Digital Sanskrit Buddhist Canon

एकादशोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ekādaśo'dhikāraḥ
एकादशोऽधिकारः

धर्मपर्येष्ट्यधिकारे आलम्बनपर्येष्टौ चत्वारः श्लोकाः।
पिटकत्रयं द्वयं वा [च?]संग्रहतः कारणैर्नवभिरिष्टम्।
वासनबोधनशमनप्रतिवेधैस्तद्विमोचयति॥१॥

पिटकत्रयं सूत्रविनयाभिधर्माः। तदेव त्रयं हीनयानाग्र[महा?]यानभेदेन द्वयं भवति। श्रावपिटकंबोधिसत्त्वपिटकं च। तत्पुनस्त्रयं द्वयं वा [च ?]केनार्थेन पिटकमित्याह। संग्रहतः सर्वज्ञेयार्थसंग्रहाद्वेदितव्यम्। केन कारणेन त्रयम्। नवभिः कारणैः, विचिकित्साप्रतिपक्षेण सूत्रम्, यो यत्रार्थे संशयितस्तस्य तन्निश्चयार्थं देशनात्। अन्तद्वयानुयोगप्रतिपक्षेण विनयः सावद्यपरिभोगप्रतिषेधतः कामसुखल्लिकानुयोगान्तस्य, अनवद्यपरिभोगानुज्ञानत आत्मक्लमथानुयोगान्तस्य। स्वयंदृष्टिपरामर्षप्रतिपक्षेणाभिधर्मो ऽविपरीतधर्मलक्षणाभिद्योतनात्।

पुनः शिक्षात्रयदेशना सूत्रेण अधिशीलाधिचित्तसंपादनता विनयेन शीलवतो ऽविप्रतिसारादविप्रतिसारेण[दिक्रमेण] समाधिलाभात्। अधिप्रज्ञासंपादनाभिधर्मेणाविपरीतार्थप्रविचयात्। पुनर्धर्मार्थदेशना सूत्रेण। धर्मार्थमिप्पत्तिर्विनयेन क्लेशविनयसंयुक्तस्य तयोः प्रतिवेधात्। धर्मार्थसांकथ्यविनिश्चयकौशल्यमभिधर्मेणेति।

एभिर्नवभिः कारणैः पिटकत्रयमिष्टम्। तच्च संसाराद्विमोचनार्थम्। कथं पुनस्तद्विमोचयति। वासनबोधनशमनप्रतिवेधैस्तद्विमोचयति। श्रूतेन चित्तवासनतः। चिन्तया बोधनतः। भावनया शमथेन शमनतः। विपश्यनया प्रतिवेधतः।

सूत्राभिधर्मविनयाश्चतुर्विधार्था मताः समासेन।
तेषां ज्ञानाद्धीमान्सर्वाकारज्ञतामेति॥२॥

ते च सूत्रविनयभिधर्माः प्रत्येकं चतुर्विधार्थाः समासतस्तेषां ज्ञानाब्दोधिसत्त्वः सर्वज्ञतां प्राप्नोति। श्रावकस्त्वेकस्या अपि गाथाया अर्थमाज्ञायास्त्रवक्षयंप्राप्नोति।

आश्रयतो लक्षणतो धर्मादर्थाच्च सूचनात्सूत्रम्।
अभिमुखतो ऽथामीक्ष्ण्यादभिभवगतितो ऽभिधर्मश्च॥३॥

कथं प्रत्येकं चतुर्विधार्थः। आश्रयलक्षणधर्मार्थसूचनात्सूत्रम्। तत्राश्रयो यत्र देशे देशितं येन यस्मै च। लक्षणं संवृत्तिसत्यलक्षणं परमार्थसत्यलक्षणं च। धर्माः स्कन्धायतनधात्वाहारप्रतीत्यसमुत्पादादयः। अर्थोऽनुसंधिः।

अभिमुखत्वादभीक्ष्णत्वादभिभवनादभिगमनाच्चाभिधर्मो वेदितव्यः। निर्वाणाभिमुखो धर्मो ऽभिधर्मः सत्यबोधिपक्षविमोक्षमु[सु?]खादिदेशनात्। अभीक्ष्णं धर्मोऽभिधर्म एकैकस्य धर्मस्य रूप्यरूपिसनिदर्शनादिप्रभेदेन बहुलनिर्देशात्। अभिभवतीत्यभिधर्मः परप्रवादाभिभवनाद्विवादाधिकरणादिभिः। अभिगम्यते सूत्रार्थ एतेनेत्यभिधर्मः।

आपत्तेरूत्थानाद्‍व्युत्थानान्निःसृतेश्चविनयत्वम्।
पुद्‍गलतः प्रज्ञप्तेः प्रविभागविनिश्चयाच्चैव॥४॥

आपत्तितः समुत्थानतो व्युत्थानतो निसारणतश्च वेदितव्यः। तत्रापत्तिः पञ्चापत्तिनिकायाः। समुत्थानमापत्तीनामज्ञानात्प्रमादात् क्लेशप्राचुर्यादनादराच्च। व्युत्थानमाशयतो न दण्डकर्मतः। निःसरणं सप्तविधम्। प्रतिदेशना, अभ्युपगमः शिक्षादत्तकादीनाम्, दण्डकर्मणः[णाम्]। समवद्योतः [समवधातः], प्रज्ञप्ते शिक्षापदे पुनः पर्यायेण अ[णानु] ज्ञानात्, प्रस्रब्धिः समग्रेण संघेन शिक्षापदस्य प्रतिप्रस्रम्भणात्। आश्रयपरिवृत्तिर्भिक्षुभिक्षुण्योः स्त्रीपुरुषव्यञ्जनपरिवर्तनादसाधारणा वे[चे]दापत्तिः। भूतप्रत्यवेक्षा धर्मोद्दानाक[का]रैः प्रत्यवेक्षावशेषः। धर्मताप्रतिलम्भश्च सत्यदर्शनेन क्षुद्रानुक्षुद्रापन्ना[त्त्य]भावे धर्म [ता]प्रतिलम्भात्। पुनश्चतुर्विधेनार्थेन विनयो वैदितव्यः। पुद्‍गलतो यमागम्य शिक्षा प्रज्ञप्यते। प्रज्ञप्तितो यदाऽरोचिते पुद्‍गलापराधे शास्ता संनिपात्य संघ[संघं ?] शिक्षां प्रज्ञापयति। प्रविभागतो यः प्रज्ञप्ते शिक्षापदे तदुद्देशस्य विभागः। विनिश्चयतश्च तत्रापत्तिः कथं भवत्यनापत्तिर्वेति निर्धारणात्।

आलम्बनलाभपर्येष्टौ त्रयः श्लोकाः।
आलम्बनं मतो धर्मः अध्यात्मं बाह्यकं[द्वयम्?]।
[लाभो द्वयोर्द्वयार्थेन द्वयोश्चानुपलम्भतः]॥५॥

[धर्मालम्बनं यो देशितः कायादिकञ्चाध्यात्मिकं] बाह्यमाध्यात्मिकबाह्यञ्च। तत्र ग्राहकभूतं कायादिकमाध्यात्मिकं ग्राह्यभूतं बाह्यं तयोरेव तथता द्वयम्। तत्र द्वयोराध्यात्मिकबाह्ययोरालम्बनयोर्द्वयार्थेन लाभो यथाक्रमम्। यदि ग्राह्यार्थद्‍ग्राहकार्थमभिन्नं पश्यति ग्राहकार्थाच्च ग्राह्यार्थम्, द्वयस्य पुनः समस्तस्याध्यात्मिकबाह्यालम्बनस्य तथताया लाभस्तयोरेवद्वयोरनुपलम्भाद्वेदितव्यः।

मनोजल्पैर्यथोक्तार्थप्रसन्नस्य प्रधारणात्।
अर्थख्यानस्य जल्पाच्च नाम्नि स्थानाच्च चेतसः॥६॥

धर्मालम्बनलाभः स्यात्त्रिभिर्ज्ञानैः श्रुतादिभिः।
त्रिविधालम्बनलाभश्च पूर्वोक्तस्तत्समाश्रितः॥७॥

धर्मालम्बनलाभः पुनस्त्रिभिर्ज्ञानैर्भवति श्रुतचिन्ताभावनामयैः। तत्र समाहितेन चेतसा मनोजल्पैर्यथोक्तार्थप्रसन्नस्य तत्प्रधारणात्। श्रुतमयेन ज्ञानेन तल्लाभः, मनोजल्पैरिति संकल्पैः। प्रसन्नस्येत्यधिमुक्तस्य निश्चितस्य। प्रधारणादिति प्रविचयात्। जल्पादर्थख्यानस्य प्रधारणाच्चिन्तामयेन तल्लाभः। यदि मनोजल्पादेवायमर्थः ख्यातीति पश्यति नान्यन्मनोजल्पाद्यथोक्तं द्वयालम्बनलाभे। चित्तस्य नाम्नि स्थानात् भावनामयेन ज्ञानेन तल्लाभो वेदितव्यो द्वयानुपलम्भाद्यथोक्तं द्वयालम्बनलाभे। अत एव च स पूर्वोक्तस्त्रिविधालम्बनलाभो धर्मालम्बनलाभसंनिश्रितो वेदितव्यः।

