Digital Sanskrit Buddhist Canon

षोडशोऽधिकार

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Ṣoḍaśo'dhikāraḥ

षोडशोऽधिकार

पारमिताप्रभेदसंग्रहे उद्दानश्लोकः।

सांख्याथ तल्ललक्षणमानुपूर्वी निरुक्तिरभ्यासगुणश्च तासां।
प्रभेदनं संग्रहणं विपक्षो ज्ञेयो गुणो ऽन्योन्यविनिश्चयश्च॥१॥

संख्याविभागे षट् श्लोकाः।

भोगात्मभावसंपत्परिचारारम्भसंपदभ्युदयः।
क्लेशावशगत्वमपि च कृत्येषु सदाविपर्यासः॥२॥

इति प्रथमः। तत्र चतसृभिः पारमिताभिश्चतुर्विधो ऽभ्युदयः। दानेन भोगसंपत्। शीलेनात्मभावसंपत्। क्षान्त्या परिचारसंपत्। तथा हि तदासेवनादायत्याद्[त्यां] बहुजनसुप्रियो भवति। वीर्येणारम्भसंपत् सर्वकर्मान्तसंपत्तितः। पञ्चम्या क्लेशावशगत्वं ध्यानेन क्लेशविष्कम्भनात्। षष्ठ्या कृत्येष्वविपर्यासः सर्वकार्ययथाभूतपरिज्ञानात्। इत्यभ्युदयः तत्र चासंक्लेशमविपरीतकृत्यारम्भं चाधिकृत्य षट् पारमिता व्यवस्थिताः।

सत्त्वार्थेषु सुयुक्तस्त्यागानुपघातमर्षणैः कुरुते।
सनिदानस्थितिमुक्त्या आत्मार्थं सर्वथा चरति॥३॥

इति द्वितीयः। सत्त्वार्थेषु सम्यक्‌प्रयुक्तो बोधिसत्त्वस्तिसृभिर्दानशीलक्षान्तिपारमिताभिर्यथाक्रमं त्यागेनानुपघातेनोपघातमर्षणेन च सत्त्वार्थं कुरुते। तिसृभिः सनिदानतया [सनिदानया] चित्तस्थित्या विमुक्त्या च सर्वप्रकारमात्मार्थं चरति। वीर्यं निश्रित्य यथाक्रमं ध्यानप्रज्ञाभ्यास[म]समाहितस्य चित्तस्य समवधानात् समाहितस्य मोचनात्। इति परार्थमात्मार्थं चारभ्य षट् पारमिताः।

अविघातैरविहेठैर्विहेठसंमर्षणैः क्रियाखेदैः।
आवर्जनैः सुलपितैः परार्थ आत्मार्थं एतस्मात्॥४॥

इति तृतीयः। दानादिभिर्बोधिसत्त्वस्य सकलः परार्थो भवति। यथाक्रमं परेषामुपकरणाविधातैः। अविहेठैः विहेठनामर्षणैः। साहाय्य क्रियास्वखेदैः ऋद्ध्यादिप्रभावावर्जनैः सुभाषितसुलपितैश्च संशयच्छेदनात्। एतस्मात्परार्थात् बोधिसत्त्वस्यात्मार्थो भवति। पराकार्यस्वकार्यत्वान्महाबोधिप्राप्तितश्च। इति सकलपरार्थाधिकारात् षट् पारमिताः।

भोगेषु चानभिरतिस्तीव्रा गुरुताद्वये अखेदश्च।
योगश्च निर्विकल्पः समस्तमिदमुत्तमं यानं॥५॥

इति चतुर्थः। दानेन बोधिसत्त्वस्य भोगेष्वभि[ष्वनभि]रतिर्निरपेक्षत्वात्। शीलसमादानेन बोधिसत्त्वशिक्षासु तीव्रा गुरुता। क्षान्त्या वीर्येण चाखेदो द्वये यथाक्रमं दुःखे च सत्त्वासत्त्वकृते कुशलप्रयोगे च। ध्यानप्रज्ञायां[भ्यां] निर्विकल्पो योगः शमथविपश्यनासंगृहीतः। एतावच्च समस्त [महायानम् इति?] महायानसंग्रहाधिकारात् षट् पारमिताः।

विषयेष्वसक्तिमार्गस्तदाप्तिविक्षेपसंयमेष्वपरः।
सत्त्वाविसृजनवर्धन आवरणविशोधनेष्वपरः॥६॥

इति पञ्चमः। तत्र दानं विषयेष्वसक्तिमार्गस्त्यागाभ्यासेन तत्सक्तिविगमात्। शीलं तदाप्तिविक्षेपसंयमेषु भिक्षुसंवरस्थस्य विषयप्राप्तये सर्वकर्मान्तविक्षेपाणामप्रवृत्तेः। क्षान्तिः सत्त्वानुत्सर्गे सर्वो[वा]पकारदुःखानुद्वेगात्। वीर्यं कुशलविवर्धन आरब्धवीर्यस्य तद्‍बुद्धिगमनात्। ध्यानं प्रज्ञा चावरणविशोधनेषु मार्गस्ताभ्यां क्लेशज्ञेयावरणविशोधनात्। मार्ग इत्युपायः। एवं सर्वाकारमार्गाधिकारात् षट् पारमिताः।

शिक्षात्रयमधिकृत्य च षष्ट् पारमिता जिनैः समाख्याताः।
आद्या तिस्रो द्वेधा अन्त्यद्वयतस्तिसृष्वेका॥७॥

इति षष्ठः। तत्राद्या अधिशीलं शिक्षा तिस्रः पारमिताः ससंभारसपरिवारग्रहणात्। दानेन हि भोगनिरपेक्षः शीलं समादत्ते समात्तं च क्षान्त्या रक्षत्याक्रुष्टाप्रत्याक्रोशनादिभिः। द्विधेत्यधिचित्तमधिप्रज्ञं च शिक्षा सा अन्तेन द्वयेन संगृहीता यथाक्रमं ध्यानेन प्रज्ञया च। तिसृष्वपि शिक्षास्वेका वीर्यपारमिता वेदितव्या। सर्वासां वीर्यसहायत्वात्। लक्षणविभागे श्लोकाः षट्।

दानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन।
सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा॥८॥

बोधिसत्त्वानां दानं चतुर्विधलक्षणं। विपक्षहीनं ता[मा]त्सर्यस्य प्रहीणत्वात्। निर्विकल्पज्ञानसहगतं धर्म नैरात्म्यप्रतिवेधयोगात् सर्वेच्छापरिपूरकं यो यदिच्छति तस्मै तस्य दानात्। सत्त्वपरिपाचकं त्रेधा दानेन सत्त्वान् संगृह्य त्रिषु यानेषु यथाभव्यनियोजनात्।

शीलं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन।
सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा॥९॥

क्षान्तिर्विपक्षहीना ज्ञानेन गता च निर्विकल्पेन।
सर्वेच्छापरिपूरा अपि सत्त्वविपाचिका त्रेधा॥१०॥

वीर्यं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन।
सर्वेच्छपरिपूरकमपि सत्त्वविपाचकं त्रेधा॥११॥

ध्यानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन।
सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा॥१२॥

प्रज्ञा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन।
सर्वेच्छापरिपूरा अपि सत्त्वविपाचिका त्रेधा॥१३॥

