहः॥४२॥

सर्वस्य हि लोकस्य लौकिके सौख्ये स्वजीविते च स्नेहः। तत्रापि च निःस्नेहानां श्रावकप्रत्येकबुद्धानां सर्वदुःखोपशमे निर्वाणे प्रतिष्ठितं मनः। बोधिसत्त्वानां तु करुणाविष्टत्वान्निर्वाणे ऽपि मनो न प्रतिष्ठितं। कुत एव तयोः स्नेहो भविष्यति। करुणास्नेहवैशेष्ये त्रयः श्लोकाः।

स्नेहो न विद्यते ऽसौ यो निरवद्यो न लौकिको यश्च।
धीमत्सु कृपास्नेहो निरवद्यो लोकसमतीतः॥४३॥

मातापितृप्रभृतीनां हि तृष्णामयः स्नेहः सावद्यः। लौकिककरूणाविहारिणां निरवद्योऽपि लौकिकः। बोधिसत्त्वानां तु करूणामयः। स्नेहो निरवद्यश्च लौकिकातिक्रान्तश्च। कथं च पुनर्निरवद्य इत्याह।

दुःखाज्ञानमहौघे महान्धकारे च निश्रितं लोकं।
उद्धर्तुं य उपायः कथमिव न स्यात्स निरवद्यः॥४४॥

दुःखमहौघ अज्ञानमहान्धकारे चेति योज्यं। शेषं गतार्थं। कथं लोकातिक्रान्त इत्याह।

स्नेहो न सो ऽत्स्यरिहतां लोके प्रत्येकबोधिबुद्धानां।
प्रागेव तदन्येषां कथमिव लोकोत्तरो न स्यात्॥४५॥

प्रत्येकां बोधिं बुद्धाः। शेषं गतार्थम्।
त्रासाभिनन्दननिमित्तत्वे श्लोकः।
दुःखाभावे दुःखं यत्कृपया भवति बोधिसत्त्वानां।
संत्रासयति तदादौ स्पृष्टं त्वभिनन्दयति गाढं॥४६॥

दुःखाभावे इति दुःखाभावो निमित्तं सत्त्वेषु करुणया बोधिसत्त्वानां यद् दुःखमुत्पद्यते तदादौ संत्रासयति अधिमुक्तिचर्याभूमौ। आत्मपरसमतया दुःखस्य यथाभूतमस्पृष्टत्वात्। स्पृष्टं तु शुद्धाध्याशयभूमावभिनन्दयत्येवेत्यर्थः।

करुणादुःखेन सुखाभिभवे श्लोकः।
किमतः परमाश्चर्यं यद् दुःखं सौख्यमभिभवति सर्वं।
कृपया जनितं लौक्यं येन विमुक्तो अपि कृतार्थः॥४७॥

नास्यत आश्चर्यतरं यद् दुःखमेव करुणाजनितं बोधिसत्त्वानां तथा सुखं भवति। यत्सर्वं लौकिकं सुखमभिभवति। येन सुखेन विमुक्ता अर्हन्तो ऽपि कृतार्थाः प्रागेवान्ये।

कृपाकृतदानानुशंसे श्लोकः।
कृपया सहितं दानं यद्दानसुखं करोति धीराणां।
त्रैधातुकमुपभोगैर्न तत्सुखं तत्कलां स्पृशति॥४८॥

यच्च त्रैधातुकं सुखमुपभोगै कृतं न तत्सुखं तस्य सुखस्य कलां स्पृशतीत्ययमुत्तरार्धस्यार्थः। शेषं गतार्थम्।

कृपया दुःखाभ्युपगमे श्लोकः।
दुःखमयं संसारं यत्कृपया न त्यजति सत्त्वार्थं।
परहितहेतोर्दुःखं किं कारुणिकैर्न समुपेतम्॥४९॥

सर्वं हि दुःखं संसारदुःखे ऽन्तर्भूतं। तस्याभ्युपगमात् सर्वं दुःखमभ्युपगतं भवति।
तत्र तत्फलवृद्धौ श्लोकः।

करूणा दानं भोगाः सदा कृपालोर्विवुद्धिमुपयान्ति।
स्नेहानुग्रहजनितं तच्छक्तिकृतं सुखं चास्मात्॥५०॥

त्रयं बोधिसत्त्वानां सर्वजन्मसु वर्धते करूणायोगात्। करूणा तदभ्यासात्। दानं करुणावशात्। भोगाश्च दानवशात्। तस्माच्च त्रयात्फलं त्रिविधं सुखं भवति। स्नेहजनितं करुणातः। सत्त्वानुग्रहजनितं दानात्। तदनुग्रहक्रियाशक्तिकृतं भोगेभ्यः।

दानप्रोत्साहनायां श्लोकः।
वर्धे च वर्धयामि च दाने परिपाचयामि सुखयामि।
आकर्षामि नयामि च करुणा सन्नान्प्रवदतीव॥५१॥