मनसिकारपर्येष्टौ पञ्च श्लोकाः।
त्रिधातुकः कृत्यकरः ससंबाधाश्रयो ऽपरः।
अधिमुक्तिनिवेशी च तीव्रच्छन्दकरो ऽपरः॥८॥

हीनपूर्णाश्रयो द्वेधा सजल्पोऽजल्प एव च।
ज्ञानेन संप्रयुक्तश्च योगोपनिषदात्मकः॥९॥

संभिन्नालम्बनश्चासौ विभिन्नालम्बनः स च।
पञ्चधा सप्तध चैव परिज्ञा पञ्चधा ऽस्य च॥१०॥

चत्वारः सप्तत्रिंशच्च आकारा भावनागताः।
मार्गद्वयस्वभावो ऽसौ द्‍व्युनुशंसः प्रतीच्छकः॥११॥

प्रयोगी वशवर्ती च परीत्तो विपुलात्मकः।
योगिनां हि मनस्कार एष सर्वात्मको मतः॥१२॥

अष्टादशविधो मनस्कारः। धातुनियतः कृत्यकर आश्रयविभक्तो ऽधिमुक्तिनिवेशकश्च्छन्दजनकः समाधिसंनिश्रितो ज्ञानसंप्रयुक्तः संभिन्नालम्बनो विभिन्नालम्बनः परिज्ञानियतो भावनाकारप्रविष्टः शमथविपश्यनामार्गस्वभावो ऽनुशंसमनस्कारः प्रतीच्छकः प्रायोगिकमनस्कारो वशवर्तिमनस्कारः परीत्तमनस्कारो विपुलमनस्कारश्च। तत्र धातुनियतो यः श्रावकादिगोत्रनियतः। कृत्यकरो यः संभृतसंभारस्य। आश्रयविभक्तो यः ससंवाधगृहस्थाश्रयो ऽसंबाधप्रव्रजिताश्रयश्च। अधिमुक्तिनिवेशको यो बुद्धानुस्मृतिसहगतः। च्छन्दजनको यस्तत्संप्रत्ययसहगतः। समाधिसंनिश्रितो यः समन्तकमौलसमाधिसहगतः सवितर्कसविचार [रावितर्कविचार ?] (निर्वितर्कसविचार ?) मात्रावितर्काविचारसहगतश्च। ज्ञानसंप्रयुक्तो यो योगोपनिषद्योगसहगतः, स पुनर्यथाक्रमं श्रुतचिन्तामयो भावनामयश्च। संभिन्नालम्बनः पञ्चविधः सूत्रोद्दानगाथानिपातयावदुद्‍ग्रहीतयावद्देशितालम्बनः। विभिन्नालम्बनः सप्तविधो नामालम्बनः पदालम्बनो व्यञ्जनालम्बनः पुद्‍गलनैरात्म्यालम्बनो धर्म नैरात्म्यालम्बनो रूपिधर्मालम्बनोऽरूपिधर्मालम्बनश्च। तत्र रूपिधर्मालम्बनो यः कायालम्बनः। अरूपिधर्मालम्बनो यो वेदनाचित्तधर्मालम्बनः। परिज्ञानियतो यः परिज्ञेये वस्तुनि परिज्ञेये ऽर्थे परिज्ञायां परिज्ञाफले तत्प्रवेदनायां च। तत्र परिज्ञेयं वस्तु दुःखं परिज्ञेयो ऽर्थस्तस्यैवानित्यदुःखशून्यानात्मता। परिज्ञा मार्गः। परिज्ञाफलं विमुक्तिः। तत्प्रवेदना विमुक्तिज्ञानदर्शनम्। भावनाकारप्रविष्टश्चतुराकारभावनः सप्तत्रिंशदाकारभावनश्च। तत्रचतुराकारभावनः पुद्‍गलनैरात्म्याकारभावनो धर्मनैरात्म्याकारभावनो दर्शनाकारभावनो ज्ञानाकारभावनश्च। तत्र सप्तत्रिंशदाकारभावनः। अशुभाकारभावनो दुःखाकारभावनो ऽनित्याकारभावनो ऽनात्माकारभावनः स्मृत्युपस्थानेषु। प्रतिलम्भाकारभावनो निसेवनाकारभावनो विनिर्धावना [निर्विर्घाटना] कारभावनः प्रतिपक्षाकारभावनः सम्यक्प्रहाणेषु। संतुष्टिप्रातिपक्षिकमनस्कारभावनो यदा च्छन्दं जनयति। विक्षेपसंशयप्रातिपक्षिकमनस्कारभावनो यदा व्यायच्छते वीर्यमारभते यथाक्रमम्। औद्धत्यप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रदधाति[प्रगृह्णाति]। लयप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रगृह्णाति [प्रदधाति]। एते यथाक्रमं चतुर्षु ऋद्धिपादेषु वेदितव्याः। स्थितचित्तस्य लोकोत्तरसंपत्तिसंप्रत्ययाकारभावनो यथा संप्रत्ययाकारभावन एवं व्यवसायाकारभावनो धर्मासंप्रमोषाकारभावनश्चित्तस्थित्याकारभावनः प्रविचयाकारभावन इन्द्रियेषु। एत एव पञ्च निर्लिखितविपक्षमनस्कारा बलेषु। संबोधिसंप्रख्यानाकारभावनस्तत्रैव विचयोत्साहसौमनस्यकर्मण्यताचित्तस्थितिसमताकारभावनाः सप्तसंबोध्यङ्गेषु। प्राप्तिनिश्चयाकारभावनः परिकर्मभूमिसंरक्षणाकारभावनः परसंप्राप्त्याकारभावन आर्यकान्तशीलप्रविष्टाकारभावनः संलिखितवृत्तिसमुदाचार[रा]कारभावनः पूर्वपरिभावितप्रतिलब्धमार्गाभ्यासाकारभावनो धर्मस्थितिनिमित्तासंप्रमोषाकारभावनो ऽनिमित्तस्थित्याश्रयपरिवृत्त्याकारभावनश्च मार्गाङ्गेषु। शमथविपश्यनाभावनामार्गस्वभावयोर्न कश्चिन्निर्देशः। अनुशंसमनस्कारो द्विविधो दौष्ठुल्यापकर्षणो दृष्टिनिमित्तापकर्षणश्च। प्रतीच्छको यो धर्मस्त्रोतसि बुद्धबोधिसत्त्वानामन्तिकादववादग्राहकः। प्रायोगिकमनस्कारः पञ्चविधः समाधिगोचरे। संख्योपलक्षणप्रायोगिको येन सूत्रादिषु नामपदव्यञ्जनसंख्यामुपलक्षयते। वृत्त्युपलक्षणप्रायोगिको येन द्विविधां वृत्तिमुपलक्षयते परिमाणवृत्तिं च व्यञ्जनानामपरिमाणवृत्तिं च नामपदयोः। परिकल्पोपलक्षणप्रायोगिको येन द्वयमुपादाय द्वयपरिकल्पमुपलक्षयते। नामपरिकल्पमुपादायार्थपरिकल्पमर्थपरिकल्पमुपादाय नामपरिकल्पमपरिकल्पमक्षरम्। क्रमोपलक्षणप्रायोगिको येन नामग्रहणपूर्विकामर्थग्रहणप्रवृत्तिमुपलक्षयते। प्रतिवेधप्रायोगिकश्च। स पुनरेकादशविधो वेदितव्य, आगन्तुकत्वप्रतिवेधतः, संप्रख्याननिमित्तप्रतिवेधतः, अर्थानुपलम्भप्रतिवेधतः, उपलम्भानुपलम्भप्रतिवेधतः, धर्मधातुप्रतिवेधतः पुद्‍गलनैरात्म्यप्रतिवेधतः, धर्म नैरात्म्यप्रतिवेधतः, हीनाशयप्रतिवेधतः, उदारमाहात्म्याशयप्रतिवेधतः यथाधिगमधर्मव्यवस्थानप्रतिवेधतः, व्यवस्थापितधर्मप्रतिवेधतश्च। वशवर्तिमनस्कारस्त्रिविधः, क्लेशावरणसुविशुद्धः क्लेशज्ञेयावरणसुविशुद्धः, गुणाभिनिर्हारसुविशुद्धश्च।

धर्मतत्त्वपर्येष्टौ द्वौ श्लोकौ।
तत्त्वं यत्सततं द्वयेन रहितं, भ्रान्तेश्च संनिश्रयः,
शक्यं नैव च सर्वथाभिलपितुं यच्चाप्रपञ्चात्मकम्।
ज्ञेयं हेयमथो विशोध्यममलं यच्च प्रकृत्या मतम्।
यस्याकाशसुवर्णवारिसदृशी क्लेशाद्विशुद्धिर्मता॥१३॥