यथा दानलक्षणं चतुर्विधमेवं शीलादीनां वेदितव्यम्। एषां तु विपक्षा दौःशील्यं क्रोधः कौशीद्यं विक्षेपो दौष्प्रज्ञ्यं यथाक्रमं। सर्वेच्छापरिपूरकत्वं शीलादिभिः परेषां सर्वकायवाक्‌संयमापराधमर्षणसाहाय्यमनोरथसंशयच्छेदनेच्छापरिपूरणात्। सत्त्वपरिपाचकत्वं शीलादिभिरावर्ज्य त्रिषु यानेषु परिपाचनात्।

अनुक्रमविभागे श्लोकः।
पूर्वोत्तरविश्रयतश्चोत्पत्तेस्तत्क्रमेण निर्देशः।
हीनोत्कर्षस्थानादौदारिकसूक्ष्मतश्चापि॥१४॥

त्रिभिः कारणैस्तेषां दानादीनां क्रमेण निर्देशः। पूर्वसंनिश्रयेणोत्तरस्योत्पत्तेः। भोगनिरपेक्षो हि शीलं समात्ते शीलवान् क्षमो भवति क्षमावान् वीर्यमारभते आरब्धवीर्यः समाधिमुत्पादयति समाहितचित्तो यथाभूतं प्रजानाति। पूर्वस्य च हीनत्वात् उत्तरस्योत्कर्षस्थानत्वात्। हीनं हि दानमुत्कृष्टं शीलमेवं यावद्धीनं ध्यानमुत्कृष्टा प्रज्ञेति। पूर्वस्य चौदारिकत्वादुत्तरस्यसूक्ष्मत्वात्। औदारिकं हि दानं सुप्रवेशत्वात् सुकरत्वाच्च। सूक्ष्मं ज्ञीलं ततो दुष्प्रवेशत्वाद् दुष्करत्वाच्च। एवं यावदौदारिकं ध्यानं सूक्ष्मा प्रज्ञेति।

निर्वचनविभागे श्लोकः।
दारिद्यस्यापनयाच्छैत्यस्य च लम्भनात् क्षयात् क्रुद्धेः।
वरयोगमनोधारणपरमाथज्ञानतश्चोक्तिः॥१५॥

दारिद्यमपनयतीति दानं। शैत्यं लम्भयतीति शीलं तद्वतो विषयनिमित्तक्लेशपरिदाहाभावात्। क्षयः क्रुद्धेरिति क्षान्तिस्तया क्रोधक्षयात्। वरेण योजयतीति वीर्यं कुशलधर्मयोजनात्। धारयत्यध्यात्मं मन इति ध्यानं। परमार्थ[र्थं] जानात्यनयेति प्रज्ञा।

भावनाविभागे श्लोकः।
भावनोपधिमाश्रित्य मनस्कारं तथाशयं।
उपायं च विभुत्वं च सर्वासामेव कथ्यते॥१६॥

पञ्चविधा पारमिताभावना। उपधिसंनिश्रिता। तत्रोपधिसंनिश्रिता चतुराकारा हेतुसंनिश्रिता यो गोत्रबलेन पारमितासु प्रतिपत्त्यभ्यासः। विपाकसंनिश्रिता च आत्मभावसंपत्तिबलेन। प्रणिधानसंनिश्रिता यः पूर्वप्रणिधानबलेन। प्रतिसंख्यानसंनिश्रता यः प्रज्ञाबलेन पारमितासु प्रतिपत्त्यभ्यासः। मनसिकारसंनिश्रिता पारमिताभावना चतुराकारा। अधिमुक्तिमनस्कारेण सर्वपारमिताप्रतिसंयुक्तं सूत्रान्तमधिमुच्यमानस्य। आस्वादनामनस्कारेण लब्धाः पारमिता आस्वादयतो गुणसंदर्शयोगेन। अनुमोदनामनस्कारेण सर्वलोकधातुषु सर्वसत्त्वानां दानादिकमनुमोदमानस्य। अभिनन्दनामनस्कारेणात्मनः सत्त्वानां चानागतं पारमिताविशेषमभिनन्दमानस्य। आशयसंनिश्रिता पारमिताभावना षडाकारा। अतृप्ताशयेन विपुलाशयेन मुदिताशयेन उपकाराशयेन निर्लेपाशयेन कल्याणाशयेन च। तत्र बोधिसत्त्वस्य दानेऽतृप्ताशयो यद्बोधिसत्त्व एकसत्त्वस्यैकक्षणे गंगानदीबालुकासमान् लोकधातून् सप्तरत्नपरिपूर्णान् कृत्वा प्रतिपादयेत्। गंगानदीबालिकासमांश्चात्मभावान्। एवं च प्रतिक्षणं गंगानदीवालिकासमान्कल्पान्प्रतिपादयेत्। यथा चैकस्य सत्त्वस्यैवं यावान् सत्त्वधातुरनुत्तरायां सम्यक्‌संबोधौ परिपाचयितव्यस्तमनेन पर्यायेण प्रतिपादयेत्। अतृप्त एव बोधिसत्त्वस्य दानाशय इति। य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने ऽतृप्ताशयः। न च बोधिसत्त्व एवंरूपां दानपरंपरां क्षणमात्रमपि हापयति। न विच्छिनत्त्या बोधिमण्डनिषदनादिति। य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने विपुलाशय इति। मुदिततरश्च बोधिसत्त्वो भवति तान्सत्त्वान्दानेन तथानुगृह्णन्। न त्वेव ते सत्वास्तेन दानेनानुगृह्यमाणा इति। य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने मुदिताशयः। उपकारकतरांश्च स बोधिसत्त्वस्तान्सत्त्वानात्मनः समनुपश्यति। येषां तथा दानेनोपकरोति नात्मानं। तेषामनुत्तरसम्यक्‌संबोध्युपस्तम्भतामुपादाय इति। य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने उपकाराशयः। न च बोधिसत्त्वः सत्त्वेषु तथा विपुलमपि दानमयं पुण्यमभिसंस्कृत्य प्रतिकारेण वा अर्थो[र्थी] भवति विपाकेन वा इति। य एवंरूप आशयोऽयं बोधिसत्त्वस्य दानपारमिताभावनायां निर्लेपाशयः। यद्बोधिसत्त्वस्तथा विपुलस्यापि दानस्कन्धस्य विपाकं सत्वेष्वभिनन्दति नात्मनः। सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्‌संबोधौ परिणामयति इति। य एवंरूप आशयोऽयं बोधिसत्त्वस्य दानपारमिताभावनायां कल्याणाशयः। तत्र बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः। यद्वोधिसत्त्वो गंगानदीबालिकासमेष्वात्मभावेषु गंगानदीबालिकासमकल्पायुष्प्रमाणेषु सर्वोपकरणनिरन्तरविघाती त्रिसाहस्रमहासाहस्रलोकधातावग्निप्रतिपूर्णे चतुर्विधमीर्यापथं कल्पयन्नेकं शीलपारमिताक्षणं यावत्प्रज्ञापारमिताक्षणं भावयेदेतेन पर्यायेण यावांश्छीलस्कन्धो यावान् च प्रज्ञास्कन्धो येनानुत्तरां सम्यक्‌संबोधिमभिसंबुध्यते शीलस्कन्धं यावत्प्रज्ञास्कन्धं भावयेदतृप्त एव बोधिसत्त्वस्य शीलपारमिताभावनायामाशयो यावत्प्रज्ञापारमिताभावनायामाशय इति। य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायामतृप्ताशयो यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः। यद्बोधिसत्त्वस्तां शीलपारमिताभावनापरंपरां यावत्प्रज्ञापारमिताभावनापरंपरामाबोधिमण्डनिषदनान्न स्रंसयति न विच्छिनत्ति इति। य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां विपुलाशयः। मुदिततरश्च बोधिसत्त्वो भवति तया शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया सत्त्वाननुगृह्णन्। न त्वेव[वं] ते सत्त्वा अनुगृह्यमाणा इति। य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां मुदिताशयः। उपकारकतरांश्च बोधिसत्त्वस्तान् सत्त्वानात्मनः समनुपश्यति। येषां तथा शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया उपकरोति नात्मानं। तेषामनुत्तरसम्यक्‌संबोध्युपस्तम्भतामुपादाय इति। य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामुपकाराशयः। न च बोधिसत्त्वस्तथा विपुलमपि शीलपारमिताभावनामयं यावत्प्रज्ञापारमिताभावनामयं पुण्यमभिसंस्कृत्य प्रतिकारेण वार्थी भवति विपाके न वा इति। य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलापारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां निर्लेपाशयः। तत्र यद्बोधिसत्त्व एवं शीलपारमिताभावनामयस्य यावत्प्रज्ञापारमिताभावनामयपुण्यस्कन्धस्य विपाकं सत्त्वेष्वेवाभिनन्दति नात्मनः। सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्‌सम्बोधौ परिणामयतीति। य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां कल्याणाशयः। उपायसंनिश्रिता भावना त्र्याकारा। निर्विकल्पेन ज्ञानेन त्रिमण्डलपरिशुद्धिप्रत्यवेक्षणतामुपादाय। तथा हि स उपायः सर्वमनसिकाराणामभिनिष्पत्तये। विभुत्वसंनिश्रिता पारमिताभावना त्र्याकारा। कायविभुत्वतः। चर्याविभुत्वतः। देशनाविभुत्वतश्च। तत्र कायविभुत्वं तथागते द्वौ कायौ द्रष्टव्यौ स्वाभाविकः सांभोगिकश्च। तत्र चर्याविभुत्वं नैर्माणिकः कायो द्रष्टव्यः। येन सर्वाकारां सर्वसत्त्वानां सहधार्मिकचर्यां दर्शयति। देशनाविभुत्वं षट्पारमितासर्वाकारदेशनायामव्याघातः। प्रभेदसंग्रहे द्वादशश्लोकाः। दानादीनां प्रत्येकं षडर्थप्रभेदतः।
षडर्थाः स्वभावहेतुफलकर्मयोगवृत्त्यर्थाः।

