Digital Sanskrit Buddhist Canon

पञ्चदशोऽधिकारः

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pañcadaśo'dhikāraḥ
पञ्चदशोऽधिकारः

उद्दानम्
अधिमुक्तेर्बहुलता धर्मपर्येष्टिदेशने
प्रतिपत्तिस्तथा सम्यगववादानुशासनं॥१॥

उपायसहितकर्मविभागे चत्वारः श्लोकाः।

यथा प्रतिष्ठा वनदेहिपर्वतप्रवाहिनीनां पृथिवी समन्ततः।
तथैव दानादिशुभस्य सर्वतो बुधेषु कर्म त्रिविधं निरुच्यते॥२॥

अनेन श्लोकेन समुत्थानोपायं दर्शयति। सर्वप्रकारस्य दानादिशुभस्य पारमिताबोधिपक्षादिकस्य कर्मत्रयसमुत्थितत्वात्। बुधेष्विति बोधिसत्त्वेषु। वनादिग्रहणमुपभोज्या स्थिरस्थिरवस्तुनिदर्शनार्थम्।

सुदुष्करैः कर्मभिरुद्यतात्मनां विचित्ररूपैर्बहुकल्पनिर्गतैः।
न कायवाक्‌‍चित्तमयस्य कर्मणो जिनात्मजानां भवतीह संनतिः॥३॥

यथा विषाच्छस्रमहाशनाद्[ने] रिपोर्निवारयेदात्महितः स्वमाश्रयं।
निहीनयानाद्विविधाज्जिनात्मजो निवारयेत्कर्म तथा त्रयात्मकं॥४॥

आभ्यां श्लोकाभ्यां व्युत्थानोपायं दर्शयति। महायानखेदान्ययानपातव्युत्थानाद्यथाक्रमं। संनतिः खेद इत्यर्थः। विषादिसाधर्म्यं हीनयानप्रतिसंयुक्तस्य कर्मणो हीनयानचित्तपरिणामनात् महायाने कुशलमूलसमुच्छेदनात् अनुत्पन्नकुशलमूलानुत्पादाय। उत्पन्न कुशलमूल[स?]स्य ध्वंसनात्। बुद्धत्वसंपत्प्राप्तिविबन्धनाच्च।

न कर्मिणः कर्म न कर्मणः क्रियां सदाविकल्पः समुदीक्षते त्रिधा।
ततो ऽस्य तत्कर्म विशुद्धिपारगं भवत्यनन्तं तदुपायसंग्रहात्॥५॥

अनेन श्लोकेन चतुर्थेन विशुद्‍ध्युपायं कर्मणो दर्शयति। मण्डलपरिशुद्धितः कर्तृकर्मक्रियाणामनुपलम्भात्। अनन्तमित्यक्षयम्।

॥ महायानसुत्रालंकार उपायसहितकर्माधिकारः पञ्चदशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project