सततं द्वयेन रहितं तत्त्वं, परिकल्पितः स्वभावो ग्राह्यग्राहकलक्षणेनात्यन्तमसत्त्वात्। भ्रान्तेः संनिश्रयः परतन्त्रस्तेन तत्परिकल्पनात्। अनभिलाप्यमप्रपञ्चात्मकं च परिनिष्पन्नः स्वभावः। तत्र प्रथमं तत्त्वं परिज्ञेयं द्वितीयं प्रहेयं तृतीयं विशोध्यं चागन्तुकमलाद्विशुद्धं च प्रकृत्या, यस्य प्रकृत्या विशुद्धस्याकाशसुवर्णवारिसदृशी क्लेशाद्विशुद्धिः। न ह्याकाशादीनि प्रकृत्या अशुद्धानि न चागन्तुकमलापगमादेषां विशुद्धिर्नेष्यत इति।

न खलु जगति तस्माद्विद्यते किंचिदन्य-
ज्जगदपि तदशेषं तत्र संमूढबुद्धि।
कथमयमभिरूढो लोकमोहप्रकारो।
यदसदभिनिविष्टः सत्समन्ताद्विहाय॥१४॥

न खलु तस्मादेवंलक्षणाद्धर्मधातोः किंचिदन्यल्लोके विद्यते धर्मताया धर्मस्याभिन्नत्वात्। शेषं गतार्थम्।

तत्त्वे मायोपमपर्येष्टौ पञ्चदश श्लोकाः।
यथा माया तथाऽभूतपरिकल्पो निरुच्यते।
यथा मायाकृतं तद्वत् द्वयभ्रान्तिर्निरुच्यते॥१५॥

यथा माया यन्त्र [मन्त्र]परिगृहीतं भ्रान्तिनिमित्तं काष्ठलोष्टादिकम् तथाभूतपरिकल्पः परतन्त्रः स्वभावो [स्वभावाकारो] वेदितव्यः। यथा मायाकृतं तस्यां मायायां हस्त्यश्वसुवर्णाद्याकृतिस्तद्भावेन प्रतिभासिता, तथा तस्मिन्नभूतपरिकल्पे द्वयभ्रान्तिर्ग्राह्यग्राहकत्वेनप्रतिभासिता परिकल्पितस्वभावाकारा वेदितव्या।

यथा[ऽ]तस्मिन्न तद्भावः परमार्थस्तथेष्यते।
यथा तस्योपलब्धिस्तु तथा संवृतिसत्यता॥१६॥

यथा[ऽ]तस्मिन्न तद्भावो मायाकृते हस्तित्वाद्यभावस्तथा तस्मिन्परतन्त्रे परमार्थ इष्यते परिकल्पितस्य द्वयलक्षणस्याभावः। यथा तस्य मायाकृतस्य हस्त्यादिभावेनोपलब्धिः, तथाऽभूतपरिकल्पस्य संवृतिसत्यतोपलब्धिः।

तदभावे यथा व्यक्तिस्तन्निमित्तस्य लभ्यते।
तथाश्रयपरावृत्तावसत्कल्पस्य लभ्यते॥१७॥

यथा मायाकृतस्याभावे तस्य निमित्तस्य काष्ठादिकस्य व्यक्तिर्भूतार्थोपलभ्यते, तथाश्रयपरावृत्तौ द्वयभ्रान्त्यभावादभूतपरिकल्पस्य भूतोऽर्थ उपलभ्यते।

तन्निमित्ते यथा लोको ह्यभ्रान्तः कामतश्चरेत्।
परावृत्तावपर्यस्तः कामचारी तथा पतिः[यतिः]॥१८॥

यथा तन्निमित्ते काष्ठादावभ्रान्तो लोकः कामतश्चरति स्वतन्त्रः तथाऽऽश्रयपरावृत्तावपर्यस्त आर्यः कामचारि भवति स्वतन्त्रः।

तदाकृतिश्च तत्रास्ति तद्भावश्च न विद्यते।
तस्मादस्तित्वनास्तित्वं मायादिषु विधीयते॥१९॥

एष श्लोको गतार्थः।
न भावस्तत्र चाभावो नाभावो भाव एव च।
भावाभावाविशेषश्च मायादिषु विधीयते॥२०॥

न भावस्तत्र चाभावो यस्तदाकृतिभावो नासौ न भावः। नाभावो भाव एव च यो हस्तित्वाद्यभावो नासौ न[?]भावः। तयोश्च भावाभावयोरविशेषो मायादिषु विधीयते। य एव हि तत्र तदाकृतिभावः, स एव हस्तित्वाद्यभावः। य एव हस्तित्वाद्यभावः स एव तदाकृतिभावः।

तथा द्वयाभ[भास?]तात्रास्ति तद्भावश्च न विद्यते।
तस्मादस्तित्वनास्तित्वं रूपादिषु विधीयते॥२१॥

तथा ऽत्राभूतपरिकल्पे द्वयाभासतास्ति द्वयभावश्च नास्ति। तस्मादस्तित्वनास्तित्वं रूपादिषु विधीयते ऽभूतपरिकल्पस्वभावेषु।

न भावस्तत्र चाभावो नाभावो भाव एव च।
भावाभावाविशेषश्च रूपादिषु विधीयते॥२२॥

न भावस्तत्र चाभावः। या द्वयाभासता। नाभावो भाव एव च। या द्वयतानास्तिता। भावाभावाविशेषश्च रूपादिषु विधीयते। य एव हि द्वयाभासताया भावः स एव द्वयस्याभाव इति।

समारोपापवादाभ[न्त?]प्रतिषेधार्थमिष्यते।
हीनयानेन यानस्य प्रतिषेधार्थमेव च॥२३॥

किमर्थं पुनरयं भावाभावयोरैकान्तिकत्वमविशेषश्चेष्यते। यथाक्रमम्। समारोपापवादाभ[न्तः?]प्रतिषेधार्थमिष्यते, हीनयानगमनप्रतिषेधार्थं च। अभावस्य ह्यभावत्वं विदित्वा समारोपं न करोति। भावस्य भावत्वं विदित्वापवादं न करोति। तयोश्चाविशेषं विदित्वा न भावादुद्विजते तस्मान्न हिनयानेन निर्याति।

भ्रान्तेर्निमित्तं भ्रान्तिश्च रूपविज्ञप्तिरिष्यते।
अरूपिणी च विज्ञप्तिरभावात्स्यान्न चेतरा॥२४॥

रूपभ्रान्तेर्या निमित्तविज्ञप्तिः सा रूपविज्ञप्तिरिष्यते रूपाख्या। सा तु रूपभ्रान्तिररूपिणी विज्ञप्तिः। अभावाद्रूपविज्ञप्तेरितरापि न स्यादरूपिणी विज्ञप्तिः। कारणाभावात्।

मायाहस्त्याकृतिग्राहभ्रान्तेर्द्वयमुदाहृतम्।
द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते॥२५॥

बिम्बसंकलिकाग्राहभ्रान्तेर्द्वयमुदाहृतम्।
द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते॥२६॥

मायाहस्त्याकृतिग्राह्य[ह]भ्रन्तितो द्वयमुदाहृतम्। ग्राह्यं ग्राहकं च, तत्र यथा नास्ति द्वयं चैवोपलभ्यते। प्रतिबिम्बं[ब?] संकलिकां च मनसिकुर्वतः तद्‍ग्राहभ्रान्तेर्द्वयमुदाहृतं पूर्ववत्।

तथा भावात्तथाऽभावाद् भावाभाव[वा?]विशेषतः।
सदसन्तो ऽथ मायाभा ये धर्मा भ्रान्तिलक्षणाः॥२७॥

ये धर्मा भ्रान्तिलक्षणा विपक्षस्वभावास्ते सदसन्तो मायोपमाश्च। किं कारणम्। सन्तस्तथाभावादभूतपरिकल्पत्वेन। असन्तस्तथा ऽभावात् ग्राह्यग्राहकत्वेन। तयोश्च भावाभावयोरविशिष्टत्वात् सन्तो ऽप्यसन्तो ऽपि मायापि चैवंलक्षणा स्त[त?]स्मान्मायोपमाः।

तथा ऽभावात्तथा ऽभावात्तथा ऽभावादलक्षणाः।
मायोपमाश्च निर्दिष्टा ये धर्माः प्रातिपक्षिकाः॥२८॥

ये ऽपि प्रातिपक्षिका धर्मा बुद्धेनोपदिष्टाः स्मृत्युपस्थानादयस्ते ऽप्यलक्षणा मायाश्च निर्दिष्टाः। किं कारणम्। तथा ऽभावाद्यथा बालैर्गृह्यन्ते। तथा ऽभावाद्यथा देशिताः। तथा ऽभावाद्यथा संदर्शिता बुद्धेन गर्भावक्रमणजन्माभिनिष्क्रमणाभिसंबोध्यादयः। एवमलक्षणा अविद्यमानाश्च ख्यान्ति तस्मान्मायोपमाः।

मायाराजेव चान्येन मायाराज्ञा पराजितः।
ये सर्वधर्मान् पश्यन्ति निर्मारास्ते जिनात्मजाः॥२९॥