तत्र दानप्रभेदे द्वौ श्लोकौ।
प्रतिपादनमर्थस्य चेतना मूलनिश्चिता।
भोगात्मभावसंपत्ती द्वयानुग्रहपूरकं॥१७॥

अमात्सर्ययुतं तच्च दृष्टधर्मामिषाभये।
दानमेव[वं] परिज्ञाय पण्डितः समुदानयेत्॥१८॥

अर्थप्रतिपादनं प्रतिग्राहकेषु दानस्य स्वभावः। अलोभादिसहजा चेतना हेतुः। भोगसंपत्तिरात्मभावसंपत्तिश्चायुरादिसंगृहीता फलं पञ्चस्थानसूत्रवत्। स्वपरानुग्रहो महाबोधिसंभारपरिपूरिश्च कर्म। अमात्सर्ययोगो अमत्सरिषु वर्तते। दृष्टधर्मामिषाभयप्रदानप्रभेदेन चेति वृत्तिः।

शीलप्रभेदे द्वौ श्लोकौ।
षडङ्ग[ङ्गं]शमभावान्तं सुगतिस्थितिदायकं।
प्रतिष्ठाशान्तनिर्भीतं पुण्यसंभारसंयुतं॥१९॥

संकेतधर्मतालब्धं संवरस्थेषु विद्यते।
शीलमेवं परिज्ञाय पण्डितः समुदानयेत्॥२०॥

षडङ्गमिति स्वभावः। षडङ्गीति शीलवान् विहरति यावत्समादाय शिक्षते शिक्षापदेष्विति। शमभावान्तमिति हेतुः। निर्वाणाभिप्रायेण समादानात्। सुगतिस्थितिदायकमिति फलं। शीलेन सुगतिगमनात्। अविप्रतिसारादिक्रमेण चित्तस्थितिलाभाच्च। प्रतिष्ठाशान्तनिर्भीतमिति कर्म। शीलं हि सर्वगुणानां प्रतिष्ठा भवति। क्लेशपरिदाहशान्त्या च शान्तं। प्राणातिपातादिप्रत्ययानां च भयावद्यवैराणामप्रसवान्निर्भीतं। पुण्यसंभारसंयुतमिति योगः सर्वकालं कायवाङ्मनस्कर्मसमाव[च]रणात्। संकेतधर्मतालब्धं संवरस्थेषु विद्यत इति वृत्तिस्तत्र संकेतलब्धं प्रातिमोक्षसंवरसंगृहीतं। धर्मताप्रतिलब्धं ध्यानानास्रवसंवरसंगृहीतमेषास्य प्रभेदवृत्तिः त्रिविधेन प्रभेदेन वर्तनात्। संवरस्थेषु विद्यत इत्याचा[धा]रवृत्तिः।

क्षान्तिप्रभेदे द्वौ श्लोकौ।
मर्षाधिवासनज्ञानं कारुण्याद्धर्मसंश्रयात्।
पञ्चानुशंसमाख्यातं द्वयोरर्थकरं च तत्॥२१॥

तपः प्राबल्यसंयुक्तं तेषु तत्त्रिविधं मतं।
क्षान्तिमेवं परिज्ञाय पण्डितः समुदानयेत्॥२२॥

मर्षाधिवासज्ञानमिति त्रिविधायाः क्षान्तेः स्वभावः। अपकारमर्षणक्षान्तेर्मर्षणं मर्ष इति कृत्वा। दुःखाधिवासक्षान्तेर्धर्मनिध्यानक्षान्तेश्च यथाक्रमं। कारूण्याद्धर्मसंश्रयादिति हेतुः। धर्मसंश्रयः पुनः। शीलसमादानं श्रुतपर्यवाप्तिश्च। पञ्चानुशंसमाख्यातमिति फलं। यथोक्तं सूत्रे। पञ्चानुशंसाः क्षान्तौ। न वैरबहुलो भवति। न भेदबहुलो भवति। सुखसौमनस्यबहुलो भवति। अविप्रतिसारी कालं करोति। कायस्य च भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते इति। द्वयोरर्थकरं च तदिति मर्षाधिवासनमित्यधिकृतं इदं कर्म। यथोक्तम्।

द्वयोरर्थं स कुरूते आत्मनश्च परस्य च।
यः परं कुपितं ज्ञात्वा स्वयं तत्रोपशाम्यति॥इति॥

तपः प्राबल्यसंयुक्तमिति योगः। यथोक्तं। क्षान्तिः परमं तप इति। तेषु तदित्याधारवृत्तिः क्षमिषु तद्वृत्तेः। त्रिविधं मतमिति प्रभेदवृत्तिस्त्रिविधक्षान्तिप्रभेदेन यथोक्तं प्राक्।

