Digital Sanskrit Buddhist Canon

चतुर्दशोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Caturdaśo'dhikāraḥ

चतुर्दशोऽधिकारः

अववादानुशासनीविभागे श्लोका एकपञ्चाशत्।
कल्पासंख्येयनिर्यातो ह्यधिमुक्तिं विवर्धयन्।
संपूर्णः कुशलैर्धर्मैः सागरो वारिभिर्यथा॥१॥

अधिमुक्तिं विवर्धयन्नित्यधिमात्रावस्थानयनात्। शेषं गतार्थम्।
तथा संभृतसंभारो ह्यादिशुद्धो जिनात्मजः।
सुविज्ञः कल्प[ल्य]चित्तश्च भावनायां प्रयुज्यते॥२॥

आदिशुद्धो बोधिसत्त्वसंवरपरिशोधनान्महायाने दृष्टिऋज्जु[जु]करणाच्चाविपरीतार्थग्रहणतः। सुविज्ञो बहुश्रुतत्वात्। कल्प[ल्य]चित्तो विनिवरणत्वात्।

धर्मस्त्रोतसि बुद्धेभ्यो ऽववादं लभते तदा।
विपुलं शमथज्ञानवैपुल्यगमनाय हि॥३॥

श्लोको गतार्थः।
ततः सूत्रादिके धर्मे सोऽद्वयार्थविभावके।
सूत्रादिनाम्नि बन्धीयाच्चित्तं प्रथमतो यतिः॥४॥

ततः पदप्रभेदेषु विचरेदनुपूर्वशः।
विचारयेत्तदर्थांश्च प्रत्यात्मयोनिशश्च सः॥५॥

अवधृत्य च तानर्थान्धर्मे संकलयेत्पुनः
ततः कुर्यात्समाशास्तिं तदर्थाधिगमाय सः॥६॥

सूत्रगेयादिके धर्मे यत्सूत्रादिनाम दशभूमिकमित्येवमादि तत्र चित्तं प्रथमतो बध्नीयात्। एभिस्त्रिभिः श्लोकैः षट् चित्तान्युपदिष्टानि। मूलचित्तमनुचरचित्तं विचारणाचित्तमवधारणाचित्तं संकलनचित्तमाशास्तिचित्तं च। तत्र मूलचित्तं यत्सूत्रादीनां धर्माणां नामालम्बनं। अववादं श्रुत्वा स्वयं वा कल्पयित्वा। तद्यथा ऽनित्यं दुःखं शून्यमनात्म्यं य योनिशो न चेत्यादि। अनुचरचित्तं येन सूत्रादीनां नामत आलम्बितानां पदप्रभेदमनुगच्छति। विचारणाचित्तं येनार्थं व्यञ्जनं च विचारयति। तत्रार्थं चतुर्भिराकारैर्विचारयति गणनया तुलनया मीमांसया प्रत्यवेक्षणया च। तत्र गणना संग्रहणं तद्यथा रूपं दशायतनान्येकस्य च प्रदेशो वेदना षड् वेदनाकाया इत्येवमादि। तुलना संख्यावतो धर्मस्य शमलक्ष[ण?]ग्रहणमनाध्यारोपानपवादतः। मीमांसा प्रमाणपरीक्ष। प्रत्यवेक्षणागणिततुलितमीमांसितस्यार्थस्यावलोकनं। व्यञ्जनं द्वाभ्यामाकाराभ्यां विचारयति। सार्थतथा[या] च समस्तानां व्यञ्जनानां निरर्थतया च व्यस्तानां। अवधारणाचित्तं येन यथानुचरितं विचारितं वा तन्निमित्तमवधारयति। संकलनचित्तं तद्यथा विचारितमर्थं मूलचित्ते संक्षिप्यपरिपिण्डिताकारं वर्तते। आशास्तिचित्तं यदर्थं प्रयुक्तो भवति समा[ध्यर्थं वा?] तत्परिपूर्यर्थं वा श्रामण्यफलार्थं वा भूमिप्रवेशार्थं वा विशेषगमनार्थं वा तच्छन्दसहगतं वर्तते। चित्तमेव ह्यालम्बनप्रतिभासं वर्तते न चित्तादन्यदालम्बनमस्तीति जानतो वा चित्तमात्रमजानतो वा चित्तमेवालम्बनं नान्यत्। इति षड्‍विधं चित्तमालम्बनं व्यवस्थाप्यते।

