Digital Sanskrit Buddhist Canon

द्वादशोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Dvādaśo'dhikāraḥ
द्वादशोऽधिकारः

धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः।
प्राणान्भोगांश्च धीराः प्रमुदितमनसः कृच्छ्रलब्धानसारान्
सत्त्वेभ्यो दुःखितेभ्य सततमवसृजन्त्युच्चदानप्रकारैः।
प्रागेवोदारधर्मं हितकरमसकृत्सर्वथैव प्रजानां
कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च॥१॥

कृच्छ्रलब्धानप्यसारान् क्षयित्वा[त्]प्राणान् भोगांश्च बोधिसत्त्वा दुःखितेभ्यः कारुण्यात् सततसमुदारैर्विसर्गैरुत्सृजन्ति प्रागेव धर्मं यो नैव कृच्छ्रेण वा भृशमपि वावसृजतां वृद्धिं गच्छति न क्षयं।

धर्म नैरर्थक्यसार्थक्ये श्लोकद्वयं।
धर्मो नैव च देशितो भगवता प्रत्यात्मवेद्यो यत
आकृष्टा जनता च युक्त[युक्ति]विहितैर्धर्मैः स्वकीं धर्मतां
स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणे ऽथाक्षये
लालेनेव कृपात्मभिस्त्वजगरप्रख्यैः समापादिता॥२॥

तत्र बुद्धा अजगरोपमास्तेषां स्वशान्ति[शान्ते?]रास्यपुटं धर्मकायः। विशुद्धिविपुलं सवासनक्लेशज्ञेयावरणविशुद्धितः। साधारणं सर्वबुद्धैः अक्षयमात्यन्तिकत्वात्।

तस्मान्नैव निरर्थिका भवति सा या भावना योगिनां
तस्मान्नैव निरर्थिका भवति सा या देशना सौगती।
दृष्टोऽर्थः श्रुतमात्रकाद्यदि भवेत् स्याद्भावनापार्थिका
अश्रुत्वा यदि भावनामनुविशेत् स्याद्देशनापार्थिका॥३॥

तस्मान्न निरर्थिका योगिनां भावना भवति प्रत्यात्मवेद्यस्य धर्मस्य तद्वशेनाभिगमात्। न निरर्थिका देशना भवति युक्तिविहितैर्धर्मैः स्वधर्मतायां जनताकर्षणात्। यथा पुनर्भावना सार्थिका भवेद्देशना वा तत् श्लोकार्धेन दर्शयति। शेषं गतार्थम्।

देशनाविभागे श्लोकः।
आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानां।
मुखतो रूपात्सर्वा[र्वतआ]काशादुच्चरणताऽपि.............॥४॥

तत्र विभुत्वतो या महाभूमिप्रविष्टानां। सर्वतो रूपाद्या वृक्षवादित्रादिभ्यो ऽपि निश्चरति। शेषं गतार्थम्।

देशनासंपतौ श्लोकद्वयं।
विषदा संदेहजहा आदेया तत्त्वदर्शिका द्विविधा।
संपन्नदेशनेयं विज्ञेयं[या] बोधिसत्त्वानां॥५॥

अयं चतुष्कार्थनिर्देशेन श्लोकः। यदुक्तं ब्रह्मपरिपृच्छायां। चत्रुभिर्धर्मैः समन्वागता बोधिसत्त्वा महाधर्मदानं वितरन्ति सद्धर्मपरिग्रहणतया आत्मनः प्रज्ञोत्तापनतया सत्पुरूषकर्मकरणतया संक्लेशव्यवदानसंदेशनतया च। एकेन हि बाहुश्रुत्याद्विषदा देशना भवति। द्वितीयेन महाप्राज्ञत्वात्। संशयजहा परेषां संशयच्छेदात्।

तृतीयेनानवद्यकर्मत्त्वादादेया। चतुर्थेन तत्त्वदर्शिका द्विविधा संक्लेशलक्षणस्य च तत्त्वस्य व्यवदानलक्षणस्य च द्वाभ्यां द्वाभ्यां सत्याभ्याम्।

मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्त्वानां।
स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव॥६॥

अस्मिन्द्वितीये श्लोके मधुरा परेणाक्षिप्तस्यापरूषवचनात्। मदव्यपेता स्तुतौ सिद्धौ वा मदाननुगमनात्। अखिन्ना अकिलासिकत्वात्। स्फुटा निराचार्यमुष्टित्वात् कृत्स्नदेशनतः। चित्रा अपुनरुक्तत्वात्। युक्ता प्रमाणाविरुद्धत्वात्। गमिकाप्रतीतपदव्यञ्जनत्वात्। निरामिषा प्रसन्नाधिकारानधि[र्थि]कत्वात्। सर्वत्रगा यानत्रयगतत्वात्।