वीर्यप्रभेदे द्वौ श्लोकौ।
उत्साहः कुशले सम्यक् श्रद्धाच्छन्दप्रतिष्ठितः।
स्मृत्यादिगुणवृद्धौ च संक्लेशप्रातिपक्षिकः॥२३॥

अलोभादिगुणोपेतस्तेषु सप्तविधश्च सः।
वीर्यमेवं परिज्ञाय पण्डितः समुदानयेत॥२४॥

उत्साहः कुशले सम्यगिति स्वभावः। कुशल इति तदन्यकृत्योत्साहव्युदासाथ[र्थं] सम्यगित्यन्यतीर्थिकमोक्षार्थोत्साहव्युदासार्थं। श्रद्धाच्छन्दप्रतिष्ठित इति हेतुः श्रद्दधानो ह्यतीव[ह्यर्थिको] वीर्यमारभति। स्मृत्यादिगुणवृद्धाविति फलम्। आरब्धवीर्यस्य स्मृतिसमाध्यादिगुणोद्भवात्। संक्लेशप्रातिपक्षिक इति कर्म। यथोक्तम्। आरब्धवीर्यस्तु सुखं विहरत्यव्यवकीर्णः पापकैरकुशलैर्धर्मैरिति। अलोभादिगुणोपेत इति योगः। तेष्वित्यारब्धवीर्येषु इयमाधारवृत्तिः। सप्तविध इति प्रभेदवृत्तिः। स पुनरधिशीलादि शिक्षात्रये कायिकं चेतसिकं च सातत्येन सत्कृत्य च यद्वीर्यम्।

ध्यानप्रभेदे द्वौ श्लोकौ।
स्थितिश्चेतस अध्यात्मं स्मृतिवीर्यप्रतिष्ठितं।
सुखोपपत्तये ऽभिज्ञाविहारवशवर्तकम्॥२५॥

धर्माणां प्रमुखं तेषु विद्यते त्रिविधश्च सः।
ध्यानमेवं परिज्ञाय पण्डितः समुदानयेत्॥२६॥

स्थितिश्चेतस अध्यात्ममिति स्वभावः। स्मृतिवीर्यप्रतिष्ठितमिति हेतुः। आलम्बनासंप्रमोषे सति वीर्यं निश्रित्य समापत्त्यभिनिर्हारात्। सुखोपपत्तये इति फलं ध्यानस्याव्याबाधोपपत्तिफलत्वात्। अभिज्ञाविहारवशवर्तकमिति कर्म। ध्यानेनाभिज्ञावशवर्तनात्। आर्यदिव्यब्राह्मविहारवशवर्तनाच्च। धर्माणां प्रमुखमिति प्रामुख्येन योगः। यथोक्तं। समाधिप्रमुखाः सर्वधर्मा इति। तेषु विद्यत इति ध्यायिष्वियमाधारवृत्तिः। त्रिविश्च स इति सवितर्कः सविचारः अवितर्को विचारमात्रः। अवितर्को अविचारः। पुनः प्रीतिसहगतः। सातसहगतः। उपेक्षासहगतश्च। इयं प्रभेदवृत्तिः।

प्रज्ञाप्रभेदे द्वौ श्लोकौ।
सम्यक्‌प्रविचयो ज्ञेयः श[स]माधानप्रतिष्ठितः।
सुविमोक्षाय संक्लेशात्प्रज्ञाजीवसुदेशनः॥२७॥

धर्माणामुत्तरस्तेषु विद्यते त्रिविधश्च सः।
प्रज्ञामेवं परिज्ञाय पण्डितः समुदानयेत्॥२८॥

सम्यक् प्रविचयो ज्ञेय इति स्वभावः। सम्यगिति न मिथ्या ज्ञेय इति लौकिककृत्यसम्यक्‌प्रविचयव्युदासार्थं। समाधानप्रतिष्ठित इति हेतुः। समाहितचित्तो यथाभूतं प्रजानाति। यस्मात्सुविमोक्षाय संक्लेशादिति फलं। तेन हि संक्लेशात्सु विमोक्षो भवति। लौकिकहीनलोकोत्तरमहालोकोत्तरेण प्रविचयेन। प्रज्ञाजीवसुदेशन इति प्रज्ञाजीवः सुदेशना चास्य कर्म। तेन ह्यनुत्तर[रः] प्रज्ञाजीवकानां जीवति। सम्यग् धर्मं देशयतीति। धर्माणामुत्तर इत्युत्तरत्वेन योगः। यथोक्तं। प्रज्ञोत्तराः सर्वधर्मा इति। तेषु विद्यते त्रिविधश्च स इति वृत्तिः। प्राज्ञेषु वर्तनात् त्रिविधेन च प्रभेदेन। लौकिको हीनलोकोत्तरो महालोकोत्तरश्च। उक्तः प्रत्येकं दीनादीनां षडर्थप्रभेदेन प्रभेदः।

संग्रहविभागे श्लोकः।
सर्वे शुक्ला धर्मा विविप्तसमाहितोभया ज्ञेयाः।
द्वाभ्यां द्वाभ्यां द्वाभ्यां पारमिताभ्यां परिगृहीताः॥२९॥

सर्वे शुक्ला धर्मा दानादिधर्माः। तत्र विक्षिप्ता द्वाभ्यां पारमिताभ्यां संगृहीताः प्रथमाभ्यां दानसमादानशीलयोरसमाहितत्वात्। समाहिता द्वाभ्यां पश्चिमाभ्यां ध्यानयथाभूतप्रज्ञयोः समाहितत्वात्। उभये द्वाभ्यां क्षान्तिवीर्याभ्यां। तयोः समाहितासमाहितत्वात्।

विपक्षविभागे श्लोकाः षट्।
न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च दानं।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्॥३०॥

सप्तविधा सक्तिर्दानस्य विपक्षः। भोगसक्तिः विलम्बनसक्तिः तन्मात्रसंतुष्टिसक्तिः पक्षपातसक्तिः[?] प्रतिकारसक्तिः विपाकसक्तिः। विपक्षसक्तिस्तु तद्विपक्षलाभानुशयासमुद्धातात्। विक्षेपसक्तिश्च। स पुनर्विक्षेपो द्विविधः। मनसिकारविक्षेपश्च हीनयानस्पृहणात्। विकल्पविक्षेपश्च दायकप्रतिग्राहकदानविकल्पनात्। अतः सप्तविधसक्तिमुक्तत्वात् सप्तकृत्वो दानस्यासक्तत्वमुक्तम्।

न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च शीलं।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्॥३१॥

न च सक्ता न च सक्ता न च सक्ता सक्तिका न क्षान्तिः।
न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम्॥३२॥

न च सक्तं न च सक्तं न च सक्तं सक्तमेव च न वीर्यं।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्॥३३॥

न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च ध्यानं।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्॥३४॥

न च सक्ता न च सक्ता न च सक्ता सक्तिका न च प्रज्ञा।
न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम्॥३५॥

यथा दानासक्तिरूक्ता एवं शीले यावत्प्रज्ञायां वेदितव्या। अत्र तु विशेषभोगसक्तिपरिवर्तेन दौःशील्याद्यासाक्तिर्वेदितव्या विपक्षसक्तिस्तद्विपक्षानुशया समुद्धातनात्। विकल्पविक्षेपश्च यथायोगं त्रिमण्डलपरिकल्पनात्। गुणविभागे त्रयोविंशतिः श्लोकाः।