एषेत प्रत्यवेक्षेत मनोजल्पैः प्रबन्धतः।
निर्जल्पैकरसैश्चापि मनस्कारैर्विचारयेत्॥७॥

ज्ञेयः शमथमार्गो ऽस्य धर्मनाम च पिण्डितं।
ज्ञेयो विपश्यनामार्गस्तदर्थानां विचारणा॥८॥

युगनद्धश्च विज्ञेयो मार्गस्तत्पिण्डितं पुनः।
लीनं चित्तस्य गृह्णीयादुद्धतं शमयेत्पुनः॥९॥

श[स]मप्राप्तमुपेक्षेत तस्मिन्नालम्बने पुनः
सातत्येनाथ सत्कृत्य सर्वस्मिन्योजयेत्पुनः॥१०॥

एभिश्चतुर्भिः श्लोकैरेकादश मनस्कारा उपदिष्टाः। सवितर्कः सविचारः। अवितर्को विचारमात्रः। अवितर्को ऽविचारः। शमथमनस्कारः। विपश्यना मनस्कारः। युगनद्धमनस्कारः। [प्रग्रहनिमित्तमनस्कारः] शमथनिमित्तमनस्कारः। उपेक्षानिमित्त मनस्कारः। सातत्यमनस्कारः। सत्कृत्यमनस्कारश्च।

निबध्यालम्बने चित्तं तत्प्रवेधं[वाहं] न विक्षिपेत्।
अवगम्याशु विक्षेपं तस्मिन् प्रतिहरेत्पुनः॥११॥

प्रत्यात्मं संक्षिपेच्चित्तमुपर्युपरि बुद्धिमान्।
ततश्चर [द]मयेच्चित्तं समाधौ गुणदर्शनात्॥१२॥

अरतिं शमयेत्तस्मिन्विक्षेपदोषदर्शनात्।
अभिध्यादौर्मनस्यादीन्व्युत्थितान् शमयेत्तथा॥१३॥

ततश्च साभिसंस्कारां चित्ते स्वरसवाहितां।
लभेतानभिसंस्कारान् [रां] तद्‍भ्यासात्पुनर्यतिः॥१४॥

एभिश्चतुर्भिः श्लोकैर्नवाकारया चित्तस्थित्या स्थित्युपाय उपदिष्टः। चित्तं स्थापयति संस्थापयति अवस्थापयति उपस्थापयति दमयति शमयति व्युपशमयत्येकोतीकरोति चित्तं समादघातीति नवाकाराः।

ततः स तनुकां लब्ध्वा प्रश्रब्धिं कायचेतसोः।
विज्ञेयः समनस्कारः पुनस्तान्[स्तां]स विवर्धयन्॥१५॥

वृद्धिदूरंगमत्वेन मौलीं स लभते स्थितिं।
तां शोधयन्नभिज्ञार्थमेति कर्मण्यतां परां॥१६॥

ध्याने ऽभिज्ञाभिनिर्हाराल्लोकधातून्स गच्छति।
पूजार्थमप्रमेयाणां बुद्धानां श्रवणाय च॥१७॥

अप्रमेयानुपास्यासौ बुद्धान्कल्पैरमेयगैः।
कर्मण्यतां परामेति चेतसस्तदुपासनात्॥१८॥

इति कर्मण्यतां परां ध्याने इति संबन्धनीयं। कल्पैरमेयगैरित्यप्रमेयसंख्यागतैः। शेषमेषां श्लोकानां गतार्थं।