वाक्‌संपत्तौ श्लोकः।
अदीना मधुरा सूक्ता प्रतीता विषदा तथा [वाग्जिनात्मजे]।
[यथार्हानामिषाचैव प्रमिता विषदा तथा]॥७॥

अदीना पौरी पर्षत्पूरणात्। मधुरा वल्गुः। सूक्ता विस्पष्टा सुनिरूक्ताक्षरत्वात्। प्रतीता विज्ञेया प्रतीताभिधानत्वात्। यथार्हा श्रवणीया विनेयानुरूपत्वात्। अनामिषा अनिःश्रित[ता]लाभसत्कारालोके[रश्लोके]। प्रतता[प्रमिता] अप्रतिकूला परिमितायामखेदात्। विषदा अपर्यात्ता।

व्यञ्जनसंपत्तौ श्लोकद्वयं।
उद्देशान्निर्देशात्तथैव यानानुलोमनात् श्लाक्ष्ण्यात्।
प्रातीत्याद्याथार्हान्नैर्याण्यादानुकूल्यत्वात्॥८॥

युक्तैः पदव्यञ्जनैरूद्देशात्प्रमाणाविरोधेन। सहितैर्निर्देशादुद्देशाविरोधेन। यानानुलोमनादानुलोमिकैर्यानत्रयाविरोधेन। श्लाक्ष्ण्याद[दा]नुच्छविकैरकष्टशब्दतया। प्रातीत्यादौपयिकैः प्रतीतार्थतया चार्थोपगमनात्। याथार्हात्प्रतिरूपैर्विनेयानुरूपतया। नैर्याण्यात्प्रदक्षिणैर्निर्वाणाधिकारतया। आनुकूल्यान्निपकस्याङ्गसंभारैः शैक्षस्यार्याष्टाङ्गमार्गानुकूल्यात्।

व्यञ्जनसंपच्चैषा विज्ञेया सर्वथाग्रसत्त्वानां।
षष्ट्यङ्गी साचिन्त्या घोषो ऽनन्तस्तु सुगतानां॥९॥