त्यक्तं बुद्धसुतैः स्वजीवितमपि प्राप्यार्थिनं सर्वदा।
कारुण्यात्परतो न च प्रतिकृतिर्नेष्टं फलं प्रार्थितं।
दानेनैव च तेन सर्वजनता बोधित्रये रोपिता।
दानं ज्ञानपरिग्रहेण च पुनर्लोके ऽज्ञयं स्थापितम्॥३६॥

इति सुबोधः पदार्थः।
आत्तं बुद्धसुतैर्यमोद्यममयं शीलत्रयं सर्वदा
स्वर्गो नाभिमतः समेत्य च पुनः सक्तिर्न तत्राहिता।
शीलेनैव च तेन सर्वजनता बोधित्रये रोपिता।
शीलं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम्॥३७॥

त्रिविधं शीलं। संघरशीलं। कुशलधर्मसंग्राहकशीलं। सत्त्वार्थक्रियाशीलं च। एकात्मकम्[एषामेकं] यमस्वभावं। द्वे उद्यमस्वभावे।

क्षान्तं बुद्धसुतैः सुदुष्करमथो सर्वापकारं नृणां
न स्वर्गार्थमस[श]क्तितो न च भयान्नैवोपकारेक्षणात्।
क्षान्त्यानुत्तरया च सर्वतनजा बोधित्रये रोपिता।
क्षान्तिर्ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षया स्थापिता॥३८॥

इति। ज्ञान्त्यानुत्तरया चेति दुःखाधिवासनक्षान्त्या च परापकारमर्षणक्षान्त्या च यथाक्रमम्।

वीर्यं बुद्धसुतैः कृतं निरूपमं संनाहयोगात्मकं
हन्तुं क्लेशगणं स्वतो ऽपि परत प्राप्तं च बोधिं परां।
वीर्येणैव च तेन सर्वजनता बोधित्रये रोपिता।
वीर्यं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम्॥३९॥

इति। संनाहवीर्यं प्रयोगवीर्यं च।
ध्यानं बुद्धसुतैः समाधिबहुलं संपादितं सर्वथा
श्रेष्ठैर्ध्यानसुखैर्विहृत्य कृपया हीनापपत्तिः श्रिता।
ध्यानेनैव च तेन सर्वजनता बोधित्रये रोपिता।
ध्यानं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम्॥४०॥

इति। समाधिबहुलमिति अनन्तबोधिसत्त्वसमाधिसंगृहीतम्।
ज्ञातं बुद्धसुतैः सतत्त्वमखिलं ज्ञेयं च यत्सर्वथा
सक्तिर्नैव च निर्वृत्तौ प्रजनिता बुद्धैः[द्धेः] कुतः संवृत्तौ।
ज्ञानेनैव च तेन सर्वजनता बोधित्रये रोपिता।
ज्ञानं सत्त्वपरिग्रहेण पुनर्लोके ऽक्षयं स्थापितम्॥४१॥

इति। सतत्त्वं पर्मार्थसंगृहीतं सामान्यलक्षणं पुद्‍गलधर्म नैरात्म्यं। ज्ञेयं च यत्सर्वथेत्यनन्तस्वसंकेतादिलक्षणभेदभिन्नं यदज्ञे[यज्ज्ञे] (यदपरंज्ञेयं)। दानादीनां निर्विकल्पज्ञानपरिग्रहेणाक्षयत्वं निरुपधिशेषनिर्वाणे ऽपि तदक्षयात्। ज्ञानस्य पुनः सत्त्वपरिग्रहेण करुणया सत्त्वानामपरित्यागात्। एषां पुनः षणां श्लोकानां पिण्डार्थः सप्तमेन श्लोकेन निर्दिष्टः।

औदार्यानामिषत्वं च महार्थाक्षयतापि च।
दानादीनां समस्तं हि ज्ञेयं गुणचतुष्टयम्॥४२॥

इति। तत्रदानादीनां प्रथमेन पादेनोदारता परिदीपिता। द्वितीयेन निरामिपता। तृतीयेन महार्थता महतः सत्त्वार्थस्य संपादनात्। चतुर्थेनाक्षयता इत्येषां गुणचतुष्टयमेभिः श्लोकैर्वेदितव्यम्।

दर्शनपूरणतुष्टिं याचनके ऽतुष्टिमपि समाशास्तिं।
अभिभवति स तां दाता कृपालुराधिक्ययोगेन॥४३॥

याचनके हि जने दायकदर्शनात्ततश्च यथेप्सितं लब्ध्वा मनोरथपरिपूरणाद्या तुष्टिरूत्पद्यते। अतुष्टिश्चादर्शनादपरिपूरणाच्च। आशास्तिश्च या तद्दर्शने मनोरथपरिपूरणे च। सा बोधिसत्त्वस्याधिकोत्पद्यते सर्वकालं याचनकदर्शनात्तन्मनोरथपरिपूरणाच्च। अदर्शनादपरिपूरणाच्चातुष्टिः। अतो दाता कृपालुस्तां सर्वमभिभवत्याधिक्ययोगात्।

प्राणान्भोगान्दारान्सत्त्वेषु सदान्य[त्य]जनकृपालुत्वात्।
आमोदते निकामं तद्विरतिं पालयेन्न कथम्॥४४॥

तेभ्यो विरतिं तद्विरतिं परकीयेभ्यः प्राणभोगदारेभ्यः। एतेन त्रिविधात्कायदुश्चरिताद्विरतिशीलगुणं दर्शयति।

निरपेक्षः समचित्तो निर्भीः सर्वप्रदः कृपाहेतोः।
मिथ्यावादं ब्रूयात्परोपघाताय कथमार्यः॥४५॥

एतेन मृषावादाद्विरतिगुणं दर्शयति। आत्महेतोर्मृषावाद उच्येत कायजीवितापेक्षया। परहेतोर्वा प्रियजनप्रेम्ना। भयेन वा राजादिभयात्। आमिषकिंचित्कहेतोर्वा लाभार्थं। बोधिसत्त्वश्च स्वकायजीवितनिरपेक्षः। समचित्तश्च सर्वसत्त्वेष्वात्मसमचित्ततया। निर्भयश्च पञ्चभयसमतिक्रान्तत्वात्। सर्वप्रदश्चार्थिभ्यः सर्वसत्त्वपरित्यागात्। स केन हेतुना मृषावादं ब्रूयात्।

संमहितकामः सकृपः परदुःखोत्पादने ऽतिभीरुश्च।
सत्त्वविनये सुयुक्तः सुविदूरे त्रिविधवाग्दोषात्॥४६॥

बोधिसत्त्वः सर्वसत्त्वेषु समं हितकामः स कथं परेषां मित्रभेदार्थं पैशुन्यं करिष्यतीति। सुकृपश्च परदुःखापनयाभिप्रायात्। परदुःखोत्पादने चात्यर्थं भीरूः स कथं परेषां दुःखोत्पादनार्थं परूषं वक्ष्यति। सत्त्वानां विनये सम्यक्‌प्रयुक्तः स कथं संभिन्नप्रलापं करिष्यति तस्मादसौ सूविदूरे त्रिविधवाग्दोषात् पैशुन्यात्पारूष्यात्संभिन्नप्रलापाच्च।