ये प्रातिपक्षिका धर्मास्ते मायाराजस्थानीयाः संक्लेशप्रहाणे व्यवदानाधिपत्त्यात्। येऽपि सांक्लेशिका धर्मास्ते ऽपि राजस्थानीयाः संक्लेशनिर्वृत्तावाधिपत्यात्। अतस्तैः प्रातिपक्षिकैः संक्लेशपराजयो माया [?] राज्ञेव राज्ञः पराजयो द्रष्टव्यः। तज्ज्ञानाच्च बोधिसत्त्वा निर्मारा भवन्ति उभयपक्षे।

औपम्यार्थे श्लोकः।
मायास्वप्नमरीचिबिम्बसदृशाः प्रोद्भासश्रुत्कोपमा
विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः।
षट् षट् द्वौ च पुनश्च षट् द्वयमता एकैकशश्च त्रयः
संस्काराः खलु तत्र तत्र कथिता बुद्धैर्विबुद्धोत्तमैः॥३०॥

यत्तूक्तं भगवता मायोपमा धर्मा यावन्निर्माणोपमा इति। तत्र मायोपमा धर्माः षडाध्यात्मिकान्यायतनानि। असत्यात्मजीवादित्वे तथा प्रख्यानात्। स्वप्नोपमाः षट् बाह्यान्यायतनानि तदुपभोगस्यावस्तुकत्वात्। मरीचिकोपमौ द्वौ धर्मौ चित्तं चैतसिकाश्च भ्रान्तिकरत्वात्। प्रतिबिम्बोपमाः पुनः षडेवाध्यात्मिकान्यायतनानि पूर्वकर्मप्रतिबिम्बत्वात्। प्रतिभासोपमाः षडेव बाह्यान्यायतनान्याध्यात्मिकानामायतनानां छायाभूतत्वात् तदाधिपत्योत्पत्तितः। षट् द्वयं मताः षट् द्वयमताः। प्रतिश्रुत्कोपमा देशनाधर्माः। उदकचन्द्रबिम्बोपमाः समाधिसंनिश्रिता धर्माः समाधेरूदकस्थानीयत्वादच्छतया। निर्माणोपमाः संचिन्त्यभवोपपत्तिपरिग्रहे ऽसंक्लिष्टसर्वक्रियाप्रयोगत्वात्।

ज्ञेयपर्येष्टौ श्लोकः।
अभूतकल्पो न भूतो नाभूतो ऽकल्प एव च।
न कल्पो नापि चाकल्पः सर्वं ज्ञेयं निरुच्यते॥३१॥

अभूतकल्पो यो न लोकोत्तरज्ञानानुकूलः कल्पः, न भूतो नाभूतो यस्तदनुकूलो यावन्निर्वेधभागीयः। अकल्पस्तथता लोकोत्तरं च ज्ञानम्। न कल्पो नापि चाकल्पो लोकोत्तरपृष्ठलब्धं लौकिकं ज्ञानम्। एतावच्च सर्वं ज्ञेयम्।

संक्लेशव्यवदानपर्येष्टौ श्लोकद्वयम्।
स्वधातुतो द्वयाभासाः साविद्याक्लेशवृत्तयः।
विकल्पाः संप्रवर्तन्ते द्वयद्रव्यविवर्जिताः॥३२॥

स्वधातुत इति भावाङ्गा [स्वबीजा?]दालयविज्ञानतः। द्वयाभासा इति ग्राह्यग्राहकाभासाः। सहाविद्यया क्लेशैश्च वृत्तिरेषां त इमे साविद्याक्लेशवृत्तयः। द्वयद्रव्यविवर्जिता इति ग्राह्यद्रव्येण ग्राहकद्रव्येण च। एवं क्लेशः पर्येषितव्यः।

आलम्बनविशेषाप्तिः स्वधातुस्थानयोगतः।
त एव ह्यद्वयाभासा वर्तन्ते चर्मकाण्डवत्॥३३॥

आलम्बनविशेषाप्तिरिति यो धर्मालम्बनलाभः पूर्वमुक्तः। स्वधातुस्थानयोगत इति स्वधातुर्विकल्पानां तथता तत्र स्थानं नाम्नि स्थानाच्चेतसः। योगत इत्यभ्यासात्। भावनामार्गेण त एव विकल्पा अद्वयाभासा वर्तन्ते परावृत्ताश्रयस्य। चर्मवत् काण्डवच्च। यथा हि स्वरत्वापगमात्तदेव चर्म मृदु भवति। अग्निसंतापनया तदेव काण्डं ऋजु भवति। एवं शमथविपश्यनाभावनाभ्यां चेतः प्रज्ञाविमुक्तिलाभे परावृत्ताश्रयस्य त एव विकल्पा न पुनर्द्वयाभासाः प्रवर्तन्ते। इत्येव [वं?] व्यवदानं पर्येषितव्यम्।

विज्ञप्तिमात्रतापर्येष्टौ द्वौ श्लोकौ।
चित्तं द्वयप्रभासं रागाद्याभासमिष्यते तद्वत्।
श्रद्धाद्याभासं न तदन्यो धर्मः क्लिष्टकुशलो ऽस्ति॥३४॥

चित्तमात्रमेव द्वयप्रतिभासमिष्यते ग्राह्यप्रतिभासं ग्राहकप्रतिभासं च। तथा रागादिक्लेशाभासं तदेवेष्यते। श्रद्धादिकुशलधर्माभासं वा। न तु तदाभासादन्यः क्लिष्टो धर्मो ऽस्ति रागादिलक्षणः कुशलो वा श्रद्धादिलक्षणः। यथा द्वयप्रतिभासादन्यो न द्वयलक्षणः।

इति चित्तं चित्राभासं चित्राकारं प्रवर्तते।
तथाभासोभावाभावो न तु धर्माणां मतः॥३५॥

तत्र चित्तमेव वस्तुतच्चि[श्चि]त्राभासं प्रवर्तते। पर्यायेण रागाभासं वा द्वेषाभासं वा। तदन्यधर्माभासं वा। चित्राकारं च युगपत् श्रद्धाद्याकारम्। भासो भावाभावः क्लिष्टकुशलावस्थे चेतसि। न तु धर्माणां [क्लिष्टानां?] कुशलानां [वा?] तत्प्रतिभासव्यतिरेकेण तल्लक्षणाभावात्।

लक्षणपर्येष्टौ श्लोका अष्टौ। एकनोद्देशः शेषैर्निर्देशः।
लक्ष्यं च लक्षणं चैव लक्षणा च प्रभेदतः।
अनुग्रहार्थं सत्त्वानां संबुद्धैः संप्रकाशिता॥३६॥

अनेनोद्देशः।
सदृष्टिकं च यच्चित्तं तत्रावस्थाविकारिता।
लक्ष्यमेतत्समासेन ह्यप्रमाणं प्रभेदतः॥३७॥

तत्र चित्तं विज्ञानं रूपं च। दृष्टिश्चैतसिका धर्माः। तत्रावस्था चित्तविप्रयुक्ता वर्माः। अविकारिता असंस्कृतमाकाशादिकं तद्विज्ञप्तेर्नित्यं तथाप्रवृत्तेः। इत्येतत् समासेन पञ्चविधं लक्ष्यं प्रभेदेनाप्रमाणम्।

यथाजल्पार्थसंज्ञाया निमित्तं तस्य वासना।
तस्मादप्यर्थविख्यानं परिकल्पितलक्षणं॥॥३८॥

लक्षणं समासेन त्रिविधं परिकल्पितादिलक्षणम्। तत्र परिकल्पितलक्षणं त्रिविधं यथा जल्पार्थसंज्ञाया निमित्तं तस्य जल्पस्य वासना तस्माच्च वासनाद्यो ऽर्थः ख्याति अव्यवहारकुशलानां विनापि यथाजल्पार्थसंज्ञया। तत्र यथा ऽभिलापमर्थसंज्ञा चैतसिकी यथाजल्पार्थसंज्ञा। तस्या यदालम्बनं तन्निमित्तमेवं [व] यच्च परिकल्प्यते यतश्च कारणाद्वासन[ना]तस्तदुभयं परिकल्पितलक्षणमत्राभिप्रेतम्।

यथा नामार्थमर्थस्य नाम्नः प्रख्यानता च या।
असं[सत्?] कल्पनिमित्तं हि परिकल्पितलक्षणम्॥३९॥

अपरपर्यायो यथा नाम चार्थश्च यथानामार्थमर्थस्य नाम्नश्च प्रख्यानता यथा नामार्थप्रख्यानता। यदि यथा नामार्थः ख्याति यथार्थं वा नाम इत्येतदभूतपरिकल्पालम्बनं परिकल्पितलक्षणं एतावद्धि परिकल्प्यते यदुत नाम वा अर्थो वेति।

त्रिविधत्रिविधाभासो ग्राह्यग्राहकलक्षणः।
अभूतपरिकल्पो हि परतन्त्रस्य लक्षणम्॥४०॥

त्रिविधस्त्रिविधश्चाभासो ऽस्येति त्रिविधत्रिविधाभासः। तत्र त्रिविधाभासः पदाभासो ऽर्थाभासो देहाभासश्च। पुनस्त्रिविधाभासो मन‍उद्‍ग्रहविकल्पाभासः। मनो यत् क्लिष्टं सर्वदा। उद्‍ग्रहः पञ्च विज्ञानकायाः। विकल्पो मनोविज्ञानम्। तत्र प्रथमत्रि[मस्त्रि-?] विधाभासो ग्राह्यलक्षणः। द्वितीयो ग्राहकलक्षणः। इत्ययमभूतपरिकल्पः परतन्त्रस्य लक्षणम्।