षष्ट्यङ्गी साचिन्त्या या गुह्यकाधिपतिनिर्देशे बुद्धस्य षष्ट्याकारा वाग् निर्दिष्टा। पुनरपरं शान्तमते तथागतस्य षष्ट्याकारोपेता वाग् निश्चरति स्निग्धा च मृदुका च मनोज्ञा च मनोरमा च शुद्धा चेति विस्तरः। तत्र स्निग्धा सत्त्वाधातुकुशलमूलोपस्तम्भिकत्वात्। मृदुका दृष्ट एव धर्मे सुखसंस्पर्शत्वात्। मनोज्ञा स्वर्थत्वात्। मनोरमा सुव्यञ्जनत्वात्। शुद्धा निरूत्तरलोकोत्तरपृष्ठलब्धत्वात्। विमला सर्वक्लेशानुशयवासनाविसंयुक्तत्वात्। प्रभास्वरा प्रतीतपदव्यञ्जनत्वात्। वल्गुः सर्वतीर्थ्यकुमतिदृष्टिविधातबलगुणयुक्तत्वात्। श्रवणीया प्रतिपत्तिनैर्याणिकत्वात्। अनन्ता[अनेला] सर्वपरप्रवादिभिरनाछेद्यत्वात्। कला रञ्जिकत्वात्। विनीता रागादिप्रतिपक्षत्वात्। अकर्कशा शिक्षाप्रज्ञप्तिसुखोपायत्वात्। अपरूषा तद्व्यतिक्रमसंपन्निःसरणोपदेशकत्वात्। सुविनीता यानत्रयनयोपदेशिकत्वात्। कर्णसुखा विक्षेपप्रतिपक्षत्वात्। कायप्रह्णादनकरी समाध्याबाहकत्वात्। चित्तौद्विल्यकरी विपश्यनाप्रामोद्यावाहफलकत्वात्। हृदयसंतुष्टिकरी संशयच्छेदिकत्वात्। प्रीतिसुखसंजननी मिथ्यानिश्चयापकर्षिकत्वात्। निःपरिदाहा प्रतिपत्तावविप्रतिसारत्वात्। आज्ञेया संपन्नश्रुतमयज्ञानाश्रयत्वात्। विज्ञेया संपन्नचिन्तामयज्ञानाश्रयत्वात्। विष्पष्टा अनाचार्यमुष्टिधर्मविहितत्वात्। प्रेमणीया ऽनुप्राप्तस्वकार्थानां प्रेमकरत्वात्। अभिनन्दनीया ऽननुप्राप्तस्वकार्थानां स्पृहणीयत्वात्। आज्ञापनीया अचिन्त्यधर्मसम्यग्दर्शिकत्वात्। विज्ञापनीया चिन्त्यधर्मसम्यग्देशिकत्वात्। युक्ता प्रमाणाविरूद्धत्वात्। सहिता यथार्हविनेयदेशिकत्वात्। पुनरूक्तदोषजहा अवन्ध्यत्वात्। सिंहस्वरवेगा सर्वतीर्थ्यसंत्रासकत्वात्। नागस्वरशब्दा उदारत्वात्। मेघस्वरघोषा गम्भीरत्वात्। नागेन्द्ररुता आदेयत्वात्। किन्नरसंगीतिघोषा मधुरत्वात्। कलविङ्कस्वररूतरविताऽभी[ती]क्ष्णभङ्गुरत्वात्। ब्रह्मस्वररुतरविता दूरंगमत्वात्। जीवंजीवकस्वररुतरविता सर्वसिद्धिपूर्वंगममङ्गलत्वात्। देवेन्द्रमधुरनिर्घोषा अनतिक्रमणीयत्वात्। दुन्दुभिस्वरा सर्वमारप्रत्यर्थिकविजयपूर्वंगमत्वात्। अनुन्नता स्तुत्यसंक्लिष्टत्वात्। अनवनता निन्दाऽसंक्लिष्टत्वात्। सर्वशब्दानुप्रविष्टा सर्वव्याकरणसर्वाकारलक्षणानुप्रविष्टत्वात्। अपशब्दविगता स्मृतिसंप्रमोषे तदनिश्चरणत्वात्। अविकला विनेयकृत्यसर्वकालप्रत्युपस्थितत्वात्। अलीना लाभसत्कारानिश्रितत्वात्। अदीना सावद्यापगत्वात्। प्रमुदिता अखेदित्वात्। प्रसृता सर्वविद्यास्थानकौशल्यानुगतत्वात्। अखिला[सखिला] सत्त्वानां तत्सकलार्थसंपादकत्वात्। सरिता प्रबन्धानुपच्छिन्नत्वात्। ललिता विचित्राकारप्रत्युपस्थानत्वात्। सर्वस्वरपूरणी एकस्वरनैकशब्दविज्ञप्तिप्रत्युपस्थापनत्वात्। सर्वसत्त्वेन्द्रियसंतोषणी एकानेकार्थविज्ञप्तिप्रत्युपस्थानत्वात्। अनिन्दिता यथाप्रतिज्ञत्वात्। अचञ्चला आगमितकालप्रयुक्तत्वात्। अचपला अत्वरमाणविहितत्वात्। सर्वपर्षदनुरविता दुरान्तिकपर्षत्तुल्यश्रवणत्वात्। सर्वाकारवरोपेता सर्वलौकिकार्थदृष्टान्तधर्मपरिणामिकत्वात्।

देशनामाहात्म्ये चत्वारः श्लोकाः।
वाचा पदैः सुयुक्तैरनुदेशविभागसंशयच्छेदैः।
बहुलीकारानुगता ह्युद्धटितविपञ्चितज्ञेषु॥१०॥

आख्याति वाचा। प्रज्ञापयति पदैः सुयुक्तैः। प्रस्थापयति विभाजयति विवृणोति यथाक्रममुद्देशविभागसंशयच्छेदैः। उत्तानीकरोति उत्तानीकरणं बहुलीकारानुगता देशना निश्चयबलाधानार्थं। देशयत्युद्धटितज्ञेषु। संप्रकाशयति विपञ्चितज्ञेषु।

शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानां।
दोषैर्विवर्जिता पुनरष्टभिरेषैव विज्ञेया॥११॥

शुद्धा त्रिमण्डलेनेति। येन च देशयति वाचा पदैश्च। यथा चोद्देशादिप्रकारैः। येषु चोद्धटितविपञ्चितज्ञेषु। एषैव च देशना पुनरष्टदोषविवर्जिता वेदितव्या यथाक्रमम्।

कौशीद्यमनवबोधो ह्यवकाशस्याकृतिर्ह्यनीतत्वम्।
संदेहस्याच्छेदस्तद्विगमस्यादृढीकरणम्॥१२॥