सर्वप्रदः कृपालुः प्रतीत्यधर्मोदये सुकुशलश्च।
अधिवासयेत्कथमसौ सर्वाकारं मनः क्लेशम्॥४७॥

अभिध्या व्यापादो मिथ्यादृष्टिर्वा यथाक्रमं। एष दौःशील्यप्रतिपक्षधर्मविशेषयोगाच्छीलविशुद्धिगू[गु?]णो बोधिसत्त्वानां वेदितव्यः।

उपकरसंज्ञामोदं ह्यपकारिणिपरहित संज्ञां[परहिते सदा] दुःखे।
लभते यदा कृपालुः क्षमितव्यं................ [किं कुतस्तस्य]॥४८॥

[अपकारिणि हि क्षमितव्यं भवति। तत्र च बोधिसत्त्व अपकारिसज्ञां लभते क्षान्तिसंभारनिमित्तत्वात् दुःखञ्च क्षमितव्यं भवति। तत्र च परहितहेतुभूते दुःखे बोधिसत्त्वः सदा मोदं लभते तस्य कुतः किं क्षमितव्यं]। यस्य नापकारिसंज्ञा प्रवर्तते न दुःखसंज्ञा।

परपरसंज्ञापगमात्स्वतो ऽधिकतरात्सदा परस्नेहात्।
दुष्करचरणात्सकृपे ह्यदुष्करं वीर्यं॥४९॥

सकृपो बोधिसत्त्वः। तत्र सकृपे यत्परार्थं दुष्करचरणाद्वीर्यं तद्‍दुष्करं च सुदुष्करं च कथमदुष्करं। परत्र परसंज्ञापगमात्। स्वतोऽधिकतराच्च सर्वदा परेषु स्नेहात्। कथं सुदुष्करं। यदेवं परसंज्ञापगतं च स्वतोधिकतरस्नेहं च तद्वीर्यम्।

अल्पसुखं ह्यात्मसुखं लीनं परिहाणिकं क्षयि समोहं।
ध्यानं मतं त्रयाणां विपर्ययाद्बोधिसत्त्वानाम्॥५०॥

अल्पसुखं ध्यानं लौकिकानामात्मसुखं श्रावकप्रत्येकबुद्धानां। लीनं लौकिकानां सत्काये श्रावकप्रत्येकबुद्धानां च निर्वाणे। परिहाणिकं लौकिकानां क्षयि श्रावकप्रत्येकबुद्धानां निरूपधिशेषनिर्वाणे तत्क्षयात्। समोहं सर्वेषां यथायोगक्लिष्टाक्लिष्टेन मोहेन। बोधिसत्त्वानां पुनर्ध्यान बहुसुखमात्मपरसुखमलीनमपरिहाणिकमक्षय्यसमोहं च।

आमोषैस्तमसि यथा दीपैर्नुन्नं[श्छन्ने] तथा त्रयज्ञानं।
दिनकरकिरणौरिव तु ज्ञानमतुल्यं कृपालुनाम्॥५१॥

यथा हस्तामोषैस्तमसि ज्ञानं परीत्तविषयमप्रत्यक्षमव्यक्तं च तथा पृथग्जनानां। यथावचरके[गहवरके] दीपैर्ज्ञानं प्रादेशिकं प्रत्यक्षं नातिनिर्मलं तथा श्रावकाणां प्रत्येकबुद्धानां च। यथा दिनकरकिरणैर्ज्ञानं समन्तात्प्रत्यक्षं सुनिर्मलं च तथा बोधिसत्त्वानां। अत एव तदतुल्यम्।

आश्रयाद्वस्तुतो दानं निमित्तात्परिणामनात्।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम्॥५२॥

तत्राश्रयो बोधिसत्त्वः। वस्तु आमिषदानस्याध्यात्मिकं वस्तु परमम्। अभयदानस्थापायसंसारभीतेभ्यस्तु तदभयं। धर्मदानस्य महायानं। निमित्तं करुणा। परिणामना तेन महाबोधिफलप्रार्थना। हेतुः पूर्वदानपारमिताभ्यासवासना। ज्ञानं निर्विकल्पं येन त्रिमण्डलपरिशुद्धं दानं ददाति दातृदेयप्रतिग्राहक्राविकल्पनात्। क्षेत्रं पञ्चविधम्। अर्थी दुःखितो निःप्रतिसरणो दुश्चरितचारी गुणवांश्च। चतुर्णामुत्तरं क्षेत्रं परं। तदभावे पञ्चमं। निश्रयस्त्रिविधो यं निश्रित्य ददाति। अधिमुक्तिर्मनसिकारः समाधिश्च। अधिमुक्तिर्यथा भावनाविभागे ऽधिमुक्तिमनस्कार उक्तः। मनस्कारो यथा तत्रैवास्वादनाभिनन्दन[नौमोदनाभि] मनस्कार उक्तः। समाधिर्गगनगञ्जादिर्यथा तत्रैव विभुत्वमुक्तं। एवमाश्रयादिपरसमयो दानं परमं। सोऽयं चापदेशो वेदितव्यः। यश्च ददाति यच्च येन च यस्मै च यतश्च यस्य च परिग्रहेण यत्र च यावत्प्रकारं तद्दानम्।

आश्रयाद्वस्तुतः शीलं निमित्तात्परिणामनात्।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम्॥५३॥

[आश्रयाद्वस्तुतः क्षान्तिनिमित्तात्परिणामनात्।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता॥
आश्रयाद्वस्तुतो वीर्यं निमित्तात्परिणामनात्।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम्॥५४॥

आश्रयाद्वस्तुतो ध्यानं निमित्तात्परिणामनात्।
हेतुतो ज्ञानतः क्षेत्रानिश्रयाच्च परं मतम्॥५५॥

आश्रयाद्वस्तुतः प्रज्ञा निमित्तात्परिणामनात्।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता॥५६॥

शीलस्य परमं वस्तु बोधिसत्त्वसंवरः। क्षान्तेः प्राणापहारिणौ हीनदुर्बलौ। वीर्यस्य पारमिताभावना तद्विपक्षप्रहाणं च। ध्यानस्य बोधिसत्त्वसमाधयः। प्रज्ञायास्तथता। सर्वेषां शीलादीनां क्षेत्रं महायानं। शेषं पूर्वबद्धेदितव्यम्।

एकसत्त्वसुखं दानं बहुकल्पविघातकृत।
प्रियं स्यद्बोधिसत्त्वानां प्रागेव तद्विपर्ययात्॥५७॥

यदि बोधिसत्त्वानां दानमेकस्यैव सत्त्वस्य सुखदं स्यादात्मनश्च बहुकल्पविघातकृत। तथापि तत्तेषां प्रियं स्यात्करुणाविशेषात्किं पुनर्यदनेकसत्त्वसुखं च भवत्यात्मनश्च बहुकल्पानुग्रहकृत्।

यदर्थमिच्छन्ति धनानि देहिनस्तदेव धीरा विसृजन्ति देहिषु।
शरीरहेतोर्धनमिष्यते जनैस्तदेव धीरः शतशो विसृज्यते॥५८॥

अत्र पूर्वार्धमुत्तरार्धे व्याख्यातम्।
शीरमेवोत्सृजतो न दुःख्यते यदा मनः का द्रविणे ऽवरे कथा।
तदस्य लोकोत्तरमिति यन्मुदं स तेन तत्तस्य तदुत्तरं पुनः॥५९॥