ततो ऽनुशंसान लभते पञ्च शुद्धैः स पूर्वगान्।
विशुद्धिभाजनत्वं च ततो याति निरुत्तरं॥१९॥

कृत्स्नादौस्वल्प[दौष्ठुल्य]कायो हि द्रवते ऽस्य प्रतिक्षणं।
आपूर्यते च प्रश्रब्ध्या कायचित्तं समन्ततः॥२०॥

अपरिच्छिन्नमाभासं धर्माणां वेत्ति सर्वतः।
अकल्पितानि संशुद्धौ निमित्तानि प्रपश्यति॥२१॥

प्रपूरौ च विशुद्धौ च धर्मकायस्य सर्वथा।
करोति सततं धीमानेवं हेतुपरिग्रहं॥२२॥

ततः शुद्धेः पूर्वंगमान्पञ्चानुशंसान् लभते। शुद्धेरिति शुद्ध्याशयभूमेः। तेषां च लाभाद्विशुद्धिभाजनत्वं प्राप्नोति। निरूत्तरं यानानन्तर्यात्[नुत्तर्यात्]। प्रपूरौ च विशुद्धौ च धर्मकायस्येति दशम्यां भूमौ परिपूरिर्बुद्धभूमौ विशुद्धिः। एतेषां पञ्चानामनुशंसानां त्रयः शमथपक्षा द्वौ विपश्यनापक्षौ वेदितव्यौ। अतो यावल्लौकिकः समुदागमः।

ततश्चासौ तथाभूतो बोधिसत्त्वः समाहितः।
मनोजल्पाद्विनिर्मुक्तान् सर्वार्थान्न प्रपश्यति॥२३॥

धर्म[र्मा]लोकस्य वृध्द्यर्थ वीर्यमारभते दृढं।
धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते॥२४॥

सर्वार्थप्रतिभासत्वं ततश्चित्ते प्रपश्यति।
प्रहीनो ग्राह्यनि[वि]क्षेपस्तदा तस्य भवत्यसौ॥२५॥

ततो ग्राहकविक्षेपः केवलो ऽस्यावशिष्यते।
आनन्तर्यसमाधिं च स्पृशत्याशु तदा पुनः॥२६॥

अत ऊर्ध्वं निर्वेधभागीयानि। तथाभूतो बोधिसत्त्वः समाहितचित्तो मनोजल्पाद्विनिर्मुक्तान् सर्वधर्मान्न पश्यति स्वलक्षणसामान्यलक्षणाख्यान्मनोजल्पमात्रमेव ख्याति। सास्योष्मगतावस्था। अयं स आलोको यमधिकृत्योक्तं क्षारनद्याम्। आलोक इति धर्मनिध्यानक्षान्तेरेतदधिवचनमिति। स तस्यैव धर्मालोकस्य विवृध्द्यर्थमास्थितक्रियया दृढं वीर्यमारभते। सास्य मूर्धावस्था। धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते। चित्तमेतदिति प्रतिवेधात्। ततश्चित्त एव सर्वार्थप्रतिभासत्वं पश्यति। न चित्तादन्यमर्थं। तदा चास्य ग्राह्यविक्षेपः प्रहीनो भवति। ग्राहकविक्षेपः केवलो ऽवशिष्यते। सास्य क्षान्त्यवस्था। तदा च क्षिप्रमानन्तर्यसमाधिं स्पृशति। सास्य लौकिकाग्रधर्मावस्था। केन कारणेन स आनन्तर्य उच्यते।

यतो ग्राहकविक्षेपो हीयते तदनन्तरं।
ज्ञेयान्युष्मगतादीनि एतानि हि यथाक्रमं॥२७॥

इत्येतान्युष्मगतादीनि निर्वेधभागीयानि।
द्वयग्राहविसंयुक्तं लोकोत्तरमनुत्तरं।
निर्विकल्पं मलापेतं ज्ञानं स लभते पुनः॥२८॥