अभावभावता या च भावाभावसमानता।
अशान्तशान्ता ऽकल्पा च परिनिष्पन्नलक्षणम्॥४१॥

परिनिष्पन्नलक्षणं पुनस्तथता सा ह्यभावता च, सर्वधर्माणां परिकल्पिताना [नां?] भावता च तदभावत्वेन भावात्। भावाभावसमानता च तयोर्भावाभावयोरभिन्नत्वात्। अशान्ता चागन्तुकैरुपक्लेशैः, शान्ता च प्रकृतिपरिशुद्धत्वात्। अविकल्पा च विकल्पागोचरत्वात् निष्प्रपञ्चतया। एतेन त्रिविधं लक्षणं तथतायाः परिदीपितं स्वलक्षणं क्ले[सं]शव्यवदानलक्षणमविकल्पलक्षणं च उक्तं त्रिविधं लक्षणम्।

निष्प[ष्य]न्दधर्ममालम्ब्य योनिशो मनसिक्रिया।
चित्तस्य धातौ स्थानं च सदसत्तार्थपश्यना॥४२॥

लक्षणा पुनः पञ्चविधा योगभूमिः। आधार आधानमादर्श आलोक आश्रयश्च। तत्राधारो निष्प[ष्य]न्दधर्मो यो बुद्धेनाधिगमो देशितः स तस्याधिगमस्य निष्प[ष्य]न्दः। आधानं योनिशो मनस्कारः। आदर्शः चित्तस्य धातौ स्थानं समाधिर्यदेतत्पूर्वं नाम्नि स्थानमुक्तम्। आलोकः सदसत्त्वेनार्थदर्शनं लोकोत्तरा प्रज्ञा, तथा[तया] सच्च सतो यथाभूतं पश्यत्यसच्चासतः।

आश्रय आश्रयपरावृत्तिः।
समतागमनं तस्मिन्नार्यगोत्रं हि निर्मलम्।
समं विशिष्टमन्यूनानधिकं लक्षणा मता॥४३॥

समतागमनमनास्रवधातौ आर्यगोत्रे तदन्यैरार्यैः। तच्च निर्मलमार्यगोत्रं बुद्धानाम्। समं विमुक्तिसमता श्रावकप्रत्येकबुद्धैः। विशिष्टं पञ्चभिर्विशेषैः। विशुद्धिविशेषेण सवासनक्लेशविशुद्धितः। परिशुद्धिविशेषेण क्षेत्रपरिशुद्धितः। कायविशेषण धर्मकायतया। संभोगविशेषेण पर्षन्मण्डलेष्वविच्छिन्नधर्मसंभोगप्रवर्तनतः। कर्मविशेषेण च तुषितभवनवासादिनिर्माणैः सत्त्वार्थक्रियानुष्ठानतः। न च तस्योनत्वं संक्लेशपक्षनिरोधे नाधिकत्वं व्यवदानपक्षोत्पाद इत्येषा पञ्चविधा योगभूमिर्लक्षणा। तया हि तल्लक्ष्यं लक्षणं च लक्ष्यते।

विमुक्तिपर्येष्टौ षट्‍श्लोकाः।
पदार्थदेहनिर्भासपरावृत्तिरनास्रवः।
धातुर्बीजपरावृत्तेः स च सर्वत्रगाश्रयः॥४४॥

बीजपरावृत्तेरित्यालयविज्ञानपरावृत्तितः। पदार्थदेहनिर्भासानां विज्ञानानां परावृत्तिरनास्रवो धातुर्विमुक्तिः। स च सर्वत्रगाश्रयः श्रावकप्रत्येकबुद्धगतः।

चतुर्धा वशिताऽवृतेर्मनसश्चोद्‍ग्रहस्य च।
विकल्पस्याविकल्पे हि क्षेत्रे ज्ञानेऽथ कर्मणि॥४५॥

मनसश्चोद्‍ग्रहस्य च विकल्पस्य चावृत्तेः परावृत्तेरित्यर्थः। चतुर्धा वशिता भवति यथाक्रममविकल्पे क्षेत्रे ज्ञानकर्मणोश्च।

अचलादित्रिभूमौ च वशिता सा चतुर्विधा।
द्विधैकस्यां तदन्यस्यामेकैका वशिता मता॥४६॥

सा चेयमचलादिभूमित्रये चतुर्धा वशिता वेदितव्या। एकस्यामचलायां भूमौ द्विविधा। अविकल्पे न [?] चानभिसंस्कारनिर्विकल्पत्वात्। क्षेत्रे च बुद्धक्षेत्रपरिशोधनात्। तदन्यस्यां भूमावेकै[वै]का वशिता साधुमत्यां ज्ञानवशिता प्रतिसंविद्विशेषलाभात्। धर्ममेघायां कर्मण्यभिज्ञाकर्मणामव्याघातात्।

विदित्वा नैरात्म्यं द्विविधमिह धीमान्‌भवगतं
समं तच्च ज्ञात्वा प्रविशति स तत्त्वं ग्रहणतः।
ततस्तत्र स्थानान्मनस इह न ख्याति तदपि
तदख्यानं मुक्तिः परम उपलम्भस्य विगमः॥४७॥

अपरो विमुक्तिपर्यायः।
द्विविधं नैरात्म्यं विदित्वा भवत्रयगतं बोधिसत्त्वः समं तच्च ज्ञात्वा द्विविधनैरात्म्यं परिकल्पितपुद्‍गलाभावात् परिकल्पितधर्माभावात्, न तु सर्व थैवाभावतः। तत्त्वं प्रविशति विज्ञप्तिमात्रतां ग्रहणतो ग्रहणमात्रमेतदिति। ततस्तत्र तत्त्वविज्ञप्तिमात्रस्थानान्मनसस्तदपि तत्त्वं न ख्याति विज्ञप्तिमात्रम्। तदख्यानं मुक्तिः परम उपलम्भस्य यो विगमः पुद्‍गलधर्मयोरनुपलम्भात्।

आधारे संभारादाधाने सति हि नाममात्रंपश्यन्।
पश्यति हि नाममात्रं तत्पश्यंस्तच्च नैव पश्यति भूयः॥४८॥

अपर[रः]पर्यायः आधार इति श्रुतौ संभारादिति संभृतसंभारस्य पूर्वसंभारलाभात्। आधाने सतीति योनिशोमनस्कारे नाममात्रं पश्यन्नित्यभिलापमात्रमर्थरहितं। पश्यति हि नाममात्रमिति विज्ञप्तिमात्रं नाम अरूपिणश्चत्वारः स्कन्धा इति कृत्वा तत्पश्यंस्तदपि भूयो नैव पश्यत्यर्थाभावे तद्विज्ञप्त्यदर्शनादित्ययमनुपलम्भो विमुक्तिः।

चित्तमेतत्सदौष्ठुल्यमात्मदर्शनपाशितम्।
प्रवर्त्तते निवृत्तिस्तु तदध्यात्मस्थितेर्मता॥४९॥

अपर[रः] प्रकारः चित्तमेतत्सदौष्ठुल्यं प्रवर्तते जन्मसु। आत्मदर्शनपाशितमिति दौष्ठुल्यकारणं दर्शयति। द्विविधेनात्मदर्शनेन पाशितम् अतः सदौष्ठुल्यमिति। निवृत्तिस्तु तदध्यात्मस्थितेरिति तस्य चित्तस्य चित्त एवावस्थानादालम्बनानुपलम्भतः।

निःस्वभावतापर्येष्टौ श्लोकद्वयम्।
स्वयं स्वेनात्मना ऽभावात्स्वभावे चानवस्थितेः।
ग्राहवत्तदा[द]भावाच्च निःस्वभावत्वमिष्यते॥५०॥

स्वयमभावान्निःस्वभावत्वं धर्माणां प्रत्ययाधीनत्वात्। स्वेनात्मना ऽभावान्निःस्वभावत्वं निरुद्धानां पुनस्तेना [स्वेना?]त्मनानुत्पत्तेः। स्वभाव[वे] ऽनवस्थितत्वान्निःस्वभावत्वं क्षणिकत्वादित्येतत्त्रिविधं निःस्वभावत्वम् संस्कृतलक्षणत्रयानुगं वेदितव्यम्। ग्राहवत्तदभावाच्च निःस्वभावत्वम्। तदभावादिति स्वाभावात्। यथा बालानां स्वभावग्राहो नित्यसुखशुच्यात्तो[त्मा] वा ऽन्येन वा परिकल्पितलक्षणेन तथासौ स्वभावो नास्ति तस्मादपि निःस्वभावत्वं धर्माणामिष्यते।..........