अत्र शरीरमेवोत्सृजतो यदा मनो न दुःख्यते तदस्य लोकोत्तरमिति संदर्शितं। एति यन्मुदं स तेन दुःखेन तत्तस्य तदुत्तरमिति तस्माल्लोकोत्तरादुत्तरम्।

प्रतिग्रहैरिष्टनिकामलब्धैर्न तुष्टिमायाति तथार्थिको ऽपि।
सर्वास्तिदानेन यथेह धीमान् तुष्टिं व्रजत्यर्थिजनस्य तुष्ट्या॥६०॥

इष्टनिकामलब्धैरित्यभिप्रेतपर्याप्तलब्धैः। सर्वास्तिदानेनेति यावत्स्वजीवितदानेन।
संपूर्णभोगो न तथास्तिमन्तमात्मानमन्वीक्षति याचको ऽपि।
सर्वास्तिदानादधनो ऽपि धीमानात्मानमन्वेति यथास्तिमन्तं॥६१॥

सुविपुलमपि वित्तं प्राप्य नैवोपकारं
विगणयति तथार्थी दायकाल्लाभहेतोः।
विधिवदिह सुदानैरर्थिनस्तर्पयित्वा
महदुपकरसंज्ञा तेषु धीमान्यथैति॥६२॥

करुणाविशेषाद्। गतार्थौ श्लोकौ।
स्वयमपगतशोका देहिनः स्वस्थरूपा
विपुलमपि गृहीत्वा भुञ्जते यस्य वित्तं।
पथि परमफलाढ्याद्भोगवृक्षाद्यथैव
प्रविसृतिरतिभोगी बोधिसत्त्वान्न सो ऽन्यः॥६३॥

प्रविसृतिरतिभोगश्चास्येति प्रविसृतिरतिभोगी स च नान्यो बोधिसत्त्वाद्वेदितव्यः। शेषं गतार्थम्।

प्राधान्यतत्कारणकर्मभेदात् प्रकारभेदाश्रयभेदतश्च।
चतुर्विबन्धप्रतिपक्षभेदात् वीर्यं परिज्ञेयमिति प्रदिष्टम्॥६४॥

षड्‍विधेन प्रभेदेन वीर्यं परिज्ञेयं। प्राधान्यभेदेन। तत्कारणभेदेन। [कर्मभेदेन] प्रकारभेदेन। आश्रयभेदेन। चतुर्विबन्धप्रतिपक्षभेदेन च। अस्योद्देशस्योत्तरैः। श्लोकैर्निर्देशः।

वीर्यं परं शुक्लगणस्य मध्ये तन्निश्रितस्तस्य यतो ऽनुलाभः।
वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिः॥६५॥

वीर्यं परं शुक्लगणस्य मध्ये इति सर्वकुशलधर्मप्राधान्यं वीर्यस्य निर्दिष्टं। तन्निश्रितस्तस्य यतो ऽनुलाभ इति प्राधान्यकारणं निर्दिष्टं। यस्माद्वीर्याश्रितः सर्वकुशलधर्मलाभः। वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिरिति कर्म निर्दिष्टं वीर्येण हि दृष्टधर्मे परमः सुखविहारः। सर्वा च लोकोत्तरा सिद्धिर्लौकिकी च क्रियते।

वीर्यादवाप्तं भवभोगमिष्टं वीर्येण शुद्धिं प्रबलामुपेताः।
वीर्येण सत्कायमतीत्य मुक्ता वीर्येण बोधिं परमां विबुद्धाः॥६६॥

इति। पर्यायद्वारेण [पर्यायान्तरेण] वीर्यस्य कर्म निर्दिष्टं। लौकिकलोकोत्तरसिद्धिभेदात्। तत्र प्रबला लौकिकी सिद्धिरनात्यन्तिकत्वात्।

पुनर्मतं हानिविवृद्धिवीर्यं मोक्षाधिपं पक्षविपक्षमन्यत्।
तत्त्वे प्रविष्टं परिवर्तकं च वीर्यं महार्थं च निरुक्तमन्यत॥६७॥

संनाहवीर्यं प्रथमं ततश्च प्रयोगवीर्यं विधिवत्प्रहितं।
अलीनमक्षोभ्यमतुष्टिवीर्यं सर्वप्रकारं प्रवदन्ति बुद्धाः॥६८॥

इत्येष प्रकारभेदः। तत्र हानिविवृद्धिवीर्यं सम्यक्‌प्रहाणेषु [द्वयोरकुशलधर्महानये‍अपि?] च द्वयोः कुशलधर्माभिवृद्धये। मोक्षाधिपं वीर्यमिन्द्रियेषु। मोक्षाधिपत्त्यार्थेन यस्मादिन्द्रियाणि। पक्षविपक्षं बलेषु विपक्षानवमृद्यार्थेन यस्माद्बलानि। तत्त्वे प्रविष्टं बोध्यङ्‍गेषु दर्शनमार्गे तद्व्य१स्थापनात्। परिवर्त्तकं मार्गाङ्गेषु भावनामार्गे ऽन्तस्या[तस्या]श्रयपरिवृत्तिहेतुत्वात्। महार्थं वीर्यं पारमितास्वभावं स्वपरार्थाधिकारात्। संनाहवीर्यं प्रयोगाय संनह्यतः। प्रयोगवीर्यं तथा प्रयोगतः। अलीनवीर्यमुदारे ऽप्यधिगन्तव्ये लयाभावतः। अक्षोभ्यवीर्यं शीतलोष्णादिभिर्दुःखैरविकोपनतः। असंतुष्टिवीर्यमल्पेनाधिगमेनासंतुष्टितः। एभिरेव संनाहवीर्यादिभिः सूत्रे। स्थामवान् वीर्यवानुत्साही दृढपराक्रमो अनिक्षिप्तधुरः कुशलेषु धर्मेष्वित्युच्यते यथाक्रमम्।

निकृष्टमध्योत्तमवीर्यमन्यत् यानत्रये युक्तजनाश्रयेण।
लीनात्युदाराशयबुद्धियोगात् वीर्यं तदल्पार्थमहार्थमिष्टम्॥६९॥

अत्राश्रयप्रभेदेन वीर्यभेदो निर्दिष्टः। यानत्रये प्रयुक्तो यो जनस्तदाश्रयेण यथाक्रमं निकृष्टमध्योत्तमं वीर्यं वेदितव्यं। किं कारणं। लीनात्युदाराशयबुद्धियोगात्। लीनो हि बुद्ध्याशयो यानद्वये प्रयुक्तानां केवलात्मार्थाधिकारात्। अत्युदारो महायाने प्रयुक्तानां परार्थाधिकारात्। अत एव यथाक्रमं वीर्यं तदल्पार्थं महार्थमिव[ष्टम्] स्वार्थाधिकाराच्च [स्वपरार्थाधिकरणत्वाच्च।]

न वीर्यवान्भोगपराजितो ऽस्ति।
नो वीर्यवान् क्लेशपराजितो ऽस्ति।
न वीर्यवान् खेदपराजितो ऽस्ति
नो वीर्यवान् प्राप्तिपराजितो ऽस्ति॥७०॥