दाने सन्नानिति संबन्धनीयं। षड्‍भिर्गुणैर्दानै ऽवसन्नान् बोधिसत्त्वान्करुणा प्रोत्सहयतीव। स्वभाववृद्ध्या। भोगैस्तद्वर्धनया। दानेन सत्त्वपरिपाचनया। दातुश्च सुखोत्पादनात्। महाबोधिसंभारस्यान्यस्या[संभारस्या]कर्षणात्। महाबोधिसमीपनयनाच्च।

परसौख्येन सुखा[नु?]भवे श्लोकः।
दुःखे दुःखी कृपया सुखान्यनाधाय केन सुखितः स्यात्।
सुखयत्यात्मानमतः कृपालुराधाय परसौख्यम्॥५२॥

करुणया बोधिसत्त्वः परदुःखैर्दुःखितः सत्त्वेष्वनाधाय सुखं कथं सुखितः स्यात्। तस्मात्परेषु सुखमाधाय बोधिसत्व आत्मानमेव सुखयतीति वेदितव्यम्।

कृपया दानसमनुशास्तौ षट् श्लोकाः।
स्वं दानं कारुणिकः शास्तीव सदैव निःस्वसुखकामः।
भोगैः सुखय परं वा मामप्ययुतसौख्यम्॥५३॥

न हि कारुणिकस्य विना परसुखेनास्ति सुखं। तस्यायुतसौख्यत्वाद्वौधिसत्त्वस्तेन विना[त्म?]नो दानस्य फलं सुखं नेच्छति।

सफलं दानं दत्तं तन्मे सत्त्वेषु तत्सुखसुखेन।
फल तेष्वेव निकामं यदि मे कर्तव्यता तेऽस्ति॥५४॥

दानं ददता दानं च दानफलं च तन्मया सत्त्वेषु दत्तं। तत्सुखमेव मे सुखं यस्मात्। अतस्तेष्वेव यावत्फलितव्यं तावत्फलेति लोट्। बोधिसत्त्वः करूणया दानमनुशास्ति।

भोगद्वेष्टुर्दातुर्भोगा बहुशुभतरोपसर्पन्ति।
न हि तत्सुखं मतं मे दाने पारंपरो ऽस्मि यतः॥५५॥

भोगविमुखस्य दातुर्भोगा बहुतराश्चोपतिष्ठन्ते। शोभनतराश्च। धर्म तैवेयं चित्तस्योदारतरत्वात्। न हि तत्सुखं मतं मे यद् भोगास्तथोपतिष्ठन्ते। यस्मादहं दाने पारंपरस्तत्प्रबन्धकामत्वान्नसुखे।

सर्वास्तिपरित्यागे यत्कृपया मां निरीक्षसे सततं।
ननु ते तेन ज्ञेयं न मत्फलेनार्थिता ऽस्येति॥५६॥

यो ऽहं दानफलं सर्वमेव करुणया नित्यं परित्यजामि नन्वत एव वेदितव्यं नास्ति मे दानफलेनार्थित्वमिति बोधिसत्त्वो दानं समनुशास्ति।

दानाभिरतो न स्यां प्राप्तं चेत्तत्फलं न विसृजेयं।
तथा हि।
क्षणमपि दानेन विना दानाभिरतो भवति नैव॥५७॥

इति गतार्थः श्लोकः।
अकृतं न फलसि यस्मात्प्रतिकारापेक्षया न मे तुल्यं।
यस्त्वा करोति तस्य त्वं फलसि। तस्मात्त्वं प्रतिकारपेक्षया न मत्तुल्यम्।
तथा ह्यहं।
प्रतिकारनिर्व्यपेक्षः परत्र फलदो ऽस्य कामं ते॥५८॥

गतार्थमेतत्।
कृपादानेन द्वौ श्लोकौ।
निरवद्यं शुद्धपदं हितावहं चैव सानुरक्षं च।
निर्मृग्यं निर्लेपं जिनात्मजानां कृपादानम्॥५९॥

तत्र निरवद्यं परमनुपहृत्य दानात्। शुद्धपदं कल्पिकवसु[वस्तु]दानात्। विषशस्रमद्यादिविवर्जनतः। हितावहं दानेन संगृह्य कुशले नियोजनात्। सानुरक्षं परिजनस्याविघातं कृत्वा अन्यस्मै दानात्। निर्मृग्यमयाचमाने ऽप्यर्थित्वं विघातं वावगम्य स्वयमेव दानात् दक्षिणीयापरिमार्गणाच्च। निर्लेपं प्रतिकारविपाकनिःस्पृहत्वात्। अपरः प्रकारः।

सकलं विपुलं श्रेष्ठं सततं मुदितं निरामिषं शुद्धं।
बोधिनतं कुशलनतं जिनात्मजानां कृपादानम्॥६०॥