अतः परेण दर्शनमार्गावस्था। द्वयग्राहविसंयुक्तं ग्राह्यग्राहग्राहकग्राहविसंयोगात्। अनुत्तरं यानानन्तर्येण[नुत्तर्येण]। निर्विकल्पं ग्राह्यग्राहकविकल्पविसंयोगात्। मलापेतं दर्शनज्ञे[हे]यक्लेशप्रहाणात्। एतेन विरजो विगतमलमित्युक्तं भवति।

सास्याश्रयपरावृत्तिः प्रथमा भूमिरिष्यते।
अमेयैश्चास्य सा कल्पैः सुविशुद्धिं निगच्छति॥२९॥

श्लोको गतार्थः।
धर्मधातोश्च समतां प्रतिविध्य पुनस्तदा।
सर्वसत्त्वेषु लभते सदात्मसमचित्ततां॥३०॥

निरात्मतायां दुःखार्थे कृत्ये निःप्रतिकर्मणि।
सत्त्वेषु समचित्तो ऽसौ यथान्ये ऽपि जिनात्मजाः॥३१॥

धर्मनैरात्म्येन च धर्मसमतां प्रतिविध्य सर्वसत्त्वेषु सदा आत्मसमचित्ततां प्रत्तिलभते। पञ्चविधया समतया। नैरात्म्यसमतया दुःखसमतया स्वपरसंतानेषु नैरात्म्यदुःखतयोरविशेषात्। कृत्यसमतया स्वपरदुःखप्रहाणकामतासामान्यात्। निष्प्रतिकारसमतया। आत्मन इव परतः प्रतिकारानभिनन्दनात्। तदन्यबोधिसत्त्वसमतया च यथा तैरभिसमितं तथाभिसमयात्।

त्रैधातुकात्मसंस्कारानभूतपरिकल्पतः।
ज्ञानेन सुविशुद्धेन अद्धयार्थेन पश्यति॥३२॥

स त्रैधातुकात्मसंस्कारानभूतपरिकल्पनामात्रान्पश्यति। सुविशुद्धेन ज्ञानेन लोकोत्तरत्वात्। अद्वयार्थेनेत्यग्राह्यग्राहकार्थेन।

तदभावस्य भावं च विमुक्तं दृष्टिहायिभिः।
लब्ध्वा दर्शनमार्गो हि तदा तेन निरूच्यते॥३३॥

तस्य ग्राह्यग्राहकाभावस्य भावं धर्मधातून्दर्शनप्रहातव्यैः क्लेशैर्विमुक्तं पश्यति।
अभावशून्यतां ज्ञात्वा तथाभावस्य शून्यतां।
प्रकृत्या शून्यतां ज्ञात्वा शून्यज्ञ इति कथ्यते॥३४॥

स च बोधिसत्त्वः शून्यज्ञ इत्युच्यते। त्रिविधशून्यताज्ञानात्। अभावशून्यता परिकल्पितः स्वभावः स्वेन लक्षणेनाभावात्। तथाभावस्य शून्यता परतन्त्रस्य स हि न तथाभावो यथा कल्प्यते स्वेन लक्षणेन भावः। प्रकृतिशून्यता परिनिष्पन्नः स्वभावः शून्यतास्वभावत्वात्।

अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः।
अभूतपरिकल्पश्च तदप्रणिहितस्य हि॥३५॥

अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः। अभूतपरिकल्पस्तदप्रणिधानस्य पदमालम्बनमित्यर्थः।
तेन दर्शनमार्गेण सह लाभः सदा मतः।
सर्वेषां बोधिपक्षाणां विचित्राणां जिनात्मजे॥३६॥