[निःस्वभावतया सिद्धा उत्तरोत्तरनिश्रयाः।
अनुत्पन्ना निरोद्धादि-शान्त-प्रकृति-निर्वृताः॥५१॥]

[सिद्धा] निःस्वभावतया ऽनुत्पादादयः। यो हि निःस्वभावः सो ऽनुत्पन्नः, यो ऽनुत्पन्नः सो ऽनिरूद्धः, यो ऽनिरूद्धः स आदिशान्तः य आदिशान्तः स प्रकृतिपरिनिर्वृत इत्येवमुत्तरोत्तरनिश्रयैरेभिर्निःस्वभावता[दि]भिर्निःस्वभावतया ऽनुत्पादादयः सिद्धा भवन्ति।

अनुत्पत्तिधर्मक्षान्तिपर्येष्टावार्या।
आदौ तत्त्वे ऽन्यत्वे स्वलक्षणे स्वयमथान्यथाभावे।
संक्लेश ऽथ विशेषे क्षान्तिरनुत्पत्तिधर्मोक्ता॥५२॥

अष्टास्वनुत्पत्तिधर्मेषु क्षान्तिरनुत्पत्तिकधर्मक्षान्तिः। आदौ संसारस्य, न हि तस्याद्युत्पत्तिरस्ति। तत्त्वे ऽन्यत्वे च पूर्वपश्चिमानां, न हि संसारे तेषामेव धर्माणामुत्पत्तिः, ये पूर्वमुत्पन्नास्तद्भावेनानुत्पत्तेः। न चान्येषाम्, अपूर्वप्रकारानुत्पत्तेः। स्वलक्षणे परिकल्पितस्य स्वभावस्य, न हि तस्य कदाचिदुत्पत्तिः। स्वयमनुत्पत्तौ परतन्त्रस्य। अन्यथाभावे परिनिष्पन्नस्य न हि तदन्यथाभावस्योत्पत्तिरस्ति। संक्लेशे प्रहीणे, न हि क्षयज्ञानलाभिनः संक्लेशस्योत्पत्तिं पुनः पश्यन्ति। विशेषे बुद्धधर्मकायानाम्, न हि तेषां विशेषोत्पत्तिरस्ति। इत्येतेष्वनुत्पत्तिधर्मेषु क्षान्तिरनुत्पत्तिधर्मोक्ता।

एकयानतापर्येष्टौ सप्त श्लोकाः।
धर्मे नैरात्म्यमुक्तीनां तुल्यत्वात् गोत्रभेदतः।
द्‍व्याशयाप्तेश्च निर्माणात्पर्यन्तादेकयानता॥५३॥

धर्मतुल्यत्वादेकयानता, श्रावकादीनां धर्मधातोरभिन्नत्वात् यातव्यं यानमिति कृत्वा। नैरात्म्यस्य तुल्यत्वादेकयानता, श्रावकादीनामात्माभावतासामान्याद्याता यानमिति कृत्वा। विमुक्तितुल्यत्वादेकयानता, याति यानमिति कृत्वा। गोत्रभेदादेकयानता। अनियतश्रावकगोत्राणां महायानेन निर्याणात् यान्ति तेन यानमिति कृत्वा। द्‍व्याशयाप्ते रेकयानता। बुद्धानां च सर्वसत्त्वेष्वात्माशयप्राप्तेः, श्रावकाणां च तद्‍गोत्रनियतानां पूर्वं बोधिसंभारचरितादना[नामा]त्मनि बुद्धाशयप्राप्तेरभिन्नसंतानाधिमोक्षलाभतो बुद्धानुभावेन तथागतानुग्रहविशेषप्रदेशलाभाय इत्येकत्वाशयलाभेनैकत्वाद् बुद्धतच्छ्रावकाणामेकयानता। निर्माणादेकयानता, यथोक्तमनेकशतकृत्वो ऽहं श्रावकयानेन परिनिर्वृत इति विनेयानामर्थे तथा निर्माणसंदर्शनात्। पर्यन्तादप्येकयानता यतः परेण यातव्यं नास्ति तद्यानमिति कृत्वा। बुद्धत्वमेकयानम्, एवं तत्र-तत्र सूत्रे तेन तनाभिप्रायेणैकयानता वेदितव्या, न तु यानत्रयं नास्ति।

किमर्थं पुनस्तेन तेनाभिप्रायेणैकयानता बुद्धैर्देशिता।
आकर्षणार्थमेकेषामन्यसंघारणाय च।
देशितानियतानां हि संबुद्धैरेकयानता॥५४॥

आकर्षणार्थमेकेषामिति ये श्रावकगोत्रा अनियताः। अन्येषां च संधारणाय, ये बोधिसत्त्वगोत्रा अनियताः।

श्रावको ऽनियतो द्वेधा दृष्टादृष्टार्थयानतः।
दृष्टार्थो वीतरागश्चावीतरागो ऽप्यसौ मृदुः॥५५॥

श्रावकः पुनरनियतो द्विविधो वेदितव्यः। दृष्टार्थयानश्च यो दृष्टसत्यो महायानेन निर्याति, अदृष्टार्थयानश्च यो न दृष्टसत्यो महायानेन निर्याति। दृष्टार्थः पुनर्वीतरागश्चावीतरागश्च कामेभ्यः। असौ च मृदुर्धन्धगतिको वेदितव्यः।

यो दृष्टार्थो द्विविध उक्तः।
तौ च लब्धार्यमार्गस्य भवेषु परिणामनात्।
अचिन्त्यपरिणामिक्या उपपत्त्या समन्वितौ॥५६॥

तौ च दृष्टार्थौ लब्धस्यार्यमार्गस्य भवेषु परिणामनात् अचिन्त्यपरिणामिक्या उपपत्त्या समन्वागतौ वेदितव्यौ। अचिन्त्यो हि तस्यार्यमार्गस्य परिणाम उपपत्तौ तस्मादचिन्त्यपरिणामिकी।

प्रणिधानवशादेक उपपत्तिं प्रपद्यते।
एको ऽनागामितायोगान्निर्माणैः प्रतिपद्यते॥५७॥

तयोश्चैकः प्रणिधानवशादुपपत्तिं गृह्णाति यथेष्टं यो न वीतरागः। एको ऽनागामितायोगबलेन निर्माणैः।

निर्वाणाभिरतत्वाच्च तौ धन्धगतिकौ मतौ।
पुनः पुनः स्वचित्तस्य समुदाचारयोगतः॥५८॥

तौ च निर्वाणाभिरतत्वादुभावपि धन्धगतिकौ मतौ चिरतरेणाभिसंबोधतः। स्वस्य श्रावकचित्तस्य निर्वित्सहगतस्याभीक्ष्णं समुदाचारात्।

सो ऽकृतार्थो ह्यबुद्धे च जातो ध्यानार्थमुद्यतः।
निर्माणार्थी तदाश्रित्य परां बोधिमवाप्नुते॥५९॥

यः पुनरसाववीतरागो दृष्टसत्यः सो ऽकृतार्थः शैक्षो भवन् बुद्धरहिते काले जातो ध्यानार्थमुद्यतो भवति निर्माणार्थी। तच्च निर्माणमाश्रित्य क्रमेण परां बोधिं प्राप्नोति। तमवस्थात्रयस्थं संधायोक्तं भगवता श्रीमालासूत्रे। श्रावको भूत्वा प्रत्येकबुद्धो भवति पुनश्च बुद्ध इति। अग्निदृष्टान्ते[न] च यदा च पूर्वं दृष्टसत्यावस्था[स्थो] यदा बुद्धरहिते काले स्वयं ध्यानमुत्पाद्य जन्मकायं त्यक्त्वा निर्माणकायं गृह्णाति यदा च परां बोधिं प्राप्नोतीति।

विद्यास्थानपर्येष्टौ श्लोकः।
विद्यास्थाने पञ्चविधे योगमकृत्वा सर्वज्ञत्वं नैति कथंचित्परमार्यः।
इत्यन्येषां निग्रहणानुग्रहणाय स्वाज्ञार्थं वा तत्र करोत्येव स योगम्॥६०॥

पञ्चविधं विद्यास्थानम्। अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च। तद्यदर्थं बोधिसत्त्वेन पर्येषितव्यं तद्दर्शयति। सर्वज्ञत्वप्राप्त्यर्थमभेदेन सर्वम्। भेदेन पुनर्हेतुविद्यां शब्दविद्यां च पर्येषते निग्रहार्थमन्येषां तदनधिमुक्तानाम्। चिकित्साविद्यां शिल्पकर्मस्थानविद्यां चान्येषामनुग्रहार्थं तदर्थिकानाम्। अध्यात्मविद्यां स्वयमाज्ञार्थम्।

धातुपुष्टिपर्येष्टौ त्रयोदश श्लोकाः। पारमितापरिपूरणार्थं ये पारमिताप्रतिसंयुक्ता एवं मनसिकारा धातुपुष्टये भवन्ति त एताभिर्गाथाभिर्देशिताः।