ते पुनरष्टौ दोषाः। कौशीद्यमनवसंबोधः अवकाशस्याकरणं अनीतार्थत्वं संदेहस्याच्छेदना तद्विगमस्यादृढीकरणं निश्चयश्येत्यर्थः।

खेदोऽथ मत्सरित्वं दोषा ह्येते मता कथायां हि।
तदभावाद्‍बुद्धानां निरूत्तरा देशना भवति॥१३॥

खेदो येनाभीक्ष्णं न देशयेत्। मत्सरित्वं [मत्सरित्वं] चाकृत्स्नप्रकाशनात्। अर्थसंपत्तौ श्लोकद्वयं।
कल्याणो धर्मोऽयं हेतुत्वाद्भक्तितुष्टिबुद्धीनां।
द्विविधार्थः सुग्राह्यश्चतुर्गुणब्रह्मचर्यवदः॥१४॥

परैसाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम्।
स्वभावशुद्धं मलशुद्धितश्च तच्चतुर्गुणब्रह्मविचर्यमिष्यते॥१५॥

चतुर्गुणब्रह्मचर्यसंप्रकाशको धर्मः। आदिमध्यपर्यवसानकल्याणो यथाक्रमं श्रुतचिन्ताभावनाभिर्भक्तितुष्टिबुद्धिहेतुत्वात्। तत्र भक्तिरधिमुक्तिः संप्रत्ययः तुष्टिः प्रामोद्यं युक्तिनिध्यानाच्छक्यप्राप्तितां विदित्वा। बुद्धिः समाहितचित्तस्य यथाभूतज्ञानं। द्विविधार्थ इत्यतः स्वर्थः संवृतिपरमार्थसत्ययोगात्। सुग्राह्य इत्यतः सुव्यञ्जनः प्रतीतपदव्यञ्जनत्वात्। चतुर्गुणं ब्रह्मचर्यम्। केवलं परैसाधारणात्वात् परिपूर्णं त्रिधातुक्लेशप्रहाणपरिपूरणात्। परिशुद्धं स्वभावविशुद्धितो ऽनास्रवत्वात्। पर्यवदातं मलविशुद्धितः संतानविशुद्ध्या क्षीणास्रवाणाम्।

अभिसंधिविभागे श्लोकद्वयम्।
अवतारणसंधिश्च संधिर्लक्षणतो ऽपरः।
प्रतिपक्षाभिसंधिश्च संधिः परिणतावपि॥१६॥

श्रावकेषु स्वभावेषु दोषाणां विनये तथा।
अभिधानस्य गाम्भीर्ये संधिरेष चतुर्विधः॥१७॥

चतुर्विधो ऽभिसंधिर्देशनायां बुद्धस्य वेदितव्यः। अवतारणाभिसंधिर्लक्षणाभिसंधिः प्रतिपक्षाभिसंधिः परिणामनाभिसंधिश्च। तत्रावतारणाभिसंधिः श्रावकेषु द्रष्टव्यः। शासनावतारणार्थमनुत्रासाय रूपाद्यस्तित्वदेशनात्। लक्षणाभिसंधिस्त्रिषु परिकल्पितादिस्वभावेषु द्रष्टव्यो निःस्वभावानुत्पन्नादिसर्वधर्मदेशनात्। प्रतिपक्षाभिसंधिर्दोषाणां विनये द्रष्टव्यो यथाष्टावरणप्रतिपक्षाग्रयानसंभाषासानुशंसे[सं] गाथाद्वयं वक्ष्यति। परिणामनाभिसंधिरभिधानगाम्भीर्ये द्रष्टव्यो यथाह।

असारे सारमतयो विपर्यासे च सुस्थिताः।
क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुत्तमां॥ इति।

अयमत्राभिसंधिः। असारे सारमतय इत्यविक्षेपे येषां सारबुद्धिः प्रधानबुद्धिर्विक्षेपो हि विसारश्चेतसः। विपर्यासे च सुस्थिता इति नित्यसुखशुच्यात्मग्राहविपर्ययेणानित्यादिके विपर्यासे सुस्थिता अपरिहाणितः। क्लेशेन च स संक्लिष्टा इति दीर्घदुष्करव्यायामश्रमेणात्यर्थं परिक्लिष्टाः।

अभिप्रायविभागे श्लोकः।
समता ऽर्थान्तरे ज्ञेयस्तथा कालान्तरे पुनः।
पुद्‍गलस्याशये चैव अभिप्रायश्चतुर्विधः॥१८॥