इत्ययं चतुर्विबन्धप्रतिपक्षभेदः। चतुर्विधो दानादीनां विबन्धो येन दानादिषु न प्रवर्तते। भोगसक्तिस्तदाग्रहतः। क्लेशसक्तिस्तत्परिभोगाध्यवसानतः। खेदो दानादिषु प्रयोगाभियोगपरिखेदतः। प्राप्तिरल्पमात्रदानादिसंतुष्टितः। तत्प्रतिपक्षभेदे नैतच्चतुर्विधं वीर्यमुक्तम्।

अन्योन्यविनिश्चयविभागे श्लोकः।
अन्योन्यं संग्रहतः प्रभेदतो धर्मतो निमित्ताच्च।
षणां पारमितानां विनिश्चयः सर्वथा ज्ञेयः॥७१॥

अन्योन्यसंग्रहतो विनिश्चयः। अभयप्रदानेन शीलक्षान्तिसंग्रहो यस्मात्ताभ्यामभयं ददाति। धर्मदानेन ध्यानप्रज्ञयोर्यस्मात्ताभ्यां धर्मं ददाति। उभाभ्यां वीर्यस्य यस्मात्तेनोभयं ददाति। कुशलधर्मसंग्राहकेण शीलेन सर्वेषां दानादीनां संग्रहः। एवं क्षान्त्यादिभिरन्योन्यसंग्रहो यथायोगं योज्यः। प्रभेदतो विनिश्चयः। दानं षड्‍विधं दानदानं शीलदानं यावत्प्रज्ञादानं। परसंतानेषु शीलादिनिवेशनात्। धर्मतो विनिश्चयः। ये सूत्रादयो येषु दानादिष्वर्थेषु संदृश्यन्ते। ये च दानादयो येषु सूत्रादिषु धर्मेषु संदृश्यन्ते। तेषां परस्परं संग्रहो वेदितव्यः। निमित्ततो विनिश्चयः। दानं शीलादीनां निमित्तं भवति। भोगनिरपेक्षस्य शीलादिषु प्रवृत्तेः। शीलमपि दानादीनां। भिक्षुसंवरसमादानं सर्वस्वपरिग्रहत्यागाच्छीलप्रतिष्ठितस्य च क्षान्त्यादियोगात्। कुशलधर्मसंग्राहकशीलसमादानं च सर्वेषां दानादीनां निमित्तं। एवं क्षान्त्यादीनामन्योन्यनिमित्तभावो यथा योज्यः [योगं] संग्रहवस्तुविभागे सप्त श्लोकाः। चत्वारि संग्रहवस्तूनि। दानं प्रियवादिता अर्थचर्या समानार्थता। तत्र।

दानं समं प्रियाख्यानमर्थचर्या समार्थता।
तद्देशना समादाय स्वानुवृत्तिभिरिष्यते॥७२॥

दानं सममिष्यते यथा पारमितासु प्रियाख्यानं तद्देशना। अर्थचर्या तत्समादापना तच्छब्देन पारमितानां ग्रहणात्पारमितादेशना पारमितासमादापनेत्यर्थः। समानार्थता यत्र परं समादापयति तत्र स्वयमनुवृत्तिः। किमर्थं पुनरेतानि चत्वारि संग्रहवस्तूनीष्यन्ते। एष हि परेषां।

उपायो ऽनुग्रहकरो ग्राहको ऽथ प्रवर्तकः।
तथानुवर्तको ज्ञेयश्चतुःसंग्रहवस्तुतः॥७३॥

दानमनुग्राहक उपायः। आमिषदानेन कायिकानुग्रहोत्पादनात् प्रियवादिता ग्राहकः। अव्युत्पन्नसंदिग्धार्थग्राहणात्। अर्थचर्या प्रवर्तकः। कुशले प्रवर्तनात्। समानार्थता ऽनुवर्तकः। यथावादितथाकारिणं हि समादापकं विदित्वा यत्र कुशले तेन प्रवर्तिताः परे भवन्ति तदनुवर्तन्ते।

आद्येन भाजनीभावो द्वितीयेनाधिमुच्यना।
प्रतिपत्तिस्तृतीयेन चतुर्थेन विशोधना॥७४॥

आमिषदानेन भाजनीभवति धर्मस्य विधेयतापत्तेः। प्रियवादितया तं धर्ममधिमुच्यते तदर्थव्युत्पादनसंशयच्छेदनतः। अर्थचर्यया प्रतिपद्यते यथाधर्मं। समानार्थतया तां प्रतिपत्तिं विशोधयति दीर्घकालानुष्ठानाद्। इदं संग्रहवस्तूनां कर्म।

चतुः संग्रहवस्तुत्वं संग्रहद्वयतो मतं।
आमिषेणापि धर्मेण धर्मेणालम्बनादपि[दिना]॥७५॥

यदप्यन्यत्संग्रहवस्तुद्वयमुक्तं भगवता आमिषसंग्रहो धर्मसंग्रहश्च। ताभ्यामेतान्येव चत्वारि संग्रहवस्तूनि संगृहीतानि।

आभिषसंग्रहेण प्रथमे। धर्मसंग्रहेणावशिष्टानि। तानि पुनस्त्रिविधेन धर्मेण। आलम्बनधर्मेण प्रतिपत्तिधर्मेण तद्विशुद्धिधर्मेण च यथाक्रमम्।

हीनमध्योत्तमः प्रायो वन्ध्यो ऽवन्ध्यश्च संग्रहः।
अबन्ध्यः सर्वथा चैव ज्ञेयो ह्याकारभेदतः॥७६॥

एष संग्रहस्य प्रकारभेदः। तत्र हीनमध्योत्तमः संग्रहो बोधिसत्त्वानां यानत्रयप्रयुक्तेषु वेदितव्यो यथाक्रमं। प्रायेण वन्ध्यो ऽधिमुक्तिचर्याभूमौ। प्रायेणाबन्ध्यो भूमिप्रविष्टानाम्। अवन्ध्यः सर्वथा अष्टाम्यादिषु भूमिषु सत्त्वार्थस्यावश्यं संपादनात्।

पर्षत्कर्षणप्रयुक्तैर्विधिरेष समाश्रितः।
सर्वार्थसिद्धौ सर्वेषां सुखोपायश्च शस्यते॥७७॥

ये केचित्पर्षत्कर्षणे प्रयुक्ताः सर्वैस्तैरयमेवोपायः समाश्रितो यदुत चत्वारि संग्रहवस्तूनि। तथा हि सर्वार्थसिद्धये सर्वेषां सुखश्चैष उपायः प्रशस्यते बुद्धैः।

संगृहीता ग्रहीष्यन्ते संगृह्यन्ते च ये ऽधुना।
सर्वे त एवं तस्माच्च वर्त्म तत्सत्त्वपाचने॥७८॥

एतेन लोकत्रये ऽपि सर्वसत्त्वानां परिपाचने चतुर्णां संग्रहवस्तूनामेकायनमार्गत्वं दर्शयति। अन्यमार्गाभावात्।

इति सततमसक्तभोगबुद्धिः शमयमनोद्यमपारगः स्थितात्मा।
भवविषयनिमित्तनिर्विकल्पो भवति स सत्त्वगणस्य संगृहीता॥७९॥

एतेन यथोक्तासु षट्सु पारमितासु स्थितस्य बोधिसत्त्वस्य संग्रहवस्तुप्रयोगं दर्शयति स्वपरार्थसंपादनात् पारमिताभिः संग्रहवस्तुभिश्च यथाक्रमम्।

॥ महायानसूत्रालंकारे पारमिताधिकारः [षोडशः] समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project