हेतूपलब्धितुष्टिश्च निश्रयतदनुस्मृतिः।
साधारणफलेच्छा च यथाबोधाधिमुच्यना॥६१॥

ते पुनर्हेतूपलब्धितुष्टिमनसिकारात् यावदग्रत्वात्मावधारणमनसिकारः। तत्र हेतूपलब्धितुष्टिमनसिकार आदित एव तावत्। गोत्रस्थो बोधिसत्त्वः स्वात्मनि पारमितानां गोत्रं पश्यन् हेतूपलब्धितुष्ट्या पारमिताधातुपुष्टिं करोति। गोत्रस्थो ऽनुत्तरायां सम्यक्‌संबोधौ चित्तमुत्पादयतीत्यतो ऽनन्तरं निश्रयतदनुस्मृतिमनसिकारः। स हि बोधिसत्त्वः स्वात्मनि पारमितानां संनिश्रयभूतं बोधिचित्तं समनुपश्यन्नेवं मनसिकरोति नियतमेताः पारमिताः परिपूरिं गमिष्यन्ति। तथा ह्यस्माकं बोधिचित्तं संविद्यते इति। उत्पादितबोधिचित्तस्य पारमिताभिः स्वपरार्थप्रयोगे साधरणफलेच्छामनसिकार, आसां पारमितानां परसाधारणं वा फलं भवत्वन्यथा वा मा भूदित्यभिसंस्करणात्। स्वपरार्थं प्रयुज्यमानोऽसंक्लेशोपायं तत्त्वार्थं प्रतिविध्यतीत्यतो ऽनन्तरं यथाबोधाधिमुच्यनामनसिकारः। एवं सर्वत्रानुकमो वेदितव्यः। यथा बुद्धैर्भगवद्भिः पारमिता अभिसंबुद्धा अभिसंभोत्स्यन्ते ऽभिसंबुध्यन्ते च तथा ऽहमधिमुच्ये इत्यभिसंस्करणात्।

चतुर्विधानुभावेन प्रीयणाऽखेदनिश्चयः।
विपक्षे प्रतिपक्षे च प्रतिपत्तिश्चतुर्विधा॥६२॥

अनुभावप्रीयणामनसिकारश्चतुर्विधानुभावदर्शनप्रीयणा, चतुर्विधानुभावो विपक्षप्रहाणं, संभारपरिपाकः, स्वपरानुग्रह, आयत्यां विपाकफलनिःष्यन्दफलदानता च। सत्त्वस्वबुद्धधर्मपरिपाकमारभ्याखेदनिश्चयमनसिकारः, सर्वसत्त्वविप्रतिपत्तिभिः सर्वदुःखापत्तिपातैश्चाखेदनिश्चयाभिसंस्करणात् परमबोधिप्राप्तये। विपक्षे पत्तिपक्षे च चतुर्विधप्रतिपत्तिमनसिकारः। दानादिविपक्षाणां च मात्सर्यादीनां प्रतिदेशना, प्रतिपक्षाणां च दानादीनामनुमोदना, तदधिपतेयधर्मदेशनार्थं च बुद्धाध्येषणा। तासां च बोधौ परिणामना।

प्रसादः संप्रतीक्षा च दानच्छन्दः परत्र च।
संनाहः प्रणिधानं च अभिनन्दमनस्क्रिया॥६३॥

अधिमुक्तिबलाधानतामारभ्य पारमिताधिपतेयधर्मार्थे च प्रसादमनसिकारः। धर्मपर्येष्टिमारभ्य संप्रतीच्छनमनसिकारस्तस्यैव धर्मस्याप्रतिवहनयोगेन परिग्रहणतया। द[दे]शनामारभ्य दानच्छन्दमनसिकारो धर्मस्यार्थस्य च प्रकाशनार्थं परेषाम्। प्रतिपत्तिमारभ्य संनाहमनसिकारो दानादिपरिपूरिये संनहनात्। प्रणिधानमनसिकारस्तत्परिपूरिप्राप्तये[प्रत्यये] समवधानार्थं। अभिनन्दमनसिकारो ऽहो बत दानादिप्रतिपत्त्या सम्यक् संपादयेयमित्यभिनन्दनात्। एत एव त्रयो मनसिकारा अववादानुशासन्यां योजयितव्याः। उपायोपसंहितकर्ममनसिकारः संकल्पैः सर्वप्रकारदानादिप्रयोगमनसिकरणात्।

शक्तिलाभे सदौत्सुक्यं दानादौ षड्‍विधेद्यनम्।
परिपाकेऽथ पूजायां सेवायामनुकम्पना॥६४॥

औत्सुक्यमनसिकारश्चतुर्विधः। शक्तिलाभे च दानादौ षड्‍विधे दानदाने यावत् प्रज्ञादाने। एवं शीलादिषु षड्‍विधेषु। पारमिताभिरेव संग्रहवस्तुप्रयोगेण सत्त्वपरिपाके। पूजायां च दानेन लाभसत्कारपूजया। शेषाभिश्च प्रतिपत्तिपूजया।

अविपरीतपारमितोपदेशाप[र्थ]ञ्चकल्याणमित्रसेवायामौत्सुक्यमनसिकारो वेदितव्यः। अनुकम्पामनसिकारश्चतुर्भिरप्रमाणैर्दानाद्युपसंहारेण मैत्रायतः। मात्सर्यादिसमवधानेन सत्त्वेषु करुणायतः। दानादिसमन्वागतेषु मुदितायतः। तदसंक्लेशाधिमोक्षतश्च उपेक्षायतः

अकृते कुकृते लज्जा कौकृत्यं विषये रतिः।
अमित्रसंज्ञा खेदे च रचनोद्भावनामतिः॥६५॥

हीधर्ममारभ्य लज्जामनस्कारः, अकृतेषु वा दानादिष्वपरिपूर्णमिथ्याकृतेषु वा लज्जा, लज्जायमानश्च प्रवृत्तिनिवृत्त्यर्थमनानुषङ्गिकं कौकृत्यायते। धृतिमारभ्य रतिमनस्कारो दानाद्यालम्बने ऽविक्षेपतश्चित्तस्य धारणात्। अखेदमनस्कारो दानादिप्रयोगपरिखेदे शत्रुसंज्ञाकरणात्। रचनाच्छन्दमनस्कारः पारमिताप्रतिसंयुक्तशास्ररचनाभिसंस्करणात्। लोकज्ञतामारभ्य उद्भावनामनस्कारस्तस्यैव शास्त्रस्य लोके यथाभाजनमुद्भावनाभिसंस्करणात्।

दानादयः प्रतिसरणं सम्बोधौ नेश्वरादयः।
दोषाणां च गुणानां च प्रतिसंवेदनाद् [?]द्वयोः॥६६॥

प्रतिसरणमनस्कारो बोधिप्राप्तये दानादीनां प्रतिसरणान्नेश्वरादीनाम्, प्रतिसंविन्मनस्कारो मात्सर्यदानादि विपक्षप्रतिपक्षयोर्दोषगुणप्रतिसंवेदनात्।

चयानुस्मरणप्रीतिर्माहार्थ्यस्य च दर्शनम्।
योगे ऽभिलाषो ऽविकल्पे तद्‍धृत्यां प्रत्ययागमे॥६७॥

चयानुस्मरणप्रीतिमनस्कारो दानाद्युपचये पुण्यज्ञानसंभारोपचयसंदर्शनात्। माहार्थ्यसंदर्शनमनस्कारो दानादीनां बोधिपक्षे भावार्थेन महाबोधिप्राप्त्यर्थसंदर्शनात्। अभिलाषमनस्कारः स पुनश्चतुर्विधः। योगाभिलाषमनस्कारः शमथविपश्यनायोगभावनाभिलाषात्। अविकल्पाभिलाषमनस्कारः पारमितापरिपूरणार्थमुपायकौशल्याभिलाषात्। धृत्यभिलाषमनस्कारः पारमिताधिपतेयधर्मार्थधारणाभिलाषात्। प्रत्ययाभिगमाभिलाषमनस्कारः सम्यक् प्रणिधानाभिसंस्करणात्।

सप्तप्रकारासद्‍ग्राहव्युत्थाने शक्तिदर्शनम्।
आश्चर्यं चाप्यनाश्चर्यं संज्ञा चैव चतुर्विधा॥६८॥

सप्तप्रकारासद्‍ग्राहव्युत्थानशक्तिदर्शनमनस्कारः। सप्तविधो ऽसद्‍ग्राहः। असति सद्‍ग्राहः, दोषवति गुणवत्वग्राहः, गुणवत्यगुणवत्वग्राहः, सर्वसंस्कारेषु च नित्यसुखासद्‍ग्राहौ, सर्वधर्मेषु चात्मासद्‍ग्राहः, निर्वाणे चाशान्तासद्‍ग्राहः। यस्य प्रतिपक्षेण शून्यता [दि]समाधित्रयं धर्मोद्दानचतुष्टयं च देश्यते। आश्चर्ये चतुर्विधसंज्ञामनस्कारः। पारमितासूदारसंज्ञा, आयतत्त्वसंज्ञा, प्रतिकारनिरपेक्षसंज्ञा, विपाकनिरपेक्षसंज्ञा च। अनाश्चर्ये ऽपि चतुर्विध[संज्ञा]मनस्कारः। चतुर्विधमनाश्चर्यमौदर्य आयतत्वे च सति पारमितानां बुद्धत्वफलाभिनिर्वर्तनात्। अस्मिन्नेव च द्वये सति स्वपरसमचित्तावस्थापनात् [वस्थापना?]तद्विशिष्टेभ्यश्च शरु[शक्रा]दिभ्यः पूजादिलाभे सति प्रतिकारनिरपेक्षता .....[सर्वलोकेभ्यो विशिष्टशरीरभोग] लाभे सत्यपि विपाकनिरपेक्षता।