चतुर्विधो ऽभिप्रायः। सत[म]ताभिप्रायो यदाह। अहमेव स तस्मिन्समये विपश्वी सम्यक्‌संबुद्धो ऽभूवमित्यविशिष्टधर्मकायत्वात्। अर्थान्तराभिप्रायो यदाह। निः स्वभावाः सर्वधर्मा अनुत्पन्ना‍इत्येवमादि अयथारूतार्थत्वात्। कालन्तराभिप्रायो यदाह। ये सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति कालान्तरेणेत्यभिप्रायः। पुद्‍गलाशयाभिप्रायो यत्तदेव कुशलमूलं कस्यचित्प्रशंसते कस्यचिद्विगर्हते ऽल्पमात्रसंतुष्टस्य वैपुल्यसंग्रहात् महायानसूत्रान्तसानुशंसं गाथाद्वयमुपादायाह।

बुद्धे धर्मे ऽवज्ञा कौशीद्यं तुष्टिरल्पमात्रेण।
रागे माने चरितं कौकृत्यं चानियतभेदः॥१९॥

सत्त्वानामावरणं तत्प्रतिपक्षो ऽग्रयानसंभाषा।
सर्वान्तरायदोषप्रहाणमेषां ततो भवति॥२०॥

यो ग्रन्थतो ऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत।
स हि दशविधमनुशंसं लभते सत्त्वोत्तमो धीमान्॥२१॥

कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले।
जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र॥२२॥

बुद्धैश्च समवधानं तेभ्यः श्रवणं तथाग्रयानस्य।
अधिमुक्तिं सह बुद्ध्या द्वयमुखतामाशुबोधिं च॥२३॥

बुद्धे धर्मे ऽवज्ञेति पञ्च गाथाः। तत्रानियतभेदो बोधिसत्त्वानामनियतानां महायानाद्भेदः। अग्रयानसंभाषा या महायानदेशना। बुद्धे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा। अहमेव स तेन कालेन विपश्वी सम्यक्‌संबुद्धो ऽभूवमिति। धर्मे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा। इयतो गंगानदीवालिकासमानबुद्धान्पर्युपास्य महायाने ऽवबोध उत्पद्यत इति। कौशीद्यावरणस्य प्रतिपक्षसंभाषा। ये सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति। विमलचन्द्रप्रभस्य च तथागतस्य नामधेयग्रहणमात्रेण नियतो भवत्यनुत्तरायां सम्यक्‌संबोधाविति। अल्पमात्रसंतुष्ट्यावरणस्य प्रतिपक्षसंभाषा। यत्र भगवान् क्वचिद्दानादि विवर्णयति अन्यत्र वर्णितवान्। रागचरितस्य चावरणस्य प्रतिपक्षसंभाषा। यत्र भगवान् बुद्धक्षेत्रविभूतिं वर्णयति। मानचरितस्यावरणस्य प्रतिपक्षसंभाषा। यत्र भगवान् कस्यचिद् बुद्धस्याधिकां संपत्तिं वर्णयति। कौकृत्यावरणस्य प्रतिपक्षसंभाषा। ये बुद्धबोधिसत्त्वेष्व[ष्वप]कारं करिष्यन्ति ते सर्वे स्वर्गोपगा भविष्यन्तीति। अनियतभेदस्यावरणस्य प्रतिपक्षसंभाषा। महाश्रावकाणां बुद्धत्वे व्याकरणदेशना एकयानदेशना च। कृत्स्नधातुपुष्टिः सर्वमहायानाधिष्ठानाय धातुपुष्टिस्तदावरणविगमात् सर्वत्र महायाने ऽधिमुक्तिलाभतः। द्वयमुखता समाधिमुखता धारणीमुखता च। दृष्टे धर्मे द्विविधो ऽनुशंसः सांपरायिकेऽष्टविधः क्रमेणोत्तरोत्तरविशेषलाभाद्वेदितव्यः।

देशनानुशंसेश्लोकः।
इति सुग[म]तिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञतामुपेतः।
भवति सुकथिको हि बोधिसत्त्वस्तपति जने कथितैर्यथैव सूर्यः॥२४॥

पञ्चभिः कारणैः सुकथिकत्वं। सूर्यवत्प्रतपनं चानुशंसः। लोकावर्जनतो बहुमतत्वात्। पञ्च कारणानि सुकथिकत्वस्य येनाविपरीतं दर्शयति अभीक्ष्णं निरामिषचित्त आदेयवाक्यविनेयानुरूपं च।

॥ महायानसूत्रालंकारे देशनाधिकारो द्वादशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project