तेन दर्शनमार्गेण सह बोधिसत्त्वस्य सर्वेषां बोधिपक्षाणां धर्माणां लाभो वेदितव्यः स्मृत्युपस्थानादीनां।

संस्कारमात्रं जगदेत्य बुद्ध्या निरात्मकं दुःखिविरूढिमात्रं।
विहाय यानर्थमयात्मदृष्टिः महात्मदृष्टिं श्रयते महार्था॥३७॥

विनात्मदृष्ट्या य इहात्मदृष्टिर्विनापि दुःखेन सुदुःखितश्च।
सर्वार्थकर्ता न च कारकाङ्क्षी यथात्मनः स्वात्महितानि कृत्वा॥३८॥

यो मुक्तचित्तः परया विमुक्त्या बद्धश्च गाढायतबन्धनेन।
दुःखस्य पर्यन्तमपश्यमानः प्रयुज्यते चैव करोति चैव॥३९॥

स्वं दुःखमुद्वोढुमिहासमर्थो लोकः कुतः पिण्डितमन्यदुःखं।
जन्मैकमालोकयते[गतं] त्वचिन्तो विपर्ययात्तस्य तु बोधिसत्त्वः॥४०॥

यत्प्रेम या वत्सलता प्रयोगः सत्त्वेष्वखेदश्च जिनात्मजानां।
आश्चर्यमेतत्परमं भवेषु न चैव सत्त्वात्मसमानभावात्॥४१॥

एभिः पञ्चभिः श्लोकैर्दर्शनमार्गलाभिनो बोधिसत्त्वस्य माहात्म्योद्भावनम्। अनर्थमयात्मदृष्टिर्या क्लिष्टा सत्कायदृष्टिः। महात्मदृष्टिरिति महार्था या सर्वसत्त्वेष्वात्मसमचित्तलाभात्मदृष्टिः। सा हि सर्वसत्त्वार्थक्रिंयाहेतुत्वात् महार्था। विनात्मदृष्ट्या अनर्थमय्यात्मदृष्टिर्महार्था या विनापि दुःखेन स्वसंतानजेन सुदुःखिता सर्वसत्त्वसंतानजेन। यो विमुक्तचित्तो दर्शनप्रहातव्येभ्यः परया विमुक्त्यानुत्तरेण यानेन। बद्धश्च गाढायतबन्धनेन सर्वसत्त्वसांन्तानिकेन दुःखस्य पर्यन्तं न पश्यति स्व[सत्त्व]धातोरनन्तत्वादाकाशवत् प्रयुज्यते च दुःखस्यान्तक्रियायै सत्त्वानां करोति चैव ताम[अर्थं] प्रमेयाणां सत्त्वानां। विपर्ययात्तस्य तु बोधिसत्त्वः स हि संपिण्डितसर्वसत्त्वदुःखं यावल्लोकगतमुद्वोढुं समर्थः। या सत्त्वेषु बोधिसत्त्वस्य प्रियता या च हितसुखैषिता यश्च तदर्थं प्रयोगो यश्चित्त[यश्चतत्]प्रयुक्तस्याखेद एतत्सर्वमाश्चर्यं परमं लोकेषु। न चैवाश्चर्यं सत्त्वानामात्मसमानत्वात्।

ततोऽसौ भावनामार्गे परिशिष्टासु भूमिषु।
ज्ञानस्य द्विविधस्येह भावनायै प्रयुज्यते॥४२॥

निविर्कल्पं च तज्ज्ञानं बुद्धधर्मविशोधकं।
अन्यद्यथाव्यवस्थानं सत्त्वानां परिपाचकं॥४३॥

भावनायाश्च निर्याणं द्वयसंख्येयसमाप्तितः।
पश्चिमां भावनामेत्य बोधिसत्त्वौ ऽभिषिक्तकः॥४४॥