समता सर्वसत्त्वेषु दृष्टिश्चापि महात्मिका।
परगुणप्रतिकारस्रयाशास्तिर्निरन्तरः॥६९॥

समतामनस्कारः सर्वसत्त्वेषु दानादिभिः समताप्रवृत्त्यभिसंस्करणात्। महात्मदृष्टिमनस्कारः सर्वसत्त्वोपकारतया पारमितासंदर्शनात्। प्रत्यय[प्रत्युप]काराशंसनमनस्कारो दानादिगुणप्रवृत्त्या परेभ्यः। आशास्तिमनस्कारः सत्त्वेषु त्रिस्थानाशंसनात् पारमितानां बोधिसत्त्वभूमिनिष्ठाया बुद्धभूमिनिष्ठायाः सत्त्वाव[र्थाच]रणाशंसनाच्च। निरन्तरमनस्कारो दानादिभिरबध्य[न्ध्य]कालकरणाभिसंस्करणात्।

बुद्धप्रणीतानुष्ठानादर्वागस्थानचेतनात्[चेतना]।
तद्धानिवृद्ध्या सत्त्वेषु अनामोदः प्रमोदना॥७०॥

सम्यक्प्रयोगमनस्कारो ऽविपरीतानुष्ठानादर्वागस्थानमनसिकरणात्। अनामोदमनस्कारो दानादिभिर्हीयमानेषु। प्रमोदमनस्कारो दानादिभिर्वर्धमानेषु सत्त्वेषु।

प्रतिवर्णिकायां[वर्णिका]भूतायां भावनायां च नारूचिः।
नाधिवासमनस्कारो व्याकृतनियते स्पृहा॥७१॥

अरूचिमनस्कारः पारमिताप्रतिवर्णिकाभावनायाम्। रूचिमनस्कारो भूतायाम्। अनधिवासनामनस्कारो मात्सर्यादिविपक्षविनयनाभिसंस्कारणात्। स्पृहामनस्कारो द्विविधः पारमितापरिपूरिव्याकरणलाभस्पृहामनस्कारः पारमितानियतभूम्यवस्थालाभस्पृहामनस्कारश्च।

आयत्यां दर्शनाद्‍वृत्तिचेतना समतेक्षणा।
अग्रधर्मेषु वृत्त्या च अग्रत्वात्मावधारणात्[धारणा]॥७२॥

आयत्यां दर्शनाद्‍वृत्तिमनस्कारो यात्वा[यां यां] गतिं गत्वा बोधिसत्त्वेन सताऽवश्य करणीयता ऽभिसंस्कारणात्। दानादीनां समतेक्षणामनस्कारस्तदन्यैर्बोधिसत्त्वैः सहात्मनः पारमितासातत्यकरणाधिमोक्षार्थम्। अग्रत्वात्मावधारणमनस्कारः पारमिताग्रधर्मप्रवृत्त्या स्वात्मनः प्रधानभावसंदर्शनात्।

एते शुभमनस्कारा दशपारमितान्बयाः।
सर्वदा बोधिसत्त्वानां धातुपुष्टौ भवन्ति हि॥७३॥

इति निगमनश्लोको गतार्थः।
धर्मपर्येष्टिभेदे द्वौ श्लोकौ।

पुष्टेरध्याशयतो महती पर्येष्टिरिष्यते धीरे।
सविवासा ह्यविवासा तथैव वैभुत्विकी तेषाम्॥७४॥

असकाया लघु[लब्ध]काया प्रपूर्णकाया च बोधिसत्त्वानाम्।
बहुमानसूक्ष्ममाना निर्माणा चैषणाभिमता॥७५॥

त्रयोदशविधा पर्येष्टिः। पुष्टितः श्रुताधिमुक्तिपुष्ट्या। अध्याशयतो धर्ममुखस्त्रोतसा। महती चित्त[विभु]त्वलाभिनाम्। सबिप्रबासा प्रथमा। अविप्रवासा द्वितीया। वैभुत्विकी तृतीया। अकाया श्रुतचिन्तामयी धर्मकायरहितत्वात्। सकाया भावनामयी अधिमुक्तिचर्याभूमो। लघु[लब्ध]काया सप्तसु भूमिषु। परिपूर्णकाया शेषासु। बहुमानाधिमुक्तिचर्याभूमौ। सूक्ष्ममाना सप्तसु। निर्माणा शेषासु।

धर्महेतुत्वपर्येष्टौ श्लोकः।
रूपारूपे धर्मो लक्षणहेतुस्तथैव चारोग्यं[ग्ये]।
ऐश्वर्ये ऽभिज्ञाभिस्तदक्षयत्वे च धीराणाम्॥७६॥

रूपे लक्षणहेतुर्धर्मः। अरूपे आरोग्यहेतुः क्लेशव्याधिप्रशमनात्। ऐश्वर्यहेतुरभिज्ञाभिस्तदक्षयत्वहेतुश्चानुपधिशेषनिर्वाणे ऽप्यनुपच्छेदात्। अत एवोक्तं ब्रह्मपरिपृच्छासूत्रे। चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वा धर्मं पर्येषन्ते। रत्नसंज्ञया दुर्लभार्थेन भैषज्यसंज्ञया क्लेशव्याधिप्रशमनार्थेन अर्थसंज्ञया अविप्रणाशार्थेन निर्वाणसंज्ञया सर्वदुःखप्रशमनार्थेन। रत्नभूतानि हि लक्षणानि शोभाकरत्वादतस्तद्धेतुत्वाद्धर्मरत्नसंज्ञा। आरोग्यहेतुत्वाद्भैषज्यसंज्ञा। अभिज्ञैश्चर्यहेतुत्वादर्थसंज्ञा। तदक्षयहेतुत्वान्निर्वाणसंज्ञाक्षयनिर्भयतार्थेन।

विकल्पपर्येष्टौ श्लोकः।

अभावभाबाध्यपवादकल्प एकत्वनानास्वविशेषकल्पाः।
यथार्थनामाभिनिवेशकल्पाः जिनात्मजैः संपरिवर्जनीयाः॥७७॥

दशविधविकल्पो बोधिसत्त्वेन परिवर्जनीयः। अभावविकल्पो यस्य प्रतिपक्षेणाह। प्रज्ञापारमितायामिह बोधिसत्त्वो बोधिसत्त्व एव सन्निति। भावविकल्पो यस्य प्रतिपक्षेणाह। बोधिसत्त्वं न समनुपश्यतीत्येवमादि। अध्यारोपविकल्पो यस्य प्रतिपक्षेणाह। रूपं शारिपुत्र स्वभावेन शून्यमिति। अपवादविकल्पो यस्य प्रतिपक्षेणाह। न शून्यतयेति। एकत्वविकल्पो यस्य प्रतिपक्षेणाह। या रूपस्य शून्यता न तद्रूपमिति। नानात्वविकल्पो यस्य प्रतिपक्षेणाह। न चान्यत्र शून्यताया रूपं रूपमेव शून्यता शून्यतैव रूपमिति। स्वलक्षणविकल्पो यस्य प्रतिपक्षेणाह। नाममात्रमिदं यदिदं रूपमिति। विशेषविकल्पो यस्य प्रतिपक्षेणाह। रूपस्य हि नोत्पादो न निरोधो न संक्लेशो न व्यवदानमिति। यथानामार्थाभिनिवेशविकल्पो यस्य प्रतिपक्षेणाह। कृत्रिमं नामेत्येवमादि। यथार्थनामाभिनिवेशविकल्पश्च यस्य प्रतिपक्षेणाह। तानि बोधिसत्त्वः सर्वनामानि न समनुपश्यत्यसमनुपश्यन्नाभिनिविशते यथार्थतयेत्यभिप्रायः।

इति शुभमतिरेत्य यत्नमुग्रं द्वयपर्येषितधर्मतासतत्त्वा।
प्रतिशरणमतः सदा प्रजानां भवति गुणैः स समुद्रवत्प्रपूर्णः॥७८॥

अनेन निगमनश्लोकेन पर्येष्टिमाहात्म्यं त्रिविधं दर्शयति। उपायमाहात्म्यमुग्रवीर्यतया संवृत्तिपरमार्थसत्यधर्मतापर्येषणतश्च तत्त्वं सत्यमित्यर्थः। परार्थमाहात्म्यं प्रतिशरणीभावात् प्रजानाम्। स्वार्थमाहात्म्यं च गुणैः समुद्रवत् प्रपूर्णत्वात्।

॥ महायानसूत्रालंकारे धर्मपर्येष्ट्यधिकार एकादशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project