तत्र सकलमाध्यात्मिकबाह्यवस्तुदानात्। विपुलं प्रभूतवस्तुदानात्। श्रेष्ठं प्रणीतवस्तुदानात्। सततमभीक्ष्णदानात्। मुदीतमप्रतिसंख्याय प्रहृष्टदानात्। निरामिषं यथा निर्लेपं। शुद्धं यथा शुद्धपदं। बोधिनतं महाबोधिपरिणामनात्। कुशलनतं यथा हितावहं।

उपभोगविशेषे श्लोकः।
न तथोपभोगतुष्टिं लभते भोगी यथा परित्यागात्।
तुष्टिमुपैति कृपालुः सुखत्रयाप्यायितमनस्कः॥६१॥

तत्र सुखत्रयं दानप्रीतिः परानुग्रहप्रीतिः बोधिसंभारसंभरणप्रीतिश्च। शेषं गतार्थं।
पारमिताभिनिर्हारकरुणायां श्लोकः।

कृपणकृपा रौद्रकृपा संक्षुब्धकृपा कृपा प्रमत्तेषु।
विषयपरतन्त्रकरुणा मिथ्याभिनिविष्टकरुणा च॥६२॥

तत्र कृपणा मत्सरिणः। रौद्रा दुःशीलाः परोपतापिनः। संक्षुब्धाः क्रोधनाः। प्रमत्ताः कुशीदाः। विषयपरतन्त्रा कामेषु विक्षिप्तचित्ताः। मिथ्याभिनिविष्टाः दुःप्रज्ञाः तीर्थिकादयः। एषु पारमिताविपक्षधर्मावस्थितेषु या करुणा सा कृपणादिकरुणा। सा च तद्विपक्षविदूषणात्पारमिताभिनिर्हाराय संपद्यते। तस्मात्पारमिताभिनिर्हारकरुणेत्युच्यते।

करुणाप्रत्ययसंदर्शने श्लोकः।
करुणा बोधिसत्त्वानां सुखाद् दुःखात्तदन्वयात्।
करुणा बोधिसत्त्वानां हेतोर्मित्रात्स्वभावतः॥६३॥

तत्र पूर्वार्धेनालम्बनप्रत्ययं करुणायाः संदर्शयति। त्रिविधां वेदनामालम्ब्य तिसृभिर्दुःखताभिः करुणायनात्। अदुःखासुखा हि वेदना सुखदुःखयोरन्वयः पुनस्तदावाहनात्। उत्तरार्धेन यथाक्रमं हेतुमित्रस्वभावैः करुणाया हेत्वधिपतिसमनन्तरप्रत्ययान्संदर्शयति।

महाकरुणत्वे श्लोकः।
करुणा बोधिसत्त्वानां समा ज्ञेया तदाशयात्।
प्रतिपत्तेर्विरागाच्च नोपलम्भाद्विशुद्धितः॥६४॥

तत्र समा त्रिविधवेदनावस्थेषु यत्किंचिद्वेदितमिदमत्र दुःखस्येति विदित्वा। सा पुनराशयतो ऽपि चित्तेन करुणायनात्। प्रतिपत्तितो ऽपि तत्परित्राणात्। विरागतो ऽपि तद्विपक्षविहिंसाप्रहाणात्। अनुपलम्भतो ऽप्यात्मपरकरुणानुपलम्भात्। विशुद्धितो ऽप्यष्टभ्यां भूमावनुत्पत्तिकधर्मक्षान्तिलाभात्।

मैत्राद्रिभावनाग्रा स्वचित्ततो धर्मतो ऽधिमोक्षाच्च।
आशयतो ऽपि विभुत्वादविकल्पादैक्यतश्चापि॥६५॥

इति। पूर्वनिर्देशानुसारेणार्थो ऽनुगन्तव्यः।
इति भगवति जातुसुप्रसादो महदुपधिध्रुवसत्क्रियाधिपूजी।
बहुगुणहितमित्रनित्यसेवो जगदनुकम्पक एति सर्वसिद्धिं॥६६॥

एतेन यथोक्तानां पूजासेवाऽप्रमाणानामनुक्रमं गुणं च समासेन संदर्शयति। महोपधिभिर्ध्रुवं सत्क्रिया[यया] चात्यर्थं पूजनान्महदुपधिध्रुवसत्क्रियाभिपूजी वेदितव्यः। सत्क्रिया पुनः सम्यक्‌प्रतिपत्तिर्वेदितव्या। एवं [लाभ?]सत्कारप्रतिपत्तिपूजी भवति। बहुगुणं मित्रं तदन्यैर्गुणैः। हितमनुकम्पकत्वेन वेदितव्यं। एति सर्वसिद्धिमिति स्वपरार्थसिद्धिं प्राप्नोतीति।

॥ महायानसूत्रालंकारे पूजासेवाप्रमाणाधिकारः [सप्तदशः] समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project