वज्रोपमं समाधानं विकल्पाभेद्यमेत्य च।
निष्ठाश्रयपरावृत्तिं सर्वावरणनिर्मलां॥४५॥

सर्वकारज्ञतां चैव लभते ऽनुत्तरं पदं।
यत्रस्थः सर्वसत्त्वानां हिताय प्रतिपद्यते॥४६॥

एभिर्भावनामार्गः परिदीपितः द्विविधं ज्ञानं। निर्विकल्पं च येनात्मनो बुद्धधर्मान् विशोधयति। यथाव्यवस्थानं च लोकोत्तरपृष्ठलब्धं लौकिकं येन सत्त्वान्परिपाचयति। असंख्येयद्वयस्य समाप्तौ पश्चिमां भावनामागम्यावसानगतामभिषिक्तो वज्रोपमं समाधिं लभते। विकल्पानुशयाभेद्यार्थेन वज्रोपमः। ततो निष्ठागतामाश्रयपरावृत्तिं लभते सर्वक्लेशज्ञेयावरणनिर्मलां। सर्वाकारज्ञतां चानुत्तरपदं यत्रस्थो यावत्संसारमभिसंबोधिनिर्वाणसंदर्शनादिभिः सत्त्वानां हिताय प्रतिपद्यते।

कथं तथा दुर्लभदर्शने मुनौ भवेन्महार्थं न हि नित्यदर्शनं।
भृशं समाप्यायितचेतसः सदा प्रसादवेगैरसमश्रवोद्भवैः॥४७॥

अ[प्र]चोद्यमानः सततं च संमुखं तथागतैर्धर्मसु[मु]खे व्यवस्थितः।
निगृह्य केशेष्विव दोषगह्वरात् निकृष्य बोधौ च बलान्निवेश्यते॥४८॥

स सर्वलोकं सुविशुद्धदर्शनैरकल्पबोधैरभिभूय सर्वथा।
महान्धकारं विधमय्य भासते जगन्महादित्य इवात्युदारतः॥४९॥

एभिस्त्रिभिः श्लोकैरववादमाहात्म्यं दर्शयति। यो हि धर्ममुखश्रोतस्यववादं लभते तस्य नित्यं बुद्धदर्शनं भवति। ततश्चासमं धर्मश्रवणं। यतो ऽस्यात्यर्थं प्रसादः प्रसादवेगैराप्यायितचेतसस्तन्नित्यदर्शनं बुद्धानां महार्थं भवति। शेषं गतार्थम्।

बुद्धाः सम्यक्‌प्रशंसां विदधति सततं स्वार्थसम्यक्‌प्रयुक्ते,
निन्दामीर्ष्याप्रयुक्ते स्थितिविचपरे चान्तरायानुकूलान्।
धर्मान् सर्वप्रकारान्विधिवदिह जिना दर्शयन्त्यग्रसत्त्वे,
यान् वर्ज्यासेव्य योगे भवति विपुलता सौगते शासनेऽस्मिम्॥५०॥

चतुर्विधामनुशासनीमेतेन श्लोकेन दर्शयति। अधिशीलमधिकृत्य सम्यक्‌स्वार्थप्रयुक्ते बोधिसत्त्वे प्रशंसाविधानतः। अधिचित्तमधिप्रज्ञं चाधिकृत्य स्थितिविचयपरे तदन्तरायाणां तदनुकूलानां च सर्वप्रकाराणां धर्माणां देशनतः। यान्वर्ज्यासेव्येत्यन्तरायाननुकूलांश्च यथाक्रमं। योग इति शमथविपश्यनाभावनायां।

इति सततशुभाचयप्रपूर्णः सुविपुलमेत्य स चेतसः समाधिं।
मुनिसततमहाववादलब्धो भवति गुणार्णवपारगो ऽग्रसत्त्वः॥५१॥

निगमनश्लोको गतार्थः।

॥ महायानसूत्रालंकारे अववादानुशासन्यधिकारश्चतुर्दशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project